द्वाविंशः सर्गः २२
श्रीवसिष्ठ उवाच ।
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।
मननं त्यजतो ज्ञात्वा किञ्चित्परिणतात्मनः ॥ १ ॥
इह प्ररूढबोधस्य सर्वदोषपरिक्षयः ।
प्रसादः सुविशुद्धात्मदर्शनं चोपवर्ण्यते ॥ १ ॥
ज्ञानफलजीवन्मुक्तावस्थानुभवप्रकारं प्रपञ्चयिष्यन्
श्रवणमननाद्युपचयक्रमेण यथा यथा ज्ञानदार्ढ्यं तथा तथा
दोषक्षयप्रकर्षं प्रथमं दर्शयति - जन्तोरित्यादिना ।
समाध्यभ्यासेन क्रमाद्बाह्यमननमात्ममननं च त्यजतः किञ्चित्परिणतो
विशुद्धात्माकारतया विश्रान्त आत्मा मनो यस्य तथाविधस्य जन्तोरधिकारिणो
जीर्णजाड्ये आत्माम्भसा एकत्वं व्रजति सति विज्ञानवशतः स्वभावः
प्रसीदतीत्यनेनान्वयः [अष्टमश्लोकस्थेनेत्यर्थः] ॥ १ ॥
दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ।
द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः ॥ २ ॥
हेयमज्ञानभूमिकाभेदं सन्त्यजतः । उपादेयं
ज्ञानभूमिकाविशेषमुपेयुषः । द्रष्टारं प्रमातारमपि दृश्यं
साक्षिचिद्वेद्यं पश्यतः । अथवा सर्वं दृश्यं द्रष्टारं भासकं
चिन्मात्रमेवेति पश्यतः अद्रष्टारं भासकचिद्व्यतिरिक्तमपश्यतः ॥ २ ॥
जागर्तव्ये परे तत्त्वे जागरूकस्य जीवतः ।
सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥ ३ ॥
घने सम्मोहमये अज्ञानविकारात्मके सुप्तस्य । यस्यां जाग्रति भूतानि सा
निशा पश्यतो मुनेः इति भगवद्वचनात् ॥ ३ ॥
पर्यन्तात्यन्तवैराग्यात्सरसेष्वरसेष्वपि ।
भोगेष्वाभोगरम्येषु विरक्तस्य निराशिषः ॥ ४ ॥
सर्वसुखलवावधि विरञ्चिपदपर्यन्तमत्यन्तवैराग्यात् सरसेषु
क्रममुक्तिरसवत्सु अरसेषु तद्रहितेषु आभोगं भोगकालपर्यन्तमेव रम्येषु
भोगेषु भोगसाधनेषु स्रक् चन्दनादिषु विरक्तस्य । अत एव लोकसङ्ग्रहार्थं
क्रियमाणकर्मफलेषु प्रारब्धोपनीतभोगेषु च निराशिषः । आविरिञ्चसुखेषु
वैराग्यात्तत्साधनाप्सरोविमानादिविषयेषु ऐहिकभोगेषु च विरक्तस्येति
पिण्डितार्थः ॥ ४ ॥
व्रजत्यात्माम्भसैकत्वं जीर्णजाड्ये नभस्यलम् ।
गलत्यपगतासङ्गे हिमापूर इवातपे ॥ ५ ॥
जीर्णजाड्ये अनादिजडे नभसि अज्ञानाकाशे गलति सति । किं जले
सैन्धवखण्डवद्रसावशेषेण नेत्याह - आत्माम्भसा एकत्वं व्रजतीति ।
आतपे हिमखण्डवन्निरवशेषमित्यर्थः ॥ ५ ॥
तरङ्गितासु कल्लोलजललोलान्तरासु च ।
शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये ॥ ६ ॥
तरङ्गितास्विति द्वे नदीतृष्णयोर्द्वयोरपि विशेषणे । तृष्णापक्षे
कल्लोलजलमिव लोलान्तरासु ॥ ६ ॥
संसारवासनाजाले खगजाल इवाखुना ।
त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥ ७ ॥
खगजाले पक्षिबन्धनानाये । आखुना मूषकेण ॥ ७ ॥
कातकं फलमासाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥ ८ ॥
कातकं कतकसम्बन्धि फलं । तद्रज इति यावत् । स्वभावोऽत्र मनः ॥ ८ ॥
नीरोगं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
विनिर्याति मनो मोहाद्विहगः पञ्जरादिव ॥ ९ ॥
रागः कामः । उप आसञ्जयति प्रसञ्जयति विषयेष्वित्युपासङ्गो
विषयगुणानुसन्धानम् । द्वन्द्वं भार्यादिजनसाहित्यम् । उपाश्रयः
पुनःपुनर्भोगलाभभूमिः । इत्येतेभ्यः प्रथमं निर्गतं
पश्चान्मोहादज्ञानाद्विनिर्याति ॥ ९ ॥
शान्ते सन्देहदौरात्म्ये गतकौतुकविभ्रमम् ।
परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ १० ॥
विनिर्गतस्य पुनः कीदृशी स्थितिस्तां वर्णयति - शान्ते इत्यादिना ॥ १० ॥
जनितोत्तमसौन्दर्या दूरादस्तमयोन्नता ।
समतोदेति सर्वत्र शान्ते वात इवार्णवे ॥ ११ ॥
समता समदृष्टिता ॥ ११ ॥
अन्धकारमयी मूका जाड्यजर्जरितान्तरा ।
तनुत्वमेति संसारवासनेवोदये क्षपा ॥ १२ ॥
मूका बोधवाग्व्यवहारशून्या । क्षपापक्षे जाड्येन तुषारशैत्येन
वासनापक्षे मौर्ख्येण जर्जरान्तरा । तनुत्वमपक्षयम् । उदये सूर्योदये
क्षपेवेत्यन्वयः ॥ १२ ॥
दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।
विकसत्यमलोद्द्योता प्रातर्द्युरिव रूपिणी ॥ १३ ॥
दृष्टः चिद्भास्करो यया । पुण्यानि
गुरुसेवाश्रवणसमाध्यभ्यासादिसुकृतान्येव पल्लवाः किसलयानि
यस्यास्तथाविधा । हृदयसरसि प्रज्ञापद्मिनी विवेकपद्मिनी विलसति ।
द्यौर्व्योमेव ॥ १३ ॥
प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।
सत्त्वलब्धाः प्रवर्धन्ते सकलेन्दोरिवांशवः ॥ १४ ॥
हृदयहारिण्यो मनोहराः सत्त्वगुणोपचयाल्लब्धाः प्रज्ञाः प्रवर्धन्ते ॥
१४ ॥
बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः ।
नोदेति नैव यात्यस्तमभूताकाशकोशवत् ॥ १५ ॥
अभूतो वाय्वादिभूतचतुष्टयरहितो य आकाशकोशस्तद्वत्परिच्छिन्न
[तद्वदपरिच्छिन्न इति पाठः] इत्यर्थः ॥ १५ ॥
विचारणा परिज्ञातस्वभावस्योदितात्मनः ।
अनुकम्पा भवन्तीह ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ १६ ॥
तस्य महाप्रभावतामाह - विचारणेति ।
सर्गावताराद्यधिकारक्लेशदर्शनादनुकल्प्याः ॥ १६ ॥
प्रकटाकारमप्यन्तर्निरहङ्कारचेतसम् ।
नाप्नुवन्ति विकल्पास्तं मृगत्ष्णामिवैणकाः ॥ १७ ॥
तस्य पुनः प्रमादात्पूर्ववद्विक्षेपप्रसक्तिं वारयति - प्रकटाकारमिति ।
मृगतृष्णा तत्सलिलपानं लक्षणया ॥ १७ ॥
तरङ्गवदिमे लोकाः प्रयान्त्यायान्ति चेतसः ।
क्रोडीकुर्वन्ति चाज्ञं ते न ज्ञं मरणजन्मनी ॥ १८ ॥
एवं जन्ममरणप्रसक्तिमपि वारयति - तरङ्गवदिति । आयान्ति जायन्ते ।
प्रयान्ति म्रियन्ते । चेतसः स्वचित्तवासनावशात् ॥ १८ ॥
आविर्भावतिरोभावौ संसारो नेतरक्रमः ।
इति ताभ्यां समालोको रमते स निबध्यते ॥ १९ ॥
इतरस्मिन्नज्ञभिन्ने तत्त्वज्ञे क्रमते इति क्रमस्तथाविधो न इति ज्ञात्वेति शेषः ।
सम्यगालोको वस्तुतत्त्वदर्शनं यस्य स तत्त्ववित् ।
मायाव्याघ्रादिकौतुकदर्शनेनेव रमते सोऽज्ञस्तु निबध्यते ॥ १९ ॥
न जायते न म्रियते कुम्भे कुम्भनभो यथा ।
भूषिते दूषिते वापि देहे तद्वदिहात्मवान् ॥ २० ॥
विवेक उदिते शीते मिथ्या भ्रममरूदिता ।
क्षीयते वासना साग्रे मृगतृष्णा मराविव ॥ २१ ॥
साग्रे अग्रभागोदितचन्द्रसहिते प्रदोषे । साये इति वा पाठः ॥ २१ ॥
कोऽहं कथमिदं चेति यावन्न प्रविचारितम् ।
संसाराडम्बरं तावदन्धकारोपमं स्थितम् ॥ २२ ॥
मिथयाभ्रमभरोद्भूतं शरीरं पदमापदाम् ।
आत्मभावनया नेदं यः पश्यति स पश्यति ॥ २३ ॥
कीदृशस्थित्या तर्हि निःसंसारान्धकारं पूर्णात्मानं पश्यति तामाह ##-
देशकालवशोत्थानि न ममेति गतभ्रमम् ।
शरीरे सुखदुःखानि यः पश्यति स पश्यति ॥ २४ ॥
देववशोत्थान्याधिभौतिकानि कालवशोत्थान्याधिदैविकानि शरीरे
उत्थान्याध्यात्मिकानि च सुखदुःखानि न ममेति यः पश्यति ॥ २४ ॥
अपारपर्यन्तनभो दिक्कालादिक्रियान्वितम् ।
अहमेवेति सर्वत्र यः पश्यति स पश्यति ॥ २५ ॥
अपारपर्यन्तं यन्नभोदिक्कालादि यच्च तत्र
परिच्छिन्नमुत्पत्तिचलतादिक्रियान्वितं तत्र सर्वत्राहमेवेति यः पश्यति ॥ २५ ॥
बालाग्रलक्षभागात्तु कोटिशः परिकल्पितात् ।
अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥ २६ ॥
यो व्यापी सन् कोटिशः परिकल्पिताद्वालाग्रलक्षभागात् । तुशब्दोऽप्यर्थे ॥ २६ ॥
आत्मानमितरच्चैव दृष्ट्या नित्याविभिन्नया ।
सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति ॥ २७ ॥
आत्मानं स्वात्मत्वेन प्रसिद्धं जीवं इतरत्तदृश्यं च सर्व चिज्ज्योतिरिति तेन
नित्यमविभिन्नया दृष्ट्या यः पश्यतीत्यर्थः ॥ २७ ॥
सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः ।
अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति ॥ २८ ॥
आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।
देहोऽहमिति यः प्राज्ञो न पश्यति स पश्यति ॥ २९ ॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम ।
द्वितीयो न ममास्तीति यः पश्यति स पश्यति ॥ ३० ॥
महिमा विस्तारः ॥ ३० ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
चित्तं तु नाहमेवेति यः पश्यति स पश्यति ॥ ३१ ॥
चिदेव तन्तुस्तेन प्रोते सर्वमहमेवेति वा चित्तमन्तःकरणं तु नाहमेवेति वा ॥
३१ ॥
नाहं न चान्यदस्तीति ब्रह्मैवास्ति निरामयम् ।
इत्थं सदसतोर्मध्ये यः पश्यति स पश्यति ॥ ३२ ॥
अहमेवेति पश्यतीत्युक्ते चित्परित्यागेन अहङ्कार एव परिगृहीतो माभूदिति
सहाहङ्कारेण जगत्प्रतिषेधेन चिदेकरसं ब्रह्मैव परिशेष्य
द्रष्टव्यमित्याह - नाहमिति । सतो वर्तमानस्यासतोऽतीतस्य भविष्यतश्च
मध्ये । सतो व्यक्तस्यासतोऽव्यक्तस्येति वा ॥ ३२ ॥
यन्नाम किञ्चित्त्रैलोक्यं स एवावयवो मम ।
तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति ॥ ३३ ॥
अवयव इति । पादोऽस्य सर्वा भूतानि इति श्रुतेः विष्टभ्याहमिदं
कृत्स्नमेकांशेन स्थितो जगत् इति भगवद्वचनाच्चेति भावः ॥ ३३ ॥
शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी ।
त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति ॥ ३४ ॥
स्वतः सत्ताशून्यत्वेन मृतप्रायत्वाच्छोच्या । अत एव स्वसत्तास्फूर्त्यर्पणेन
पाल्या । स्वसा अनुजा कनीयसो अल्पा । युवाल्पयोः कनन्यतरस्याम् इति कनादेशः ।
दृष्टिमात्रेणापि पीड्यमानत्वात्पेलवा ॥ ३४ ॥
आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।
भवादुपरते नूनं स पश्यति सुलोचनः ॥ ३५ ॥
भवः सांसारिकदेहादिस्तस्मादुपरते विवेकबाधाभ्यां निवृत्ते ॥ ३५ ॥
चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।
आपूरितजगज्जालं यः पश्यति स पश्यति ॥ ३६ ॥
चेत्यानुपातो दृश्यसंवलनं तद्रहितम् । अत एव निष्प्रत्यूहस्वभावस्फूर्त्या
आपूरितं प्रभया तम इव सर्वतो व्याप्तं जगज्जालं येन ॥ ३६ ॥
सुखं दुःखं भवो भावो विवेककलनाश्च याः ।
अहमेवेति वा नूनं पश्यन्नपि न हीयते ॥ ३७ ॥
भवः अधिकारिदेहस्तत्र भावो गुरुदैवतशास्त्रादिश्रद्धा तत्र
नित्यानित्यादिविवेकस्तेन कलनाः
श्रवणादिक्रमेणात्मपरिचयतारतम्यभेदाश्च सर्वे अहमेवेति यः पश्यति ॥
३७ ॥
स्वात्मसत्तापरापूर्णे जगत्यंशेन वर्तिना ।
किं मे हेयं किमादेयमिति पश्यन्सुदृङ्गरः ॥ ३८ ॥
आत्मसत्तयैव परया निरतिशयानन्दघनया आपूर्णे ब्रह्मादिस्तम्बपर्यन्ते
आनन्दलवार्पणेन तर्पिते जगति अंशेनैकदेशेन वर्तिना
ऐहिकपारलौकिकभोग्यवस्तुना मे किं दुःखमस्ति यद्धेयं
किंवान्यत्सुखमस्ति यदुपादेयमिति पश्यन्सुदृक् अभ्रान्तदृष्टिरित्यर्थः ॥
३८ ॥
अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् ।
हेयोपादेयकलना यस्य क्षीणा स वै पुमान् ॥ ३९ ॥
अप्रतर्क्यं तर्कागम्यम् । अनाभासं वृत्तिभेदप्रतिफलनरहितं
निर्विक्षेपमिति यावत् ॥ ३९ ॥
य आकाशवदेकात्मा सर्वभावगतोऽपि सन् ।
न भावरञ्जनामेति स महात्मा महेश्वरः ॥ ४० ॥
महानीश्वरो निरतिशयस्वानन्दोपभोगसमर्थः शिव इत्यर्थः ॥ ४० ॥
तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।
यः सौम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् ॥ ४१ ॥
तमः सुषुप्तिः प्रकाशो जागरः कलना स्वप्नस्तैर्मुक्तः । कालस्य
मृत्योरप्यात्मतां निरतिशयप्रेमास्पदतां गतः ।
स्वस्थस्तुरीयावस्थाप्रतिष्ठो यस्तम् ॥ ४१ ॥
यस्योदयस्तमयसङ्कलनाकलासु
चित्रासु चारुविभवासु जगद्गतासु ।
वृत्तिः सदैव सकलैकमतेरनन्ता
तस्मै नमः परमबोधवते शिवाय ॥ ४२ ॥
सकलेऽपि जगत्येकं ब्रह्मेति मतिर्यस्य । जगद्गतासु चित्रासूदयः सर्गोऽस्तमयः
प्रलयः सङ्कलना स्थितिस्तल्लक्षणासु वृत्तिर्ब्रह्माकारदृष्टिरनन्ता
अपरिच्छिन्ना । तस्मै परमबोधवते जीवन्मुक्तविग्रहाय साक्षाच्छिवाय नम
इत्यर्थः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे
अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः ॥ २२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
अनुत्तमपदविश्रान्तिवर्णनं नाम द्वाविंशः सर्गः ॥ २२ ॥