षड्विंशः सर्गः २६
श्रीवसिष्ठ उवाच ।
इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।
सेनां सम्प्रेषयामास भूतलं देवनाशिनीम् ॥ १ ॥
दामव्यालकटादीनामुद्भूतानां रसातलात् ।
दैवतैः सह सङ्ग्रामो वर्ण्यतेऽत्र महोद्भटः ॥ १ ॥
इति विजेष्यते इत्यादिपूर्वोक्तप्रकारेण ॥ १ ॥
दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यश्च सायुधाः ।
उदगुर्भीमनिर्ह्रादाः सपक्षगिरिलीलया ॥ २ ॥
सागरेभ्यो वेलावनकुञ्जेभ्यो गिरिकन्दरेभ्यश्च यथामार्गलाभं उदगुः
ऊर्ध्व निश्चक्रमुः ॥ २ ॥
रोदसीकोटरं हस्तप्रहारहतभास्करम् ।
दानवाः पूरयामासुर्दामव्यालकटैधिताः ॥ ३ ॥
हस्तप्रहारैर्हतो निस्तेजस्कः कृतो भास्करो यस्मिंस्तथाविधं
रोदस्योर्द्यावापृथिव्योः कोटरमन्तरालाकाशम् । दामव्यालकटैरेधिता
वर्धिताः ॥ ३ ॥
अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
प्रलयान्त इवाक्षुब्धा भीमाः स्वर्वासिनां गणाः ॥ ४ ॥
उत्तस्थुर्युद्धायेति शेषः ॥ ४ ॥
देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः ।
अकालोल्बणकल्पान्तभीषणं भुवनान्तरे ॥ ५ ॥
अकाले उल्बणो दुःसहः कल्पान्तः प्रलय इव भीषणम् ॥ ५ ॥
पेतुः प्रलयपर्यस्तचन्द्रार्का इव दीप्तयः ।
शिरांसि कुण्डलोद्द्योततेजःपीततमांस्यथ ॥ ६ ॥
कुण्डलोद्योततेजोभिः पीततमांसि शिरांसि प्रलयपर्यस्तचन्द्रार्का दीप्तय इव
कबन्धात्पेतुः ॥ ६ ॥
जुघूर्णुर्भटनिर्मुक्तसिंहनादविराविताः ।
प्रलयानिलसम्पूरैः स्फुटहासा इवाद्रयः ॥ ७ ॥
प्रलयानिलानां सम्पूरैर्महाप्रवाहैः स्फुटनं स्फुटः । घञर्थे
कविधानात्कः । स एवान्तरधातुवैचित्र्यदन्तप्रकाशसाम्याद्धासो येषाम् ॥ ७ ॥
रेणुः शैलशिलातुल्यहेतिघातास्तभित्तयः ।
कुलाचलतटाभीरुविश्रान्तहरिमण्डलाः ॥ ८ ॥
भीरवः अत एव विश्रान्ता अन्तर्निलीना हरिमण्डलाः सिंहसमूहा येषु
तथाविधाः शैलशिलासदृशहेतीनां घातैरस्तभित्तयो भग्नवप्राः
[भङ्गवप्राः इति पाठः] । कुलाचलानां हिमवदादीनां तटाः
रेणुः दध्वनुः । रणतेर्लिट् ॥ ८ ॥
चेरुः परस्पराघातहतहेतिसमुत्थिताः ।
लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥ ९ ॥
विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।
कल्पतालवदुत्ताला वेतालास्तालतालिताः ॥ १० ॥
कल्पः संवर्तस्तदीयोत्पातभूततालवृक्षवदुत्तालाः ॥ १० ॥
प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।
व्योम्नि हेतिहतक्षुण्णा मौलिकुण्डलकोटयः ॥ ११ ॥
शान्ताः पयोधरा इव पांसवो यस्मिन्व्योम्नि मौलिकुण्डलकोटयो
भास्कराकारैरुपलक्षिता बभूवुरिति देहलीदीपन्यायेन सम्बध्यते ॥ ११ ॥
बभूवुर्भास्कराकारैः कल्पभूरुहधारिभिः ।
प्रहारदलिताद्रीन्द्रैर्दैत्यैर्निर्विवरा दिशः ॥ १२ ॥
प्रहरणायोत्पाटितकल्पभूरुहधारिभिः ॥ १२ ॥
जग्मुर्ज्वलदसिप्रान्तवातपातितभित्तयः ।
कणप्रकरतां शैलाः कल्पाग्निदलिता इव ॥ १३ ॥
असिप्रान्तलक्षणैर्वातैर्झञ्झापवनैः पातिता भित्तयो वप्राणि येषाम् ।
कणप्रकरतां चूर्णसमूहताम् ॥ १३ ॥
देवास्ते च समाजग्मुरश्वमेधैधिता इव ।
असुरानस्त्रविभ्रष्टाञ्जलदानिव वायवः ॥ १४ ॥
जगृहुस्तानथाक्रम्य जरठाखूनिवौतवः ।
तेऽपि ताञ्जगृहुर्मत्तानृक्षारूढानिव द्रुमान् ॥ १५ ॥
तानसुरान् रजठाखुन्वृद्धमूषकान् ओतवो मार्जारा इव ते असुरास्तान् देवान्
द्रुमान् रूढानारूढान् मत्तान् प्रमत्तपुरुषान् ऋक्षा भल्लूका इव जगृहुः
॥ १५ ॥
दोर्वृक्षविलसद्धेतिकुसुमाः शस्त्रपल्लवाः ।
रेजुः सुरासुराः फुल्ला वनलोला इव द्रुमाः ॥ १६ ॥
दोर्लक्षणेषु वृक्षेषु विलसन्त्यो हेतयः शस्त्राण्येव कुसुमानि येषाम् ॥ १६ ॥
अन्योन्यं पूरयामासुः शस्त्रपूरैर्दिशो दश ।
वनानि कुसुमव्रातैः सुमेराविव मारुतः ॥ १७ ॥
घोरं समभवद्युद्धं देवदानव सेनयोः ।
रोदोरन्ध्रोदुम्बरान्तर्महामशकसङ्घयोः ॥ १८ ॥
रोदोरन्ध्ररूपो य उदुम्बरान्तःप्रदेशस्तत्र
महामशकसङ्घप्राययोर्देवदानवसेनयोः ॥ १८ ॥
अथोदपतदुत्तालैर्लोकपालेभमण्डलैः ।
कल्पाभ्रस्फूर्जिताकारो दारुणः समरारवः ॥ १९ ॥
इदानीं दिग्गजादिप्रमृद्यमानजनरणकोलाहलं वर्णयति -
अथेत्यादिसप्तभिः ॥ १९ ॥
पिण्डग्रहेण नभसि भूभागमिव कुट्टिमम् ।
मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥ २० ॥
पिण्डग्रहेण घनीभावस्वीकारेण नभसि कुट्टिमं भूभागमिव कुर्वाण इति
शेषः । क्वचित्प्रदेशे मुष्टिग्राह्य इव क्वचिच्च मेघानां मन्थरं
जलभारमन्थरमुदरमिव पीवरो गम्भीर इति यावत् ॥ २० ॥
रथसम्पातसम्पिष्टशस्त्रशैलरटन्नटः ।
त्रुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः ॥ २१ ॥
रथसम्पातेन सम्पिष्टैः शस्त्रैः शैलेषु रटन् नट इव ताललयानुसारी ।
त्रुटद्धृदयानां निस्सत्त्वानां कर्कशाक्रन्दैर्घर्घरः ॥ २१ ॥
प्रलयप्रत्ययोल्लासिकल्पान्तारावबृंहणः ।
द्वादशादित्यसङ्घट्टद्रवत्काञ्चनपर्वतः ॥ २२ ॥
प्रलयस्य प्रत्ययैः कारणैरग्निवाय्वादिभिरुल्लासी यः कल्पस्य ब्रह्माह्णोऽन्ते
प्रसिद्ध आरावस्तस्य बृंहणः प्रतिगर्जनप्रायः । द्वादशादित्यानां
सङ्घट्टनेन मेलनेन द्रवन् यः काञ्चनपर्वतस्तदीयशब्द इवेत्यर्थः ॥ २२
॥
ब्रह्माण्डकुण्डसङ्घट्टात्परावृत्त्या च निर्गतः ।
महास्रोतःपयःपूरः सत्त्वाहत इवाकरः ॥ २३ ॥
सङ्घट्टादिति ल्यब्लोपे पञ्चमी । सङ्घट्टं प्राप्य परावृत्त्या चकारेण
स्वस्थानाच्च निर्गतः सत्त्वैः प्राणिभिराहतः आकरः सत्त्वाकरः महास्रोतसः
पयःपूरध्वनिरिव ॥ २३ ॥
चञ्चत्सपक्षशैलेन्द्रपक्षपातचलद्ध्वनिः ।
कठिनापूरणोद्धूतस्फुटच्छैलेन्द्रकन्दरः ॥ २४ ॥
चञ्चतां चलतां सपक्षशैलेन्द्राणां पक्षवातेनेव चलन् ध्वनिर्यत्र ।
कठिनैर्दुःश्रवैरापूरणैरुद्धूता उद्विग्नाः स्फुटन्तः श्रोत्रप्रायाः
शैलेन्द्रक्न्दराः येन ॥ २४ ॥
मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशाङ्गकः ।
रतिश्रुद्धुङ्घुमास्फोटघटितद्वीपजन्तुभूः ॥ २५ ॥
अमृतार्थं मथने मन्दरेणोद्धूतस्य दुग्धाब्धेः सङ्क्षोभध्वनिना
सदृशमङ्गं स्वरूपं यस्य । तत्रैवामृतोत्पत्तौ रत्या तदासक्त्या
शृण्वन्ति ये देवासुरास्तेषां हर्षोत्कर्षे घुङ्घुमा इव ध्वनन्त आस्फोटा
भुजास्फालन शब्दास्तैर्घटिता व्याप्ताः सप्तद्वीपलक्षणा जन्तुभुवः
प्राण्यावासायेन ॥ २५ ॥
सेनयोः क्षुब्धयोरासीद्युद्धमुद्धतदानवम् ।
निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥ २६ ॥
इत आरभ्य आसर्गसमाप्तेर्युद्धमेव वर्णयति - सेनयोरित्यादिना ॥ २६ ॥
महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।
अन्योन्याहतहेत्यादिचूर्णपूर्णाम्बरोदरम् ॥ २७ ॥
भुशुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् ।
शरमारुतनिर्लूनदैत्यदेवमुखाम्बुजम् ॥ २८ ॥
चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् ।
सेनाप्रहारकल्लोलवलनावलिताम्बरम् ॥ २९ ॥
हेत्युग्रवातनिष्पिष्टपतद्वैमानिकव्रजम् ।
अस्त्रोदिताब्धिवार्योघप्लावितव्योमपत्तनम् ॥ ३० ॥
हेतय एवोग्रवातास्तैर्निष्पिष्टाः पतन्तश्च वैमानिकव्रजा यत्र ।
अस्त्रैर्वारुणास्त्रादिभिरुदितस्याब्धेर्वार्योधैः प्लावितानि
व्योमपत्तनान्यमरावत्यादीनि यत्र ॥ ३० ॥
वहन्महास्त्रपातासिशूलशक्तिनदीशतम् ।
शैलपक्षोद्भटास्फोटलुठद्ब्रह्माण्डमण्डपम् ॥ ३१ ॥
शैलानां पक्षेषु पार्श्वेषु उद्भटैरास्फोटैर्लुठन् कम्पमानो
ब्रह्माण्डमण्डपो यत्र ॥ ३१ ॥
दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् ।
नारीहलहलारावरणत्कङ्कणमन्दिरम् ॥ ३२ ॥
लुठद्दैत्यबलोद्भूतमत्तास्रौघजलान्वितम् [बलोद्धूत इति
पाठः] ।
रक्तधौतनरौघोग्रमुक्तनादद्रवज्जनम् ॥ ३३ ॥
लोकपानीकपाम्भोजच्छन्नाच्छन्नयमान्वितम् ।
पुनः सुरासुरैर्घातैर्दृष्टसैन्यकुलाकुलम् ॥ ३४ ॥
लोकपानामिन्द्रादीनामनीकपाः सेनानायकास्तल्लक्षणेष्वम्भोजेषु भ्रमर इव
कदाचिन्मृतानां प्राणहरणाय च्छन्नः कदाचिद्युद्धार्थमच्छन्नः
प्रकटश्च यो यमस्तेनान्वितम् । पलायनकाले घातैः प्रहारैः पुनः
परावृत्त्य दृष्टेनार्थात्प्रहरता सैन्यकुलेनाकुलम् ॥ ३४ ॥
सपक्षपर्वताकारदानवाद्रिगमागमैः ।
वहच्छवशवाशब्दभूरिभाङ्कारभीषणम् ॥ ३५ ॥
शवशवेत्यनुकरणशब्दरूपैर्भूरिभिर्भाङ्कारैर्भीषणम् ॥ ३५ ॥
आयुधाग्रविभिन्नोग्रदैत्यपर्वतनिर्झरैः ।
रक्तैररुणिताशेषवसुधार्णवपर्वतम् ॥ ३६ ॥
उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरम् ।
धृतासङ्ख्यासुरेभाश्वमनुष्यशवपर्वतम् ॥ ३७ ॥
धृता असङ्ख्यसुरेभाश्वमनुष्यशवा यैस्तथाविधाः पर्वता मेर्वादयो
यत्र ॥ ३७ ॥
सुतालोत्तालनाराचराजिरोचितवारणम् ।
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ॥ ३८ ॥
कल्पाभ्रपटलासारधारादलितपर्वतम् ।
महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥ ३९ ॥
कुपिताग्निज्वलज्ज्वालाजालज्वलितदानवम् ।
एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥ ४० ॥
कुपिताग्नीति देवपराक्रमः । एकाञ्जलीत्यसुरपराक्रमः ॥ ४० ॥
चण्डदैत्यातिसम्भारशिलीकृतमहाज्वलम् ।
वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥ ४१ ॥
चण्डैर्दैत्यैः शैलशिलाद्यतिसम्भारैः प्रक्षिप्तैः शिलीकृतः महान् ज्वलतीति
ज्वलोऽग्निर्यत्रेति दैत्यपराक्रमः ।
वनव्यूहलक्षणेन्धनप्रयुक्ताभिरन्न्यर्चिर्भिर्द्राविता अत एवाम्बुप्रायाः
शिलोच्चया यत्रेति देवपराक्रमः । एवमग्रेऽपि यथायोग्यं बोध्यम् ॥ ४१ ॥
अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।
मायासूर्यगणोद्द्योतैः पीतातनुतमःपटम् ॥ ४२ ॥
मायाग्निवर्षनिष्पीतकलाभ्रघनवर्षणम् ।
ससीत्काराग्निवमनशस्त्रसङ्घट्टवर्षणम् ॥ ४३ ॥
कला मायाकौशलं तत्प्रयुक्तानामभ्राणां धनं वर्षणं यत्र ॥ ४३ ॥
वज्रवर्षास्त्रनिर्धूतशैलवर्षास्त्रसम्भ्रमम् ।
निद्राबोधास्त्रयुद्धाढ्यं सङ्घर्षावग्रहाश्रयम् ॥ ४४ ॥
सङ्घर्षः पराभिभवः स एवावग्रहः प्रागुक्तवर्षप्रतिबन्धस्तदाश्रयम्
॥ ४४ ॥
वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्मरणान्वितम् ।
ब्रह्मास्त्रयुद्धविषमं तमस्तेजोस्त्रसारितम् ॥ ४५ ॥
जलाग्न्योरस्मरणेन व्यामोहेनान्धितम् ॥ ४५ ॥
अस्त्रोद्गीर्णायुधानीकनीरन्ध्रसकलाम्बरम् ।
शिलावर्षास्त्रदलितं वह्निवर्षास्त्रभासुरम् ॥ ४६ ॥
आसुरपैशाचाद्यस्त्रैरुद्गीर्णैस्तोमरमुसलमुद्गराद्यायुधानीकैर्नीरन्ध्रं
सकलाम्बरं यत्र ॥ ४६ ॥
पताकास्पृष्टशशिकश्चक्रचीत्कारगर्जितैः ।
मुहूर्तेन रथैर्लङ्घितोदयास्तमयाचलम् ॥ ४७ ॥
वज्रप्रहाराविरतम्रियमाणमहासुरम् ।
शुक्रामरमहाविद्याजीवमानमहासुरम् ॥ ४८ ॥
शुक्रस्य अमराख्या महाविद्या मृतसञ्जीवनविद्या तया जीवमाना महासुरा
यत्र ॥ ४८ ॥
विद्रवद्देवसङ्घातं जयप्रोड्डामरामरम् ।
शुभग्रहमहाकेतुमालिकानामितस्ततः ॥ ४९ ॥
क्वचिद्विद्रवद्देवसङ्घातं क्वचिज्जयप्रोड्डामरामरम् ।
क्वचिच्छुभग्रहाणां महतीनां केतुमालिकानां च
बुद्धेर्दर्शनार्थमितस्तत उद्धरकन्धरं उन्नमितकण्ठम् ॥ ४९ ॥
उत्पातमङ्गलुघानां बुद्धेरुद्धरकन्धरम् ।
साद्रिखोर्वीसमुद्रद्युजगद्रुधिरवारिधि ॥ ५० ॥
क्वचित्तु उत्पातानां मङ्गलौघानां बुद्धेर्दर्शनार्थमुद्धरकन्धरम् ।
फलस्यापि हेतुत्वविवक्षणाद्वुद्धेरिति पञ्चमी । अद्रिभिः स्वेन समुद्रेण दिवा
च सहितं जगदेव रुधिरवारिधिर्यत्र ॥ ५० ॥
फुल्लैककिंशुकवनं कुर्वद्दुर्वारवैरतः ।
पर्वतप्रतिमासङ्ख्यं शवपूर्णमहार्णवम् ॥ ५१ ॥
जगदित्यनुवर्तते । कुर्वदिति पूर्वोत्तरार्धान्वयि । उभयत्रापि रुधिरेणेति शेषः ॥
५१ ॥
समग्रतरुशाखाग्रलम्बलोलमहाशवम् ।
दीप्यमानैः स्ववातार्तैः पक्षपुष्पैर्लसत्फलैः ॥ ५२ ॥
शरव्रातस्य वनत्वेन रूपणाय विशिनष्टि - दीप्यमानैरित्यादि ।
अर्करश्मिप्रतिबिम्बपल्लवैर्दीप्यमानैः स्वस्य वेगवातेनार्तैश्चञ्चलैः
कङ्कादिपक्षा गरुत एव पुष्पाणि येषां तैः । लसन्ति फलानि लोहभागा एव
श्लेषात्फलानि येषां तैः ॥ ५२ ॥
तालोत्तालैः शरव्रातवनैर्व्याप्तनभस्थलम् ।
पर्वतप्रतिमासङ्ख्यकबन्धशतबाहुभिः ॥ ५३ ॥
तालेभ्योऽप्युत्तालैरुच्छ्रितैः ॥ ५३ ॥
नृत्यद्भिः पातिताम्भोदविमानसुरतारकम् ।
शरशक्तिगदाप्रासपट्टिशप्रोतपर्वतम् ॥ ५४ ॥
कबन्धशतबाहुभिः पातिता अम्भोदा विमानानि सुरस्तारकाश्च यत्र ।
पट्टिशान्तैः प्रोताः सन्तताः पर्वता यत्र ॥ ५४ ॥
लोकसप्तकविभ्रष्टकुड्यखण्डचिताम्बरम् ।
अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि ॥ ५५ ॥
यद्यप्यूर्ध्वं षडेव लोकास्तथापि
भूलोकस्थकुड्यखण्डानामप्युड्डयनेन
भ्रंशसम्भवाल्लोकसप्तकेत्युक्तम् ॥ ५५ ॥
एवं शब्दशतोन्नादपातालतलवारणम् ।
विनायककराकृष्टदीर्घदानवपर्वतम् ॥ ५६ ॥
एवं प्रागुक्तप्रकारैः शब्दशतैरुन्नादाः प्रतिगर्जन्तः पातालतलवारणा
दिग्गजा यत्र ॥ ५६ ॥
एकदिक्करनिष्पन्दसिद्धसाध्यमरुद्गणम् ।
पलायमानगन्धर्वकिन्नरामरचारणम् ॥ ५७ ॥
दिग्भेदकराणां सूर्येन्द्रादीनामेकस्यां दिशि दैवान्मिलने एकदिक्करा
असुरभयान्निष्पन्दाश्च सिद्धसाध्यमरुद्गणा यत्र ॥ ५७ ॥
वबुरशनिनिपातखण्डिताङ्गा
दलितशिलाशकलाः ककुम्मुखेषु ।
प्रलयसमयसूचकाः सुराणां
सुरतरुघर्घरघस्मराः समीराः ॥ ५८ ॥
इदानीमौत्पातिकं झञ्झापवनं वर्णयति - ववुरिति ।
अशनिनिपातैर्वैद्युताग्निपातनैः खण्डितप्राण्यङ्गा दलितशिलाशकलाश्च ।
सुराणां प्रलयसमयस्य सूचकाः सुरतरुघर्घराणां
कल्पवृक्षसम्बन्धिभ्रमरकोकिलादिध्वनीनां घस्मरा
भक्षकास्तिरोधायका इति यावत् । समीरा झञ्झामारुता ववुः ॥ ५८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
दामव्यालकटसङ्ग्रामवर्णनं नाम षड्विंशः सर्गः ॥ २६ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे स्थितिप्रकरणे
दामव्यालकटसङ्ग्रामवर्णनं नाम षड्विंशः सर्गः ॥ २६ ॥