२८

अष्टाविंशः सर्गः २८

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा भगवान्देवांस्तत्रैवान्तर्धिमाययौ ।
वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥ १ ॥

विश्रान्तानां पुनर्युद्धं विस्तरेणात्र वर्ण्यते ।
देवानां दानवानां च चिरमावासनोदयात् ॥ १ ॥

अम्बुनस्तरङ्गको वेलापदसान्निध्यात्समुद्रतरङ्ग इति गम्यते ॥ १ ॥

सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां दिशम् ।
कमलामोदमादाय वनमालामिवानिलाः ॥ २ ॥

स्वाभिमतां स्वाभिप्रेतां तत्तद्दिक्पालाधिष्ठितदिशम् ।
स्वाभिमतामित्येतद्वनमालाया अपि विशेषणम् ॥ २ ॥

दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥ ३ ॥

विशश्रमुर्विश्रान्ताः ॥ ३ ॥

कञ्चित्कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ॥ ४ ॥

अथ दैत्यैर्ममाव्योम्नि तैः पातालतले स्थितैः ।
कालक्षेपकरं घोरं पुनर्युद्धमवर्तत ॥ ५ ॥

अथ दुन्दुभिरवं श्रुत्वा सन्नह्य दैत्येषूर्ध्वमागतेषु सत्सु ।
महाव्योन्न्यन्तरिक्षे ॥ ५ ॥

ववुरसिशरशक्तिमुद्गरौघा
मुसलगदापरशूग्रचक्रशङ्खाः ।
अशनिगिरिशिलाहुताशवृक्षा
अहिगरुडादिमुखानि चायुधानि ॥ ६ ॥

आसर्गसमाप्तेर्युद्धमेव वर्णयति - ववौरित्यादिना । शङ्खाः
शङ्खाकारा आयुधविशेषाः । परप्राणहारित्वादायुधप्रायाः
शङ्खशब्दा वा । गिरीणां शिलासहिताः गिरिप्रायाः शिला गिरयः शिलाश्चेति वा
वृक्षान्ताः । अहिगरुडादिमुखान्यायुधानि च महाव्योम्नि ववुः जग्मुः ॥ ६ ॥

मायाकृतायुधमहाम्बुघनप्रवाहा
क्षिप्रावहा प्रतिदिशं किल निर्जगाम ।
पाषाणपर्वतमहीरुहलक्षवृक्ष-
क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥ ७ ॥

तदेव वर्णयति - मायेति । मायाकृतान्यायुधान्येव महाम्बूनि तेषां
घनः प्रवाहो यस्याः । अत एव क्षिप्रान् शीघ्रहस्तानावहति जयायेति क्षिप्रावहा
। पाषाणैः पर्वतैर्महीरुहलक्षैस्तेष्वपि प्रधानैर्वृक्षैश्च
क्षुब्धाम्बुपूरेव घनघोषवती नदी द्राक् निर्जगामेत्यर्थः ॥ ७ ॥

मध्यप्रवाहवहदुल्मुकशूलशैल-
प्रासासिकुन्तशरतोमरमुद्गरौघा ।
गङ्गोपमाम्बुवलितामरमन्दिरेण
सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन ॥ ८ ॥

तामेव नदीं पुनर्वर्णयति - मध्येति । अम्बुभिर्जलैरिव वलितं वेष्टितं
अमरमन्दिरं मेर्वादि येन तथाविधेनाशनिप्रमुखायुधवर्षप्रयुक्तेन
निकर्षणेन वप्रच्छेदनेव गङ्गोपमा ।
मेर्वादिगिरिपृष्ठप्रवहद्गङ्गासदृशीत्यर्थः ॥ ८ ॥

पृथ्व्यादिदारुणशरीरमपि प्रहार-
दानग्रहा गहनराशिशरीरकेव ।
मायोपशाम्यति सुरासुरसिद्धसन्ना
मायाकृतिः पुनरुदेति नचैव सैव ॥ ९ ॥

सम्प्रति सुरासुराणां परस्परव्यामोहनाय विचित्रमायानिर्माणं
प्रतीकारैश्च तदुपशमं पुनःपुनस्तत्सदृशमायान्तरोद्भवोपशमं
चाह - पृथ्व्यादीति । पृथ्वी मही तन्मयी
आदिपदाज्जलतेजोवाय्वाकाशमयीव माया । यथेयं पृथिवी भ्रमतीव पततीव
निरुणद्धिवाप्स्विव निमज्जन्त्यग्निनेव दह्यन्ते वायुनेवोड्डीयन्ते
महागर्ताकाश इव निपतन्ति जना इति । दारुणानि रक्षःपिशाचादिशरीराणि
तन्मयीव । यथा तानि निपतन्तीव धावन्तीव युध्यन्तीव खादन्तीवेत्येवंरूपा
दारुणशरीरमयी । प्रहाराणां दानं ग्रहो ग्रहणं च बहुशो यस्यां
तथाविधान्या । गहनानि परैर्दुस्तराणि राशीभूतानीव बहुत्वमापन्नानि
शरीरकाणि प्रतियोधशरीराणि यस्यां सा तथाविधेवान्या । एवंविधापि
प्रयुक्ता माया सुरैरसुरैः सिद्धैश्च प्रतीकारैः सन्ना विनाशिता सती
उपशाम्यति पुनस्तादृश्येव मायाकृतिरुदेति सा किं सैव पूर्वोत्पन्नैव
मायाकृतिरुत न चैव च सा किन्त्वन्यैवेति तत्त्वतो दुर्ज्ञेयेत्यर्थः ॥ ९ ॥

शैलोपमायुधविघट्टितभूधराणि
रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
देवासुरेन्द्रशवशैलविरूढकुन्त-
तालीवनानि ककुभां वदनानि चाचन् ॥ १० ॥

देवलक्षणेष्वसुरेन्द्रशवलक्षणेषु च शैलेषु विरूढानि
कुन्तपङ्क्तिलक्षणतालीवनानि येषु तथाविधानि च ककुभां दिशां वदनानि
मुखान्यासन् ॥ १० ॥

उद्गीर्णकुन्तशरशक्तिगदासिचक्र-
हेलानिगीर्णसुरदानवमुक्तशैला ।
काषोल्लसत्क्रकचदन्तनखाग्रमाला
जीवान्विता ह्यपतदायससिंहसृष्टिः ॥ ११ ॥

उद्गीर्णैः कुन्तशरशक्तिगदासिचक्रैर्हेलयैव निगीर्णाः सुरैर्दान्ववैश्च
मुक्ताः शैला यस्याम् । काषेण च्छेदनेनोल्लसतां क्रकचानां दन्ता एव
नखाग्रमाला यस्यास्तथाविधा । परजीवग्राहित्वाज्जीवान्विता ।
आयसानामयोविकारायुधमयानां हिंस्रत्वात्सिंहानां सृष्टिरपतत् ।
निष्पपातेत्यर्थः ॥ ११ ॥

उज्ज्वाललोचनविषज्वलनातपौघ-
दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहामहीध्न-
मग्नाब्धिवद्विषधरावलिरुल्ललास ॥ १२ ॥

इदानीं सर्पास्त्रनिर्मितदृष्टिविषमायासर्पसमूहं वर्णयति - उज्ज्वालेति ।
उद्गता ज्वाला येभ्यस्तथाविधानां लोचनविषज्वलनानामातपौघेन ये दिशां
दाहास्तैर्दर्शिता युगान्ते युगपदुदितद्वादशदिनेशानां सेना यया
तथाविधा विषधराणां सर्पाणामावलिः उड्डीयमानैः परितो
दीर्घैरुच्छ्रयेण महद्भिर्महीध्रैर्मग्नेन व्याप्तेनाब्धिना तुल्यं
मग्नाब्धिवत् उल्ललास शुशुभे ॥ १२ ॥

उन्नादवज्रमकरोत्करकर्कशान्तः-
क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्रैः ।
आसीज्जगत्सकलमेव सुसङ्कटाङ्ग-
मावृत्तिभिर्विविधहेतिनदीप्रवाहैः ॥ १३ ॥

इदानीं सामुद्रास्त्रमायया समुद्रवेष्टनं वर्णयति - उन्नादेति । वलितो
वेष्टितोऽचलेन्द्रो मेरुर्यैस्तथाविधैर्विविधैर्हेतिनदीप्रवाहैः उन्नादस्य
वज्रादिरत्नैर्मकरोत्करैश्च कर्कशस्यान्तःक्षुब्धस्याब्धेर्वीचिवलयैः
सकलमेव जगत् आवृत्तिभिः परिवर्तनैः सुसङ्कटाङ्गं
पीडितसर्वावयवमासीत् ॥ १३ ॥

शैलास्त्रशस्त्रगरुडाचलचालितोच्च-
नागं महासुरगणाङ्गणमन्तरिक्षम् ।
आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः
पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः ॥ १४ ॥

महतां सुराणामसुराणां च युद्धाङ्गणभूतमन्तरिक्षं शैलास्त्रैः
शस्त्रैर्मायारचितगरुडैर्बलादुत्पाट्य प्रक्षिप्तैरचलैश्च चालिताः पलायिताः
प्राग्वर्णितदृष्टिविषनागा यस्मास्तथाविधं सत्क्षणं जलाधिभिः
पूर्णमासीत् । क्षणमग्निपूरैः पूर्णमासीत् । क्षणं दिनकरैः पूर्णमासीत् ।
क्षणमन्धकारैः पूर्णमासीदिति प्रागुक्तस्यैवानुवादः ॥ १४ ॥

गरुडगुडगुडाकुलान्तरिक्ष-
प्रविसृतहेतिहुताशपर्वतौघैः ।
जगदभवदसह्यकल्पकाले
ज्वलितसुरालयभूतलान्तरालम् ॥ १५ ॥

गारुडास्त्रप्रभवैर्गरुडैः । गुडगुडेत्यव्यक्तानुकरणम् । गुडगुडेति
ध्वनिभिराकुलेन्तरिक्षे प्रविसृतैर्हेतिहुताशपर्वतानामोघैः प्रवाहैः
पुनरपि जगदसह्यकल्पकाल इव ज्वलितसुरालयभूतलान्तरालमभवत् ॥ १५ ॥

उदपतन्नसुरा वसुधातला-
द्गगनमद्रितटादिव पक्षिणः ।
अतिबलादपतन्विबुधा भुवि
प्रलयचालितशैलशिला इव ॥ १६ ॥

असुरा वसुधातलात् गगनं उत् ऊर्ध्वं अपतन् । विबुधास्तु ऊर्ध्वदेशाद्भुवि
अपतन् ॥ १६ ॥

शरीररूढोन्नतहेतिवृक्ष-
वनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुरथाम्बरान्तः
कल्पानिलान्दोलितशैलशोभाम् ॥ १७ ॥

शरीरे रूढैरुन्नतहेतिवृक्षैः सम्पन्नासु वनावलीषु लग्नो महानग्निदाहो
येषां तथाविधाः सुरासुराः कल्पानिलैरान्दोलितानां
भ्राम्यमाणानामर्थाज्ज्वलतां शैलानां शोभां प्रापुः ॥ १७ ॥

सुरासुराद्रीन्द्रशरीरमुक्तै
रक्तप्रवाहैरभितो भ्रमद्भिः ।
वभार पूर्णं परितोऽम्बरोऽद्रेः
सन्ध्याकरौघक्षतमङ्ग गङ्गाम् ॥ १८ ॥

अद्रेर्मेरोः परितोऽभितश्चतुर्दिशमम्बर आकाशो नायकः । व्यत्ययेन पुंस्त्वम्
। सुरासुरलक्षणानामद्रीन्द्राणां शरीरेभ्यो मुक्तैरभितो भ्रमद्भिः
रक्तप्रवाहैः पूर्णं सन्ध्याया नायिकायाः । करौघपदेन करजौघा
लक्ष्यन्ते । तेषां क्षतं बभार । अथवा तथाविधरक्तप्रवाहैः पूर्णां
गङ्गां बभारेत्युत्प्रेक्षयोर्विकल्पः । अङ्गेति स।बोधने ।
पूर्णमित्येतन्नखक्षतगङ्गयोर्द्वयोरपि विशेषणम् । स्त्रीनपुंसकयोः
नपुंसकमनपुंसकेन इत्येकशेषे एकवद्भावः ॥ १८ ॥

गिरिवर्षणमम्बुवर्षणं
विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते
सममन्योन्यमथाग्निवर्षणम् ॥ १९ ॥

ते सुरासुराः अनयन् इति परेणान्वयः ॥ १९ ॥

अनयन्नयमार्गकोविदा
दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश्च समं समन्ततः
करिकुम्भेष्विव पुण्यवर्षणम् ॥ २० ॥

पुण्ये पुण्यके उत्सवविशेषे क्रीडार्थं
नलिकायन्त्रैर्लाक्षाकुङ्कुमचन्दनादिरसवर्षणमिवेत्यर्थः ॥ २० ॥

देवासुराः समरसम्भ्रममाकुलास्ते
अन्योन्यमङ्गदलनाकुलहेतिहस्ताः ।
नागेन्द्रडिम्भपृतनापृथुपीठपेषैः
कीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः ॥ २१ ॥

अन्योन्यं समरसम्भ्रमं युद्धोत्साहमक्षिपन्तः अत्यजन्तो देवासुरा
अङ्गदलने आकुला व्यग्रा हेतियुक्ता हस्ता येषां तथाविधाः सन्तो
नागेन्द्राणामैरावतादिदिग्गजानां डिम्भानां सन्ततिभूतानां गनानां
पृतनायाः समूहस्य पृथूनां पीठानां पीठसदृशपृष्थानां
पेषैरिव पीडाकरैर्गुरुतरसम्भारसम्भृतारोहऽनिः कीर्णश्रियो
विस्तारितशोभा नभसि बभ्रमुरित्यर्थः ॥ २१ ॥

छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि-
राकाशकाष्ठशलभैरशिवैस्तदानीम् ।
आसीज्जगज्जठरमभ्रभरैरिवोग्रै-
राभास्करस्थगितदिक्तटशैलजालम् ॥ २२ ॥

आकाशस्य काष्ठानां दिशां च समाहार आकाशकाष्ठं तत्र शलभैः
औत्पातिकरक्तपतङ्गविशेषभूतैः आकाशस्यैव
फलपुष्पपर्णाद्यनवशेषात्काष्ठसदृशस्य शलभैरिति वा । अभ्राणां
मेघानां भरैरतिशयैरिव । अब्भ्रमरैः इति पाठेऽपि अपां
भ्रमरैर्मेघैरित्येवार्थः । आभास्करं भास्करपर्यन्तं
स्थगितान्याछादितानि दिक्तटानि शैलजालानि च यत्र तथाविधमासीत् ॥ २२ ॥

रटद्भटास्फोटकटिस्फुटद्भिः
समीरितैर्हेतिकलासितौघैः ।
परस्पराघातहतैः पतद्भि-
र्जगाम शीर्णा दलशो धरित्री ॥ २३ ॥

सम्यगीरितैः प्रहृतैः रटतां भटानामास्फोटेनास्फालनेन
कटिप्रदेशेषु स्फुटद्भिस्त्रुट्यद्भिस्तथा परस्परास्फालहतैरत एव
पतद्भिर्हेतिभिः कलाभिर्यन्त्रक्षेपण्यादिकौशलैरसितानां क्षिप्तानां
शिलापर्वतादीनामोघैः । इट् छान्दसः । धरित्री शीर्णा सती दलशः खण्डशो
जगाम । खण्डिताभूदित्यर्थः ॥ २३ ॥

अन्योन्यमायुधशिलाचलवृक्षवर्षै-
र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्च ।
आसीद्रणं चटचटास्फुटदन्तरिक्षं
कल्पक्षयान्तमिव भीमभरोग्रनादैः ॥ २४ ॥

मेरुप्रमाणानां कठिनानामङ्गानां देहानां निघर्षणैः
परस्परसङ्घट्टनैश्च जनितैर्भीमो भरोऽतिशयो येषां
तथाविधैरुग्रनादैः रणं कल्पक्षयान्तमिवासीदित्यर्थः ॥ २४ ॥

मत्तानिलक्षुब्धजलानलार्क-
दलद्वयं दीर्घसुरासुरौघम् ।
ब्रह्माण्डमाखण्डितकुड्यकोण-
मकालकल्पान्तकरालमासीत् ॥ २५ ॥

मत्तेन प्रचण्डेनानिलेन क्षुब्धा जलानलावधः अर्कश्च ऊर्ध्वं यत्र
तथाविधं दलद्वयं यत्र । दीर्घा मायाविभवैः प्रवृद्धाः सुरासुरौघा
यत्र । आखण्डिता विदारिताः प्रान्तकुड्यकोणा यत्र तथाविधं
ब्रह्माण्डमकालप्रवृत्तकल्पान्त इव करालं भीषणमासीत् ॥ २५ ॥

भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै-
रात्मप्रमाणघनहेतिहतै रणद्भिः ।
कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः
क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥ २६ ॥

पुनस्तत्कीदृशमासीत्तदाह - भ्रान्तैरिति । आत्मप्रमाणैः
स्वसदृशायामैर्घनैर्हेतिभिर्हतैः । अत एव भृशं भ्रान्तैः । भ्रमणे
च रणद्भिरुग्रगुहोच्चवातैरार्तिभिः कूजद्भिरिव अदभ्रैस्तारैः ।
आपतितसिंहरवैः क्रन्दद्भिरिव स्थितैरद्रिकूटैर्भरितदिक्तटमासीत् ॥ २६ ॥

मायानदीजलधियोधगनाग्निदाहै-
र्वृक्षैः सुरासुरशवैरचलैः शिलोच्चैः ।
भ्रान्तैः शराशिशितशक्तिगदास्त्रशस्त्रै-
र्वातावकीर्णवनपर्णवदन्तरन्तः ॥ २७ ॥

वातावकीर्णवनपर्णवदन्तरन्तर्भ्रान्तैः
शरासिप्रभृतिभिर्भरितमसीदित्यनुवर्तते ॥ २७ ॥

अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त-
दुर्वारहस्तिवलदारुणदेहकैर्द्राक् ।
आसीत्पतद्भटशरीरगिरीन्द्रवात-
विभ्रष्टदेवपुरपूर्णजलार्णवौघम् ॥ २८ ॥

पुनस्तत्कीदृशमासीत्तदाह - अद्रीन्द्रेति । अद्रीन्द्रस्य मेरोः पक्षाः
प्रत्यन्तपर्वतास्तत्सदृशपरिमाणैरत एव गमनं गमो मनुष्यादीनां
सञ्चारस्तन्निरोधकत्वात्तदक्षमैः पूर्वोक्तानां दुर्वारहस्तिबलानां
हस्तियुथानां देहकैः शवैर्भरितदिक्तटमासीत् । किञ्च
पतद्भिर्भटशरीरैर्गिरीन्द्रैर्वातविभ्रष्टदेवपुरैश्च
पूर्णजलार्णवौघमासीत् ॥ २८ ॥

घनघुङ्घुमपूरितान्तरिक्षा
क्षतजक्षालितभूधरा धरा च ।
रुधिरहदवृत्तिवर्तिनी वा
भुवनाभोगगुहा तदाकुलाभूत् ॥ २९ ॥

किञ्च तदा भुवनाभोगस्य ब्रह्माण्डस्योदरगुहा
घनैर्घुङ्घुमैर्ध्वनिभिः पूरितान्तरिक्षा । क्षतजैः क्षालिता
भूधरास्तदधराः पृथ्वीपातालादयश्च यस्यां तथाविधा । रुधिरह्रद
एव वृत्तिराहारो येषां रक्षःपिशाचादीनां त इव वर्तनशीला वा सती
आकुलाभूत् ॥ २९ ॥

अनन्तदृक्प्रसृतविकारकारिणी
क्षयोदयोन्मुखसुखदुःखशंसिनी ।
रणक्रियासुरसुरघट्टसङ्कटा
तदाभवत्खलु सदृशीह संसृतेः ॥ ३० ॥

अनन्तदृशामिन्द्रादिदेवानां प्रसृतभयादिविकारकारिणी । अनन्तायां
त्रिविधपरिच्छेदशून्यायां दृशि आत्मचैतन्ये प्रसृतजगद्विकारकारिणी च ।
क्षयोन्मुखानामुदयोन्मुखानां च व्युत्क्रमात्सुखदुःखशंसिनी
असुराणां अशास्त्रीयचित्तवृत्तीनां सुराणां शास्त्रीयतद्वृत्तीनां
प्रसिद्धानां चासुरसुराणां घट्टनं घट्टः परस्परसमागमस्तेन
सङ्कटा दुस्तरा रणक्रिया संसृतेरविद्यादिसंसारस्य सदृशी अभवत् ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे
दामव्यालकटपुनर्युद्धवर्णनं नामाष्टविंशः सर्गः ॥ २८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दामव्यालकटपुनर्युद्धवर्णनं नामाष्टाविंशः सर्गः ॥ २८ ॥