एकोनविंशः सर्गः १९
श्रीवसिष्ठ उवाच ।
जीवबीजं परं ब्रह्म सर्वत्र खमिव स्थितम् ।
तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा ॥ १ ॥
यथोपास्तिफलावाप्तिर्बोधात्सत्यात्मसंस्थितिः ।
जाग्रत्स्वप्नसुषुप्तीनां स्थितिस्तुर्यस्य चोच्यते ॥ १ ॥
ननु जीवान्तर्जीवपरम्पराकल्पनायां बाह्यबाह्यजीवा
आन्तरान्तरजीवजगतामधिष्ठानत्वाद्बीजं स्युस्तथान्तरान्तराणां
बाह्यबाह्यजीवात्मभावबोधात्तत्तद्भावप्राप्तिक्रमेण सर्वबाह्यजीवस्य
ब्रह्मबोधोदये मुक्तिर्युक्ता नान्तराणां साक्षाद्ब्रह्माबोधाद्ब्रह्मणस्तत्र
तत्रासन्निधानेआधिष्ठानत्वलक्षणबीजत्वासम्भवात्तत्सम्भवे च सर्वेषां
तुल्यतया तत्तदन्तःसत्त्वकलना निर्मूला स्यादित्याशङ्क्य
जीवोदरजगज्जीवानामपि ब्रह्मैवाधिष्ठानत्वाद्बीजमिति साधयति -
जीवबीजमिति । तेन सर्वत्र स्थितत्वेन हेतुना ॥ १ ॥
चिद्घनैकघनात्मत्वाज्जीवान्तर्जीवजातयः ।
कदलीदलवत्सन्ति कीता इव धरोदरे ॥ २ ॥
एकान्तरेकस्तदन्तरप्येक इति परम्पराकल्पनायां कदलीदलवदेकैकान्तर्वहव
इति परम्पराकल्पनायां तु धरोदरे कीटा इवेति भेदः ॥ २ ॥
यो यो नाम यथा ग्रीष्मे कल्पस्वेदाद्भवेत्कृमिः ।
यद्यद्दृश्यं शुधचित्खं तज्जीवो भवति स्वतः ॥ ३ ॥
तुल्याधिष्ठानकत्वे आन्तरत्वकल्पना निर्मूलेत्यस्य कः परिहार इति चेत्तमाह ##-
स तत्तदन्तरेव भवति तथा शुद्धचित्त्वमपि आन्तरं बाह्यं वा यद्यदेव
यत्र दृश्यं भवति तत्तद्भोक्ता तत्र तत्र जीवो भवतीत्यर्थः ॥ ३ ॥
यथा यथा यतन्ते ते जीवकाः स्वान्तसिद्धये ।
तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः ॥ ४ ॥
प्राक्तनपुरुषप्रयत्नरूपकर्मवशाद्वा सर्वव्यवस्थासिद्धिरित्याशयेनाह ##-
देवान्देवयजो यान्ति यक्षा यक्षान्व्रजन्ति हि ।
ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत् ॥ ५ ॥
कर्मोपासनातारतम्यानुसारिदेवताजीवसायुज्येष्वपि तत्तद्देवान्तस्तारतम्येन
भोगप्रसिद्धिः शास्त्रप्रामाण्यात्सिद्धेत्याशयेनाह - देवानिति । ब्रह्म
हिरण्यगर्भाख्यं परं च । तेषु किं हेयं किमुपादेयं तदाह - यदिति ॥
५ ॥
स मुक्तो भृगुपुत्रो हि निर्मलत्वात्स्वसंविदः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥ ६ ॥
भार्गवोपाख्यानमप्युक्तेऽर्थेऽनुकूलमित्याह - स इति ।
प्रथमदृष्टेनाप्सरोरूपेण शुक्रो बद्धोऽभूदित्यर्थः ॥ ६ ॥
भुवि जाता परिम्लाना बाला यत्प्रथमं पुरः ।
तथैवाव्युत्पन्ना बाला संविद्यथैव व्युत्पाद्यते तथैव भवतीति
वास्तवब्रह्मात्मभावेनैव सा व्युत्पाद्या न
मिथ्याजीवादिभावेनेत्याशयेनोपसंहरति - भुवीति ।
सांसारिकव्यसनतापैर्यावदपरिम्लानेत्यर्थः ॥ ७ ॥
श्रीराम उवाच ।
जाग्रत्स्वप्नदशाभेदं भगवन्वक्तुमर्हसि ।
कथं च जाग्रज्जाग्रत्स्यात्स्वप्नो जाग्रद्भ्रमः कथम् ॥ ८ ॥
संवित्कदा बाला कदा वा प्रौढेति विशेषं ज्ञातुं
जाग्रत्स्वप्नदशावैलक्षण्यहेतुं श्रीरामः पृच्छति - जाग्रदिति ।
अपरोक्षावभासत्वाविशेषेऽपि जाग्रत्कथं केन हेतुना
जाग्रत्सत्यताव्यवहारहेतुः । स्वप्नस्तु जाग्रदाकारो भ्रम इति कथमित्यर्थः ॥ ८
॥
श्रीवसिष्ठ उवाच ।
स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति कथ्यते ।
अस्थिरप्रत्ययं यत्स्यात्तत्स्वप्नः समुदाहृतः ॥ ९ ॥
स्थिरप्रतीतियोग्यतैव पुनःपुनः संवादिप्रत्यभिज्ञोपनीता जाग्रदर्थेषु
सत्यताव्यवहारहेतुरिति वसिष्ठः समाधत्ते - स्थिरेति ॥ ९ ॥
जाग्रत्त्वे क्षणदृष्टः स्यात्स्वप्नः कालान्तरे स्थितः ।
तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति ॥ १० ॥
स्वप्नोऽपि चेत्कालान्तरे स्थितः स्यात्तदा जाग्रत्त्वे क्षणेन जाग्रदेवेदमिति
प्रत्यक्षानुभवेन दृष्टः स्यादेवं जाग्रदपि कालान्तरे यदि न स्थितं
स्यात्तत्तर्हि स्वप्न एव स्यादिति जाग्रत्स्वप्नतां स्वप्नश्च जाग्रत्त्वं ऋच्छति
गच्छतीत्यर्थः ॥ १० ॥
जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरते विना ।
समः सदैव सर्वत्र समस्तोऽनुभवोऽनयोः ॥ ११ ॥
अनुभवः अनुभवांशस्त्वनयोः समः ॥ ११ ॥
स्वप्नोऽपि स्वप्नसमये स्थैर्याज्जाग्रत्त्वमृच्छति ।
अस्थैर्याज्जाग्रदेवास्ते स्वप्नस्तादृशबोधतः ॥ १२ ॥
अस्थैर्यादिति । यथा जाग्रन्मनोरथादिः ॥ १२ ॥
स्वप्नोऽपि जाग्रद्बुद्ध्यंशो जाग्रत्त्वमनुगच्छति ।
स्वप्नता स्वप्नबुद्ध्या तु यथासंवेदनं स्थितम् ॥ १३ ॥
जाग्रद्बुद्ध्यंशो जाग्रद्बुद्धिग्राह्यास्थैर्यांशो यथा हरिश्चन्द्रस्य
द्वादशवार्षिकः । तर्हि तस्य कथं स्वप्नता तत्राह - स्वप्नतेति ॥ १३ ॥
यत्तु यावत्स्थिरं बुद्धं तत्तावज्जाग्रदुच्यते ।
क्षणभङ्गात्तु तत्स्वप्नो यथा भवति तच्छृणु ॥ १४ ॥
यथासंवेदनं स्थिरमित्येतद्विशदयति - यत्त्वित्यादिना ॥ १४ ॥
जीवधातुः शरीरेऽन्तर्विद्यते येन जीव्यते ।
तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग यत् ॥ १५ ॥
प्रतिज्ञातवर्णनोपोद्घातेन तद्द्रष्टृजीवभावं साधयति - जीवधातुरिति
। येन जीव्यते इत्यनेन जीवनमेव तत्सद्भावसाधकं लिङ्गं दर्शितम् । तेज इति
नाम्ना शरीरोष्मा तल्लिङ्गं वीर्यमिति नाम्ना शरीरचेष्टानिमित्तं बलं
तल्लिङ्गमुक्तम् । जीवधातुरित्यनेन जीवनहेतुः सारो निरुपाधिप्रेमा
तल्लिङ्गमुक्तम् । आदिपदादहमित्यभिमाननिमित्तं ज्ञानाद्यपि तथा
प्रसिद्धं दर्शितं बोध्यम् ॥ १५ ॥
व्यवहारी यदा कायो मनसा कर्मणा गिरा ।
भवेत्तदा मरुन्नुन्नो जीवधातुः प्रसर्पति ॥ १६ ॥
अस्तु देहे जीवस्तस्य रूपादिदर्शनार्थप्रवृत्तौ किं निमित्तं तदाह -
व्यवहारीति । प्रसर्पति हृदयात्कुल्याद्वारा सरो जलमिव निर्गत्य
सञ्चरतीत्यर्थः ॥ १६ ॥
तस्मिन्प्रसर्पत्यङ्गेषु सर्वा संविदुदेति हि ।
दृष्टत्वात्प्रैति चित्ताख्यमन्तर्लीनजगद्भ्रमम् ॥ १७ ॥
तत्रास्य वासनोद्भवात्स्वप्नदर्शनमित्याह - तस्मिन्निति । अङ्गेषु
अङ्गान्तर्गतनाडीषु ॥ १७ ॥
ईक्षणादिषु रन्ध्रेषु प्रसरन्ती बहिर्मयम् ।
नानाकारविकाराढ्यं रूपमात्मनि पश्यति ॥ १८ ॥
तस्य जागरणमाह - ईक्षणादिष्विति । अनुभवकाले प्रत्ययस्य
स्वप्नाविशेषेऽप्यथ प्रात्यहिकप्रत्यभिज्ञानन्तरं स्थिरत्वकल्पना
जाग्रदित्यवगम्यत इत्यर्थः ॥ १८ ॥
स्थिरत्वात्तत्तथैवाथ जाग्रदित्यवगम्यते ।
जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु ॥ १९ ॥
सुषुप्तादीत्यादिपदात्तुरीयक्रमं च ॥ १९ ॥
मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः ।
शान्तात्मा तिष्ठति स्वस्थो जीवधातुस्तदा त्वसौ ॥ २० ॥
वाचिककायिकविक्षेपोपरमे स्वप्नोदयो मानसविक्षेपस्याप्युपरमे तु
सुषुप्तिरित्याशयेनाह - मनसेत्यादिना ॥ २० ॥
समतामागतैर्वातैः क्षोभ्यते न हृदम्बरे ।
निर्वातसदने दीपो यथाऽलोकैककारकः ॥ २१ ॥
आलोकैककारकः निर्विक्षेपप्रकाशमात्रनिमित्तम् ॥ २१ ॥
ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन नो ।
न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः ॥ २२ ॥
पूर्वार्धेन स्वप्ननिमित्ताभाव उत्तरार्धेन जाग्रन्निमित्ताभाव उक्तः ॥ २२ ॥
जीवोऽन्तरेव स्फुरति तैलसंविद्यथा तिले ।
शीतसंविद्धिम इव स्नेहसंविद्यथा घृते ॥ २३ ॥
ननु सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति इति श्रुत्या सुषुप्तौ जीवस्य
ब्रह्मण्यप्ययः श्रूयते तत्कथं तदा दीपवज्जिवस्थानमुच्यते तत्राह -
जीव इति । जीवोऽहमिति संस्कारसचिव एव ब्रह्माप्येति न तद्विमुक्त इति तिले
तैलसंविदिव तद्भावापन्नः स्फुरतीत्यर्थः ॥ २३ ॥
जीवाकारा कला काचिच्चितिः स्वच्छतयात्मनि ।
दशामायाति सौषुप्तिं सौम्यवातां विचेतनाम् ॥ २४ ॥
ननु तर्हि तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति सलिल एको द्रष्टाऽद्वैतो
भवति इत्यादिश्रुतिभिरात्यन्तिकब्रह्मैक्योक्तेस्तर्हि का गतिस्तत्राह - जीवाकारेति
। प्रागुक्तजीवाकारा या काचिच्चितिः सा कला उपाधिविलयात्स्वच्छतया ब्रह्मात्मनि
विचेतनां पृथक्चेतनशून्यां दशामायातीत्यंशमादाय ताः श्रुतयः
प्रवृत्ता न भेदवासनाविलयाभिप्रायेणेत्यर्थः ।
प्राणवातकृतविक्षेपमाशङ्क्य विशिनष्टि - सौम्यवातामिति ॥ २४ ॥
ज्ञात्वा वैचित्युपरते [१] साम्यं व्यवहरन्नपि ।
जाग्रत्स्वप्नसुषुप्तेषु सम्बुद्धस्तुर्यवान्स्मृतः ॥ २५ ॥
प्रसङ्गात्तस्य तुर्यावस्थां दर्शयति - ज्ञात्वेति । चित्ते [चेतस्युपरते इति
पाठः] उपरते सर्वव्यवहारोपरमवति चिति साम्यं अवैषम्यं शास्त्रतो
ज्ञात्वा विचारैकाग्र्याभ्यां स्वप्रयत्नैः सम्बुद्धः प्राप्तसाक्षात्कारो योगी
जाग्रत्स्वप्नसुषुप्तेषु प्रसिद्धेषु प्रागुक्तभूमिकाभेदेषु वा व्यवहरन् ।
अपिशब्दात्समाधिस्थोऽपि बोधदार्ढ्यबलात्तुर्यात्मस्वभावादप्रच्युतः सदैव
तुर्यावस्थावान् स्मृत इत्यर्थः ॥ २५ ॥
सुषुप्ते सौम्यतां यातैः प्राणैः सञ्चाल्यते यदा ।
स जीवधातुः सा संवित्ततश्चित्ततयोदिता ॥ २६ ॥
प्रस्तुतं सुषुप्तिमेवानूद्य ततः प्रागुक्तस्वप्नावतारं प्रपञ्चयितुं
चित्तोत्पत्तिमाह - सुषुप्ते इति । सौम्यतां प्राप्तैः प्राणैरुपलक्षितः स
जीवधातुर्यदा भोजकादृष्टपरिपाकापादितवैषम्यैस्तैरेव चाल्यते तदा सा
जीवचित्तत्तद्भोगानुकूलप्राक्तनसंस्कारोद्बोधाच्चित्ततयोदिता । आविर्भूता
भवतीत्यर्थः ॥ २६ ॥
स्वान्तःसंस्थजगज्जालं भावाभावैः क्रमभ्रमैः ।
पश्यति स्वान्तरेवाशु स्फारं बीज इव द्रुमम् ॥ २७ ॥
ततः स्वप्नदर्शनमाह - स्वान्तःसंस्थेति । बीज इव यथा योगी बीजे स्थितं
द्रुमं योगशक्त्या भाविविस्तारयुक्तं विविच्य पश्यति तद्वत् ॥ २७ ॥
जीवधातुर्यदा वातैः किञ्चित्सङ्क्षुभ्यते भृशम् ।
ततोऽस्म्यहं सुप्त इति पश्यत्यात्मनि खे गतिम् ॥ २८ ॥
उक्तमेव स्फुटमनूद्य चित्तादहङ्कारोत्पत्तिं भ्रान्तिभेदनिमितानि चाह -
जीवेति । सुप्तः पुरुषो यदा वातैः किञ्चित्सङ्क्षुभ्यते तदा अहमस्मीति पश्यति ।
यदा तु भृशं सङ्क्षुभ्यते तदा खे गतिमाकाशगमनं पश्यतीत्यर्थः ॥
२८ ॥
यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसम्भ्रमम् ।
अन्तरेवानुभवति स्वामोदं कुसुमं यथा ॥ २९ ॥
अम्भसा नाड्यन्तर्गतश्लेष्मद्रवेण ॥ २९ ॥
यदा पित्तादिनाक्रान्तस्तदा ग्रीष्मादिसम्भ्रमम् ।
अन्तरेवानुभवति स्फारं बहिरिवाखिलम् ॥ ३० ॥
रक्तापूर्णो रक्तवर्णान्देशान्कालान्बहिर्यथा [देशकालान् इति
पाठः] ।
पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति ॥ ३१ ॥
रक्तेन नाड्यन्तर्गतरुधिरेणापूर्ण आप्लुतः सन् देशान् गैरिकादिव्याप्तदेशान्
कालान् रक्ताभ्रव्याप्तसन्ध्यादिकालान् ॥ ३१ ॥
सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः ।
पवनक्षोभितो रन्ध्रैर्भैरक्षादिभिर्यथा ॥ ३२ ॥
अनाक्रान्तेन्द्रियच्छिद्रो यतः क्षुब्धोऽन्तरेव सः ।
संविदानुभवत्याशु स स्वप्न इति कथ्यते ॥ ३३ ॥
न आक्रान्तानीन्द्रियच्छिद्राणि चक्षुरादिस्थानानि येन स तथाविधः सन् । सः
आन्तरार्थानुभवः ॥ ३३ ॥
समाक्रान्तेन्द्रियच्छिद्रो यः क्षुब्धो वायुना यदा ।
परिपश्यति तज्जाग्रदित्याहुर्मुनिसत्तमाः ॥ ३४ ॥
तस्य जाग्रत्प्राप्तिलक्षणमाह - समाक्रान्तेति । यो जीवो यदा क्षुब्धः सन्
समाक्रान्तेन्द्रियच्छिद्रो भूत्वा बहिः शब्दादीन्परिपश्यति तद्दर्शनं
जाग्रदित्याहुरित्यर्थः ॥ ३४ ॥
इति विदितवता त्वयाधुनान्तः
प्रथितमहामतिनेह सत्यताख्या ।
असति जगति नैव भवनीया
मृतिहतिसंहृतिदोषभावनी या ॥ ३५ ॥
जाग्रदादिभेदैः प्रपञ्चिते जगति सत्यताबुद्धिरेवाभिनिवेशहेतुत्वादनर्थ इति
सैव हेयेत्याह - इतीति । इह असति जगति सत्यताख्या दृष्टिर्नैव भावनीया ।
कुतः यतो या दृष्टिर्मृतिराध्यात्मिकनिमित्तैर्मरणं
हतिराधिभौतिकैर्निमित्तैर्मरणं संहृतिराधिदैविकैर्निमित्तैर्मरणं
तद्धेतवश्च ये दोषास्तेषां भावनी अवश्यं सम्पादयित्रीत्यर्थः ॥ ३५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे
जाग्रत्स्वप्नसुषुप्तितुरीयस्वरूपविचारो नामैकोनविंशः सर्गः ॥ १९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जाग्रत्स्वप्नसुषुप्तितुरीयस्वरूपविचारो नामैकोनविंशः सर्गः ॥ १९ ॥