सप्तदशः सर्गः १७
श्रीराम उवाच ।
भगवन्भृगुपुत्रस्य प्रतिभासानुभूतितः ।
यथैषा सफला जाता तथान्यस्य न किं भवेत् ॥ १ ॥
शुद्धानामिह चित्तानां सत्यसङ्कल्पतोच्यते ।
वासनादृष्टतुल्यत्वे मेलनं च परस्परम् ॥ १ ॥
ननु शुक्रस्याप्सरः स्वर्गादिमनोराज्यस्य चिरं भोगेन
साफलयमिवान्येषामपि तस्य तथात्वं किं न स्यादिति रामः शङ्कते -
भगवन्निति । या भानोरथिकी प्रतिभा सैषा यथा स्वर्गाद्यनुभूतितः सफला
जाता तथा अन्येषामपि किं न भवेदित्यन्वयः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
इयं प्रथममुत्पन्ना सा तनुर्ब्रह्मणः पदात् ।
शुद्धा जातिर्भार्गवस्य नान्यजन्मकलङ्किता ॥ २ ॥
प्रतिभानां फलोपभोगसंवादेन सफलत्वे द्वौ हेतू सत्यसङ्कल्पत्वयोग्या
चित्तशुद्धिः उत्क्रान्तिकालोद्बुद्धपरिपक्वभाविभोगप्रदकर्मोद्भावितत्वं च ।
तत्राद्यं शुक्रस्य दर्शयन्समाधत्ते - इयं प्रथममित्यादिना । शुक्रस्य
प्राक्कल्पीयसर्वदोषाणां तच्चरमजन्मानुष्ठितकर्मोपासनैः
क्षयादस्मिन्कल्पे सेयं तनुः
प्रथममुत्पन्नेत्येतत्कल्पीयदोषाप्रसक्तेर्ब्रह्मणः
पदादेवाधिकारभोगार्थं धातुः सङ्कल्पाज्जातत्वेन
तत्साङ्कल्पिकदोषस्याप्रसक्तेरुभयकुलशुद्धा ब्राह्मणजातिरिति
बीजगर्भजात्यादिदोषस्याप्यप्रसक्तेर्नासत्यसङ्कल्पताप्राप्तिरित्यन्येभ्योऽस्य
विशेष इत्यर्थः ॥ २ ॥
सर्वैषणानां संशान्तौ शुद्धचित्तस्य या स्थितिः ।
तत्सत्यमुच्यते सैषा विमला चिदुदाहृता ॥ ३ ॥
अन्येषां ब्रह्मविदामपि सत्यसङ्कल्पत्वे रागादिदोषक्षयप्रयुक्तशुद्ध्या
चित्तस्य सत्यात्मभावापत्तिरेव हेतुरित्याशयेनाह - सर्वैषणानामिति ॥ ३ ॥
मनोनिर्मलसत्त्वात्म यद्भावयति यादृशम् ।
तत्तथाशु भवत्येव यथावर्तो भवेत्पयः ॥ ४ ॥
यथा भृगुसुतस्यैव बिभ्रमः प्रोत्थितः [सोत्थितः इति पाठः]
स्वयम् ।
प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ॥ ५ ॥
अन्येषां चित्तशुद्ध्यभावात्सत्यसङ्कल्पत्वासिद्ध्या आद्यकल्पासम्भवेऽपि
द्वितीयकल्पानुसारात्प्राक्तनमरणोद्बुद्धकर्मवासनाद्यनुगुणसुखदुःखभ्
ओगानुकूलजगत्प्रतिभासे शुक्रसाम्यमस्त्येवेत्याशयेनाह - यथेति ॥ ५ ॥
बीजस्थाङ्कुरपत्रादि स्वं चमत्कुरुते यथा ।
सर्वेषां भूतसङ्घानां भ्रमखण्डास्तथैव हि ॥ ६ ॥
भ्रमखण्डा भ्रान्तिकृतद्वैतविभागाः ॥ ६ ॥
यदिदं दृश्यते विश्वमेवमेवाखिलं जगत् ।
प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ॥ ७ ॥
दृश्यते अस्माभिरिति शेषः । प्रत्येकं प्रतिजीवम् ॥ ७ ॥
नास्तमेति नचोदेति जगत्किञ्चन कस्यचित् ।
भ्रान्तिमात्रमिदं मायामुग्धेव परिजृम्भते ॥ ८ ॥
परमार्थदृशा त्वाह - नास्तमिति । मुग्धा उन्मत्तेव ॥ ८ ॥
यथा सम्प्रतिभासस्थः स्वयं संसारखण्डकः ।
तथा तेषां सहस्राणि मिथ्या दृष्टानि सन्ति हि ॥ ९ ॥
एकैकस्यापि जीवस्यानेकं जगदनुभवसिद्धमित्याह - यथेति । सम्प्रति
जागरे भासोऽपरोक्षावभासस्तत्र तिष्ठतीति भासस्थः । अस्माकमिति शेषः ।
तेषां संसारखण्डानाम् । सन्ति स्वप्नभ्रमादावित्यर्थः । अथवा यदि
प्रतिजीवं संसाराः प्रत्येकमुदितास्तर्हि कुतो न भासन्त इति चेत् भासन्त एवेत्याह
- यथेति । सम्यक्प्रतिभासः स्फुटानुभवस्तत्स्थः अस्माकमिति शेषः ।
तेषां जीवान्तराणां सहस्राणि संसाराणामिति शेषः ॥ ९ ॥
स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् ।
पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥ १० ॥
तर्हि सर्वैः परस्परं संसाराः पृथक्कुतो न दृश्यन्ते तत्राह -
स्वप्नेति । यथान्यस्य स्वप्नोऽन्यैर्न दृश्यते तद्वदित्यर्थः ॥ १० ॥
एवं नगरवृन्दानि नभस्सङ्कल्परूपिणि ।
सन्ति तानि न दृश्यन्ते मिथ्याज्ञानदृशं विना ॥ ११ ॥
पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि ह ।
सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥ १२ ॥
एवमेव वयं चेमे सम्पन्ना रघुनन्दन ।
स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविनः ॥ १३ ॥
एवमेव शुक्रवदेव ॥ १३ ॥
एवंरूपैव हि परे विद्यते सर्गसन्ततिः ।
न वास्तवी वस्तुता तु संस्थितैवमवस्तुनि ॥ १४ ॥
व्यष्टेः परे हिरण्यगर्भेऽपि एवमन्धपरम्परयैव संस्थिता ॥ १४ ॥
प्रत्येकमुदितं विश्वमेवमेव मुघैव हि ।
वनगुल्मकरूपेण वसन्तैकरसो यथा ॥ १५ ॥
सर्वजीवजगदाकारेण ब्रह्मैवोदितमित्याह - प्रत्येकमिति ॥ १५ ॥
प्रथमोऽयं स्वसङ्कल्पः प्रथामभ्यागतो यथा ।
तथातिपरमार्थेन दृष्टेनेत्थं विभाव्यते ॥ १६ ॥
प्राथमिकः स्वसङ्कल्प एव जगदाकारप्रथामभ्यागत इति कथं ज्ञायते
तत्राह - प्रथम इति । तत्त्वदर्शनेन ज्ञायत इत्यर्थः ॥ १६ ॥
प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् ।
इदमित्थं समारम्भं जगत्पश्यन्विनश्यति ॥ १७ ॥
स्वस्य स्वभावः अनाद्यज्ञानं तदुदरस्थितं चित्तमेव जगदिति
पश्यन्विनश्यति स्वयमित्यर्थः ॥ १७ ॥
प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात् ।
दीर्घस्वप्नो जगज्जालमालानं चित्तदन्तिनः ॥ १८ ॥
तथाच प्रतिभासकालिक्येव जगत्सत्ता न वास्तवाधिष्ठानदर्शने
स्थातुमर्हतीत्याह - प्रतिभासेति ॥ १८ ॥
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चित्तकम् ।
एकाभावाद्द्वयोर्नाशः स च सत्यविचारणात् ॥ १९ ॥
तर्हि जगति किं प्राक्प्रतिभाता सत्ता अत्यन्तासती नेत्याह - चित्सत्तैवेति ।
चित्तसत्तैव हि जगत् इति पाठे आलानं चित्तदन्तिन इति यदुक्तं तदाशयं
स्फुटयति - चित्तसत्तैवेति । तत्फलमाह - एकाभावादिति ॥ १९ ॥
शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।
प्रमार्जनादिव मणेर्मलिनस्येह युक्तितः ॥ २० ॥
चित्तसत्तया जगत्सत्ता क्व दृष्टेति चेच्छुद्धचित्तानां सत्यसङ्कल्पोत्थे वस्तुनि
दृष्टेत्याशयेनाह - शुद्धस्येति । मणेः प्रमार्जनान्मणिकार्यस्य
प्रकाशविषनिर्हरणादेरिवेत्यर्थः । युक्तित उपायतः ॥ २० ॥
चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ।
अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥ २१ ॥
एकदृढाभ्यास ऐकाग्र्यदार्ढ्याभ्यासः । प्रतिभा
स्वच्छताप्रयुक्तभास्वरता ॥ २१ ॥
सुवर्णं न स्थितिं याति मलवत्यंशुके यथा ।
एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥ २२ ॥
सुवर्णं शोभनवर्णं रञ्जकद्रव्यं द्रुतस्वर्णं वा । मलवत्यंशुके
मलिनवस्त्रे । एका दृष्टिरद्वैतात्मज्ञानम् ॥ २२ ।
श्रीराम उवाच ।
प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः ।
सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥ २३ ॥
वासनानुसारी जगद्भ्रम इत्युक्तं तत्राननुभूते
स्वर्गाप्सरोजन्मपरम्परादिवैचित्र्यक्रमे वासनारूपबीजासम्भवाच्छुक्रस्य
कथं तदारोपक्रमः सम्पन्न इत्याशयेन रामः पृच्छति -
प्रतिभासात्मनीति । शुक्रस्य चेतसश्चित्तस्य प्रतिभासात्मनि
प्रातिभासिककल्पनात्मके जगति कथं केन हेतुना जाताः ॥ सोदयास्तमया
इत्यनेन प्रतिभासोदयास्तमययोः प्रतिभासकाले ग्रहणायोगादप्रतिभासकाले
च तयोरप्यनुभवासिद्धेः सुतरां तद्गोचरवासनाऽसिद्धिस्तदसिद्धौ
क्रमस्याप्यसिद्धिरित्याशयः सूचितः ॥ २३ ॥
श्रीवसिष्ठ उवाच ।
यादृग्जगदिदं दृष्टं शुक्रेण पितृशास्त्रतः ।
तादृक्कस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥ २४ ॥
पितृतः पितृजन्यचक्षुरादिवशात्पितृवाक्याच्च । शास्त्रतः
श्रुतिस्मृत्यादिभ्यश्च यादृक्
यादृशोत्पत्तिनाशादिविशिष्टमस्तीत्यवगतमैहिकं पारलौकिकं च तस्य चित्ते
तादृगेव संस्काररूपेण स्थितम् । तथाच
पितृशास्त्रादिप्रमाणतदाभासैरेव [प्रमाणतयाभासैः इति
पाठः] वासनोदयस्तस्याप्यासीदेवेत्यर्थः ।
उत्पत्तिनाशक्रमगोचरसंस्कारः साक्षिणैव सेत्स्यतीति भावः ॥ २४ ॥
स्वभावकोशस्थमिदं तदेतेन क्रमोदितम् ।
बीजेनाङ्कुरपत्रादिलतापुष्पफलं यथा ॥ २५ ॥
स्वभावकोशश्चिदधिष्ठिता सजीवा अविद्या । एतेन पितृशास्त्रनिमित्तेन ॥ २५ ॥
जीवो यद्वासनाबद्धस्तदेवान्तः प्रपश्यति ।
स्वरूपं चात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ॥ २६ ॥
स्वरूपं स्वप्ने स्वकल्पितं शरीरम् । ननु नायं स्वप्नो नेत्याह - दीर्घेति ॥
२६ ॥
प्रत्येकमुदितो राम नूनं संसृतिखण्डकः ।
रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ॥ २७ ॥
यथा सैन्यस्था नरा दिवा सैन्यवासनावासिता रात्रौ स्वप्ने प्रत्येकं सैन्यं
स्वस्ववासनाकल्पितं नानासैन्यं पश्यन्तोऽपि ऐक्यं मन्यन्ते तद्वदित्यर्थः ॥
२७ ॥
श्रीराम उवाच ।
एष संसृतिखण्डोत्थो मिथः स मिलति स्वयम् ।
नो वा मिलति तन्मे त्वं यथावद्वक्तुमर्हसि ॥ २८ ॥
नन्वेवं सति नरस्तदीयसंसारश्च परैर्न द्रष्टुं शक्यत इति गुरूणां
शिष्योद्धाराय प्रवृत्तिः शास्त्रप्रणयनं च स्वप्रकृतपरोपकार इव न
शिष्यं प्राप्नुयात् तथा चोपदेशालाभाच्छिष्यस्यानिर्मोक्षप्राप्तौ तुल्ययुक्त्या
गुरोरपि स्वगुरोरुपदेशालाभादनिर्मोक्षदोषानिर्मोक्ष इति मूलघातिन्येवेयं
कल्पनेत्याशयेन रामः पृच्छति - एष इति । यदि न मिलति तदोक्तदोषः यदि
मिलति तर्हि साधारणोऽयं संसारो नैकैकस्य ज्ञानेन बाधितुं शक्य
इत्युभयतस्पाशा रज्जिरित्याशयः ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति ।
अयोऽयसि च सन्तप्ते शुद्धे तप्तं तु लीयते ॥ २९ ॥
दोषद्वयास्पर्शाय व्यवस्थयोत्तरमाह - मलिनमिति । अयं भवः -
मलिनं हि मनः शुद्धे मनसि मिथः परस्परसंश्लेषं मेलनं नार्हति ।
कुतः यतः अवीर्यं शुद्धमेलनयोग्यसौक्ष्म्यसामर्थ्यहीनम् । तप्तं
कषायपाचनशुद्धं तु सन्तप्ते अयसि सन्तप्तमय इव लीयते ऐक्यं गच्छति ।
यतस्तत्समाधिज्ञाभ्यस्तसौक्ष्म्येण सवीर्यमित्याशयः । तथाच
सवीर्यत्वादेव देवानां परकीयस्वप्नप्रवेशेन वरदानानुग्रह इव
शिष्यमनःकल्पितजगदन्तःप्रवेशेन बोधनसमर्थमेवेति नाद्यो दोषः ।
साधारणत्वानभ्युपगमान्न द्वितीयदोषोऽपीति भावः ॥ २९ ॥
चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् ।
एकरूपाणि तोयानि यान्त्यैक्यं नाविलानि हि ॥ ३० ॥
शुद्धिर्हि चित्तस्य विवासनत्व-
मभूतसंवेदनमेकरूपम् ।
तस्याशु शुद्ध्यां भवति प्रबुद्ध-
स्तन्मात्रयुक्त्या परसङ्गमेति ॥ ३१ ॥
चित्तशुद्धेः परां काष्ठां दर्शयंस्तत्प्राप्त्यैव तत्त्वज्ञता दृढा
परमप्राप्तिश्च प्रतिष्ठिता भवति नान्यथेत्युपसंहरति - शुद्धिर्हीति ।
विवासनत्वमात्यन्तिकवासनाक्षय एव चित्तस्य परमा शुद्धिरित्यर्थः । तस्य
चित्तस्य तन्मात्रस्य तादृशचिन्मात्रपरिशेषलक्षणशुद्धिमात्रस्य युक्त्या
लाभेन परेण परमकैवल्यात्मना सङ्गं मोक्षमेतीति यावत् ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थि० भार्गवोपाख्याने
मनोराज्यसम्मेलनं नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
मनोराज्यसम्मेलनं नाम सप्तदशः सर्गः ॥ १७ ॥