२५

पञ्चविंशः सर्गः २५

श्रीवसिष्ठ उवाच ।

अस्मिन्विहरतो लोके लोकारामस्य धीमतः ।
श्रेयसे तिष्ठतो यत्नमुत्तमार्थाभिधायिनः ॥ १ ॥

सेनापतीनां त्रिदशैः शम्बरस्यात्र सूदनम् ।
दामव्यालकटोत्पत्तिस्तैर्जयाशा च वर्ण्यते ॥ १ ॥

निर्वासनस्यापि शनैर्वासनासञ्चयेन देहाद्यभिमानजनने
जन्ममरणपरम्परा भवति किं पुनर्विवेकविरलवासनस्येति
कैमुतिकन्यायप्रदर्शनमुखेनेषदात्मव्युत्पन्नानामलब्धपूर्णनिष्ठाना
ं मन्दमध्यमाधिकारिणां
वासनोच्छेदप्रयत्नदार्ढ्यावश्यकताप्रदर्शनपरां
दामव्यालकटाख्यायिकां विवक्षुर्वसिष्ठो रामस्य
तच्छुश्रूषोत्पादनायोक्तमेव विविच्य पुनरनुवदति - अस्मिन्निति द्वाभ्याम् ।
लोका जना आरमन्ते विश्राम्यन्त्यस्मिन्निति लोकारामस्तस्य ते यत्नं तिष्ठतः
अनुतिष्ठतः उत्तमान् शमदमाद्यर्थानभिधत्ते स्वात्मनि प्रकाशयति
तच्छीलस्य ॥ १ ॥

दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासदृढस्थित्या त्वं विशोको भवेति च ॥ २ ॥

दामव्यालकटन्यायो माभूदिति भीमभासदृढस्थित्या विशोको भवेति च
उदाहृतं प्रागिति शेषः ॥ २ ॥

श्रीराम उवाच ।

दामव्यालकटन्यायो मा ते भूदित्युदाहृतम् ।
ब्रह्मन् किमेतद्भवता भवतापापहारिणा ॥ ३ ॥

एवं पुनरनुवादेनोत्थापितजिज्ञासो रामस्तदुभयोक्तेर्विस्तरं पृच्छति -
दामेत्यादिना ॥ ३ ॥

भीमभासदृढस्थित्या त्वं विशोको भवेति च ।
प्रभो किमुक्तं भवता भवतापापहारिणा ॥ ४ ॥

उदारयैतया शुद्धं सम्प्रबोधय मां गिरा ।
घनस्तापापहारिण्या प्रावृषीव कलापिनम् ॥ ५ ॥

एतया एतत्कथाद्वयवर्णनरूपया । घनो मेघः । कलापिपक्षे
सम्प्रबोधनमुल्लासनम् ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

दामव्यालकटन्यायं भीमभासदृढस्थितिम् ।
शृणु राघव तच्छ्रुत्वा यदिष्टं तत्समाचर ॥ ६ ॥

आसीत्पातालकुहरे सर्वाश्चर्यमनोरमे ।
शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः ॥ ७ ॥

मायालक्षणानां मणीनां महार्णव इवाकरः ॥ ७ ॥

आकाशनगरोद्यानरचितासुरमन्दिरः ।
कृत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः ॥ ८ ॥

तत्त्वमेव प्रपञ्चयति - आकाशेत्यादिना । आकाशकल्पिते नगरे उद्यानेषु
रचितान्यसुरमन्दिराणि येन ॥ ८ ॥

शिलाशकलसम्भूतपद्माद्यैरमराचलः ।
अनन्तविभवारम्भपरिपूरितदानवः ॥ ९ ॥

शिलाशकलानीव सम्भूतैः सुलभैः पद्माद्यः
पद्मरागाद्यैर्मणिभिर्निधिश्च अमराचलो मेरुरिव सम्पन्नः ॥ ९ ॥

गृहरत्नाङ्गनागेयजितामरवधूध्वनिः ।
चन्द्रबिम्बकलापूर्णक्रीडोपवनपादपः ॥ १० ॥

गृहे रत्नभूतानामङ्गनानां गेयैर्गीतैर्जिता अमरवधूनां ध्वनयो
गीतिसम्पदो यस्य ॥ १० ॥

फुल्लनीलोत्पलव्यूहकरालरमणालयः ।
रत्नहंसध्वनाहूतहेमाम्बुरुहसारसः ॥ ११ ॥

फुल्लैर्नीलोत्पलव्यूहैः करालः कामिभयङ्करो रमणालयः क्रीडागृहं
यस्य । ध्वननं ध्वनिस्तेनाहूतः ॥ ११ ॥

हेमपादपशाखाग्रकृताम्भोरुहकुड्मलः ।
करञ्जजालप्रपतन्मन्दारकुसुमाकरः ॥ १२ ॥

तर्कुयन्त्रमयानन्तदैत्यनिर्जितवासवः ।
हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥ १३ ॥

तर्कुयन्त्रं कर्तरीयन्त्रं तन्मयैरनन्तैर्बहुभिर्दैत्यैर्निर्जितो वासवो येन ।
हिममिव शीतैरनलज्वालैर्निर्मितो रचित उद्यानमण्डपो येन ॥ १३ ॥

सर्वत्र कुसुमोद्यानजितानन्दननदनः ।
मायासर्वहृतव्यालमलयाचलचन्दनः ॥ १४ ॥

मायया सर्वाणि हृतानि व्यालसहितानि मलयाचलचन्दनानि येन ॥ १४ ॥

हेमश्रीलोकलावण्यनिर्जितान्तःपुराङ्गनः ।
नानाकुसुमसम्भारजानुदघ्नगृहाङ्गणः ॥ १५ ॥

हेम्नः श्रीर्लोकलावण्यानि च निर्जितानि याभिस्तथाविधा अन्तःपुराङ्गना यस्य ।
निष्ठापरनिपातश्छान्दसः ॥ १५ ॥

क्रीडार्थमृन्मयेशानजितचक्रगदाधरः ।
अजस्रोड्डीनरत्नौघताराढ्यखपुरान्तरः ॥ १६ ॥

क्रीडार्थेन मृन्मयेनेशानेन जितश्चक्रगदाधरो विष्णुर्येन ।
अजस्रमुड्डीनैः खद्योतबद्भ्रमद्भिः रत्नौघैस्ताराढ्यं तारकितं खं
पुरान्तरं च यस्य ॥ १६ ॥

निशीथाखिलपातालशतचन्द्रनभस्तलः ।
स्वशालभञ्जिकालोकगीतगीतिरणोत्कटः ॥ १७ ॥

अमावास्यादिनिशीथेष्वखिले पाताले शतचन्द्रं नभस्तलं यस्य ।
स्वरचितशालभञ्जिकामर्चां आलोकयन्तीति स्वशालभञ्जिकालोकास्तैः
स्वशालभञ्जिकालक्षणैर्लोकैर्वा गीता गीतिः प्रबन्धो यस्य तथाविधो
रणोत्कुटो युद्धशौण्डीर्यं यस्य ॥ १७ ॥

मायैरावणनागेन्द्रविद्रुतामरवारणः ।
त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥ १८ ॥

विभवेषु स्त्रीहस्त्यश्वादिषूत्कर्षैः रत्नभूतैः स्त्रीरत्नादिभिः ॥ १८ ॥

सर्वसम्पत्तिसुभगः सर्वैश्वर्यनमस्कृतः ।
समस्तदैत्यसामन्तवन्दितोग्रानुशासनः ॥ १९ ॥

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।
सर्वबुधिगणाधाररत्नमण्डलमण्डितः ॥ २० ॥

वनग्रहणादिच्छया मायिकसहस्रायुतादिभुजसम्पत्तिर्गम्यते ॥ २० ॥

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।
बभूव विपुलं सैन्यमासुरं सुरनाशनम् ॥ २१ ॥

तस्य शम्बरस्य । कठिना दुःसहा उड्डामरा भीषणा नभश्चरी वा
आकृतिर्यस्य ॥ २१ ॥

तस्मिन्मायाबले सुप्ते देशान्तरगते तथा ।
तत्सैन्यं तरसा जघ्नुश्चिद्रं प्राप्य किलामराः ॥ २२ ॥

माया बलं यस्य तथाविधे तस्मिन्मये ॥ २२ ॥

अथ शम्बरदैत्येन मुण्डिक्रोधद्रुमादयः ।
रक्षार्थमथ सामन्ताः स्वसेनासु नियोजिताः ॥ २३ ॥

सामन्ताः सेनापतयः ॥ २३ ॥

तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकाः ।
व्योमान्तरगताः श्येनाः कलविङ्कानिवाकुलान् ॥ २४ ॥

सेनापतीन्पुनश्चान्यांश्चकारासुरसत्तमः ।
चपलानुद्भटारावांस्तरङ्गानिव सागरः ॥ २५ ॥

देवास्तानपि तस्याशु जघ्नुस्तेन [जग्मुः इति पाठः] स कोपवान् ।
जगामामरनाशाय परिपूर्णं त्रिविष्टपम् ॥ २६ ॥

परिपूर्णं देवैरित्यर्थाद्गम्यते ॥ २६ ॥

तस्मात्तन्मायया भीताः सुरास्तेऽन्तर्धिमाययुः ।
मेरुकाननकुञ्जेषु मृगा गौरीहरेरिव ॥ २७ ॥

गौरीहरेर्गौरीवाहनसिंहाद्भीता मृगा इव ॥ २७ ॥

क्रन्दत्क्षुद्रामरगणं बाष्पक्लिन्नाप्सरोमुखम् ।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥ २८ ॥

विहरन्कुपितस्तत्र लब्धमाहृत्य सुन्दरम् ।
लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम् ॥ २९ ॥

तत्र स्वर्गे लुण्ठनेन लब्धं सुन्दरं रत्नादि आहृत्य आदाय ॥ २९ ॥

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।
देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् ॥ ३० ॥

अदर्शनमन्तर्धानम् ॥ ३० ॥

अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।
क्रियन्ते यत्नतस्तांस्तु जघ्नुर्यत्नपराः सुराः ॥ ३१ ॥

तांस्तान् जघ्नुर्यावच्छम्बर उद्वेगमायातः सन् जज्वालेति परेणान्वयः ॥ ३१ ॥

यावदुद्वेगमायातः शम्बरः कोपवान्भृशम् ।
तार्णोऽतिमात्रमनल इव जज्वाल सोच्छ्वसन् ॥ ३२ ॥

सोच्छ्वसन्निति सोचि लोपे चेत्पादपूरणम् इति सोर्लोपः ॥ ३२ ॥

त्रैलोक्यमपि चान्विष्यन्न देवाṁल्लब्धवानथ ।
परेणापि प्रयत्नेन निधानमिव दुष्कृती ॥ ३३ ॥

ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् ।
बलरक्षार्थमुदितान्कालान्मूर्तिमिव स्थितान् ॥ ३४ ॥

बलं सैन्यं तस्य रक्षार्थमुदितानुद्युक्तान् । कालान् भूतो भविष्यन् वर्तमान
इति त्रिधा प्रसिद्धान् ॥ ३४ ॥

निर्वृत्ता मायया भीमा बलपादपवाहिनः ।
उदगुस्ते महामायाः पक्षक्षुब्धा इवाद्रयः ॥ ३५ ॥

बलमिव पादपान्वहन्ति तच्छीलानित्यद्रिपक्षे ॥ ३५ ॥

दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः ।
यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः ॥ ३६ ॥

दमयति शत्रूनिति दमः स एव दामः । व्याल इव वेष्टयति परानिति व्यालः ।
कटत्यावृणोति परास्त्रेभ्यः स्वानिति कट इति व्युत्पत्त्यान्वर्थैर्नामभिः
परिलाञ्छिता अङ्किताः ॥ ३६ ॥

अभावात्कर्मणां ते च प्राक्तना नच वासनाः ।
निर्विकल्पकचिन्मात्रपरिस्पन्दैकधर्मकाः ॥ ३७ ॥

पूर्वेभ्यस्तेषु कोऽतिशये हेतुस्तमाह - अभावादित्यादिना । ते दामादयः
प्राक्तनाः पूर्वसिद्धजीवा न । नच वासनास्तेषां सन्ति । कुतः । कर्मणां
धर्मादीनामभावात् । किन्तु निर्विकल्पको भयशङ्कापलायनादिविकल्पशून्यो
यश्चिन्मात्रसन्निधाननिमित्तदेहपरिस्पन्दस्तदेकधर्मकाः ॥ ३७ ॥

कर्मजीवकलां तन्वीमसारां च मनोभिदाम् ।
अपुष्टां कृत्रिमामन्तश्चोदयओदयमागताः ॥ ३८ ॥

ननु यदि तेषां कर्मकामवासना न सन्ति तर्हि जन्मबीजाभावाज्जन्मैव न स्यात्
। यदि च बीजाभावेऽपि जन्म स्यात्तर्हि मुक्तानामपि पुनर्जन्म स्यादिति । तथा
चाग्रेऽपि वक्ष्यति विद्यते वासना यत्र तत्र सा याति पीनताम् इति । अतोऽसङ्गतं
कर्माद्यभाववचनमित्याशङ्क्याह - कर्मजीवकलामिति । नैते स्वतन्त्रा
जीवाः किन्तु अन्तश्चोदयति प्रेरयतीत्यन्तश्चोदा अन्तर्यामिचित् तया निमित्तभूतया
कर्मजीवस्य शम्बरस्य कलां कौशलरूपां तन्वीमल्पपरिमाणामपुष्टां
कर्मवासनाद्यनुपचितां कृत्रिमां मायाकल्पनारूपामत एवासारां
भोगसारशून्यां मनोभिदां सर्गसङ्कल्पवृत्तिमादाय
उदयमाविर्भावमागताः । तथा चैन्द्रजालिकसृष्टपुरुषान्तराणामिव
स्वतन्त्रकर्माभावेऽप्याविर्भावलक्षणं जन्मोपपद्यत इति भावः । अथवा
विपश्चिदुपाख्यानवक्ष्यमाणन्यायेन
शम्बरजीवस्यैवाग्निविस्फुलिङ्गवदन्तश्चाद्बहिश्च विभागात्कर्मजीवस्य
कलामंशभूतां तत्र कर्मवासनादीनामत्यल्पत्वादपुष्टां मनो
मनःप्रायां कृत्रिमां भिदां प्राप्य देहाद्युपाध्युदयादुदयं जन्म
आगताः प्राप्ताः । तथाच
योगिदेहभेदवच्छम्बरकामकर्मवासनाबीजवशादेवैषां जन्मसिद्धेर्न
पृथक्तदपेक्षास्ति । एतावांस्तु विशेषः । योगिनां देहभेदे तत्त्वज्ञानेन
बाधितत्वान्न प्रतिशरीरं कामादिजन्मबीजोपचयो दामव्यालकटादिदेहे
त्वज्ञत्वात्तदुपचये जन्मपरम्पराप्राप्तिरिति न काचिदनुपपत्तिरिति भावः ॥ ३८ ॥

ते ह्यन्धपारम्पर्येण काकतालीयवद्भटाः ।
प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः ॥ ३९ ॥

अत एव योगिवदेव तेषां यावद्वासनोपचयं व्यवहार इत्याह - ते हीति ॥ ३९ ॥

अर्धसुप्ता यथा बालाः स्वाङ्गै रिङ्गन्ति केवलम् ।
वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि ॥ ४० ॥

अप्रबुद्धवासनानां क्व चेष्टा दृष्टेति चेत्तत्राह - अर्धसुप्ता इति ।
रिङ्गन्ति चेष्टन्ते ॥ ४० ॥

नाभिपातं न चापातं न विदुस्ते पलायनम् ।
न जीवितं न मरणं न रणं न जयाजयौ ॥ ४१ ॥

अभिपातं युद्धकाले आभिमुख्येन शत्रूणां पतनम् । आपातं
विश्रान्तविश्वस्तेषु अकस्माच्छत्रूणां पतनम् ॥ ४१ ॥

केवलं सैनिकानग्रे दृष्टानाहननोद्यतान् ।
अभिजग्मुः परानाजौ प्रहारदलिताद्रयः ॥ ४२ ॥

यदि न विदुस्तर्हि स्वयं कथं शत्रूनभिपेतुस्तत्राह - केवलमिति । अभिपत्य
प्रहर्तव्यमित्येतादृशशम्बरसङ्कल्पवासनामात्रशरीरत्वादभिमुख##-

शम्बरश्चिन्तयामास परितुष्टमनाः परम् ।
विजेष्यते हि मे सेना मायासुरसुरक्षिता ॥ ४३ ॥

मायाकृतैरसुरैः सुरक्षिता ॥ ४३ ॥

अतिबलासुरदोर्द्रुमपालिता
मम चमूः स्थिरतामलमेष्यति ।
अमरवारणदन्तविघट्टने-
ष्वमरपर्वतहेमशिला यथा ॥ ४४ ॥

अमरवारणा दिग्गजास्तेषां दन्तविघट्टनेष्वमरपर्वतो मेरुस्तदीया
हेमशिलेव शत्रुप्रहारेष्वपि अलमत्यन्तं स्थिरतामेष्यति प्राप्स्यति ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥