अष्टादशः सर्गः १८
श्रीवसिष्ठ उवाच ।
सर्वसंसृतिखण्डेषु भूतबीजकलात्मनः ।
तन्मात्रप्रतिभासस्य प्रतिभासेन भिन्नता ॥ १ ॥
मलिनानां तु मलिनैर्योगोऽवस्थाविशोधतः ।
तन्मात्रयुक्तिर्विज्ञस्य परसङ्गश्च वर्ण्यते ॥ १ ॥
शुद्धमनोराज्यस्य शुद्धैर्मलिनैश्च सम्मेलनप्रकार उक्तः । इदानीं
मलिनानां मलिनैर्मेलनप्रकारं जाग्रदाद्यवस्थानां
द्रष्टृदृश्यादीनां च विशोधनेन चरमश्लोकोक्ततन्मात्रयुक्तिं
[युक्तितया इति पाठः] तया परसङ्गप्राप्तिं च व्युत्पादयितुं
प्रागुक्तं
जाग्रदादिप्रपञ्चभेदमसाधारणस्वात्मप्रतिभासाधीनप्रतिभासेन
साधयति - सर्वेति । सर्वेषां जीवानां स्वस्वकल्पितसंसृतिरूपेषु
सृष्टिसंसृतेः खण्डेषु शकलेषु भूतात्मनः स्थूलस्य बीजात्मनः
सूक्ष्मस्य कलनं कला लिङ्गभावोन्मुखता तदात्मनः कारणरूपस्य
प्रपञ्चस्य प्रतिजीवं भिन्नता योक्ता सा स एव तन्मात्रः प्रतिभासते नान्यदिति
तन्मात्रप्रतिभासः स्वप्रकाशचिदेकरस आत्मा तस्य प्रतिभासेन
प्रतिनियताकारकल्पनया न वस्तुवृत्त्येत्यर्थः ॥ १ ॥
प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रावृत्तिपूर्वकम् ।
सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् ॥ २ ॥
तत्कुतोऽवगम्यते तत्राह - प्रवृत्तिरिति । यतः सर्वस्य जीवजातस्य
सुषुप्तत्वादनन्तरमव्यवहितोत्तरक्षणे ह्यनादिद्वैतव्यवहारा यया
प्रवृत्तिर्या च स्वप्ने जागरे च वननद्याद्यभिमुखी प्रवृत्तिस्ततो निवृत्तिः
परावृत्तिर्वा सा सर्वापि तन्मात्रस्य चिदेकरसस्य या
आसमन्ताद्वृत्तिर्व्याप्तिस्तत्पूर्वकमेव प्रसिद्धा अतो हेतोरित्यर्थः ॥ २ ॥
प्रवृत्तिभाजो ये जीवास्ते तन्मात्रप्रदर्शिनः ।
तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् ॥ ३ ॥
प्रवृत्तिं भजन्ते व्यवहरन्ति ये ये जीवास्ते सर्वेऽपि तन्मात्रेण चिन्मात्रेणैव
प्रदर्शिनः अर्थप्रकाशवन्तो नान्येन ज्योतिषा । अस्त्वेवं तथापि
कथमन्यस्यान्यमनोराज्यप्रपञ्चदर्शनसिद्धिस्तत्राह - तन्मात्रेति ।
तन्मात्रस्य स्वस्वसाक्षिचिन्मात्रस्योपाधिमेलनेन ब्रह्मैक्यदार्ढ्येन वा
एकतया एकत्वप्राप्त्या मिथः परस्परसर्गान्पश्यन्ति नान्यथेत्यर्थः ॥ ३ ॥
तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।
परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥ ४ ॥
उक्तलक्षणेन चिन्मात्रैकप्रणालेन । एकमार्गेणेति यावत् । घनतां
परकीयव्यवहारसंवादादिना सत्यताभ्रान्तिदार्ढ्यान्निविडताम् ॥ ४ ॥
केचित्पृथक्स्थितिगताः पृथगेव लयं गताः ।
केचिन्मिथः सम्मिलिता जगद्गुञ्जा स्थिताक्षता ॥ ५ ॥
पृथक्सर्गान्तरमेलनं विनैव केचिन्मिथः संवलिताः एवंरीत्या जगत्
ब्रह्माण्डं तल्लक्षणा गुञ्जा प्रसिद्धा ॥ ५ ॥
जगद्गुञ्जासहस्राणि यत्रासङ्ख्यान्यणावणौ ।
अपरस्परलग्नानि काननं ब्रह्म नाम तत् ॥ ६ ॥
अणावणौ प्रतिपरमाणु । ब्रह्म मायाशबलम् । काननं वनम् ॥ ६ ॥
मिथः सम्मिलनेनैता घनतां समुपागताः ।
यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् ॥ ७ ॥
एता जगद्गुञ्जाः घनतां निविडीभावात्साधारणव्यवहारयोग्यताम् । किं
सर्वभावाः सर्वेषां दर्शनयोग्या नेत्याह - यद्यदिति । यावतां
प्राणिनां यादृशकर्मभोगानुकूलं यत्र यथा रूढं तत्र तावदेव
पश्यति नेतरत् । देशान्तरीयं लोकान्तरीयमित्यर्थः ॥ ७ ॥
वर्तमानं मनोराज्यं नैष्फल्यं समुपागता ।
सा कृत्तिर्मनसो ज्ञेया तस्य जीवपरम्परा ॥ ८ ॥
अत एव चित्तभेदस्तदुपाधिजीवभेदश्च सिद्ध्यतीत्याशयेनाह -
वर्तमानमिति । एकस्य मनसो मनोन्तरे वर्तमानं मनोराज्यं प्रति
नैष्फल्यं तद्दर्शनोपभोगाद्यसमर्थतालक्षणां निष्फलतां समुपागता
या स्थितिः सैव कृत्तिर्विच्छित्तिर्मनोभेदहेतुर्ज्ञेयेत्यर्थः । तस्या एव
सकाशाज्जिवपरम्परा जीवभेदा अपि ज्ञेया इत्यनुषज्यते ॥ ८ ॥
परस्परं सम्मिलतां सर्गाणां रूढभाविनाम् ।
देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतिः ॥ ९ ॥
एवं विभिन्नमनोराज्यरूपाणां सर्गाणां तुल्यकर्मवासनादीनां
युगपत्फलौन्मुख्येन मेलनेन व्यष्टिसमष्टिस्थूलदेहसत्तापि निरूढा ज्ञेया
तद्विस्मृतौ तु देहाभाव एव स्वाभाविक इत्यर्थः ॥ ९ ॥
देहत्वपरिरूढत्वाच्चिद्धेम्ना विस्मृतात्मना ।
मिथ्यानुभूताऽविद्या तु शुद्धा कटकतामिता ॥ १० ॥
स्थूलदेहभावे निरूढे स्वाभाविकात्मस्थितिर्विस्मृता काल्पनिकी
सांसारिकस्थितिः स्वीकृता चेत्याह - देहत्वेति । चिदेव हेम चिद्धेम तेन
विस्मृतात्मना शुद्धा केवला कटकतामिता कटकत्वसदृशी
संसारलक्षणा अविद्या मिथ्यैवानुभूतेत्यर्थः ॥ १० ॥
यथा शुद्धः प्राणमरुत्परप्राणादिवेदनात् ।
वेत्ति वेद्यं मनोराज्यं तथा सर्गान्तराश्रयम् ॥ ११ ॥
एवमशुद्धानामपि परस्परं क्वचिन्मेलनमुपपाद्य शुद्धानां
परमनोराज्यवेदने दृष्टान्तमाह - यथेति । यथा हठयोगाभ्यासेन
शुद्धः प्राणमरुत् परकायप्रवेशेन परप्राणानां
आदिपदात्तदीयदेहेन्द्रियाणां च स्ववश्यतावेदनात्तैर्वेद्यं शब्दादि वेत्ति
तथा शुद्धं मनोऽपि सर्गान्तराश्रयं मनोराज्यं वेत्तीत्यर्थः ॥ ११ ॥
सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः ।
जाग्रत्स्वप्नसुषुप्त्याख्यमत्र देहो न कारणम् ॥ १२ ॥
ननु यदि मनोराज्यानां परस्परसम्मिलनादेव स्थूलदेहसत्ता रूढा
तर्ह्यसम्मिलने देहाभावात् नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं
समाविशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ इति
श्रुतिबोधितदेहप्रदेशभेदाधीना जाग्रदाद्यवस्था अपि न स्युरित्याशङ्क्याह
- सर्वेषामिति । जीवत्वस्वभावादेवावस्थात्रयकल्पना न देहमपेक्ष्य ।
जाग्रत्कल्पनां विना देहासिद्धावन्योन्याश्रयापत्तेः । श्रुतिस्तु
परदृष्टिसिद्धदेहानुवादेन तदेकदेशदृश्यत्वान्न
जाग्रदादिप्रपञ्चविस्तारः सत्य इत्येवम्परा न देहस्य तद्धेतुत्वपरेति भावः
॥ १२ ॥
एवमात्मनि जीवत्वे सत्यवस्थात्रयात्मनि ।
नचाम्भसीव वीचित्वमस्मिन्कचति देहता ॥ १३ ॥
अम्भ एव वीच्याद्यात्मकं प्रथते इति तत्त्वदर्शने सति ततः
पृथग्वीच्यादिवस्त्विव जीव एवावस्थात्रयात्मेति पर्यालोचनेऽपि न जीवादन्या
देहता वस्तुभूता परिशिष्यत इत्याह - एवमिति ॥ १३ ॥
चित्कलापदमासाद्य सुषुप्तान्तपदस्थितम् ।
बुद्धो निवर्तते जीवो मूढः सर्गे प्रवर्तते ॥ १४ ॥
एवमेव बुद्धस्तत्त्ववित् सुषुप्तस्यान्तमवसानभूतं यत्तुर्यं पदं
स्वरूपं तत्र स्थितं चित्कलापदं चैतन्यैकरसस्वभावमासाद्य ज्ञानेन
प्राप्य जीवभावान्निवर्तते । यस्तु मूढः अतत्त्ववित् स एव स्वकल्पनया
पुनर्देहाद्याकारकल्पनारूपे सर्गे प्रवर्तत इत्यर्थः ॥ १४ ॥
द्वयोरेकस्वरूपैव स्वसौहार्दनिदर्शनात् ।
अज्ञः सुषुप्तोऽसम्बुद्धो जीवः कश्चित्स सर्गभाक् ॥ १५ ॥
तर्हि किं ज्ञाज्ञयोः सुषुप्तिरपि भिद्यते नेत्याह - द्वयोरिति । एकस्वरूपैव
सुषुप्तिरिति शेषः । स्वस्याज्ञस्यापि सौहार्दस्य सम्प्रसादस्य श्रुतौ
निरतिशयानन्दमोक्षनिदर्शनत्वेनोपन्यासात् । तर्हि सैकस्य सर्गबीजमन्यस्य
नेति कुतो विशेषतत्राह - अज्ञ इति । तयोर्मध्ये अज्ञः सुषुप्तोऽसम्बुद्धो
वास्तवात्मज्ञानहीनो देहाद्यात्मताभ्रमवासनावासितश्चेत्यस्मादेव
विशेषात्स जीवः सर्गभागित्यर्थः ॥ १५ ॥
सर्वगत्वाच्चितः [१] कश्चित्परसर्गेण नीयते ।
सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि ॥ १६ ॥
तत्राप्यवान्तरविशेषमाह - सर्वगत्वादिति [सर्गगत्वात् इत्युभयत्र
पाठः] । नीयते अन्तः प्रवेश्यते । पृथग्रूपमिति क्रियाविशेषणम् ॥ १६ ॥
तेष्वप्यन्तस्थसर्गौघाः कदलीदलपीठवत् ।
सर्वसर्गान्तरादूरं पत्रपीवरवृत्तिमत् ॥ १७ ॥
कदलीदलस्य पीठान्याधारभूतास्त्वक्कोशास्तद्वदन्तरन्तः सन्तीत्यर्थः ।
ब्रह्म तु सर्वसर्गेष्वप्यैकरूप्येण सन्निहितं कदलीदलमण्डपवदित्याह ##-
अदूरं बहिर्विस्तीर्णैः पत्रैरिव पीवरवृत्तिमत् बृहदिति [बृहदित्यस्य
परश्लोकस्थेन ब्रह्मेत्यनेनान्वय इत्यर्थः] परेणान्वयः ॥ १७ ॥
स्वभावशीतलं ब्रह्म कदलीदलमण्डपः ।
कदल्यामन्यता नास्ति यथा पत्रशतेष्वपि ॥ १८ ॥
दृष्टान्तं विवृणोति - कदल्यामिति ॥ १८ ॥
ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि ।
बीजमेव रसात्फुल्लं भूत्वा बीजं पुनर्भवेत् ॥ १९ ॥
इत्थं जगद्भावापन्नस्य ब्रह्मणः पुनः स्वभावापत्तौ दृष्टान्तमाह
- बीजमिति । यथा वटादिबीजमेव रसाज्जलादिसंसर्गात्फुल्लं वृक्षादि
भूत्वा तद्विटपप्रसरफलादिद्वारा पुनः प्राक्तनबीजभावेनाविर्भवति तथा
ब्रह्मापि कामकर्मादिरससम्पर्कान्मनो भूत्वा जन्ममरणादिकल्पनया
अधिकारिदेहप्राप्तौ श्रवणमननादिक्रमेण
बोधोदयात्प्राक्तनब्रह्मभावेनाविर्भवतीत्यर्थः ॥ १९ ॥
तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म परं भवेत् ।
रसकारणकं बीजं फलभावेन जृम्भते ॥ २० ॥
यदि तस्यापि बीजस्य रससम्पर्कैः पुनर्वृक्षभाववन्मुक्तस्यापि
पुनर्जीवभावः स्यादिति बीजमदृष्टान्तं मन्यसे तर्हि रस एव
दृष्टान्तोऽस्त्वित्याह - रसकारणकमिति ॥ २० ॥
ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ।
रसस्य कारणं किं स्यादिति वक्तुं न युज्यते ॥ २१ ॥
एवञ्च सति ब्रह्मणः कारणं किं स्यादिति शङ्काया अपि न प्रसर इत्याह -
रसस्येति ॥ २१ ॥
ब्रह्मणः कारणं किं स्यादिति वक्तुं न युज्यते ।
स्वभावो निर्विशेषत्वात्परो वक्तुं न युज्यते ॥ २२ ॥
ननु पत्रकाण्डवृक्षपुष्पफलादीनां सरसतादर्शनात्तत्स्वभावभूतो
रसस्तेषां कारणमिव जगत्कारणं ब्रह्मापि जगद्धर्मस्वभावविशेष एव
स्यात्तथाच ब्रह्मकारणतासाधनं स्वभावकारणतावादेनार्थान्तरितं
स्यादित्याशङ्क्याह - स्वभाव इति । न युज्यते । कुतः ।
निर्विशेषत्वात्कारणस्य
कार्यसहोत्पत्तिकासाधारणधर्मविशेषरूपतत्स्वभावरूपत्वा##-
नाकारणे कारणादि परे वस्त्वादिकारणे ।
विचारणीयः सारो हि किमसारविचारणैः ॥ २३ ॥
तर्हि चिद्ब्रह्ममात्रेण कारेणेन जगति
जाड्यादिस्वभावत्वासिद्धेर्जाड्यदुःखादिस्वभावं ब्रह्मणि जगतः
कारणान्तरं वैचित्र्यहेतूनि निमित्तान्तराणि चाभ्युपेयानि स्युरिति चेन्नेत्याह ##-
सर्वप्रपञ्चारोपस्यादिकारणे ब्रह्मणि कारणनिमित्तादि वस्त्वपि न सम्भवति
तत्स्वभावविरोधादेवेत्यकारणविवर्तरूपं जगदनृतमेवेत्यर्थः । तर्हि
जडानृतदुःखरूपस्य जगतो जडानृतदुःखरूपमेवादिकारणमुचितमिति
तदेव विचार्यतां किमकारणब्रह्मविचारणेति चेत्तत्राह - विचारणीय इति ।
असारविचारणैः किं । कः पुरुषार्थ इत्यर्थः ॥ २३ ॥
बीजं जहद्बीजवपुः फलीभूतं विलोक्यते ।
ब्रह्माजहन्निजवपुः फलं बीजे च संस्थितम् ॥ २४ ॥
अकारणमादिकारणमिति यदुक्तं तदाशयोद्घाटनाय
प्रागुक्तबीजदृष्टान्तापेक्षया ब्रह्मणि यो विशेषस्तमाह - बीजमिति । बीजं
बीजवपुर्बीजाकारं जगत् त्यजत् सत् अङ्कुरादिफलीभूतं लोके विलोक्यते न तथा
ब्रह्मेति । अत एव तद्विवर्तोपादानं
स्वसमसत्ताककार्याभावादकारणमित्युक्तमित्याशयः ॥ २४ ॥
बीजस्याकृतिमत्सर्वं तेनानाकृतिमत्पदम् ।
न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे ॥ २५ ॥
विशेषान्तरमपि दर्शयन्निर्विशेषस्योपचारादेवोपमोपन्यस्ता न
वस्तुवृत्त्येत्याह - बीजस्येति । सर्वं स्वरूपमवयवगुणादि च आकृतिमत्
इतरव्यावर्तकजातिसंस्थानादिमत् । तेन बीजेन समीकर्तुं तुलयितुम् ॥ २५ ॥
स्वमेव जायतेऽस्वाभं न च तज्जायतेऽन्यदृक् ।
अतो न जातं नाजातं विद्धि ब्रह्म नभो जगत् ॥ २६ ॥
तर्ह्युपमोपचारस्य किं फलं तदाह - स्वमेवेति । अस्वाभं
अनात्माभासम् ॥ २६ ॥
दृश्यं पश्यन्स्वमात्मानं न द्रष्टा सम्प्रपश्यति ।
प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥ २७ ॥
यदि स्वमेव जगदाभासं पश्यति तर्हि कुतोऽस्यानर्थप्राप्तिर्यतस्तत्परिहाराय
शास्त्रं सफलं स्यात्तत्राह - दृश्यमिति । यथाभूतं स्वमात्मानं न
पश्यतीत्यत एवानर्थ इत्यर्थः ॥ २७ ॥
मृगतृष्णाजलभ्रान्तौ सत्यां कैव विदग्धता ।
विदग्धतायां सत्यां तु कैवासौ मृगतृष्णिका ॥ २८ ॥
भ्रान्त्युदये स्वाभाविक्यप्यस्य पूर्णानन्दस्वप्रकाशता वृथा
सम्पन्नेत्याशयेनाह - मृगतृष्णेति । विदग्धता विद्वता ॥ २८ ॥
आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।
नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः ॥ २९ ॥
निर्मलस्वप्रकाशसर्वगतस्वभावत्वात्सर्वेषां सर्वदा
स्फुटदर्शनार्होऽप्यात्मा कदापि केनापि तत्त्वतो न वीक्ष्यते अहो बहिर्मुखानां
भ्रान्तिप्राबल्यमित्याह - आकाशेति । यथा नेत्रं
पराक्प्रवणत्वात्स्वमात्मानं न पश्यति तद्वत् ॥ २९ ॥
आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।
तेषां निजमिवात्मानं दृशीभूतमिवाभ्रमः ॥ ३० ॥
ननु बहिर्मुख आन्तरं स्वमात्मानं न पश्यतु बाह्यानां तु
परेषामात्मानं पश्यत्विति चेन्नेत्याह - आकाशेति । निजात्मानमिव तेषां
सर्वेषां बाह्यानामप्यात्मानं पारमार्थिकरूपं न पश्यति । यथा
अभ्रमः निःशेषनिवृत्तभ्रान्तिर्मुक्तः दृशीभूतं दृश्यतापन्नं
द्वैतं न पश्यति तद्वदित्यर्थः ॥ ३० ॥
आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते ।
दृश्ये दृश्यतया दृष्टे त्वस्य लाभः सुदूरतः ॥ ३१ ॥
तथाच दृश्यं दृश्यतया न द्रष्टव्यं किन्तु दृङ्मात्रतयेति भावः ॥
३१ ॥
तादृग्भावस्वरूपेण विना यत्र न दृश्यते ।
तत्रापि दूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥ ३२ ॥
ननु प्रमातुरान्तर आत्मा विषयाभिमुखेन तेन न दृश्यतां
घटादिविषयाधिष्ठानभूतस्तु बहिर्वृत्तिव्याप्त्या दृश्यताम् तत्र
प्रत्यङ्मुखत्वस्यानुपयोगादित्याशङ्क्याह - तादृगिति । यत्र
घटादिविषयप्रदेशे वृत्त्यवच्छिन्नस्य
द्रष्टुर्वृत्तेर्बाह्यघटाद्याकारानुरञ्जनात्स्वस्यापि तादृग्भावस्वरूपेण
विना घटादि द्रष्टुं न शक्यते तत्रापि द्रष्टुर्दृश्यता दर्शनार्हता
दूरोदस्ता दूरान्निरस्तैव । तत्र हेतुगर्भं विशिनष्टि - सूक्ष्मस्येति ।
विषयवृत्तिताद्रूप्यानुरक्तस्वरूपाद्विविच्य
सूक्ष्मचिन्मात्रस्यावधारणाशक्तेरिति भावः ॥ ३२ ॥
दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ।
द्रष्टैव सम्भवत्येको नतु दृश्यमिहास्ति हि ॥ ३३ ॥
यदि सर्वथा द्रष्टा न दृश्यते तर्हि कथं तन्मात्रयुक्त्या
तल्लाभसिद्धिरित्याशङ्क्य तदुपायमाह - द्रष्टैव सम्भवतीत्यादिना ॥ ३३
॥
द्रष्टा सर्वात्मको दृश्ये स्थितश्चेत्कैव द्रष्टृता ।
सर्वशक्तिमता राज्ञा यद्यत्सम्पद्यते यथा ॥ ३४ ॥
कुतो नास्ति तदाह - द्रष्टेति । दृश्यप्रदेशास्थितस्य द्रष्टृत्वे
अतिप्रसङ्गात् सर्वभूताधिवासः साक्षी चेता इत्यादिश्रुतेश्च सर्वात्मा दृश्ये
स्थितश्च द्रष्टावश्यं वाच्यः । एवं चेत्तस्य स्वात्मभूते सर्वस्मिन्दृश्ये
स्वात्मनि क्रियाविरोधात् कुतो द्रष्टृतेत्यर्थः । यदि तु सर्वशक्तिमत्त्वात्समर्थो
राजेव दृश्यं सम्पाद्य तत्तथानुभवन् द्रष्टा भविष्यतीति ब्रूयास्तर्हि
स्वातिरिक्तोपकरणापेक्षत्वे शक्तिसङ्कोचापत्तेरविकृतः स एव
तत्तद्दृश्यरूपेण तथा तथोदेतीति पक्षस्यैव परिशेषान्न
द्रष्टृतेत्यतिरिक्तवस्तुसिद्धिरित्याशयेनाह - सर्वशक्तिमतेति ॥ ३४ ॥
तत्तथानुभवत्याशु स एवोदेति तत्तथा ।
यथा मधुरसोल्लासः खण्डो भवति भासुरः ॥ ३५ ॥
उक्तेऽर्थे समञ्जसं दृष्टान्तमुपवर्ण्य प्रकृते योजयति - यथेत्यादिना
। मधुरसस्य मधुररसस्यैक्षवरसस्य प्रसिद्धमधुरूपस्य वा रसस्य
देशविशेषे मधुनोऽपि खण्डशर्करोत्पत्तिप्रसिद्धेः । खण्डः
खण्डशर्करा ॥ ३५ ॥
रसतामजहच्चैव फलपुष्पलतोन्नतः ।
चिदुल्लासस्तथा जीवो भूयो भवति देहकः ॥ ३६ ॥
फलपुष्पादिरसैर्मधुमक्षिकाहृतैरुन्नतः [मूले
फलपुष्पलताशब्देन लक्षणया तद्रसो गृह्यते] । अथवा मधुरसो
वसन्तकाले वृक्षप्रविष्टरसः फलपुष्पलतात्मनोन्नतो वनखण्डो यथा
भवति तद्वदिति व्याख्येयम् ॥ ३६ ॥
चिन्मात्रतां तामजहदेव दर्शनदृङ्मयम् ।
अन्तःस्वानुभवश्चैव जगत्स्वप्नं प्रपश्यति ॥ ३७ ॥
अहन्तादिरसे भौमे खण्डकत्वमिवात्मनि ।
नानाखण्डसहस्रौघैरद्वितीयैर्निजात्मनः ॥ ३८ ॥
आत्मनि अहन्तादिभौमे रसे लवणादौ खण्डकत्वमिवेति प्रतिज्ञातस्यार्थस्य
नानाखण्डसहस्रौघैरित्यादि चित्तथोदेत्यसम्भ्रममित्यन्तमुपपादनम् ।
निजात्मनो लवणादेरद्वितीयैरभिन्नैः ॥ ३८ ॥
यथोदेति रसो भौमश्चित्तथोदेत्यसम्भ्रमम् ।
चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि ॥ ३९ ॥
ब्रह्माण्डानन्त्यं दर्शितमित्याशयेनाह - चिद्रसेति ॥ ३९ ॥
दृश्यशाखाशताढ्यानामिह नान्तोऽवगम्यते ।
खण्डः प्रत्येकमेवायं यथा रसचमत्कृतिम् ॥ ४० ॥
तेषु तेषु भोगचमत्कारा अप्यनन्ता इति दर्शयति - खण्ड इति । अयं
दृश्यमानः खण्ड एतद्ब्रह्माण्डलक्षणो वनखण्डो यथा यथा
स्वरसचमत्कृतिं स्वादयति अनुभावयति एवं तथा तथा एषा चित्
पश्यत्यनुभवतीति परेणान्वयः ॥ ४० ॥
स्वादयत्येवमेषा चित्पृथक्पश्यति संस्थितिम् ।
या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः ॥ ४१ ॥
पृथगिति वीप्सितं बोध्यम् । प्रतिब्रह्माण्डमित्यर्थः । चमत्कृतिवैचित्र्ये
तत्कल्पकविचित्रतत्तज्जीवसंस्कारोद्बोध एव हेतुरित्याह - या येति ॥ ४१ ॥
तां तां तथैति सा स्वात्मचिद्रूपभुवनस्थितिम् ।
जीवसंसृतयः काश्चित्प्रमिलन्ति परस्परम् ॥ ४२ ॥
तत्र समानाकारवासनोद्भवेऽज्ञजीवानामपि संसृतयो मिलन्तीति
जीवसंसृतिमेलनमुपवर्णितमुपसंहरति - जीवसंसृतय इति ॥ ४२ ॥
स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ।
सूक्ष्मया परया दृष्ट्या त्वं पश्य ज्ञानचेतसा ॥ ४३ ॥
मम तर्हि परसंसृतिसहस्रदर्शने क उपायस्तमाह - सूक्ष्मयेत्यादिना ।
ज्ञानचेतसेति । प्रागुक्तेन शुद्धचित्तानां दर्शनोपायेनेत्यर्थः ॥ ४३ ॥
जगज्ज्वालसहस्राणि परमाण्वन्तरेष्वपि ।
चित्ते नभसि पाषाणे ज्वालायामनिले जले ॥ ४४ ॥
सन्ति संसारलक्षाणि तिले तैलमिवाखिले ।
सिद्धिमेति यदा चेतस्तदा जीवो भवेच्चितिः ॥ ४५ ॥
शुद्धा च सा सर्वगता तेन तन्मेलनं मिथः ।
सर्वेषां पद्मजादीनां स्वसत्ताभ्रमरूपकः ॥ ४६ ॥
पद्मजादीनामस्मदादिसंसारदर्शनं शुद्धिवशादेवेत्याह - शुद्धा
चेति । सर्वगतब्रह्मैकरसत्वात्सर्वगता । मेलनमपि स्वकीयपरकीयस्वप्नानां
दैवात्क्वचित्संवादवत्स्वान्तःकल्पनात्मकमेवेत्याशयेनाह -
सर्वेषामित्यादिना ॥ ४६ ॥
जगद्दीर्घमहास्वप्नः सोऽयमन्तः समुत्थितः ।
स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः ॥ ४७ ॥
तेनोपलम्भः कुड्यादावसौ दृढतरः स्थितः ।
यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् ॥ ४८ ॥
तेन स्वप्नपरमपराभ्रमणेन । तद्वासनादार्ढ्याद्दृढतरः । चितो
वासनोद्भवानुरूपविवर्तसामर्थ्यं सार्वत्रिकमिति दर्शयति - यद्यत्रेति ॥
४८ ॥
तया स्वप्नेऽपि यद्दृष्टं तत्काले सत्यमेव तत् ।
चिदणोरन्तरे सन्ति समस्तानुभवाणवः ॥ ४९ ॥
अत एव चित्सत्तायास्तत्रानुवेधानुभव इत्याह - तयेति । अनुभवाणवः
सूक्ष्मीभूतानुभवाः जगदाकारवासना इति यावत् ॥ ४९ ॥
(यथा [कोष्ठकविन्यस्तोऽयं पाठः प्रक्षिप्त इति भाति
आदर्शान्तरेष्वदर्शनाट्टीकाकर्त्रसम्मतत्वाच्च] बीजान्तरे
पत्रलतापुष्पफलाणवः) ।
परमाणुजगत्यन्तर्मन्ये चित्परमाणवः ।
लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज ॥ ५० ॥
परमाण्विति । तथाच चिज्जगतोः कार्त्स्येन परस्परान्तःप्रविष्टत्वमाश्चर्यं
मन्ये इत्यर्थः । अथवा नेदमाश्चर्यं चिदाकाशस्यैव जगद्भ्रमैर्भेदेन
गृहीतस्य स्वात्मनि लीनत्वादित्याशयेनाह - लीनमिति ॥ ५० ॥
देशकालक्रियाद्रव्यैः स्वैरेवाणुभिरेव चित् ।
अणूननुभवत्यन्तरितराणि नसम्भवात् ॥ ५१ ॥
उक्तमेव प्रपञ्चयति - देशेत्यादिना । अणुभिः सूक्ष्मैः स्वैरेव
चिदंशैः स्वात्मभूतानेवेतराणीवानुभवति नतु वस्तुत इतराणि । इतरेषां
नसम्भवादसम्भवात् ॥ ५१ ॥
स्वयं सर्गस्य कचितः स्वप्ने चिदणुखण्डकः ।
ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥ ५२ ॥
ब्रह्मादेः कीटनिष्ठस्य कीटान्तस्थस्य
साधारणस्तत्तदन्तःकरणोपाधिवशाच्चिदणुखण्डकः प्रलयकाले अस्फुटोऽपि
सर्गस्य स्वप्ने प्रसक्ते तत्तद्देहदृष्ट्यानुभावितो भवतीत्यर्थः ॥ ५२ ॥
कचितं किञ्चिदेवेह वस्तुतस्तु न किञ्चन ।
स्वयं सत्यं स्वादयन्ते द्वैतं चित्परमाणवः ॥ ५३ ॥
यदनुभूयते किं तदिति तत्राह - कचितमिति ।
किञ्चिदेवेत्यनिर्वचनीयमित्यर्थः । तर्हि तत्किं तत्राह - स्वयं सत्यमिति ।
यथा कश्चिद्भ्रान्तः स्वयं स्वस्कन्धमारुरुक्षति तद्वच्चित्परमाणवो जीवाः
स्वयं सत्यमात्मरूपमेव द्वैतं मन्यमाना भ्रान्त्या स्वादयन्तीत्यर्थः ॥
५३ ॥
स्वयं प्रकचति स्फारदेहश्चिदणुखण्डकः ।
नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् ॥ ५४ ॥
चिदेवाण्वन्तःकरणपरिच्छेदादणुखण्डकः ॥ ५४ ॥
सम्पश्यतितरां कश्चिद्बहीरूपेण चिद्घटः ।
सर्वगत्वादनाशित्वाद्दृश्यबीजस्य वै चितेः ॥ ५५ ॥
कश्चिद्व्यष्टिरूपश्चिदेव घटसदृशस्थूलदेहपरिच्छेदाच्चिद्घटः ।
देशतः कालतश्च बहीरूपेण । तत्र क्रमाद्धेतुः -
सर्वगत्वादनाशित्वाच्चेति ॥ ५५ ॥
अन्तरेवाखिलं कश्चित्पश्यत्य विमलं जगत् ।
तत्रातिकालकलनादुन्मज्जति निमज्जति ॥ ५६ ॥
कश्चित्समष्ट्यात्मा ब्रह्माण्डरूपः ।
अतिकालकलनाच्चिराभ्यासात्तादात्म्याभिमानेन निमज्जति लीयते उन्मज्जति
पुनराविर्भवति ॥ ५६ ॥
स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन्पुनः पुनः ।
मिथ्या वटेषु लुठति शिलेव शिखरच्युता ॥ ५७ ॥
केचित्सम्मिलिताः केचिदात्मन्येवाभ्रमे स्थिताः ।
मग्नाः स्वसंवित्प्रसरे स्फुरन्तो देहखण्डकाः ॥ ५८ ॥
स्वयमन्तः प्रपश्यन्ति ये जगज्जीवविभ्रमम् ।
तैस्तैः कैश्चित्ततं दृश्यमसत्स्वप्नवदाश्रितम् ॥ ५९ ॥
अन्तर्दृश्यद्रष्टॄणां तन्मिथ्यात्वज्ञानं विशेष इत्याशयेनाह -
स्वयमिति ॥ ५९ ॥
सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि ।
सर्वगं विद्यते यत्र तत्र सर्वमुदेति हि ॥ ६० ॥
तेषामन्तरेव विश्वोदये चान्तस्तत्सत्ताहेतुर्बहिः केषाञ्चित्तद्दर्शने तु बहिरेव
तत्सत्ताहेतुरिति बीजव्यवस्थां हृदि निधायाह - सर्वात्मत्वादिति ॥ ६० ॥
जीवान्तः प्रतिभासस्य सर्वस्य पुनरन्तरे ।
जीवखण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च ॥ ६१ ॥
जीवान्तर्जीवान्तरस्य तत्र तत्र च जीवान्तरस्य सप्रपञ्चस्यानवस्थितस्योदयेऽपि
तत्रत्यचिति तत्तत्सत्तैवाज्ञानसहिता हेतुर्ज्ञाते तु न किञ्चित्क्वाप्यासीदस्ति
भविष्यति वेत्याशयेनाह - जीवान्तरित्यादिना ॥ ६१ ॥
जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः ।
सर्वत्र रम्भादलवज्जीवो जीवन्तरेव हि ॥ ६२ ॥
दृश्यबुद्धिपरावृत्तौ सममेतदनन्तरम् ।
हेम्नीव कटकादित्वं परिज्ञातं विनश्यति ॥ ६३ ॥
बुद्धेः परावृत्तौ पराक्प्रवणतां त्यक्त्वा प्रत्यक्प्रवणत्वे सति समं
युगपदेव चैतदान्तरं बाह्यं च तत्त्वतः परिज्ञातं सद्विनश्यति ॥ ६३ ॥
विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् ।
तस्यान्तर्न विमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ॥ ६४ ॥
एवं तत्त्वदर्शनलक्षणां तन्मात्रयुक्तिं दर्शयित्वा
तत्प्राप्तिप्रतिष्ठोपायानिन्द्रियजयादिविचारान्तान्व्युत्क्रमेण वक्तुमुपक्रमते
- विचार इति ॥ ६४ ॥
विचारः सफलस्तस्य विज्ञेयो यस्य सन्मतेः ।
दिनानुदिनमायाति तानवं भोगगृध्नुता ॥ ६५ ॥
वैराग्यपूर्वकविचार एव फलपर्यवसायी न रागीकृत इत्याह - सफल इति ॥
६५ ॥
यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् ।
तथेन्द्रियजयेऽभ्यस्ते विवेकः फलितो भवेत् ॥ ६६ ॥
इन्द्रियजयाभ्यासपूर्वकमेव वैराग्यं विवेकहेतुर्नान्यादृशमित्याह -
यथेति । देहेनोपयुक्तं पथ्याशनादिनियमैः सेवितम् ॥ ६६ ॥
विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः ।
यस्य तेनापरित्यक्ता दुःखायैवाविवेकिता ॥ ६७ ॥
वेवेकोऽपि वैराग्यमुमुक्षौत्कण्ठ्यापादनेन
सन्न्यासश्रवणादिपहलपर्यवसित एव
तन्मात्रयुक्तिजन्मप्रतिष्ठयोरुपयुज्यते न वाङ्मात्रपल्लवित इति दर्शयति -
विवेक इत्यादिना । यस्य वचस्येव विवेकोऽस्ति न मनसि तेन अविवेकिता अपरित्यक्तेति सा
दुःखायैव भवतीत्यर्थः ॥ ६७ ॥
यथा स्पर्शेन पवनः सत्तामायाति नो गिरा ।
तथेच्छातानवेनैव विवेकोऽस्य विबुध्यते ॥ ६८ ॥
तर्हि मनःप्रतिष्ठितेऽस्य विवेके किं लिङ्गमिति चेद्वैराग्यदार्ढ्यमेवेत्याह ##-
तद्वदित्यर्थः । तानवं अपक्षयक्रमेण नाशः ॥ ६८ ॥
चित्रामृतं नामृतमेव विद्धि
चित्रानलं नानलमेव विद्धि ।
चित्राङ्गना नूनमनङ्गनेति
वाचा विवेकस्त्वविवेक एव ॥ ६९ ॥
रागिणा वाङ्मात्रदर्शितो विवेकस्तु अविवेकशाखोपशाखात्मकत्वादविवेक
एवेति तुल्योक्त्या दर्शयति - चित्रामृतमिति । चित्रलिखितममृतं पीयूषं
वारि वा ॥ ६९ ॥
पूर्वं विवेकेन तनुत्वमेति
रागोऽथ वैरं च समूलमेव ।
पश्चात्परिक्षीयत एव यत्नः
स पावनो यत्र विवेकितास्ति ॥ ७० ॥
यत्न इष्टानिष्टप्राप्तिपरिहारानुकूला प्रवृत्तिर्ज्ञानोदयेन
मूलोच्छेदात्परिक्षीयत एव । तस्माद्यत्र वेवेकितास्ति स एव
पुमांस्तन्मात्रयुक्तिप्रतिष्ठायोग्यः पावन इत्यर्थः ॥ ७० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे
जीवनखण्डकावतारो नामाष्टादशः सर्गः ॥ १८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जीवनखण्डकावतारो नामाष्टादशः सर्गः ॥ १८ ॥