सप्तविंशः सर्गः २७
श्रीवैष्ठ उवाच ।
तस्मिंस्तदा वर्तमाने घोरे समरसम्भ्रमे ।
देवासुरशरीरेषु गर्तेष्वभ्रोदरेष्विव ॥ १ ॥
देवाः पराजितास्तेभ्यः प्रपन्नेभ्योऽत्र पद्मभूः ।
प्राह दैत्यवधोपायं वासनोपचयं चिरात् ॥ १ ॥
देवासुरशरीरेषु जातेषु गर्तेषु व्रणेषु असृक्प्रवाहेषु वहत्स्विति परेणान्वयः
॥ १ ॥
वहत्स्वसृक्प्रवाहेषु गङ्गापूरेष्विवाम्बरात् ।
दाम्नि वेष्टितदेवौघकृतक्ष्वेडाघनारवे ॥ २ ॥
वेष्टितदेवौघं यथा स्यात्तथा कृतः क्ष्वेडा सिंहनादरूपो महारवो येन
॥ २ ॥
व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।
कटे कठिनसंरम्भसङ्गरक्षपितामरे ॥ ३ ॥
आकृष्टिराकर्षणं तया पिष्टाः सञ्चूर्णिताः सर्वसुरालया येन ॥ ३ ॥
ऐरावते क्षीणरवे पलायनपरायणे ।
प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥ ४ ॥
पतिताङ्गव्यथार्तानि प्रस्नवद्रुधिराणि च ।
पयांसीवावसेतूनि देवसैन्यानि दुद्रुवुः ॥ ५ ॥
अवसेतूनि अवसन्नसेतूनि ॥ ५ ॥
दामव्यालकटास्तानि चिरमन्तर्हितानि च ।
अनुजग्मुर्लसन्नादमिन्धनानीव पावकाः ॥ ६ ॥
अन्तर्हितानि दूरं तिरोहितानि । लसन्नादं भ्राजमानाधिक्षेपध्वनि यथा
स्त्यात्तथा ॥ ६ ॥
अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् ।
घनजालवनोड्डीनान्सिंहा हरिणकानिव ॥ ७ ॥
धनानि निबिडानि लतादिजालानि यस्मिंस्तथाविधे वने उड्डीनान् उत्प्लुत्य लीनान् ॥ ७ ॥
अलब्धेष्वमरौघेषु दामव्यालकटास्तदा ।
जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः ॥ ८ ॥
निर्वासनात्वात्स्वत एव प्रमुदिताशयता जयलाभनिमित्तकत्वेनोपचर्यते ॥ ८ ॥
अथ देवा विषण्णास्ते क्सणमाश्वास्य वै ययुः ।
जयोपायाय विजिता ब्रह्माणममितौजसम् ॥ ९ ॥
जयोपायाय जयोपायप्रश्नाय ॥ ९ ॥
तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् ।
सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः ॥ १० ॥
रक्तै रुधिरै रक्ता शोणा आननश्रीर्येषां तेषाम् ॥ १० ॥
प्रणम्य ते सुरास्तस्मा अनर्थं शम्बरेहितम् ।
सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् ॥ ११ ॥
शम्बरस्येहितमिच्छा । सृष्ट्यात्मकं दामव्यालकटकमम् ॥ ११ ॥
तदाकर्ण्याखिलं ब्रह्मा विचार्य स विचारवित् ।
उवाचेदं सुरानीकमाश्वासनकरं वचः ॥ १२ ॥
श्रीब्रह्मोवाच ।
शतवर्षसहस्रान्ते शम्बरेण हरेः करात् ।
मर्तव्यं समरेशस्य तत्कालं सम्प्रतीक्षताम् ॥ १३ ॥
तत्कालमिति कालाध्वनोः इति द्वितीया ॥ १३ ॥
दामव्यालकटानेतानद्य त्वमरसत्तमाः ।
योधयन्तः पलायध्वं मायायुद्धेन दानवान् ॥ १४ ॥
युद्धाभ्यासवशादेषां मुकुराणामिवाशये ।
अहङ्कारचमत्कारः प्रतिबिम्बमुपैष्यति ॥ १५ ॥
अहमित्याकारा प्रथमान्तःकरणवृत्तिरहङ्कारचमत्कारः ॥ १५ ॥
गृहीतवासनास्त्वेते दामव्यालकटाः सुराः ।
सुजेया वो भविष्यन्ति लग्नजालाः खगा इव ॥ १६ ॥
तया वृत्त्या गृहीताः क्रमेणोपचिता वासना येषाम् ॥ १६ ॥
अद्य त्ववासना ह्येते सुखदुःखविवर्जिताः ।
धैर्येणारीन्विनिघ्नन्तो देवा दुर्जयतां गताः ॥ १७ ॥
अवासनाः शम्बरसङ्कल्पेन प्रतिबन्धादनाविर्भूतवासना नत्वत्यन्ता
वासनाः । ज्ञानं विना आत्यन्तिकवासनोच्छेदासम्भवात् । निर्वासनानां
जन्मानुपपत्तेश्चेति बोध्यम् ॥ १७ ॥
वासनातन्तुबद्धा ये आशापाशवशीकृताः ।
वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥ १८ ॥
ये भिन्नवासना धीराः सर्वत्रासक्तबुद्धयः ।
न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः ॥ १९ ॥
भिन्नवासना नष्टवासनाः ॥ १९ ॥
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः ।
महानपि बहुज्ञओऽपि स बालेनापि जीयते ॥ २० ॥
अयं सोऽहं ममेदं तदित्याकल्पितकल्पनः ।
आपदां पात्रतामेति पयसामिव सागरः ॥ २१ ॥
इयन्मात्रपरिच्छिन्नो येनात्मा भव्यभावितः ।
स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ॥ २२ ॥
सर्वदुर्वासनानां मध्ये आत्मनो देहादितादात्म्येन
परिच्छिन्नताभ्रान्तिवासनैव
महामौर्ख्यकार्पण्यजन्ममरणादिबीजत्वान्महाननर्थ इत्याह -
इयन्मात्रेत्यादिना ॥ २२ ॥
अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।
आत्मनस्तस्य तेनात्मा स्वात्मनैवावशीकृतः ॥ २३ ॥
अवशीकृतो विवशीकृतः । संसारनर्थविह्वलीकृत इति यावत् ॥ २३ ॥
आत्मनो व्यतिरिक्तं यत्किञ्चिदस्ति जगत्त्रये ।
यत्रोपादेयभावेन बद्धा भवतु वासना ॥ २४ ॥
यद्यदि आत्मनो व्यतिरिक्तं किञ्चिदस्ति तर्हि तत्र उपादेयभावेन उपादातुं
योग्यतया वासना भवतु नाम नतु तदस्तीत्यर्थः ॥ २४ ॥
आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।
अनास्थामात्रमभितः सुखानामाकरं विदुः ॥ २५ ॥
तथा चासद्वस्तुन्यास्था त्याज्येत्याशयेनाह - आस्थामात्रमिति ॥ २५ ॥
दामव्यालकटा यावदनास्था भवसंस्थितौ ।
तावन्न नाम जेयावो मशकानामिवानलाः ॥ २६ ॥
उक्तं प्रकृते योजयति - दामेति ॥ २६ ॥
अन्तर्वासनया जन्तुर्दीनतामनुयातया ।
जितो भवत्यन्यथा तु मशकोऽप्यमराचलः ॥ २७ ॥
देहाद्यहम्भावग्राहिण्या अन्तर्वासनया
देहादिनाशेनात्मनाशसम्भावनया दीनतां कातरताम् । अन्यथा
तादृशवासनाभावे तु मशकोऽप्यमराचलो मेरुरिवाप्रकम्प्यो भवतीत्यर्थः
॥ २७ ॥
विद्यते वासना यत्र तत्र सा याति पीनताम् ।
गुणो गुणिनि हि द्वित्वं सतो दृष्टं हि नासतः ॥ २८ ॥
हि यस्माद्गुणिनि धर्मिणि सति पीनत्वाख्यो गुणो भवति । किञ्चोपचयमन्तरा न
पीनत्वसिद्धिः । उपचयश्च द्वितीयावयवसिद्धौ । तच्च द्वित्वं सतो द्रव्यस्य
दृष्टं नासत इत्यर्थः ॥ २८ ॥
अयं सोऽहं ममेदं चेत्येवमन्तः स्वासनम् ।
यथा दामादयः शक्र भावयन्ति तथा कुरु ॥ २९ ॥
दामादयो यथा येनोपायेन । अयं देहादिरेव स प्रसिद्धोऽहम् । इदं
जयपराजयपूजाजीवनादि मम इति भावयन्त्यभिमंस्यन्ते तथा तमुपायं
कुर्वित्यर्थः ॥ २९ ॥
या या जनस्य विपदो भावाभावदशाश्च याः ।
तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः ॥ ३० ॥
वासनातन्तुबद्धो यो लोको विपरिवर्तते ।
सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता ॥ ३१ ॥
यो विपरिवर्तते तस्य सा वासना अतिदुःखायेत्यर्थः ॥ ३१ ॥
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ३२ ॥
देहपादपसंस्थस्य हृदयालयगामिनः ।
तृष्णा चित्तखगस्येयं वागुरा परिकल्पिता ॥ ३३ ॥
हृदयपुण्डरीकमेवालयो नीडं तद्गामिनश्चित्तोपलक्षितजीवखगस्य ॥ ३३ ॥
दीनो वासनया लोकः कृतान्तेनापकृष्यते ।
रज्ज्वेव बालेन खगो विवशो भृशमुच्छ्वसन् ॥ ३४ ॥
रज्ज्वा तन्तुनेव ॥ ३४ ॥
अलमायुधभारेण सङ्गर भ्रमणेन च ।
वासनाया विपर्यासं युक्त्या यत्नाद्रिपोः कुरु ॥ ३५ ॥
वासनायाः शम्बरसङ्कल्पाहितनिरभिमानवासनायाः । विपर्यासं
वैपरीत्यम् । अभिमानोपचयमिति यावत् । रिपोर्दामादेः ॥ ३५ ॥
अन्तरा [अन्तरक्षुभिते इति पाठष्टीकाकृत्सम्मत इति भाति]
क्षुभिते धैर्ये रिपोरमरनायक ।
न शस्त्राणि न चास्त्राणि न शास्त्राणि जयन्ति च ॥ ३६ ॥
शत्रोरन्तः अक्षुभिते धैर्ये सतीति शेषः । शास्त्राणि औशनसादीनि नीतिशास्त्राणि
॥ ३६ ॥
दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च ।
अहङ्कारमयीं मत्तास्ते ग्रहीष्यन्ति वासनाम् ॥ ३७ ॥
अहङ्कारमयीं वासनां ते एते सङ्कल्पाद्बहीष्यन्ति ॥ ३७ ॥
यदा तेऽत्यज्ञपुरुषाः शम्बरेण विनिर्मिताः ।
वासनामाश्रयिष्यन्ति तदा यास्यन्ति जेयताम् ॥ ३८ ॥
तत्त्वज्ञेभ्यस्तेषु कोऽपकर्षो येन ते वासनां गृह्णीयुस्तत्राह - अस्यज्ञेति
॥ ३८ ॥
तत्तावद्युक्तियुद्धेन तान्प्रबोधयतामराः ।
यावदभ्यासवशतो भविष्यन्ति सवासनाः ॥ ३९ ॥
प्रबोधयत व्यवहारपदेषु जागरूकान्कुरुत ॥ ३९ ॥
ततो वश्या भविष्यन्ति भवतां बद्धवासनाः ।
तृष्णाऽप्रोताशया लोके न च केचन पेलवाः ॥ ४० ॥
केचन केचिदपि तृष्णया अप्रोताशयाश्चेन्न च ते पेलवाः ॥ ४० ॥
समविषममिदं जगत्समग्रं
समुपनतं स्थिरतां स्ववासनान्तः ।
चलचललहरीभरो यथाब्धा-
वत इह सैव चिकित्स्यतां प्रयाता ॥ ४१ ॥
यथा जलाशयान्तश्चलचलानामत्यन्तचपलानां विचित्रलहरीणां भरोऽतिशयो
जलात्मनैवास्ति तथा स्ववासनान्तरिदं समविषमं स्थिरतां प्रवाहनित्यतां
समुपनतं समुपगतं स्थितमित्यर्थः ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
पितामहवाक्यं नाम सप्तविंशः सर्गः ॥ २७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे पितामहवाक्यं
नाम सप्तविंशः सर्गः ॥ २७ ॥