चतुर्विंशः सर्गः २४
श्रीवसिष्ठ उवाच ।
महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥ १ ॥
इह प्राबल्यमक्षाणां जयोपायश्च वर्ण्यते ।
तेन प्रसादबोधाभ्यां वासनाक्षय ईर्यते ॥ १ ॥
तत्रेन्द्रियजये उपायप्रयत्नाधिक्यं विधित्सुरिन्द्रियाणां दुर्जयतामाह -
महानरकेति ।
तपनाऽवीचिमहारौरवरौरवसङ्घातकालसूत्रसञ्ज्ञकमहानरक##-
वारणा गजा येषाम् । आशास्तृष्णास्ता एव शरशलाकास्ताभिराढ्याः ॥ १ ॥
स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥ २ ॥
कुकार्याणि पापानि तान्येव महान्तः कोशा धनसञ्चया येषाम् ॥ २ ॥
कलेवरालयं प्राप्य विषयामिषगृध्नुकाः ।
अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥ ३ ॥
कलेवरलक्षणमालयं कुलायम् । विषयलक्षणेष्वामिषेषु गृध्नुका
अभिकाङ्क्षिणः । अक्षीणीन्द्रियाण्येव गृध्नाः । कार्यं कर्तु
योग्यमनिषिद्धं कर्म अकार्य निषिद्धं कर्म ते एवोग्रपक्षौ
ताभ्यामुग्रपक्षिणः ॥ ३ ॥
विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाशा नागबलं यथा ॥ ४ ॥
शठा धूर्तास्ते इन्द्रियारयो येन गृहीता निगृहीतास्तस्य पुंसोऽङ्गानि
शान्त्यादीनि न लुम्पन्ति । नागबलं गजघटाम् ॥ ४ ॥
आपातरमणीयेषु रमते विषयेषु यः ।
विवेकधनवानस्मिन्कुकलेवरपत्तने ॥ ५ ॥
तानरीन् जेतुं प्रथमं विवेकधनसञ्चयः कार्य इत्याशयेनाह - आपातेति
॥ ५ ॥
इन्द्रियारिभिरन्तस्थैरवशो नाभिभूयते ।
न तथा सुखिता भूपा मृन्मयोग्रपुरीजुषः ॥ ६ ॥
मृन्मयोग्रत्वाभ्यां पुरीविशेषणं
स्वशरीरपुर्यास्तद्विलक्षणत्वेनोत्कर्षप्रतिपादनार्थम् ॥ ६ ॥
यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ।
आक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ॥ ७ ॥
इन्द्रियादिनिग्रहस्य फलान्याह - आक्रान्तेत्यादिना ॥ ७ ॥
वसन्त इव मञ्जर्यो वर्धन्ते शुद्धबुद्धयः ।
प्रक्षीणाचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥ ८ ॥
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
तावन्निशीथवेताला वल्गन्ति हृदि वासनाः ॥ ९ ॥
निशीथपदेनाज्ञानान्धकारो गम्यते ॥ ९ ॥
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ।
भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् ॥ १० ॥
स्वदेहनगरीसाम्राज्ये भृत्यमन्त्रिसामन्तादिकार्यं शुद्धं मन एव
निर्वाहयतीत्याह - भृत्य इति ॥ १० ॥
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ।
लालनात्स्निग्धललना पालनात्पावनः पिता ॥ ११ ॥
स्निग्धा स्नेहवती । ललना भार्या ॥ ११ ॥
सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ।
स्वालोकितः शास्त्रदृशा बुद्ध्यान्तः स्वानुभावितः ॥ १२ ॥
मनसः पितृत्वे हेत्वन्तरमप्याह - स्वालोकित इति । शास्त्रदर्शितया
देवतादृशा अनुल्लङ्घ्यशासनत्वेन चिन्मात्रस्पन्दत्वेन च स्वालोकितः ।
बुद्ध्या स्नेहबुद्ध्या विवेकबुद्ध्या च ॥ १२ ॥
प्रयच्छत्ति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ।
सुदृष्टः सुपरामृष्टः सुदृढः सुप्रबोधितः ॥ १३ ॥
परां स्वार्जितधनादिलक्षणां तत्त्वज्ञानलक्षणां च सिद्धिम् । आत्मानं
देहं मनोरूपं च त्यक्त्वा । सुदृढ इति विशेषणाद्वज्रमणिरिति गम्यते ।
आदौ शास्त्रदर्शितपरीक्षादृशा सुदृष्टः खनिस्थाने भाग्यादृष्टश्च ।
तत आचार्यसतीर्थ्यादिसहायेन स्वानुभवपर्यन्तं सुपरामृष्टः सम्यक्
शाणोल्लेखनपरामृष्टश्च । ततो निदिध्यासनेन सुदृढो
घनघातसहस्राभेद्यश्च । ततस्तत्त्वसाक्षात्कारेण
सुप्रबोधितस्तेजोव्यञ्जकरसक्षालनसुप्रबोधितश्च ॥ १३ ॥
सुगुणे योजितो भाति हृदि हृद्यो मनोमणिः ।
जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ॥ १४ ॥
ततः सुगुणे पञ्चमादिभूमिकाभेदे योजितः शोभनगुणवति स्वर्णहारादौ
योजितश्च । मणिरूपकप्रस्तावेऽपि रामस्यान्तरा मन्त्री सत्कार्यकारणादिति
प्रागुक्ते सत्कार्यविशेषजिज्ञासामुपलक्ष्याह - जन्मेति । शुभकर्मणि
शास्त्रीये प्रवृत्तस्येति शेषः । अनर्थपरम्परालक्षणानां
जन्मवृक्षाणां कुठाराणि च्छेदकानि तथा उदर्कस्तदुत्तरफलभूत उदयो
निरतिशयानन्दाविर्भावो येभ्यस्तथाविधानि च
साधनचतुष्टयसम्पत्त्यादिसाक्षात्कारान्तानि कर्माणि सत्कार्याणि दिशति ।
कारयतीत्यर्थः ॥ १४ ॥
दिशत्येवं मनोमन्त्री कर्माणि शुभकर्मणि ।
एवं मनोमणिं राम बहुपङ्ककलङ्कितम् ॥ १५ ॥
इत्थं रामं समाधाय प्रस्तुतं मणिरूपकमेवावलम्ब्योपसंहरति -
एवमिति । अथवा
मणिमन्त्रौषधीनामचिन्त्यप्रभावत्वान्मन्त्रकार्यसिद्धिवैचित्र्याणां
मणिनापि सम्भवान्मनोमणिरेव मन्त्रीत्युक्तः । तस्य च जन्मवृक्षच्छेदो
निरतिशयानन्दोदयश्च सिद्धिवैचित्र्ये इति तात्पर्येण मणिरूपकानुसारेणैव
योज्यम् ॥ १५ ॥
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव ।
भवभूमिषु भीमासु विवेकविकलो वसन् ॥ १६ ॥
एवं विवेकस्य निरतिशयशुभोदर्कतामुक्त्वा
महानर्थोदर्कात्तत्प्रमादाद्रामं वारयति - भवभूमिष्वित्यादिना ॥ १६ ॥
मा पतोत्पातपूर्णासु [पातोत्पात इति पाठः] विवशः प्राकृतो
यथा ।
संसारमायामुदितामनर्थशतसङ्कुलाम् ॥ १७ ॥
उत् ऊर्ध्वात्पातयन्तीत्युत्पाता रागादयस्तैः पूर्णासु ॥ १७ ॥
मा महामोहमिहिकामिमां त्वमवधीरय ।
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ॥ १८ ॥
मावधीरय महारोगमिव नोपेक्षयावमंस्था इत्यर्थः ।
प्रस्तुतमिन्द्रियारिजयोपायोपदेशमुपसंहरति - विवेकमिति ॥ १८ ॥
इन्द्रियारीनलं जित्वा तीर्णो भव भवार्णवात् ।
असत्येव शरीरेऽस्मिन्सुखदुःखेष्वसत्सु च ॥ १९ ॥
ननु उत्पत्तिप्रकरणे देहेन्द्रियादीनामसत्त्वमुपपादितं तत्कुतोऽत्र तज्जयोपाय
उपदिश्यते तत्राह - असत्येवेति ॥ १९ ॥
दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासदृढस्थित्या त्वं यास्यसि विशोकताम् ॥ २० ॥
तत्त्वदृशा असत्त्वेऽपि मोहदृशा तत्सत्त्वस्यानुभविकत्वादचिकित्सने
वासनादार्ढ्येन दामव्यालकटन्यायेनानर्थप्राप्तिर्दुर्वारा ।
विवेकाद्यभ्यासेन तच्चिकित्सने तु
भीमभासदृढन्यायान्नानर्थप्राप्तिरित्याह - दामेति ॥ २० ॥
अयमहमिति निश्चयो वृथा य-
स्तमलमपास्य महामते स्वबुद्ध्या ।
यदितरदवलम्ब्य तत्पदं त्वं
व्रज पिब भुङ्क्ष्व न बध्यसे मनस्कः ॥ २१ ॥
अयं दृश्यभूतो देहादिरेवाहमिति यो वृथा निश्चयो मिथ्याभिमानस्तं
स्वबुद्ध्या स्वतत्त्वनिश्चयेन अलमपास्य यदिदं वस्तुन इतरत् प्रत्यगेकरसं
तदेवावलम्ब्य तत्स्वभावेन स्थितत्वादमनस्कः सन् व्रजनादिव्यवहारं
कुर्वन्नपि न बध्यसे मुक्त एवासीत्यर्थः ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः ॥ २३ ॥