त्रयोविंशः सर्गः २३
श्रीवसिष्ठ उवाच ।
य उत्तमपदालम्बी चक्रभ्रमवदास्थितः ।
शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते ॥ १ ॥
शरीरनगरे राज्यं प्रबुद्धस्यात्र वर्ण्यते ।
विनोदोसक्तसद्भोगैर्मनोजयसुखोदयः ॥ १ ॥
जीवन्मुक्तस्य शरीरनगरीराज्यं वर्णयिष्यन् रामस्य तज्जिज्ञासां
प्रश्नप्रयोजिकामुत्थापयति - शरीरेति । निवृत्ते घटोत्पादनप्रयोजने
यावद्वेगं कुलालचक्रभ्रमवद्यावत्प्रारब्धक्षयं
देहधारणव्यवहारमास्थितो जीवन्मुक्तः इत्यर्थः । न लिप्यते
सत्यत्वाभिमानाभावादिति भावः ॥ १ ॥
तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।
सुखायैव न दुःखाय स्वशरीरमहापुरी ॥ २ ॥
क्रीडाविनोदहेतुत्वादुपवनोपमा ॥ २ ॥
श्रीराम उवाच ।
नगरीत्वं शरीरस्य कथं नाम महामुने ।
एतां चाधिवसन्योगी कथं राजसुखैकभाक् ॥ ३ ॥
एतां त्वदुक्तां शरीरनगरीमधिवसन्नधिष्ठाय पालयन् ।
एकपदस्वारस्यात्सुखमेव भजते नतु राजान इव तद्दुःखलेशमपीत्यर्थः ॥ ३
॥
श्रीवसिष्ठ उवाच ।
रम्येयं देहनगरी राम सर्वगुणान्विता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥ ४ ॥
स्वालोक आत्मज्योतिः स एवार्कः ॥ ४ ॥
नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।
करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला ॥ ५ ॥
नेत्रे एव वातायने तत्रस्थाभ्यामुद्द्योताभ्यामिन्द्रियप्रदीपाभ्यां प्रकाशन्ते
इति प्रकाशानि भुवनान्तराणि यस्याम् । करावेव प्रतोल्यौ रथ्ये तद्विस्तारेण
प्राप्तं जानुपर्यन्ततालक्षणं पादोपजाङ्गलं यस्याः ॥ ५ ॥
रोमराजीलतागुल्मा त्वचाजालकमालिता ।
गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला ॥ ६ ॥
त्वचागतैः शिराजालकैर्मालिता । गुल्फौ पादजङ्घासन्धिग्रन्थी ताभ्यां
पार्ष्णिर्लक्ष्यते तत्सहितायामङ्गुल्याम् । जातावेकवचनम् ॥ ६ ॥
रेखाविभक्तपादाग्रशिलाप्रथमनिर्मिता ।
चर्ममर्मशिरासारसन्धिसीमामनोरमा ॥ ७ ॥
पादाग्रपदेनात्र पादाधस्तनी कठिना त्वगुच्यते सैव स्तम्भमूलाधारशिला ।
रेखाभिर्विभक्तया नानालक्षणया तया प्रथमनिर्मिता ।
प्रथमाधारनिर्माणेन निर्मितेत्यर्थः । बहिश्चर्म अन्तर्मर्माणि सीमानः
मध्ये मध्ये शिराणां साराः शाखाप्ररोहाः सीमानः अस्थिषु तु सन्धयः
सीमानः ताभिर्मनोरमा ॥ ७ ॥
उरूरुतनुभागाग्रनिर्मितोपस्थनिम्नगा ।
कचत्केशावलीकाचदलप्रस्थवनावृता ॥ ८ ॥
उर्वोः ऊर्वोस्तनोर्मध्यकायस्य च यः सन्धिभागस्तस्याग्रे पुरोभागे निर्मिता
उपस्थेन्द्रियरूपा निम्नगा नगरमध्यनदी यस्याः । कचन्ती केशावल्येव
काचवन्नीलानि दलानि येषु तथाविधैः क्रीडाशैलप्रायशिरःप्रस्थेन
श्मश्रुकक्षादिरोमवनैश्चावृता ॥ ८ ॥
भ्रूललाटोष्ठसच्छायवदनोद्यानशोभिता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली ॥ ९ ॥
नीलच्छदसदृशाभ्यां भ्रूभ्यां पाण्डुनवच्छदसदृशेन ललाटेन
पुष्पसदृशाभ्यामोष्ठाभ्यां च सच्छायं
कान्तिमद्यद्वदनलक्षणमुद्यानं कदलीवनं तेन शोभिता । दृष्टिपाताः
कटाक्षास्तल्लक्षणैरुत्पलैराकीर्णौ यौ कपोलौ तल्लक्षणे विहारस्थल्यौ यत्र ॥ ९
॥
वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।
घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया ॥ १० ॥
स्कन्धावेव क्रीडाशिलोच्चयौ यस्याम् ॥ १० ॥
उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा भक्ष्यतत्परा ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥ ११ ॥
उदरलक्षणे कोशागारश्वभ्रे निक्षिप्तानि यानि स्वप्रारब्धप्रापितान्यन्नानि
तान्येव स्वानि धनानि अन्नानि धान्यादीनीष्टानि प्रियाणि वसनाभरणादीनि च
यस्याम् । भक्ष्यमनिषिद्धविषयोपभोगं तन्वन्तीति भक्ष्यततो
रसनश्रोत्रादयः पराः शिरःसौधवातायनोपविष्टनागरस्थानीया यस्याम् ।
दीर्घमूर्ध्वमुखं यत्कण्ठबिलं तद्द्वारा उद्गीर्णो यः
प्राणवातस्तत्कृतेन संरम्भेण कण्ठद्वारकपाटोद्घाटनेन शब्दिता ॥ ११
॥
हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।
अनारतनवद्वारप्रवहत्प्राणनागरा ॥ १२ ॥
हृदयापणशब्देन तत्स्था विचारलक्षणा रत्नादिपरीक्षकजना गृह्यन्ते ।
तैर्निर्णीताः परीक्ष्य गृहीताश्चक्षुरादिद्वारा यथायोग्यं प्राप्ता ये
शब्दाद्यर्थास्तैर्वासनारूपैः पण्यैर्भूषिता ॥ १२ ॥
आस्यस्फारवदादृष्टदन्तास्थिशकलाकुला ।
मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना ॥ १३ ॥
आस्ये स्फारवत् द्वारभक्तिरचना
गजदन्तविभागदीषद्दृष्टैर्दन्तलक्षणैरस्थिशकलैराकुला । मुखास्पदया
आसमन्ताद्भ्रमन्त्या जिह्वालक्षणया चण्ड्या काल्या चर्वितानि आस्वादितानि
भोजनानि चतुर्विधान्यन्नानि यस्याम् ॥ १३ ॥
रोमशष्पतरच्छन्ना कर्णकोटरकूपका ।
स्फिक्शृङ्खलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला ॥ १४ ॥
रोमलक्षणैः श।पतरैर्दीर्घतृणैश्छन्ना ॥ १४ ॥
गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्दमा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥ १५ ॥
गुदादुत्थानमुद्गमो यस्य मलस्य तदेव मूत्रस्थानलक्षणस्य आरघट्टस्य
घटीयन्त्रस्यान्ते प्रान्ते प्रद्रुतः प्रवहन्ननन्तो दूरतः कर्दमो यस्याम् ।
चित्तलक्षणायामुद्यानमह्यां वल्गन्ती सदाक्रीडमाना आत्मचिन्तालक्षणा
वराङ्गना पुरस्वामिनी यस्याम् ॥ १५ ॥
धीवरत्रादृढावद्धचपलेन्द्रियमर्कटा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा ॥ १६ ॥
धीरेव वरत्रा चर्मरज्जुस्तया दृढा बद्धाश्चपलेन्द्रियमर्कटा यस्याम् ।
वदनोद्याने हसनमेव पुष्पोद्गमस्तेन मनोरमा ॥ १६ ॥
स्वशरीरमनोज्ञस्य सर्वसौभाग्यसुन्दरी ।
सुखायैव न दुःखाय परमाय हिताय च ॥ १७ ॥
स्वशरीरमनसी जानातीति स्वशरीरमनोज्ञस्तत्त्ववित्तस्य सुखायैव
परमहितमुपदेशादिना परोद्धारस्तस्मै च ॥ १७ ॥
अज्ञस्येयमनन्तानां दुःखानां कोशमालिका ।
ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका ॥ १८ ॥
किञ्चिदस्यां प्रनष्टायां ज्ञस्य नष्टमरिन्दम ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥ १९ ॥
ज्ञस्यानन्तसुखायेति यदुक्तं तद्दर्शयति - किञ्चिदिति । किञ्चिदल्पं
तुच्छमेव नष्टं न सत्यवस्त्वित्यर्थः । सर्वं भोगमोक्षसुखम् ॥ १९ ॥
यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् ।
अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥ २० ॥
ज्ञस्य रथ इव रथः ॥ २० ॥
शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।
अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥ २१ ॥
सुखदुःखक्रियाजालं यदेषोद्वहति स्वयम् ।
तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा ॥ २२ ॥
सर्वं पूर्णमात्मानं जानातीति सर्वज्ञस्तत्त्ववित्तस्य सर्वेषां
भोगमोक्षोपायवस्तूनां भरणं भरः सङ्ग्रहस्तत्क्षमा ॥ २२ ॥
तस्यां शरीरपुर्यां हि राज्यं कुर्वन्गतज्वरः ।
ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः ॥ २३ ॥
व्यग्रशब्दो भावप्रधानः । तथाच गतव्यग्रः स्वस्थ इत्यर्थः ॥ २३ ॥
न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् ।
न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति ॥ २४ ॥
अवटे योनिगर्ते आटोपः पराक्रमो यस्य कामस्य तद्विषये । न क्षिपति न प्रेरयति ।
लोभ एव दुर्द्रुर्विषवृक्षस्तमादाय शुल्कत्वेन गृहीत्वा प्रज्ञालक्षणां
पुत्रीं कन्यां मोहाधर्मादिदौष्कुलेयेभ्यो न प्रयच्छति । अथवा
दुर्द्रुमशब्देन तत्फलं लक्ष्यते । लोभलक्षणदुर्द्रुमफलमत्ति अनुभवतीति
लोभदुर्द्रुमादः अधार्मिकजनस्तस्मै प्रज्ञा विवेकवती बुद्धिस्तल्लक्षणां
पुत्रीं न प्रयच्छति । तेषु स्वप्रज्ञां गूहमानश्चरतीत्यर्थः ॥ २४ ॥
अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति ।
संसारारिभयस्यान्तर्मूलान्येव निकृन्तति ॥ २५ ॥
संसारलक्षणारिभयस्य मूलानि स्नेहास्तानि निकृन्तति ॥ २५ ॥
तृष्णासारपरावर्तं कामसम्भोगदुर्ग्रहे ।
न निमज्जति पर्यस्तः सुखदुःखप्रदेवने ॥ २६ ॥
तृष्णानद्याः सरणं सारः प्रवाहस्तस्य महत्यावर्ते
कामसम्भोगलक्षणदुष्टग्राहवति अन्तर्मुखत्वात्पर्यस्तो बहिर्मुखः सन् न
निमज्जति । सुखलवलक्षणैर्दुःखैः प्रदेवने परिदेवनसाधने ॥ २६ ॥
करोत्यविरतं स्नानं बहिरन्तरवीक्षणात् ।
सरित्सङ्गमतीर्थेषु मनोरथगतः क्रमात् ॥ २७ ॥
बहिरन्तश्च अस्य वासुदेवस्य परमात्मन ईक्षणादाधिभौतिकेष्वाध्यात्मिकेषु
च सरित्सङ्गमतीर्थेषु अविरतं सार्वकालिकं स्नानं करोति ।
तथाचाहुर्वृद्धः - स्नातं तेन समस्ततीर्थसलिले सर्वापि
दत्ताऽवनिर्यज्ञानां च कृतं सहस्रमयुतं देवाश्च सम्पूजिताः ।
संसाराच्च समुद्धृताः स्वपितरः सर्वस्य पूज्यो ह्यसौ यस्य ब्रह्मविचारणे
क्षणमपि प्राप्नोति धैर्यं मनः ॥ इति । मनोरथोऽत्र
मानसब्रह्माकारवृत्तिस्तद्गतस्तदारूढः ॥ २७ ॥
सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मुखः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे ॥ २८ ॥
सकलैरक्षलक्षणैर्जनैरादृश्येषु आपातदृश्येषु विषयेषु सुखानां
प्रेक्षायां पराङ्मुखः ॥ २८ ॥
सुखावहैषा नगरी नित्यं वै विदितात्मनः ।
भोगमोक्षप्रदा चैषा शक्रस्येवामरावती ॥ २९ ॥
स्थितया संस्थितं सर्वं किञ्चिन्नष्टं न नष्टया ।
यया पुर्या महीयस्या सा कथं न सुखावहा ॥ ३० ॥
विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन ।
आक्रान्तकुम्भाकाशस्य स्वस्य कुम्भक्षये यथा ॥ ३१ ॥
आक्रान्तः स्वसात्कुतः कुम्भाकाशो येन तस्य स्वस्य ॥ ३१ ॥
विद्यमानं घटं वायुः किञ्चित्स्पृशति नास्थितम् ।
यथा तथैव देही स्वां शरीरनगरीमिमाम् ॥ ३२ ॥
यस्य स्थितिदशायामपि न सम्यक् स्पर्शस्तस्य नाशे स्पर्शो नेति किं वाच्यमिति
दृष्टान्तेनाह - विद्यमानमिति ॥ ३२ ॥
अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि सन् ।
विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक् ॥ ३३ ॥
अत्रास्यां शरीरनगर्यां तिष्ठतीत्यत्रस्थ आत्मा तत्त्वविद्विश्वकल्पनं
विश्वकल्पस्तत्कृतान्प्रारब्धभोगान्भुक्त्वा अधिगतं प्राक्साक्षात्कृतं
पूर्णं स्वात्मरूपमर्थं परमपुरुषार्थं मोक्षं भजत्
इत्यधिगतार्थभाग्भवतीति शेषः ॥ ३३ ॥
कुर्वन्नपि न कुर्वाणः समस्तार्थक्रियोन्मुखः ।
कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति ॥ ३४ ॥
व्यवहारदृशा कुर्वन्नपि परमार्थदृशा न कुर्वाणः ॥ ३४ ॥
कदाचिल्लीलया लोलं विमानमधिरोहति ।
अनाहतगतिः कान्तं विहर्तुममलं मनः ॥ ३५ ॥
तस्य देहनगर्यां कान्तादिभोगफलान्याह - कदाचिदिति । विमानं
विमानतुल्यं हृत्पुण्डरीकम् । कान्तं भोगकौतुकवन्मनो विहर्तुं
विनोदयितुम् ॥ ३५ ॥
तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।
रमते रामया मैत्र्या नित्यं हृदयसंस्थितः ॥ ३६ ॥
तत्रस्थः पूर्ववत् । मैत्र्या मैत्रीलक्षणया । रामया प्रियया ॥ ३६ ॥
द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः सत्यतैकते ।
इन्दोरिव विशाखे द्वे समाह्लादितचेतसी ॥ ३७ ॥
क्षपितानखिलाṁल्लोकान्दुःखक्रकचदारितान् ।
वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते ॥ ३८ ॥
स्वर्गिणो नारकिदुःखदर्शितामिव तस्याज्ञजनदुःखदर्शितामाह -
क्षपितानिति । वल्लीभिर्वनमिव परस्परं संवेष्ट्य स्थितान् । नभसः पृष्ठे
स्थितोऽर्क इवेति दृष्टान्तात्तत्त्वविदोऽपि संसारवनविप्रकर्षो गम्यते ॥ ३८ ॥
चिरं पूरितसर्वाशः सर्वसम्पतीसुन्दरः ।
अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥ ३९ ॥
आशा दिशो मनोरथाश्च । सर्वाः सम्पत्तयस्ताभिः सर्वात्मभावसम्पत्त्या च
सुन्दरः । अपुनःखण्डनाय पुनःक्षयाभावाय ॥ ३९ ॥
सेव्यामानोऽपि भोगौघो न खेदायास्य जायते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥ ४० ॥
भोगौघः स्रक्चन्द्रनादिभोगौघः । खेदाय पुनर्जन्मादिदुःखाय । अथवा
भोगौघो दुष्प्रारब्धः भोगौघः खेदाय तात्कालिकदुःखाय । प्रत्युतेति ।
तत्त्वविदोऽपि तप आदिक्लेशः प्रत्युताज्ञजनशिक्षामहाफलो राजते इति भावः ॥
४० ॥
परिज्ञातोपभुक्तो हि भोगो भवति तुष्टये ।
विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम् ॥ ४१ ॥
परिज्ञाय भोगे प्रत्युत तस्य सुखहेतुतैवेत्याशयेनाह - परिज्ञातेति ॥ ४१ ॥
नरनारी नटौघानां [नदौघानां इति पाठः] विरहे
दूरगामिनाम् ।
ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते ॥ ४२ ॥
तत्कुतस्तत्राह - नरेति । विरहे समाजविघटने दूरगमनशीलानां
समाजमिलितनरनारीनटौघानां यात्रा समाज इव ।
भोगश्रीर्भोग्यपुत्रधनादिश्रीः ॥ ४२ ॥
अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।
प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः [ङीय्भाव आर्षः]
क्रियाः ॥ ४३ ॥
अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा पुनः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ४४ ॥
यथा अक्षि चक्षुरयत्नोपनते यत्नाविरचिते पर्वतवनपुष्करिण्यादौ
तद्गततरुगुल्मतामरसादिपदार्थेषु
ममत्वाभिमानाभावाच्छेदभेदापहारादिदर्शनेऽपि
दुःखादर्शनान्नीरागमेव पतति तद्वद्धीरस्य विदुषो धीः
स्वपुत्रमित्रादिव्यवहारकार्येष्वपि नीरागमेव पततीत्यर्थः ॥ ४४ ॥
इन्द्रियाणां न हरै प्राप्तमर्थं कदाचन ।
नाददाति तथाऽप्राप्तं सम्पूर्णो ज्ञोऽवतिष्ठते ॥ ४५ ॥
कथं तर्हि प्रवर्तते तदाह - इन्द्रियाणामिति । प्राप्तं
प्रारब्धोपस्थापितमर्थं विषयं न हरति न वारयति । अप्राप्तं च
यत्नपूर्वकं नाददाति न सम्पादयति । यथाप्राप्तोपयोगेन जीवतीत्यर्थः ॥ ४५ ॥
अप्राप्तचिन्ताः सम्प्राप्तसमुपेक्षाश्च सन्मतिम् ।
न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम् ॥ ४६ ॥
तत्कुतस्तत्राह - अप्राप्तेति । यतः अप्राप्तचिन्ताः प्राप्तोपेक्षाः पश्चात्तापाच्च
तं न कम्पयन्ति न तरलीकुर्वन्त्यज्ञमिवेत्यर्थः । पिच्छाघाता
मयूरबर्हघाताः ॥ ४६ ॥
संशान्तसर्वसन्देहो गलिताखिलकौतुकः ।
सङ्क्षीणकल्पनादेहो ज्ञः सम्राडिव राजते ॥ ४७ ॥
सर्वसन्देहकारणाज्ञाननाशादेव संशान्तसर्वसन्देहः । सर्वभोगेषु
मिथ्यात्वदर्शनाद्गलिताखिलकौतुकः । सङ्क्षीणौ तदुभयकल्पनाहेतू
स्थूलसूक्ष्मदेहौ यस्येति हेतुगर्भं विशेषणम् । सम्राट् राजसूयफलं
स्वाराज्यपदं प्राप्तवानिव । स स्वराड्भवति इति श्रुतेः ॥ ४७ ॥
आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते ।
सम्पूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे ॥ ४८ ॥
पामरदृशा स्वाराज्यदृष्टान्तस्तत्त्वदृशा तु नास्ति दृष्टान्तः
परिच्छेदाभावादित्याशयेनाह - आत्मन्येवेति । अर्णवे स्वात्मनीत्यर्थः ॥ ४८
॥
भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि च ।
अनुन्मत्तमनाः शान्तो हसत्युन्मत्त्कानिव ॥ ४९ ॥
अनुन्मत्तमनाः प्रशान्तचित्तः सम्भोगेच्छाकृपणान् जन्तून् दीनानि
स्वपरेन्द्रियाणि च उन्मत्तकानिव हसति ॥ ४९ ॥
इच्छतोऽन्योज्झितां जायां यथैवान्येन हस्यते ।
इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते ॥ ५० ॥
तत्त्वविदोज्झितं भोगमिच्छत इन्द्रियस्य । हस्यते प्रवृत्तिरित्युभयत्र शेषः ॥
५० ॥
त्यजत्स्वात्मसुखं सौम्यं मनो विषयविद्रुतम् ।
अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥ ५१ ॥
ननु मन्दज्ञानेन पुरुषेण विषयेषु द्रुतं मनः कथं निग्राह्यं तत्राह
- त्यजदिति ॥ ५१ ॥
भोगेषु प्रसरो यस्या मनोवृत्तेश्च दीयते ।
साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥ ५२ ॥
दीयते यया भोगतृष्णयेति शेषः ॥ ५२ ॥
ताडितस्य हि यः पश्चात्सम्मानः सोऽप्यनन्तकः ।
शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते ॥ ५३ ॥
ननु [तनुनिग्रहपीडितं इति पाठः] निग्रहपीडितं मनो रुष्टो बाल इव
स्वात्मन्यपि न रज्येतेति चेत्तत्राह - ताडितस्येति । चिरोन्मादलालितस्य
सकृन्निग्रहे पुनः परित्यागे हि तथा स्याच्चिरनिग्रहेण निराशतां नीतस्य तु न
तथेति भावः । कुसेकोऽपीत्यपिशब्दात्सुसेके किं वाच्यमिति गम्यते ॥ ५३ ॥
अनार्तेन हि सन्मानो बहुमानो न बुध्यते ।
पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते ॥ ५४ ॥
उक्तमेव भावं प्रकाशयति - अनार्तेनेति ॥ ५४ ॥
पूर्णस्तु प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छते ।
जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम् ॥ ५५ ॥
मनसोऽभिगृहीतस्य या पश्चाद्भोगमण्डना ।
तामेवालब्धविस्तारां [तामेव लब्धविस्तारात् इति टीकानुगुणः पाठ इति
भाति] क्लिष्टत्वाद्बहु मन्यते ॥ ५६ ॥
अभिगृहीतस्य सर्वतो निगृहीतस्य ।
भोगमण्डनाभिक्षाशनाद्यल्पविषयार्पणेन लालनम् ।
लब्धविस्तारात्प्राक्तनभोगाद्बहु अधिकं मन्यते ॥ ५६ ॥
बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।
परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते ॥ ५७ ॥
उक्तेऽर्थे दृष्टान्तमाह - बन्धमुक्त इति ॥ ५७ ॥
हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैरिवाक्रम्य जयेच्चेन्द्रियशात्रवान् ॥ ५८ ॥
तस्माच्चिरनिग्रहेण बोधेन च समूलमनोजयाय प्रथममिन्द्रियजय एव
सर्वप्रयत्नैः कार्य इत्याह - हस्तमिति ॥ ५८ ॥
जेतुमन्यं कृतोत्साहैः पुरुषैरिह पण्डितैः ।
पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम् ॥ ५९ ॥
न मनोजयार्थमेव बाह्यशत्रुजयार्थमपीन्द्रियजय आवश्यक इत्याह -
जेतुमिति ॥ ५९ ॥
एतावति धरणितले
सुभगास्ते साधुचेतनाः पुरुषाः ।
पुरुषकलासु च गण्या
न जिता ये चेतसा स्वेन ॥ ६० ॥
इन्द्रियनिग्रहफलं मनोजयमाश्रयप्रशंसावन्दनाभ्यां प्रशंसति ##-
पुरुषाणां कलासु स्वबन्धमोक्षकौशलेषु गण्या इत्यर्थः ॥ ६० ॥
हृदयबिले कृतकुण्डल-
कलनाविवशो मनोमहाभुजगः ।
यस्योपशान्तिमागत-
मलमुदितं तं सुनिर्मलं वन्दे ॥ ६१ ॥
हृदयबिले कृतया कुण्डलकलनया विवशो गर्वपरवशो महाभुजगो मनो
यस्य उपशान्तिमात्यन्तिकनाशमागतं महामुनिं अलं स्वेन
रूपेणोदितमाविर्भूतं सुनिर्मलं तं तत्त्वविदं वन्दे इत्यर्थः ॥ ६१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः ॥ २३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः ॥ २३ ॥