त्रिंशः सर्गः ३०
श्रीवसिष्ठ उवाच ।
इति तुष्टेषु देवेषु दानवेषु हतेषु च ।
दामव्यालकटा [दामव्यालकटादीनां इति षष्ठीबहुवन्वनान्तः
पाठः प्राङ्मुद्रिते आदर्शान्तरे च लभ्यते तत्स्वारस्यं तु
धीधिषणेभ्य एव समधिगन्तव्यम्] दीना बभूवुर्भयविह्वलाः ॥ १ ॥
पाताले यमदग्धानामत्र जन्मपरम्परा ।
काश्मीरदेशमत्स्यान्ता दामादीनां प्रकीर्त्यते ॥ १ ॥
इत्यनया रीत्या दानवेषु हतेषु सत्सु । देवेषु तुष्टेष्विति
पाठक्रमादर्थक्रमबलीयस्त्वाद्योज्यम् । दीना विषण्णाः ॥ १ ॥
जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव ज्वलन् ।
शम्बरः शमितानीको दामव्यालकटान्प्रति ॥ २ ॥
शम्बरो दामव्यालकटान्प्रति कुपितः सन् क्वेति पृच्छन् जज्वालेत्यर्थः ॥ २ ॥
शम्बरस्य भयाद्गत्वा पातालमथ सप्तमम् ।
दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम् ॥ ३ ॥
सप्तमं पातालमेव विशिनष्टि - यमस्येति । तत्रापि शम्बराद्भयं किं न
स्यादिति शङ्कां वारयितुं कालत्रासनक्षमा इति । कालो मृत्युरिवान्येषां
त्रासनक्षमा इत्यर्थः ॥ ४ ॥
यमस्य किङ्करा यत्र ये कालत्रासनक्षमाः ।
कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः ॥ ४ ॥
ते तेषामथ यातानां दत्त्वा भयमभीरवः ।
चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात् ॥ ५ ॥
यातानां शरणमिति शेषः । त्रिभ्यस्तिस्रः कुमारीः कन्या घनाकारा
मूर्तिमतीश्चिन्ता इव स्थिता इत्यर्थः ॥ ५ ॥
तैः सार्धं नीतवन्तस्ते तत्र दामादयोऽवधिम् ।
दशवर्षसहस्रान्तमान्तानन्तकुवासनाः ॥ ६ ॥
अवधिं आयुःशेषम् ॥ ६ ॥
इयं मे कामिनी कन्या ममेयं प्रभुतेति च ।
दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत ॥ ७ ॥
आत्तानन्तकुवासनाः प्रपञ्चयति - इयमिति ॥ ७ ॥
धर्मराजोऽथ तं देशं कदाचित्समुपाययौ ।
महानरककार्याणां विचारार्थं यदृच्छया ॥ ८ ॥
धर्मराजो यमः ॥ ८ ॥
अपरिज्ञातमेनं ते धर्मराजं त्रयोऽसुराः ।
न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम् ॥ ९ ॥
छत्रचामरादिलिङ्गादर्शनाद्यमराजोऽयमित्यपरिज्ञातम् ॥ ९ ॥
अथ वैवस्वतेनैते ज्वलितासूग्रभूमिषु ।
विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः ॥ १० ॥
ज्वलितासु रौरवाद्युग्रनरकभूमिषु । तासु हि शतयोजनपर्यन्तं
जानुमितज्वलदङ्गारादयः प्रसिद्धाः ॥ १० ॥
तत्र ते करुणाक्रन्दाः ससुहृद्दारबन्धवः ।
प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः ॥ ११ ॥
पर्णान्येव विटपाः शाखा येषां ते पर्णविटपाः । बाला इति यावत् ॥ ११ ॥
स्वया वासनया जातास्तयैव क्रूरया पुनः ।
बन्धकर्मकराकाराः किराता राजकिङ्कराः ॥ १२ ॥
वधबन्धकर्मकरयमकिङ्करसहवासात्तादृशवासनया
बन्धकर्मकराकाराः किङ्कराश्च । एवमग्रेऽप्यूहम् ॥ १२ ॥
तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु वायसाः ।
तदन्ते गृध्रतां यातास्ततोऽपि शुकतां गताः ॥ १३ ॥
सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु च ।
मगधेष्वथ कीटत्वं बभ्रुस्ते [ते वक्रबुद्धय इति पाठः] च
कुबुद्धयः ॥ १४ ॥
ते बभ्रुः । दधुरित्यर्थः ॥ १४ ॥
अनुभूयेतरामन्यां चित्रां योनिपरम्पराम् ।
अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले ॥ १५ ॥
मत्स्या भूत्वेति शेषः ॥ १५ ॥
दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायिनः ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः ॥ १६ ॥
जरज्जम्बालं जीर्णपङ्कस्तेषु जर्जराः श्लथदेहाः ॥ १६ ॥
विचित्रयोनिसंरम्भमनुभूय पुनःपुनः ।
भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव ॥ १७ ॥
उक्तमेवानुवदति - विचित्रेति ॥ १७ ॥
भवजलधिगतास्ते वासनातन्तुनुन्ना-
स्तृणमिव चिरमूढा देहरूपैस्तरङ्गैः ।
उपशममुपयाता राम नाद्याप्यनन्तं
परिकलय महत्त्वं दारुणं वासनायाः ॥ १८ ॥
उपसंहरति - भवजलधीति । वासनातन्तुभिर्नुन्नाः प्रेरिताः सन्तो
देहरूपैस्तरङ्गैस्तृणमिव चिरं ऊढा नानाप्रदेशं प्रापितास्ते अद्यापि
अनन्तं अपरिच्छेद्यफलं उपशमं नोपयाताः । वासनाया दारुणं
विदारुणं महत्त्वं । महानर्थरूपत्वमिति यावत् । परिकलय । अनेनैव
दृष्टान्तेन सर्वत्र पश्येत्यर्थः ॥ १८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे
दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः ॥ ३० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः ॥ ३० ॥