विंशः सर्गः २०
श्रीवसिष्ठ उवाच ।
एतत्ते कथितं सर्वं मनोरूपनिरूपणम् ।
मया राघव नान्येन केनचिन्नाम हेतुना ॥ १ ॥
विश्वं हि मनसो भ्रान्तिः सत्यात्मानवलम्बिनः ।
सत्यात्मालम्बने चेतो विश्वं चात्मेति वर्ण्यते ॥ १ ॥
प्राग्वर्णितजाग्रदादिस्वरूपवर्णनस्य प्रस्तुतार्थसम्बन्धं दर्शयति -
एतदिति । मनोरूपं निरूप्यते यथावद्बोध्यते येन उपायेन तत्तथाभूतम् ।
मनःस्वभावपरिज्ञानाय जाग्रदादिवर्णनं प्रस्तुतं नान्येन
प्रयोजनेनेत्यर्थः ॥ १ ॥
दृढनिश्चयवच्चेतो यद्भावयति भूरिशः ।
तत्तां यात्यनलाश्लेषादयःपिण्डोऽग्नितामिव ॥ २ ॥
अनेन मनसः कीदृशः स्वभावः परिज्ञात इति
चेद्दृढभावितार्थाकारधारणस्वभाव इत्याह - दृढेति ॥ २ ॥
भावाभावग्रहोत्सर्गदृशश्चेतनकल्पिताः ।
नासत्या नापि सत्यास्ता मनश्चापलकारिताः ॥ ३ ॥
तेन सदसद्रूपहेयोपादेयप्रत्ययविषयाः सर्वे
मनःकल्पनामात्रत्वात्सदसद्विलक्षणा इति सिद्धमित्याह - भावेति ॥ ३ ॥
मनो मोहे तु कर्तृ स्यात्कारणं च जगत्स्थितेः ।
विश्वरूपतयैवेदं तनोति मलिनं मनः ॥ ४ ॥
तत्र मनसो व्यष्टिरूपेण भ्रान्तिकर्तृता समष्टिरूपेण
तद्विषयजगदुपादानतेति विशेषमाह - मन इति । विश्वरूपतया
व्यष्टिसमष्टिरूपतया ॥ ४ ॥
मनो हि पुरुषो नाम तं नियोज्य शुभे पथि ।
तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥ ५ ॥
तत्र कर्त्रशः शुभे पथि नियुक्तश्चेदुपादानांशगता
अणिमादिभूतयस्तत्त्वबोधश्च वशे भवन्तीत्याह - मन इति ॥ ५ ॥
पुरुषश्चेच्छरीरं स्यात्कथं शुक्रो महामतिः ।
अगमद्विविधाकारं जन्मान्तरशतभ्रमम् [जनान्तर इति
पाठः] ॥ ६ ॥
ननु देह एव पुरुषोऽस्तु न मन इति चेन्नेत्याह - पुरुष इति ॥ ६ ॥
अतश्चित्तं हि पुरुषः शरीरं चेत्यमेव हि ।
यन्मयं च भवत्येतत्तदवाप्नोत्यसंशयम् ॥ ७ ॥
शरीरस्य पुरुषत्वासम्भवे घटकुड्यादिवच्चेत्यतैव परिशेषादित्याह -
अत इति । एतच्चित्तम् ॥ ७ ॥
यदतुच्छमनायासमनुपाधि गतभ्रमम् ।
यत्नात्तदनुसन्धानं कुरु तत्तामवाप्स्यसि ॥ ८ ॥
मनः सर्वावाप्तिसमर्थमस्तु ततो मम को लाभस्तत्राह - यदिति ।
मोक्षप्रयत्ने कृते तव तल्लाभो भविष्यतीत्यर्थः ॥ ८ ॥
अभिपतति मनःस्थितं शरीरं
नतु वपुराचरितं मनः प्रयाति ।
अभिपततु तवात्र तेन सत्यं
सुभग मनः प्रजहात्वसत्यमन्यत् ॥ ९ ॥
उक्तमेवार्थ सङ्क्षिप्योपसंहरति - अभिपततीति । मनःस्थितं
मनोभिलषितं देशं विषयं वा शरीरमभिपतति वपुषाचरितं तु देशं
विषयं वा मनो न नियमेन प्रयाति अतो मनसः स्वाभिलषितसिद्धौ
देहेन्द्रियादिनियमनसमर्थत्वात्तवापि मनस्सत्यं
परमार्थभूतमात्मतत्त्वमभिपततु तत्प्राप्तये यतताम् । तेन
देहेन्द्रियाद्यसत्यं द्वैतभ्रमं प्रजहात्वित्यर्थः ॥ ९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे
मनोरूपवर्णनं नाम विंशतितमः सर्गः ॥ २० ॥
इति श्रीवासिष्ठम्हारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे मनोरूपवर्णनं
नाम विंशतितमः सर्गः ॥ २० ॥