२९

एकोनत्रिंशः सर्गः २९

श्रीवसिष्ठ उवाच ।

एवम्प्रायाकुलारम्भैरसुरैरसुहारिभिः ।
सहसा हृतसंरब्धैरारब्धः सुमहान् रणः ॥ १ ॥

प्राप्तदेहाभिमानानां दामादीनां सुरैर्मृधे ।
विषादो वर्ण्यते पश्चात्पलायनपराजयौ ॥ १ ॥

एवम्प्रायाः प्राग्वर्णितप्रकारा आकुला व्यग्रप्राया आरम्भा येषां
तैरसुहारिभिरसुरैः सुमहान् रण आरभ्दः ॥ १ ॥

माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छन्नगोपायनेन च ॥ २ ॥

स सङ्गरो देवैः कदाचिन्मायया विवादेन वाग्युद्धमात्रेण दानाद्युपायैः
सन्धिना कदाचिद्विग्रहेण कदाचित्पलायनेन प्रच्छन्नतया स्थित्वा
स्वजनगोपायनेन ॥ २ ॥

कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।
धृतः स सङ्गरो देवैस्त्रिंशद्वर्षाणि पञ्चकम् ॥ ३ ॥

कदाचित्कार्पण्येन कृपणवच्छरणागतियाञ्चादिना स सङ्गरो विधृतः ।
तत्राद्यः सङ्ग्रामस्त्रिंशद्वर्षाणि विधृतः । द्वितीयस्तु पञ्चकं वर्षाणि
अष्टौ मासान्दश दिवसान्विधृतः । तृतीयस्तु सप्त पञ्च चेति
द्वादशदिवसान्विधृतः । तावत्कालं द्वयोरपि सेनयोर्वृक्षाणामग्नीनां
हेतीनामेकेषां मुख्यानामशनीनां भूभृतां पर्वतानां च वर्षाणि
वृष्टयः पेतुरित्यर्थः ॥ ३ ॥

वर्षाणि दिवसान्मासान्दशाष्टौ सप्त पञ्च च ।
वर्षाणि पेतुर्वृक्षाग्निहेत्येकाशनिभूभृताम् ॥ ४ ॥

एतावता तु कालेन दृढाभ्यासादहङ्कृतेः ।
दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥ ५ ॥

ग्रस्तचेतसो वासनयेति शेषः ॥ ५ ॥

नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।
अभ्यासातिशयात्तद्वत्ते साहङ्कारतां गताः ॥ ६ ॥

अभिमानाभ्यासस्याहङ्कारदार्ढ्यहेतुतां दृष्टान्तेन दर्शयति -
नैकट्यादिति ॥ ६ ॥

यद्वद्दूरगतं वस्तु नादर्शे प्रतिबिम्बति ।
पदार्थवासना तद्वदनभ्यासान्न जायते ॥ ७ ॥

उत्पन्नापि वासना चिरमभ्यासत्यागेन नश्यतीत्याशयेनाह - यद्वदिति ।
दूरगतं दूरपरित्यक्तं न प्रतिबिम्बति प्रतिबिम्बभावादपैति ।
अनभ्यासादभ्यासपरित्यागात् ॥ ७ ॥

यदा दामादयो जाता अहङ्कारात्मवासनाः ।
तदा मे जीवितं मेऽर्थ इति दैन्यमुपागताः ॥ ८ ॥

अहङ्कार एवात्मेति वासना येषां ते अहङ्कारात्मवासनाः । जीवितं जीवनं मे
स्यात् तदर्थं मे अर्थो धनं स्यादित्याशया दैन्यमुपागताः ॥ ८ ॥

भववासनया ग्रस्ता मोहवासनया ततः ।
आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥ ९ ॥

ततः भवत्यस्मादिति भवो विहितनिषिद्धप्रवृत्तिस्तद्वासनया ग्रस्ताः । देहो मे
सदैवारोगदृढभोगक्षमोऽस्त्वित्यादिमोहवासनया ॥ ९ ॥

मुग्धेव ह्यनहङ्करैर्ममत्वमुपकल्पितम् ।
रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥ १० ॥

मुग्धेव ह्यनहङ्कारैः इति पाठे मुग्धेव कृपणतां गता इति
पूर्वेणान्वयः । शुद्धैरप्यनहङ्कारैः इति पाठे तु वस्तुतः शुद्धैरपि
दामादिभिर्ममत्वमुपकल्पितमिति स्पष्टोऽर्थः ॥ १० ॥

आपादमस्तको देहः कथं मे भवतु स्थिरः ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ ११ ॥

ममेति तृष्णाया एव विवरणमापादमस्तक इति ॥ ११ ॥

स्थिरो भवतु मे देहः सुखायास्तु धनं मम ।
इति बद्धधियां तेषां धैर्यमन्तर्द्धिमाययौ ॥ १२ ॥

सवासनत्वाद्वपुषामल्पसत्त्वात्सुरद्विषाम् ।
या तु प्रहारपरता मार्जितेवाशु साभवत् ॥ १३ ॥

सुरद्विषां दामादीनां या प्राक् प्रसिद्धा प्रहारपरता सा
अल्पसत्त्वान्न्यूनबलत्वान्मार्जितेव लिपिः कार्याक्षमा अभवत् ॥ १३ ॥

कथं सुरा जगत्यस्मिन्भवाम इति चिन्तया ।
विवशा दीनतां जग्मुः पद्मा इव निरम्भसः ॥ १४ ॥

सुरा अमराः कथं भवाम इति चिन्तया ॥ १४ ॥

तेषां योषान्नपानेन स्वाहङ्कृतिमतां रतिः ।
बभूव भावभावस्था भीषणा भवभाजिनी ॥ १५ ॥

भावा विषयास्तेषां भावनं भावस्तत्स्था अत एव भवं भाजयति प्रापयति
तच्छीला ॥ १५ ॥

अथ तस्मिन्रणे भीत्या सापेक्षत्वमुपाययुः ।
मत्तेभगनसंरब्धे वने हरिणका इव ॥ १६ ॥

सापेक्षत्वं जीवने इति शेषः । मत्तेभैर्युधाय घनं संरब्धे कुपिते ॥ १६ ॥

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ १७ ॥

कुपितः ऐरावण ऐरावतो यत्र ॥ १७ ॥

शरीरैकार्थिनां तेषां भीतानां मरणादपि ।
अल्पसत्त्वतया मूर्ध्नि कृतमेव परैः पदम् ॥ १८ ॥

परैः शत्रुभिः ॥ १८ ॥

अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।
न शेकुरिन्धने क्षीणे हविर्दग्धुमिवाग्नयः ॥ १९ ॥

विबुधानां प्रहरतां मशकत्वमुपागताः ।
क्षतविक्षतसङ्घातास्तस्थुः सामान्यसद्भटाः ॥ २० ॥

सामान्या इतरे सद्भटा इव सामान्यसद्भटाः ॥ २० ॥

बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।
दैत्या देवेषु वल्गस्तु दुद्रुवुः समराजिरात् ॥ २१ ॥

वल्गत्सु अभिपतत्सु ॥ २१ ॥

तेषु द्रवत्सु भीतेषु सर्वतो दानवादिषु ।
दामव्यालकटाख्येषु विख्यातेषु सुरालये ॥ २२ ॥

तद्दैत्यसैन्यं न्यपतद्विद्रुतं खादितस्ततः ।
कल्पान्तपवनोद्भूतं [पवनोद्धूतं इति पाठः]
ताराजालमिवाभितः ॥ २३ ॥

खात् नभसः ॥ २३ ॥

अमराचलकुञ्जेषु शिखराणां शिखासु च ।
तटेषु वारिराशीनां पयोदपटलेषु च ॥ २४ ॥

अमराचलकुञ्जेष्वित्यादिसप्तम्यन्तपदानां सर्वेषां पतितास्ते सुरारय इत्यत्र
[एकोनत्रिंशश्लोक इति भावः] सम्बन्धः ॥ २४ ॥

सागरावर्तगर्तेषु श्वभ्रेषूद्यत्सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ २५ ॥

उद्यन्तीषु प्रवृद्धासु सरित्सु । कर्मधारये पुंवद्भावः ॥ २५ ॥

तद्बाणोच्छिन्नदेशेषु ग्रामेषु नगरेषु च ।
अटवीषूग्रपक्षासु मरुभूमिदवाग्निषु ॥ २६ ॥

तेषां देवासुराणां बाणैरुच्छिन्नेषु देशेषु । उग्राणां क्रूराणां
सिंहव्याघ्ररक्षसां पक्षासु परिग्रहभूतासु ॥ २६ ॥

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
आन्ध्रद्रविडकाश्मीरपारसीकपुरेषु च ॥ २७ ॥

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्विपान्तरेषु जालेषु जम्बुखण्डलतासु च ॥ २८ ॥

सहस्रमुखैर्गङ्गायाः समुद्रप्रवेशादेकोऽप्यम्भोधिः प्रदेशभेदेन
नानेति नानाम्भोधिषु तरङ्गा यासां तासु । द्वीपान्तरेषु मत्स्यबन्धनाय
प्रसारितेषु जालेषु । जम्बूखण्डा देशभेदाः ॥ २८ ॥

सर्वतः पर्वताकाराः पतितास्ते सुरारयः ।
विस्फोटिताङ्गचरणा विभिन्नकरबाहवः ॥ २९ ॥

पतितानेव विशिनष्टि - विस्फोटिताङ्गेत्यादिना ॥ २९ ॥

शाखालग्नान्त्रतन्त्रीका मुक्तरक्तभरच्छटाः ।
व्यस्तशेखरमूर्धानो निष्क्रान्ताः कुपितेक्षणाः ॥ ३० ॥

मुक्ता रक्तभरच्छटा यैः । निष्क्रान्ता नितरां विक्षिप्तपादाः ॥ ३० ॥

सायुधा बलमायेषुच्छिन्नकङ्कटहेतयः ।
दूरापातविपर्यस्तपतन्नानायुधांशुकाः ॥ ३१ ॥

बलैर्मायाभिरिषुभिश्च च्छिन्नाः कङ्कटा वारबाणा हेतयश्च येषाम् ।
दूरमापातेन पलायनेन विपर्यस्ताः पतन्तो नानायुधानामंशुकानां च
समाहारा येषाम् ॥ ३१ ॥

कण्ठलम्बिशिरस्त्राणचटत्कारोग्रभीतयः ।
शिखाशतशिलाप्रोता देहभागविलम्बिनः ॥ ३२ ॥

कण्ठविलम्बिनां शिरस्त्राणानां चटत्कारैरुग्रा भीतिर्येषाम् । ग्रन्थिताग्रैः
शिखाशतैः पर्वताग्रशिलासु प्रोताः । अत एव देहभागर्विलम्बिनो लम्बमानाः
॥ ३२ ॥

शाल्मल्युग्रदृढापातकटत्कण्टकसङ्कटाः ।
सुशिलाफलकास्फालशतधाशीर्णमस्तकाः ॥ ३३ ॥

शाल्मलीषु सकण्टकत्वादृढापाते कटद्भिः कण्टकैः सङ्कटं दुःखं
येषाम् ॥ ३३ ॥

सर्व एव सकलायुधशस्त्र-
पातमात्रसमनन्तरमेव ।
दिक्षु नाशमगमन्नसुरेन्द्राः
पांसवोऽम्बुदनिधौ पयसीव ॥ ३४ ॥

उपसंहरति - सर्व एवेति । इत्थं सर्व एवासुरेन्द्राः सकलानामायुधानां
शस्त्राणां च पातमात्राद्युद्धारम्भात्समनन्तरमेव दिक्षु
नाशमदर्शनमगमन् । यथाम्बुदानां निधौ वर्षर्तौ पयसि जले पांसवो
नाशं गच्छन्ति तद्वदित्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे
दामव्यालकटोपाख्याने असुरपरिभ्रंशो नामैकोनत्रिंशः सर्गः ॥ २९

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे असुरपरिभ्रंशो
नामैकोनत्रिंशः सर्गः ॥ २९ ॥