२१

एकविंशः सर्गः २१

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ संशयो यो महानयम् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥ १ ॥

विशुद्धे कल्पकाभावान्मनःकॢप्तिर्न युज्यते ।
अविशुद्धे मनःसिद्धेर्नानामतविकल्पनाः ॥ १ ॥

यदतुच्छमनायासमनुपाधि गतभ्रमम् । यत्नात्तदनुसन्धानं कुर्विति
गुरुणोक्तो रामः स्वबुद्धिकौशलेन तदनुसन्धाय तत्र
मनःकल्पनायोग्यतामपश्यन्प्रागुक्तायां तत्र
मनःकल्पनायामाश्वासमलभमानोऽर्धविकासितमतिः प्रष्टुकामो
गुरुमभिमुखीकृत्य संशयं दर्शयति - भगवन्निति । सर्वधर्मज्ञेति
शिष्याशयपरिज्ञानकौशलद्योतनाय विशेषणम् ॥ १ ॥

दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।
म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता ॥ २ ॥

दिक्कृतपरिच्छेदाभावात्तते कालकृतपरिच्छेदाभावान्नित्ये
आदिपदोपात्तवस्तुकृतपरिच्छेदविरहान्निरामये । म्लाना विषयाकारकलुषा ।
कुत इति कारणासम्भवः केति स्वरूपासम्भवः इयमित्यपरोक्षता च मनसो
दर्शिता ॥ २ ॥

यस्मादन्यन्न नामास्ति न भूतं न भविष्यति ।
कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते ॥ ३ ॥

यद्यविद्याकलङ्कवशादिति ब्रूयुस्तत्राप्याह [ब्रूयाः इति पाठः] ##-
कलङ्कसद्भावो न सम्भावित इत्यर्थः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी ।
मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी ॥ ४ ॥

एवं पृष्टो वसिष्ठो वस्तुपरिचयचमत्कारि रामबुद्धिकौशलं प्रथमं
प्रशंसति - साध्विति । उत्तमो मकरन्दनिष्यन्द इव वस्त्वनुभवचमत्कारो
यस्याः ॥ ४ ॥

पूर्वापरविचारार्थतत्परेयं मतिस्तव ।
सम्प्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शङ्करादिभिः ॥ ५ ॥

प्रश्नस्यास्य तु हे राम न कालस्तव सम्प्रति ।
सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ॥ ६ ॥

शुद्धे चिदात्मन्यविद्याकलङ्को न युक्त इति प्रश्नः
शुद्धात्मानमनुभूतवतः शोभेत । नच तं प्रति वयं मनो निरूपयामो
येन स तथा पृच्छेत् । यस्तु शुद्धं नानुभूतवान् विद्वांसमेवात्मानं
मन्यमानस्तेन स्वानुभवविरुद्धा आत्मनः शुद्धिरेव कथमिति
शङ्कितव्यं नत्वनुभवविरुद्धां शुद्धिमभ्युपगम्य शुद्धे मालिन्यं
कथमिति नाज्ञोपदेशकाले विज्ञवत्प्रश्नावसर इत्याशयेनाह -
प्रश्नस्येति । यत्र निर्वाणप्रकरणे तवात्मदर्शनसमाधिप्रतिष्ठानन्तरं
सिद्धान्तोऽनुभवारूढ एवार्थो मया स्वानुभवसंवादाय कथ्यते तत्रायं
प्रश्न उच्यते । समाधीयत इत्यर्थः ॥ ६ ॥

सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं परम् ।
करामलकवत्तेन सिद्धान्तस्ते भविष्यति ॥ ७ ॥

वक्ष्यामि नवेत्यनाश्वासे पुनर्वा अहं प्रष्टव्य इत्याह - सिद्धान्तकाले इति
। तेन प्रश्नेन मया समाहितेन सिद्धान्तः अनुभवारूढतत्त्व आत्मा भविष्यति
॥ ७ ॥

सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते ।
प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः ॥ ८ ॥

शरदि तु हंसगीर्युक्ता नतु केकोक्तिस्तद्वदज्ञानुरूप एव प्रश्नो युक्तः ।
सर्वेषां श्रोतॄणामद्याप्यात्मतत्त्वप्रतिबोधानुदयादिति भावः ॥ ८ ॥

सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।
प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः ॥ ९ ॥

साम्प्रतं त्वयं प्रश्नः प्रावृषि नभसः सहजनीलिमवर्णनवदित्याह ##-

अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।
यद्वशाज्जनताजन्म तदाकर्णय सुव्रत ॥ १० ॥

एवं समाधाय प्रस्तुतश्रवणे राममनुकूलयति - अयमिति ॥ १० ॥

एवं प्रकृतिरूपेयं मनोमननधर्मिणी ।
कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः ॥ ११ ॥

एवं प्रागुक्तदिशा मालिन्यस्याज्ञानुभवसिद्धत्वात्तदुपहिता इयं चित्
व्याक्रियमाणा प्रकृतिरूपा भवति । मननधर्मिणी सती मनो भवति । पश्यन्ती
चक्षुर्भवति । शृण्वन्ती श्रोत्रम् । पश्यंश्चक्षुः शृण्वन् श्रोत्रं
मन्वानो मनः इत्यादिश्रुतेः । एवं कर्मेन्द्रियभावापन्ना व्यापारेण
धर्माधर्माख्यकर्मापि स्वयमेव भवतीति मुमुक्षुभिः
श्रुत्यादिप्रमाणैर्निर्णीतमित्यर्थः ॥ ११ ॥

शृणु दर्शनभेदेन तन्नामाभिमताकृतिम् ।
वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥ १२ ॥

बहुभिर्वादिभिः स्वस्वाभिमतनामरूपाकारेणान्यथाप्युत्प्रेक्ष्यमाणं
तदेवेत्याह - शृण्विति ॥ १२ ॥

यं यं भावमुपादत्ते मनो मननचञ्चलम् ।
तत्तामेति घनामोदमन्तःस्थः पवनो यथा ॥ १३ ॥

तर्हि एकमूलत्वे कुतस्तेषां सिद्धान्तभेद इति शङ्कापरिहारव्याजेन कर्मेति
निर्णीतमिति यदुक्तं तद्दर्शयति - यं यमित्यादिना । यं यं भावं
यादृशयादृशवासनोद्भवम् । यथा
सुरभिपूत्युग्रनिर्हार्यादिनानागन्धवत्कुसुमान्तःस्थः
पवनस्तद्गन्धात्मकतामेति तद्वत् ॥ १३ ॥

ततस्तमेव निर्णीय तमेव च विकल्पयन् ।
अन्तःस्थया रञ्जनया रञ्जयन्स्वामहङ्कृतिम् ॥ १४ ॥

तं स्वस्ववासनाकल्पितमेव युक्तिभिर्निर्णीय रञ्जनया स्वकल्पितार्थे
स्वीयतारागेण स्वामहङ्कृतिं रञ्जयंस्तद्भावमिवापादयन् ॥ १४ ॥

तन्निश्चयमुपादाय तत्रैव रसमृच्छति ।
यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च ॥ १५ ॥

रसं पुनःपुनरास्वादनचमत्कारम् । विषयिणां विषयास्वादरसेऽप्येषैव
गतिरित्याशयेन तदनुरूपदेहधारणामाह - यन्मयत्वमिति ॥ १५ ॥

यन्मयं हि मनो राम देहस्तदनु तद्वशः ।
तत्तामायाति गन्धान्तः पवनो गन्धतामिव ॥ १६ ॥

गन्धान्तः गन्धवद्द्रव्यान्तः प्रविष्टः पवनस्तद्गन्धरूपतामिव ॥ १६ ॥

बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः ।
स्फुरति स्वत एवोर्वी रजोलोल इवानिले ॥ १७ ॥

मनोनुसारिदेहधारणे तत्र ज्ञानेन्द्रियाविर्भावे
तत्पर्यालोचितविषयप्राप्तिहेतुक्रियानिमित्तकर्मेन्द्रियप्रादुर्भाव इत्याह -
बुद्धिन्द्रियेष्विति । वल्गत्सु आविर्भूय स्वस्वविषये वल्गत्सु । रजोलोले अनिले वल्गति
तदन्तर्गतरजोरूपा उर्वीव ॥ १७ ॥

कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रणयत्यलम् ।
कर्म निष्पद्यते स्फारं पांसुजालमिवानिले ॥ १८ ॥

स्वशक्तिं क्रियाशक्तिम् । प्रणयति प्रकटयति ॥ १८ ॥

एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् ।
अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥ १९ ॥

उपपादितक्रमां मनसः कर्मरूपताप्राप्तिमुपसंहरन् कर्ममनसोः
परस्परबीजतामभिन्नसत्तां चाह - एवमिति ॥ १९ ॥

यादृशं भावमादत्ते दृढाभ्यासवशान्मनः ।
तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति ॥ २० ॥

एवं वासनाकर्मतत्फलानुभवानामपि समानरूपत्वादेका सत्तेत्याह -
यादृशमिति द्वाभ्याम् ॥ २० ॥

तथा क्रियां तत्फलतां निष्पादयति चादरात् ।
ततस्तमेव चास्वादमनुभूयाशु बध्यते ॥ २१ ॥

यं यं भावमुपादत्ते तं तं वस्त्विति विन्दति ।
तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते ॥ २२ ॥

अस्त्वेवं तथाप्यसारेऽपि स्वस्याभिमते कथं पक्षपातः प्राणिनां वादिनां
च तत्राह - यं यमिति ॥ २२ ॥

धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।
मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च ॥ २३ ॥

मनो वै कापिलानां तु प्रतिपत्तिनिजामलम् ।
उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ॥ २४ ॥

तत्र कापिलानां मनस्तु विवेकित्वादसङ्गचिन्मात्रत्वं पदार्थमात्रप्रतिपत्त्या
निजया अमलं निर्मलमेव । तत्पदार्थविषये तु श्रुत्यनवलम्बनेन
व्यामोहात्स्वबुद्ध्यैव सुखदुःखमोहात्मकस्य जडस्य
जगतस्तादृशमेवोपादानं त्रिगुणात्मकं प्रधानं
भवितुमर्हतीत्युररीकृत्य पुनःपुनरास्वादनेन तदेव तत्त्वमिति निर्णीय
तथैव तेषां शास्त्रदृष्टयः कल्पिता इत्यर्थः ॥ २४ ॥

मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः ॥ २५ ॥

अन्यथा स्वोक्तोपायमन्तरेण मोक्षे कस्यापि प्राप्तिर्नास्तीति निश्चितचेतसः
स्वकल्पितनियमभ्रमैः स्थिता उपायान्तरमतिभ्यो निवृत्ताः सन्तः स्वां
दृष्टिं ग्रन्थनिर्माणादिना प्रकाशयन्तः प्रतिबिम्बन्ति परबुद्धिषु
सङ्क्रामयन्तीत्यर्थः ॥ २५ ॥

वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति रूढया ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ॥ २६ ॥

एवं वेदान्तिनोऽपीत्याह - वेदान्तवादिन इति ।
श्रुतिप्रामाण्यादध्यारोपापवादन्यायेनेदं जगद्ब्रह्मैव
नान्यद्ब्रह्मणोऽणुमात्रमप्यस्तीति रूढया । शमः सर्वानर्थनिवृत्तिः दमो
वास्तवनिरतिशयानन्दापरिच्छिन्नब्रह्मात्मभावेनाविर्भावस्ताद्रूप्येण उप
समीपे स्वस्थान एव इता प्राप्ता नत्वर्चिरादिमार्गेण दूरगमनेनेत्यर्थः ।
शमदमोपेता वेदान्तिन इति वा । परिरुपर्यर्थे । सर्वोत्कृष्टतया
समर्थितेत्यर्थः ॥ २६ ॥

मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥ २७ ॥

नियमभ्रमैरित्यनेन वेदान्तिनामुपेयतत्त्वमात्रं
वास्तवमुपायप्रक्रियाभेदास्तु पाणिनेरिव कल्पिता एवेति सूचितम् ॥ २७ ॥

विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमपूरया ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ॥ २८ ॥

शमेन सांवर्तिकोपप्लवोपशमेन दमेनेन्द्रियद्वारसंवरणेन चोपेता
युक्ता सर्वज्ञबुद्धिधारानुप्रवेशलक्षणा ।
शमदमादिप्रसिद्धसाधनैरुपेता प्राप्तेति वा ॥ २८ ॥

मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥ २९ ॥

नियमभ्रमैः
प्रक्रियानियमभ्रमैस्तप्तशिलारोहणादिसाधननियमभ्रमैर्वा ॥ २९ ॥

आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया ।
चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः ॥ ३० ॥

आर्हतादिभिरित्यादिपदात्कापिलकौलिकादयो [आर्हतमते हि जीवादयो
भोक्षान्ताः सप्त पदार्थाः । तत्र जीवश्चेतनः शरीरपरिमाणः १
अजीवोऽश्मादिः २ आस्रवती जीवोऽनेनेत्यास्रव इन्द्रियवर्गः ३ संवृणोतीति संवरो
विवेकः यमनियमादिरित्यन्ये ४ निःशेषतया जीर्यति कामादिरनेनेति निर्जरः
केशोल्लुञ्चनादितपः ५ बन्धो मुहुर्जन्ममरणे ६
मोक्षस्तदुच्छेदादलोकाकाशे सदोर्ध्वगमनं ७ इति । एषां सप्तानां
साधकः सप्तभङ्गीन्यायः सद्वादी १ असद्वादी २ सदसद्वादी ३
अनिर्वचनीयवादी ४ इति चतुर्विधा वादिनः । अनिर्वचनीयवादेऽपि
सदादिभेदात्पुनस्त्रिविधा इति सङ्कलनया सप्त वादिनः । तत्र सद्वादिना आर्हतं
प्रति तव मते मोक्षादिरस्तीति पृष्टे स ब्रूते स्यादस्तीति । स्यादिति
तिङन्तप्रतिरूपकमीपदर्थकं कथञ्चिदर्थकं वाऽव्ययं सर्वत्र ।
एवमसद्वाद्यादीन्प्रति क्रमेण स्यान्नास्तीत्यादीन्युत्तराणि । तेन तेषां
तूष्णीम्भाव इत्यार्हतमनोरथः इति । इदञ्च काश्मीरस्थपुस्तके
टिप्पणीरूपेणोपलभ्दम्] गृह्यन्ते ।
जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षादिपदार्थविभागकल्पनैः स्यादस्ति
स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यश्च स्यान्नास्ति
चावक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्च इत्यादिसप्तभङ्गीनयकल्पनैश्च
चित्राः । चित्रैः समाचारैर्विवसनभिक्षाचर्याद्याचारैः ॥ ३० ॥

निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः ।
स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः ॥ ३१ ॥

सर्वेषां कल्पनावैचित्र्याणां न मानमेये मूलं किन्तु चिराभ्यासरूढा
मनःकल्पनैवेत्याह - निर्निमित्तेति द्वाभ्याम् ॥ ३१ ॥

सर्वासामेव चैतासां रीतीनामेवमाकरः ।
मनो नाम महाबाहो मणीनामिव सागरः ॥ ३२ ॥

न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।
यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत् ॥ ३३ ॥

शीतोष्णाविति । अत एव हि चन्द्रमण्डले अर्काग्निमण्डलादिषु च वसतां देवानां
न शीतोष्णादिपीडेति भावः । परमाभ्यस्तं
भोजकादृष्टफलोत्पादपर्यन्तमभ्यस्तमित्यर्थः ॥ ३३ ॥

यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतैर्नरैः ।
मनस्तन्मयतां नेयं येनासौ समवाप्यते ॥ ३४ ॥

एवं तुच्छेऽपि कले दृढाभ्यासापेक्षा चेत्किं
वाच्यमनादिसांसारिकविपरीतभावनातिरस्कृते अकृत्रिमानन्दमोक्षफले
दृढाभ्यासापेक्षेत्याशयेनाह - यस्त्विति ॥ ३४ ॥

दृश्यं सम्परिडिम्भं स्वं तुच्छं परिहरन्मनः ।
तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते ॥ ३५ ॥

कस्य तर्हि दृढाभ्यासो मुक्तये कार्य इति
चेद्दृश्यमार्जनस्यैवेत्याशयेनाह - दृश्यमित्यादिना ।
सम्यक्परिरभ्य डिम्भमर्भकमिव स्नेहात्करोतीति सम्परिडिम्भं एवंरूपं
स्वं मनस्तदृश्यं परिहरत्त्यजत्सदृश्यजाभ्यां सुखदुःखाभ्यां न
परिकृष्यते । अवश्यमित्यवधारणे ॥ ३५ ॥

अपवित्रमसद्रूपं मोहनं भयकारणम् ।
दृश्यमाभासमाभोगि बन्धमाभावयानघ [बन्धं
माभावय इति पाठः] ॥ ३६ ॥

मायैषा सा ह्यविद्यैषा भावनैषा भयावहा ।
संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः ॥ ३७ ॥

तन्मयत्वं दृश्यप्रायत्वं यत्तदेव प्रागुक्तक्रमेण बन्धकं कर्म
भवतीति विदुरित्यर्थः ॥ ३७ ॥

दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।
प्रमार्जयैव तन्मिथ्या महामलिनकर्दमम् ॥ ३८ ॥

दृश्यतन्मयता यैषा स्वभावस्थानुभूयते ।
संसारमदिरा सेयमविद्येत्युच्यते बुधैः ॥ ३९ ॥

दृश्येन किमपराद्धं यदर्थं तन्मार्जनमुच्यत इति चेतत्राह -
दृश्येति ॥ ३९ ॥

अनयोपहतो लोकः कल्याणं नाधिगच्छति ।
भास्वरं तापनालोकं पटलान्धेक्षणो यथा ॥ ४० ॥

तपनः सूर्यस्तस्येमं तापनमालोकम् ॥ ४० ॥

स्वयमुत्पद्यते सा च सङ्कल्पाद्व्योमवृक्षवत् ।
असङ्कल्पनमात्रेण भावनायां महामते ॥ ४१ ॥

दृश्यमार्जने चासङ्कल्पनं हेतुरित्याह - स्वयमिति ॥ ४१ ॥

क्षीणायां स्वरसादेव विमर्शेन विलासिना ।
असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः ॥ ४२ ॥

विमर्शेन विचारेण श्रवणमननात्मना । विलासिना
समाध्यभ्यासदार्ढ्यविलासवता ॥ ४२ ॥

सत्यदृष्टौ प्रपन्नायामसत्ये क्षयमागते ।
निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते ॥ ४३ ॥

अच्छात्मा स्वच्छस्वभावः स परमार्थसत्य आत्मा । अहं स आत्माहं स
आत्मेति वा पाठान्तरे [निर्विकल्पचिदच्छोऽहं स आत्मा समवाप्यते
इत्येवंरूपे] च्छेदः । उभयत्रापि प्रत्यगात्मेत्यर्थः ॥ ४३ ॥

न सत्ता यस्य नासत्ता न सुखं नापि दुःखिता ।
केवलं केवलीभावो यस्यान्तरुपलभ्यते ॥ ४४ ॥

सत्ता व्यक्तता । असत्ता अव्यक्तता । सुखं सात्त्विकचित्तवृत्तिरूपम् । अन्तः स्वहृदि
स्वानुभवादेवोपलभ्यते ॥ ४४ ॥

अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ।
आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः ॥ ४५ ॥

अभव्यया अनर्थहेतुभूतया देहाद्यहम्भावनया यो नोपलभ्यत
इत्यनुषज्यते । आत्मनस्तादात्म्याध्यासादनन्यभूताभिः ॥ ४५ ॥

वासनाभिरनन्ताभिर्व्योमेव घनराजिभिः ।
सन्दिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि ॥ ४६ ॥

अपिशब्दानुकर्षाद्वासनाभिरपि परिवर्जित इति पूर्वेणान्वयः ।
एतदन्तविशेषणानां सर्वेषां स आत्मा समवाप्यते इति व्यवहितेन सम्बन्धः
। बन्धनिरासोपायं प्रपञ्च्य बन्धकल्पनाकर्तारमाह -
सन्दिग्धायामित्यादिना । सर्पतत्त्वं सर्पत्वम् ॥ ४६ ॥

चिदाकाशात्मना बन्धस्त्वबन्धेनैव कल्पितः ।
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा ॥ ४७ ॥

चिदाकाशात्मना स्वात्मनीति शेषः । कल्पितवस्त्वनुवेधात्प्रतिवस्तु बह्मैव
नानावैचित्र्यमिव गतं दुःखसंसारात्मना विभाव्यत इत्याशयेनाह -
कल्पितं कल्पितमिति ॥ ४७ ॥

तदेवान्यत्वमादत्ते स्वमहोरात्रयोरिव ।
यदतुच्छमनायासमनुपाधि गतभ्रमम् ॥ ४८ ॥

तदेव कल्पनात्यागे परमपुरुषार्थसुखं परिशिष्यत इत्याह -
यदतुच्छमिति ॥ ४८ ॥

तत्तत्कल्पनयातीतं तत्सुखायैव कल्पते ।
शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा ॥ ४९ ॥

शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ।
शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते ॥ ५० ॥

अभयेऽप्यज्ञानाद्भयदर्शने प्रेक्षणमात्रेण तन्निवृत्तौ च
दृष्टान्तमाह - शून्य एवेत्यादिना ॥ ५० ॥

तथा संसारबन्धार्थः प्रेक्षितोऽसौ न लभ्यते ।
इदं जगदयं चाहमिति सम्भ्रान्तमुत्थितम् ॥ ५१ ॥

अयं देहादिसङ्घातः ॥ ५१ ॥

बालानां मध्यमे काले छाया वैतालिकी यथा ।
कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः ॥ ५२ ॥

अतिशैशवयौवनयोर्मध्यमे त्रिचतुर्हायनादिकाले प्रकाशनिशयोर्मध्यमे
मन्दान्धकारकाले वा । छाया वृक्षमूलादिप्रदेशस्थगाढान्धकारः ।
वैतालिकी वेतालाकारा । भावो वैभवमभावो दारिद्र्यं तद्रूपाः
शुभाशुभा भावाः ॥ ५२ ॥

क्षणादसत्तामायान्ति सत्तमपि पुनः क्षणात् ।
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ॥ ५३ ॥

असत्तां तिरोभावं पुनः सत्तामाविर्भावमप्यायान्तीत्यर्थः । पदार्थानां
कल्पनानुसार्यर्थक्रियाकारिता प्रसिद्धैवेत्याह - मातैवेत्यादिना ॥ ५३ ॥

करोति गृहिणीकार्यं सुरतानन्ददा सती ।
कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी ॥ ५४ ॥

नूनं विस्मारयत्येव मन्मथं मातृभावनात् ।
भावानुसारिफलदं पदार्थौघमवेक्ष्य च ॥ ५५ ॥

न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ।
दृढभावनया चेतो यद्यथा भावयत्यलम् ॥ ५६ ॥

तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥ ५७ ॥

यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ।
भाविताकाशमातङ्गं व्योमहस्तितया मनः ॥ ५८ ॥

भावितः आकाशो मातङ्गो येन तथाविधं मनस्तस्मिन्कल्पितया
व्योमहस्तितया आकाशगजभावेन कामातुरं सत् व्योमकल्पितकाननचारिणीं
स्वसङ्कल्पितां मातङ्गीं करेणुमनुधावत्यनुसरतीति परेणान्वयः ॥ ५८ ॥

व्योमकाननमातङ्गीं व्योमस्थामनुधावति ।
तस्मात्सङ्कल्पमेव त्वं सर्वभावमयात्मकम् ॥ ५९ ॥

तस्मात्सङ्कल्पत्यागेनैव स्वाभाविकात्मभावेन स्थितिरित्युपसंहरन्नुपदिशति

  • तस्मादिति ॥ ५९ ॥

त्यज राम सुषुप्तस्थः स्वात्मनैव भवात्मनः ।
मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति ॥ ६० ॥

आत्मनः स्वस्य पारमार्थिकेनाद्वयानन्दात्मनैव भव
नत्वपारमार्थिकदुःखात्मनेत्यर्थः । ननु मया सह सङ्कल्पैस्त्यक्ता अपि
द्वैतभावा अनिच्छेऽपि मयि मणौ प्रतिबिम्बा इव दुर्वाराः स्युरित्याशङ्क्य
विशेषमाह - मणिरिति ॥ ६० ॥

न शक्तो जडभावेन नतु राम भवादृशः ।
यदात्मनि जगद्राम तवेह प्रतिबिम्बति ॥ ६१ ॥

निरुद्धे चेतसि दैवात्कदाचिद्द्वैतप्रतिबिम्बनेऽपि तस्य मिथ्यात्वानुसन्धानेन
ताद्रूप्यरञ्जनं त्याज्यमित्याह - यदेति ॥ ६१ ॥

तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनम् ।
तदेव सत्यमिति वाप्यभिन्नं परमात्मनः ॥ ६२ ॥

तस्य चिदैक्यानुसन्धानेन प्रविलापनं वा कार्यमित्याह - तदेवेति ।
एवकारो भिन्नक्रमः । तत्सत्यं ब्रह्मैवेत्यर्थः ॥ ६२ ॥

मत्वान्तस्त्वमनाद्यन्तं भावयात्मानमात्मना ।
चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव ।
रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा ॥ ६३ ॥

ते त्वां मा रञ्जयन्तु ॥ ६३ ॥

स्फटिकममननं यथा विशन्ति
प्रकटतया न च रञ्जना विचित्रा ।
इह हि विमननं तथा विशन्तु
प्रकटतया भुवनैषणा भवन्तम् ॥ ६४ ॥

अस्तु वा द्वैतप्रतिभासस्तथापि निर्विकारात्मबोधात्स्फटिकस्येव न तैस्तव
रञ्जनास्त्वित्याह - स्फटिकमिति । मननं प्रतिबिम्बितार्थानां
पुनःपुनरनुसन्धाने रागादिवासनाधानं तद्रहितम् । भुवनैषणाः
प्रारब्धभोगोचितजगद्व्यवहारेच्छाः ॥ ६४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
विज्ञानवादो नामैकविंशः सर्गः ॥ २१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे विज्ञानवादो
नामैकविंशः सर्गः ॥ २१ ॥