षोडशः सर्गः १६
श्रीवसिष्ठ उवाच ।
अथाक्षिप्य वचस्तस्य तनयस्य तथा भृगोः ।
उवाच भगवान्कालो वचो गम्भीरनिःस्वनः ॥ १ ॥
कालवाक्याद्गते काले प्रवेशः स्वतनौ पुनः ।
शुक्रस्य दैत्यगुरुता जीवन्मुक्तिश्च वर्ण्यते ॥ १ ॥
तथा प्राग्वर्णितप्रकारं भृगोस्तनयस्य शुक्रस्य वचः
परिदेवनवाक्यमाक्षिप्य अयुक्तत्ववर्णनेन निरस्य ॥ १ ॥
काल उवाच ।
समङ्गातापसीमेतां तनुं सन्त्यज्य भार्गव ।
प्रविशेमां तनुं साधो नगरीमिव पार्थिवः ॥ २ ॥
काले पूर्वजया तन्वा तपः कृत्वा तया पुनः ।
गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ ॥ ३ ॥
काले आधिकारिकप्रारब्धोद्बोधकाले । पूर्वजया इदम्प्रथमया ॥ ३ ॥
महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥ ४ ॥
कदा तर्हि सा त्याज्या तदाह - महाकल्पान्ते इति । महतः
सहस्रयुगपरिमितस्य कल्पस्य ब्रह्मदिनस्यान्ते । अपुनर्ग्रहणाय पुनः
शरीरान्तराग्रहणाय । उपभुक्तम्लानपुष्पवत् ॥ ४ ॥
जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते ॥ ५ ॥
प्राक्तनरूपया पूर्वकल्पार्जितकर्मारब्धया ॥ ५ ॥
कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् ।
न किञ्चिदपि यच्चित्तं यस्य नाभिमतं भवेत् ॥ ६ ॥
कल्याणं शुभं वां युवाभ्यामस्तु । वयमिति अस्मदो द्वयोश्च
इत्येकस्मिन्बहुवचनमनुचरसाहित्यविवक्षया वा । अभिमतामिति
दिग्विशेषणमनभिमतव्यावृत्तये नोपात्तं
पूर्णात्मनोऽनभिमतस्यैवाप्रसिद्धेः । यस्य तु चित्तस्येदमभिमतमिदं
नाभिमतमिति विकल्पो भवेत्तद्यदनभिमतं विहायाभिमतमुपसर्पच्चित्तं
पर्यालोच्यमानं न किञ्चिद्वस्तुरूपमस्ति तस्मादभिमतां दिशमित्यस्य
परमप्रेमास्पदमात्मभावावस्थानं याम इति स्वाशयसूचनाय
विशेषणमुपात्तमिति दर्शयन्नाह - न किञ्चिदिति ॥ ६ ॥
इत्युक्त्वा मुञ्चतोर्बाष्पं तयोः सोऽन्तरधीयत ।
तप्ताङ्ग्योरिव रोदस्योः सममंशुभिरंशुमान् ॥ ७ ॥
तयोर्भृगुशुक्रयोः स्नेहाद्बाष्पं मुञ्चतोः । षष्ठी चानादरे इति
भावलक्षणे षष्ठी सप्तमी वा ॥ ७ ॥
गते तस्मिन्भगवति कृतान्ते भवितव्यताम् ।
विचार्य भार्गवोऽभेद्यां नियतेर्नियतां गतिम् ॥ ८ ॥
कृतान्ते काले । भवितव्यतामवश्यभाविकर्मगतिम् । नियतेरीश्वरेच्छाया
नियतामनिवार्यां गतिं च विचार्येत्यर्थः ॥ ८ ॥
कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् [फलोदयामिति
पाठः] ।
विवेश तां तनुं बालां सुलतामिव माधवः ॥ ९ ॥
कालश्चिरकालो हेमन्तशिशिरकालश्च तेन कारणेन निमित्तेन संशुष्काम् ।
माधवो वसन्तः ॥ ९ ॥
सा ब्राह्मणीतनुर्भूमौ विवर्णवदनाङ्गिका ।
पपात कम्पिता तूर्णं छिन्नमूला लता यथा ॥ १० ॥
सा वासुदेवाभिधाना समङ्गा तापसतनुः ॥ १० ॥
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः ।
चकाराप्यायनं मन्त्रैः स कमण्डलुवारिभिः ॥ ११ ॥
तस्यां शुक्राख्यायां पुत्रतन्वां प्रविष्टो जीवो यस्यां तथाविधायां
सत्याम् ॥ ११ ॥
सर्वा नाड्यस्ततस्तन्वास्तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥ १२ ॥
ततः आप्यायनानन्तरम् ॥ १२ ॥
नलिनी प्रावृषीवासौ मधाविव नवा लता ।
यदा पूर्णा तदा तस्याः प्रान्ताः पल्लविता बभुः ॥ १३ ॥
प्रान्ता अङ्गुलिनखकेशादयः पल्लविताः पल्लववन्निर्गताः सन्तो बभुः ॥ १३ ॥
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगादापूर्ण इव वारिदः ॥ १४ ॥
रसस्य जलस्य मारुतस्य पुरोवातस्य च संयोगात् ॥ १४ ॥
पुरोऽभिवादयामास पितरं पावनाकृतिम् ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ॥ १५ ॥
स्तनितेनेवेति दृष्टान्तबलान्नामगोत्रकीर्तनपूर्वकता अभिवादने गम्यते ॥ १५ ॥
पिताथ प्राक्तनीं तन्वा आलिलिङ्गाकृतिं ततः ।
स्नेहार्द्रवृत्तिर्जलदश्चिरादद्रितटीमिव ॥ १६ ॥
तन्वाः पुत्रतन्वाः । शोषविशीर्णाकृत्यपेक्षया प्राक्तनीं ।
पूर्ववद्यौवनसौन्दर्यादिशालिनीमिति यावत् ॥ आकृतिं आकारम् ॥ १६ ॥
भृगुर्ददर्श सस्नेहं प्राक्तनीं तानवीं तनुम् ।
मत्तो जातेयमित्यास्थां हसन्नपि महामतिः ॥ १७ ॥
बालत्वात्तनुः सूक्ष्मा सैव तानवी तां तनुं पुत्रदेहम् । तत्त्वदृशा
अनौचित्यचिन्तनाद्धसन्नपि । चकारेति शेषः ॥ १७ ॥
मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा ।
परमात्मीयता देहे यावदाकृतिभाविनी ॥ १८ ॥
यावदाकृति यावज्जीवं भाविनी । आवश्यके णिनिः ।
प्रारब्धप्राबल्यादवश्यभाविनीत्यर्थः ॥ १८ ॥
बभूवतुः पितापुत्रौ तावथान्योन्यशोभितौ ।
निशावसानमुदितावर्कपद्माकराविव ॥ १९ ॥
चिरसङ्गमसम्बद्धाविव चक्राह्वदम्पती ।
घनागमनसस्नेहौ मयूरजलदाविव ॥ २० ॥
चक्राह्वदम्पती चक्रवाकजायापती । घनशब्देन तत्कालो लक्ष्यते ।
बभूवतुरित्यनुषङ्गः ॥ २० ॥
चिरकालदृढोत्कण्ठौ तुल्ययोग्यतया तया ।
स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती ॥ २१ ॥
चिरकालवियोगाद्दृढीकृतसमागमोत्कण्ठौ । तया जगत्प्रसिद्धया
वर्णितरूपया च तुल्यानन्दभरयोग्यतया मुहूर्तं स्थित्वा जढीभूय ॥ २१ ॥
समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः ।
को हि नाम जगज्जातमाचारं नानुतिष्ठति ॥ २२ ॥
आचारं सदाचारम् । तथाचाचारपरिपालनमेव दाहादिफलं न
फलान्तरमत्रेत्यर्थः ॥ २२ ॥
एवं तौ कानने तस्मिन्पावने भृगुभार्गवौ ।
संस्थितौ तापसौ दीप्तौ दिवीव शशिभास्करौ ॥ २३ ॥
चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुसमौ सुस्थिरौ ततः ॥ २४ ॥
देशकालानां शुभाशुभादिदशौघेषु समौ हर्षविषादवैषम्यरहितौ ।
यतः स्वरूपे सुस्थिरावित्यर्थः ॥ २४ ॥
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये ॥ २५ ॥
असुरगुरुत्वग्रहणं ग्रहाधिकारस्याप्युपलक्षणम् । पदे प्राजापत्याधिकारे ॥
२५ ॥
शुक्रोऽसौ प्रथममिति क्रमेण जात-
स्तस्मात्सत्परमपदादुदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चा-
दन्येषु प्रविलुलितो दशान्तरेषु ॥ २६ ॥
उक्तां शुक्रगतिं सङ्क्षिप्योपसंहरति - शुक्र इति । स्वेन स्वीयेन
स्मृतिपदं पुनः पुनः स्मरणारूढा अप्सरास्तत्प्रयुक्तेन
मनोराज्यविभ्रमेण ॥ २६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
भार्ग० शुक्रस्य पुनर्जीवनं नाम षोडशः सर्गः ॥ १६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे शुक्रस्य
पुनर्जीवनं नाम षोडशः सर्गः ॥ १६ ॥