३१

एकत्रिंशः सर्गः ३१

श्रीवसिष्ठ उवाच ।

अतः प्रबोधाय तव वच्मि राम महामते ।
दामव्यालकटन्यायो मा तेऽस्त्विति तु लीलया ॥ १ ॥

अर्थच्युतिरनर्थाप्तिरहम्मानादिहोच्यते ।
तथा दामादिभावानां सत्त्वासत्त्वनिराक्रिया ॥ १ ॥

पूर्वोक्तं स्मारयन् प्रकृतकथां तत्र योजयति - अत इति ॥ १ ॥

अविवेकानुसन्धानाच्चित्तमापदमीदृशीम् ।
अनन्तभवदुःखाय परिगृह्णाति हेलया ॥ २ ॥

अविवेकानुसन्धानाद्विवेकानुसन्धानाभावात् । ईदृशीं अभिमानलक्षणां
आपदम् ॥ २ ॥

क्व किलामरविध्वंसिशम्बरानीकनाथता ।
क्व तापतप्तजम्बालजालजर्जरमीनता ॥ ३ ॥

प्राक्तननिरभिमानितायाः पश्चात्तनाभिमानस्य च फलतो महदन्तरं
दर्शयति - क्व किलेत्यादिना ॥ ३ ॥

क्व धैर्यममरानीकविद्रावणकरं महत् ।
क्व किरातमहीपालक्षुद्रकिङ्कररूपता ॥ ४ ॥

क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता ।
क्व मिथ्यावासनावेशादहङ्कारकुकल्पना ॥ ५ ॥

स्वरूपतोऽप्यन्तरमाह - क्व नामेति ॥ ५ ॥

शाखाप्रतानगहना संसारविषमञ्जरी ।
अहङ्काराङ्कुरा देव समुदेतीयमातता ॥ ६ ॥

मञ्जरीपदेन तत्प्रधाना वल्ली गृह्यते ॥ ६ ॥

अहङ्कारमतो राम मार्जयान्तः प्रयत्नतः ।
अहं न किञ्चिदेवेति भावयित्वा सुखी भव ॥ ७ ॥

केनोपायेन तन्मार्जनं तमाह - अहं न किञ्चिदेवेति । दृश्ये जडे
सर्वत्रेदन्त्वस्यैव दर्शनादहन्त्वायोगादृक्स्वरूपे
अहङ्कारादिसर्वसाक्षिण्यभिमानधर्मकत्वाघटनेनाहन्त्वायोगादृग्दृस्
ह्यव्यतिरिक्तस्य चालीकत्वादहन्त्वास्पदं न किञ्चिदेवेति तत्त्वतो
भावयित्वेत्यर्थः ॥ ७ ॥

अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् ।
रसायनमयं शीतमदृश्यत्वमुपागतम् ॥ ८ ॥

अहङ्कारस्यानर्थहेतुतामुक्त्वा अर्थविघातकतामाह - अहङ्कारेति ।
रसायनमयमानन्दैकरसम् । अमृतमयं शीततापत्रयशून्यं [अत्र
शीतं तापत्रयशून्यं च इति पाठः साधीयान्] च ॥ ८ ॥

अहङ्कारपिशाचार्ता दामव्यालकटास्त्रयः ।
गताः सत्तामसन्तोऽपि मायामाहात्म्यदानवाः ॥ ९ ॥

सत्तां जन्ममरणप्रवाहे स्थितिम् । प्राक्तत्रासन्तोऽपि मायामाहात्म्यप्रयुक्ता
दानवा दामादयः ॥ ९ ॥

काश्मीरेषु महारण्यसरसीवनपल्वले ।
अद्य मत्स्याः स्थिता राम शैवाललवलालसाः ॥ १० ॥

शैवाललवेषु लालसा अत्यन्तं साभिलाषाः ॥ १० ॥

श्रीराम उवाच ।

नासतो विद्यते भावो नाभावो विद्यते सतः ।
ते ह्यसन्तः कथं सत्तां सम्पन्ना इति मे वद ॥ ११ ॥

असन्तोऽपि सत्तां गता इत्येतच्छ्रुत्वा रामस्तदनुपपत्तिं शङ्कते - नासत इति
॥ ११ ॥

श्रीवसिष्ठ उवाच ।

एवमेतन्महाबाहो नासत्सम्भवति क्वचित् ।
कदाचित्किञ्चिदप्येव बृहत्सम्पद्यते तनु ॥ १२ ॥

स्वाभिप्रेतं विशेषं वक्तुं प्रथमं रामोक्तिमभ्युपगम्य वसिष्ठः
परिहारमारभते - एवमेतदिति । सत्यं कदाचिदपि किञ्चिदपि नासत्सम्भवति
किन्तु तनु सूक्ष्ममेव सदाविर्भावेन बृहत्सम्पद्यते
सैवोत्पत्तिर्बृहत्तिरोभावेन तनु सम्पद्यते स एव विनाश इत्यर्थः ॥ १२ ॥

किमसत्संस्थितं ब्रूहि किं तत्सद्वाथ संस्थितम् ।
सम्यङ्गिदर्शनेनैव करिष्ये तव बोधनम् ॥ १३ ॥

अस्त्वेवं तथापि अनात्मवस्तुषु सत्त्वासत्त्वविभाग एव दुर्निरूप इति विवक्षू
रामं पृच्छति - किमिति ॥ १३ ॥

श्रीराम उवाच ।

सन्त एव स्थिताः सन्तो ब्रह्मन्वयमिमे किल ।
दामादयस्त्वसन्तोऽपि वक्षि सन्तः स्थिता इति ॥ १४ ॥

ननु अस्मदादीनां सत्त्वं प्रत्यक्षादिप्रमाणसिद्धं दामादीनां
मायामात्रत्वादसत्त्वं त्वयैवोक्तं तथाच कथं तेषां पुनः सत्त्वं
विप्रतिषिद्धं वदसि को वा तवाभिप्राय इत्यर्थः ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

यथा दामादयो राम स्थिता मायामया इति ।
असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् ॥ १५ ॥

यद्यस्मदादिशरीराणां व्यावहारिकप्रमाणव्यवहारयोग्यत्वात्सत्त्वं
मन्यसे तर्हि दामादीनामपि तत्तुल्यम् । अथ
तत्त्वज्ञानबाध्यत्वाद्दुर्वचत्वाद्वा असत्त्वं मन्यसे तदपि तुल्यमिति न
विप्रतिषेध इत्याशयेन वसिष्ठ उत्तरमाह - यथेत्यादिना ॥ १५ ॥

तथैवेमे वयमपि ससुरासुरदानवाः ।
असत्या एव वल्गामो याम आयाम एव च ॥ १६ ॥

अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च ।
अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥ १७ ॥

त्वद्भावो रामशरीरभावः मद्भावो वसिष्ठशरीरभावः ॥ १७ ॥

मृतो बन्धुर्यथा स्वप्नेऽप्यनुभूतोऽप्यसन्मयः ।
मृतोऽयमिति चेज्ज्ञप्तिर्भवेदेवमिदं जगत् ॥ १८ ॥

एषातिमूढविषय उक्तिरेव न राजते ।
अभ्यासेन विनोदेति नानुभूतेरपह्नवः ॥ १९ ॥

जगत्सत्यतानिश्चयवानतिमूढस्तद्विषये तं प्रति एषा अलीकत्वोक्तिर्न राजत एव ।
कुतस्तत्राह - अभ्यासेनेति । परमार्थतत्त्वविचाराभ्यासेन विना
जगत्सत्यत्वानुभूतेरपह्नवोऽपलापो नोदेति ॥ १९ ॥

निश्चयोऽन्तःप्ररूढो यः सम्पन्नोऽभ्यसनं विना ।
नाशमायाति लोकेऽस्मिन्न कदाचन कस्यचित् ॥ २० ॥

एवं पूर्वोत्पन्नदुःसंस्कारनाशोऽपि शास्त्रार्थतत्त्वाभ्यासं विना
नोदेतीत्याह - निश्चय इति ॥ २० ॥

इदं जगदसद्ब्रह्म सत्यमित्येव वक्ति यः ।
तमुन्मत्तमिवोन्मत्तो विमूढोऽपि हसत्यलम् ॥ २१ ॥

अत एव ह्यनधिकारिण्युपदेशवाक्यमुन्मत्तप्रलपितप्रायत्वाद##-

अक्षीबक्षीबयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।
अन्धप्रकाशयोर्बोधे स्याच्छायातपयोरिव ॥ २२ ॥

यद्यज्ञान्नोपदिशेत्तैः सहाज्ञचेष्टाभिरेव ज्ञोऽपि व्यवहरेत्तर्हि सोऽप्यज्ञः
स्यात् तथा चाज्ञतज्ज्ञयोरैक्यं स्यादित्याशङ्क्याह - अक्षीबेति । क्षीबो
मदिरामत्तः अक्षीबो विमदस्तयोरैक्यं क्व स्यात् । अन्धयतीत्यन्धं तमः ।
प्रकाशः सूर्यादिः ॥ २२ ॥

यत्नेनाप्यनुभूतोऽर्थः सत्ये कर्तुमपह्नवम् ।
अज्ञोऽन्तश्च न शक्नोति शवमाक्रमणं यथा ॥ २३ ॥

इतोऽप्यज्ञो नोपदेश्य इत्याह - यत्नेनेति । अज्ञो महतापि यत्नेन
बोध्यमानोऽपि अन्तर्बहिश्च मनोबुद्ध्यादिभेदेन रूपरसादिभेदेन चानुभूतो
द्वैतरूपो योऽर्थस्तस्य सत्ये अधिष्ठाने अपह्नवं नेतिनेतीति बाधं कर्तुं न
शक्नोति । यथा शवं कुणपं आक्रमणं स्वपद्भ्यां भ्रमणं कर्तुं न
शक्नोति तद्वत् । नचाप्यस्तापह्नवं विना अधिष्ठानतत्त्वं बोद्धुं शक्यमिति
व्यर्थस्तदुपदेशः स्यादित्यर्थः ॥ २३ ॥

ब्रह्म सर्वं जगदिति वक्तुं नाज्ञस्य युज्यते ।
तपोविद्याननुभवे स तदेवानुभूतवान् ॥ २४ ॥

तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन
इति ज्ञानाधिकारसिद्धये तप उपासनादिविधानादपि तदसंस्कृतोऽज्ञो
नोपदेशार्ह इत्याह - ब्रह्मेति । यतस्तपोविद्यादीनामननुभवे
अनुभवप्रयुक्तसंस्काराभावे सति सोऽज्ञस्तत्प्रसिद्धं
संसारिदेहाद्यात्मभावमेवानादिकालमनुभूतवान्न कदापि
असंसार्यात्मभावमित्यर्थः ॥ २४ ॥

अबुद्धविषये ह्येषा राम वाक्प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्येव किञ्चन ॥ २५ ॥

क्व तर्ह्युपदेशवाग्विराजते तत्राह - अबुद्धेति । अनुदरा कन्येतिवदल्पार्थो
नञ् समस्यते । अल्पबुद्धविषये इत्यर्थः । बुद्धस्य सम्यग्बोधवतस्तु अस्मीति
अहङ्कारपरामर्शिरूपेण पराम्रष्टुं किञ्चिदपि नास्त्येवेति सोऽपि नोपदेशार्ह
इत्यर्थः । तथाचोक्तमुपक्रमे नात्यन्तमज्ञो नोत ज्ञः
सोऽस्मिञ्छास्त्रेऽधिकारवान् इति ॥ २५ ॥

ब्रह्मैवेदं परं शान्तमित्येवानुभवन्सुधीः ।
अपह्नवः स्वानुभूतेः कर्तुं तस्य क्व युज्यते ॥ २६ ॥

अस्मीति बोद्धुमशक्त्याहं ब्रह्मास्मीति
वाक्यार्थबोधज्ञस्यानधिकारवन्निषेध्याप्रसिद्धेर्नेतीत्यपह्नववाक्यार्थबो
धे पि ज्ञस्यानधिकारमाह - ब्रह्मैवेति ॥ २६ ॥

परस्माद्व्यतिरेकेण नाहमात्मनि किञ्चन ।
हेमनीवोर्मिकादित्वं न मय्यस्ति विशिष्टता ॥ २७ ॥

ननु हेमन्यूर्मिकादेरिवाहङ्कारस्यैव ब्रह्मण्य ह्वोऽज्ञेन कुतो न क्रियते
तत्राह - परस्मादिति । यतः आत्मनि अहम्पदवाच्यं
परस्माद्व्यतिरेकेणोर्मिकादिकमिव प्रातीतिकमपि ज्ञस्य किञ्चिन्नास्तीत्यर्थः । न
मयीति । यतोऽद्वये मयि विशिष्टता भ्रान्त्यापि नास्ति यत्र विशेषणापह्नवः
क्रियेतेत्यर्थः ॥ २७ ॥

भूतता व्यतिरेकेण मूढे नात्मनि किञ्चन ।
ऊर्म्यादिबुद्धौ हेमेव ज्ञे नास्ति परमार्थता ॥ २८ ॥

ज्ञदृष्ट्या जगदिवाज्ञदृष्ट्या परमार्थोऽप्यत्यन्तासन्नेवेति तस्य तदस्तिता
न बोधयितुं शक्येत्याशयेनाह - भूततेति । भूतता
पाञ्चभौतिककार्यकारणमात्रात्मता ॥ २८ ॥

मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः ।
युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ॥ २९ ॥

उक्तमेव सङ्क्षिप्य स्फुटमाह - मिथ्येति द्वाभ्याम् ॥ २९ ॥

यो यन्मयस्तस्य तस्मिन्युज्यतेऽपह्नवः कथम् ।
पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तमेव हि ॥ ३० ॥

अन्यात्मतानिश्चयवतस्तदन्यात्मतोपदेशवैयर्थ्ये दृष्टान्तमाह -
पुरुषस्येति ॥ ३० ॥

तस्मान्नेमे वयं सत्या नच दामादयः क्वचित् ।
असत्यास्ते वयं चेमे नास्ति नः खलु सम्भवः ॥ ३१ ॥

औपोद्धातिकं समाप्य प्रस्तुतमुपपादितमुपसंहरति - तस्मादिति । इमे
प्रत्यक्षगम्यवसिष्ठरामादिदेहात्मना प्रसिद्धा वयं शास्त्रदृशा न
सत्याः । विद्वदनुभवदृशाप्यसत्याः । यौक्तिकदृशापि न सम्भवः ।
सद्भावो नास्तीत्यर्थः ॥ ३१ ॥

सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तमस्त्यनस्तमयोदयम् ॥ ३२ ॥

किं तर्हि सत्यं तदाह - सत्यमिति । संवेदनमेव [संवेदनामव इति
पाठः] शास्त्रदृशापि सत्यं विद्वदनुभवतोऽपि सत्यं
यौक्तिकदृशापि तदेवानस्तमयोदयमस्तीत्यर्थः ॥ ३२ ॥

सर्वं शान्तं च निःशून्यं न किञ्चिदिव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग सृष्टयः ॥ ३३ ॥

सर्वं जगच्छान्तं उपरतम् । किं शून्यपरिशेषेण नेत्याह -
निःशून्यमिति । निरस्तशून्यम् । तर्हि कथं शान्तं तत्राह - न किञ्चिदिवेति ।
सर्वशून्यमिव नतु शून्यमेव । सन्मात्रपूर्णभावेन स्थितमित्यर्थः । निजाः
भासः अन्यथाप्रथाः ॥ ३३ ॥

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्ड्रकादिवद्भान्ति तथेमास्तत्र दृष्टयः ॥ ३४ ॥

सतः असत्सदाकारेण प्रथा क्व दृष्टेति चेत्तदाह - यथेति ॥ ३४ ॥

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ॥ ३५ ॥

स सत्यात्मा आत्मानं यथा येन येन प्रकारेण वेत्ति तथैव क्षणादनुभवति ।
ततस्तस्मात्तदीक्षणात् सत्यात्मदृष्टिबलादसत्यमपि सत्यमिव
क्षणाद्भवतीत्यर्थः ॥ ३५ ॥

न सत्यमस्ति नासत्यमिति तस्माज्जगत्त्रये ।
यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ॥ ३६ ॥

यदि सत्येक्षणात्सत्यं स्वतस्तर्हि जगत्किंरूपमस्ति तत्राह - न सत्यमिति ॥ ३६

यथा दामादयस्तद्वदेवमभ्युदिता वयम् ।
सत्यासत्याः किमत्राङ्ग तान्प्रत्यपि विकल्पना ॥ ३७ ॥

एवं प्रसिद्धेन वसिष्ठरामाद्याकारेण । तान् दामादीन् । अपिशब्द एवकारार्थे
॥ ३७ ॥

अस्यानन्तस्य चिद्ब्योम्नः सर्वगस्य निराकृतेः ।
चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ॥ ३८ ॥

या चित् अन्तः यथा यादृशाकारेण उदेति ॥ ३८ ॥

यत्र दामादिरूपेण संवित्प्रकचिता स्वयम् ।
तथा सा तत्र सम्पन्ना तथाकारानुभूतितः ॥ ३९ ॥

उक्तमेवोदाहृत्य दर्शयति - यत्रेति ॥ ३९ ॥

अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।
तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ४० ॥

स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ॥ ४१ ॥

तापस्य मरुमयूखस्य ॥ ४१ ॥

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥ ४२ ॥

यत्र जगद्विषये प्रबुद्धं जागरूकम् । बाह्यार्थोपलब्धिरूपमिति यावत् । यत्र
अद्वितीयस्वप्रकाशे स्वात्मनि प्रसुप्तं बाह्योपलब्धिरहितं तत्र तेनैव
चिद्व्योम्नैव । तथाच श्रुतिः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र
त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इति ॥ ४२ ॥

नच तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ॥ ४३ ॥

इदं तु बोधनायावस्थाद्वयं सादृश्यकल्पनयोक्तं परमार्थतस्त्वाह ##-

निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।
नानयोः शब्दयोरर्थभेदः पर्याययोरिव ॥ ४४ ॥

यदा दृश्यं केवलं चिद्व्योमैव तदा सर्गनिर्वाणयोर्भेदो निवृत्त इत्याह

  • निर्वाणमेवेति ॥ ४४ ॥

परमार्थो जगदिति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्ड्रकमिवेक्षते ॥ ४५ ॥

उक्तमुपपादयति - परमार्थ इति द्वाभ्याम् । स्वयं अज्ञानोपहित आत्मा ॥ ४५

न तत्केशोण्ड्रकं किञ्चित्सा हि दृष्टिस्तथा स्थिता ।
नेदं दृश्यमिदं किञ्चिदित्थं चिद्व्योम संस्थितम् ॥ ४६ ॥

सर्वत्र सर्वमिदमस्ति यथानुभूतं
नो किञ्चन क्वचिदिहास्ति न चानुभूतम् ।
शान्तं सदेकमिदमाततमित्थमास्ते
सन्त्यक्तशोकभयभेदमतस्त्वमास्स्व ॥ ४७ ॥

अध्यारोपदृष्टौ सर्वत्रगे चिद्व्योम्नि सर्वारोपसम्भवात्सर्वत्र सर्वमस्ति
अपवाददृष्टौ तु क्वचिदपि किञ्चिन्नास्ति । इत्थमुक्तप्रकारद्वयेऽपि इदं जगत्
शान्तं निरस्तभेदं अत एवैकं सत् ततं पूर्णमास्ते । अतस्त्वमपि
सन्त्यक्तशोकभयभेदं यथा स्यात्तथा पूर्ण आस्स्वेत्यर्थः ॥ ४७ ॥

शिलोदराकारघनं प्रशान्तं
महाचिते रूपमिदं स्वमच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित्तु
यच्चास्ति तत्साधु तदेव भाति ॥ ४८ ॥

तदेव पुनः स्थिरीकुर्वन्वर्णयति - शिलेति । स्फटिकशिलाया उदरमिव
शून्याकारं भासमानमपि घनं तत्र प्रतिबिम्बवनगिरिनद्यादिस्वरूप
इवास्ति नास्तीति दृशौ तु क्वचिन्नैव । यच्च प्रतिभानमात्रेणास्ति
तत्तच्चितिरूपमेव तथा भातीत्यर्थः ॥ ४८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु
स्थितिप्रकरणे सदसन्निराकरणं नामैकत्रिंशः सर्गः ॥ ३१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
सदसन्निराकरणं नामैकत्रिंशः सर्गः ॥ ३१ ॥