पञ्चदशः सर्गः १५
श्रीवसिष्ठ उवाच ।
विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः ।
समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलासवः ॥ १ ॥
अत्र तां तनुमालोक्य शुक्रस्य परिदेवनम् ।
तन्निमित्तविशेषोक्त्या स्वभावश्चोपदिश्यते ॥ १ ॥
इति प्रागुक्तप्रकाराः जागतीः सांसारिकीर्गतीर्विचारयन्तः सन्तः
समङ्गातटाद्भृग्वाश्रमं प्रति प्रचेलुः प्रचलिताः । चञ्चलासव इत्यनेन
प्राणक्रिययैव तेषां चलनोपचारो नत्वात्मनि क्रियास्तीति द्योतनाय ॥ १ ॥
क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः ।
सम्प्रापुः सिद्धमार्गेण क्षणान्मन्दरकन्दरम् ॥ २ ॥
अम्बुदकोटरैर्मेघच्छिद्रैः ॥ २ ॥
अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् ।
ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् ॥ ३ ॥
अधित्यकायां ऊर्ध्वभागभूमौ ॥ ३ ॥
उवाचेदं च हे तात तन्वी तनुरियं हि सा ।
या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥ ४ ॥
इदं वक्ष्यमाणप्रकारं वाक्यम् । तन्वी कृशा ॥ ४ ॥
इयं सा मत्तनुर्यस्याः कर्पूरागुरुचन्दनैः ।
अङ्गमङ्गीकृतस्नेहा धात्री चिरमलेपयत् ॥ ५ ॥
सुखसम्भोगैरिति यदुक्तं तत्प्रपञ्चयति - कर्पूरेत्यादिना ॥ ५ ॥
इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः ।
रचिता शीतला शय्या मेरूपवनभूमिषु ॥ ६ ॥
इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता ।
सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥ ७ ॥
सरीसृपमुखैः सर्पवृश्चिकप्रभृतिकीटैः क्षुण्णा सञ्चूर्णिता । छिद्रितेति
यावत् ॥ ७ ॥
चन्दनोद्यानखण्डेषु मम तन्वा ययानया ।
चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥ ८ ॥
चन्दनानां हरिचन्दनानामुद्यानखण्डेषु विलसितं क्रीडाभिः शोभितम् ।
नन्दना इति पाठे स्पष्टम् ॥ ८ ॥
सुराङ्गनाङ्गसंसर्गादुत्तूङ्गानङ्गभङ्गया ।
चेतोवृत्त्या रहितया तन्वाद्य मम शुष्यते ॥ ९ ॥
उत्तुङ्गा अनङ्गभङ्गाः कामतरङ्गा यस्यां तथाविधया चेतोवृत्त्या
रहितया त्यक्तया शुष्यते । भावे लट् ॥ ९ ॥
तेषु तेषु विलासेषु तासु तासु दशासु च ।
तथा तद्भावनाबन्धः कथं स्वस्थोऽसि देहक ॥ १० ॥
इदानीं देहमेव सम्बोध्यानुशोचति - तेषु तेष्वित्यादिना । तेषु तेषु विचित्रेषु
अवकाशेषु देवोद्यानादिप्रदेशेषु । तासु तासु विचित्रासु बाल्ययौवनादिदशासु ।
तथा प्रागभूतप्रकारास्तत्तत्सौन्दर्यालङ्कार
गीतहास्यरतिविलासादिभावनासम्बन्धा यस्य स तथाविधो भूत्वा सम्प्रति
कथं स्वस्थोऽसि । कुतस्तन्नानुशोचसीत्यर्थः ॥ १० ॥
हा तनो शवनामासि तापसंशोषमागता ।
कङ्कालतां प्रयातासि मां भीषयसि दुर्भगे ॥ ११ ॥
कङ्कालतां अस्थिमात्रावशेषताम् ॥ ११ ॥
देहेनाहंविलासेषु [अलमिति पाठः] येनैव मुदितोऽभवम् ।
कङ्कालतामुपगतात्तस्मादेव बिभेम्यहम् ॥ १२ ॥
ताराजालसमाकारो यत्र हारोऽभवत्पुरा ।
ममोरसि निलीयन्ते तत्र पश्य पिपीलिकाः ॥ १३ ॥
हारो मुक्तावली ॥ १३ ॥
द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गना ।
येन मद्वपुषा तेन पश्य कङ्कालतोह्यते ॥ १४ ॥
द्रवत्काञ्चनं द्रुतं सुवर्णमिव कान्तेन भासुरेण । लोभं
कामभोगस्पृहाम् । उह्यते धार्यते । पश्येति पुनः पितरं प्रत्युक्तिः ॥ १४ ॥
पश्य मे विततास्येन तापसंशुष्ककृत्तिना ।
मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥ १५ ॥
कुवक्रेण विकृतेन मुखेन ॥ १५ ॥
पश्यामि संशुष्कतया शवोदरदरी मम ।
प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥ १६ ॥
अन्तःप्रविष्टत्वात्प्रकाशेन प्रकाशमानेनार्कांशुजालेन शोभते ।
पश्यामीत्यस्य पश्य मृगो धावतीत्यत्रेव वाक्यार्थः कर्म ॥ १६ ॥
मत्तनुः परिशुष्केयं स्थितोत्तानाचलोपले ।
वैराग्यं नयतीवात्मतुच्छत्वेनान्तरं सताम् ॥ १७ ॥
आत्मनः स्वस्यास्तुच्छत्वेन फल्गुत्वेन । कुत्सितरूपताप्रदर्शनेनेति यावत् ।
नयत्युपदिशतीव ॥ १७ ॥
शब्दरूपरसस्पर्शगन्धलोभाद्विमुक्तया ।
निर्विकल्पसमाध्येव तदेतच्छुष्यते गिरौ ॥ १८ ॥
गन्धान्तानां लोभादभिलाषाद्विमुक्तया मत्तन्वा तदेतावत्कालं
मत्परोक्षमेतदिदानीं मत्प्रत्यक्षं च निर्विकल्पः समाधिर्यस्यास्तयेव
शुष्यते तप्यते ॥ १८ ॥
मुक्ताचित्तपिशाचेन नूनं सुखमिवास्थिता ।
तनुर्दैवतभङ्गेभ्यो न बिभेति मनागपि ॥ १९ ॥
सुखं स्वस्थम् । दैवतोपपादितेभ्यो भङ्गेभ्योविपद्भ्यः ॥ १९ ॥
संशान्ते चित्तवेताले यामानन्दकलां तनुः ।
याति तामपि राज्येन जागतेन न गच्छति ॥ २० ॥
आनन्दस्य कलां चमत्कृतिम् । जागतेन त्रैलोक्यसम्बन्धिना
राज्येनापीत्यन्वयः ॥ २० ॥
पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ।
निरस्तकलनाजालं सुखं शेते कथं वने ॥ २१ ॥
चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः ।
तथा वेगेन चलति यथाऽमूलान्निकृन्तति ॥ २२ ॥
संरम्भेण कामादिचापलेन सङ्क्षुब्धो न केवलं
विवेकसद्वासनादिशाखापल्लवादीन्येव स्वस्य यथा विशातयति तथा चलति किन्तु
आमूलाद्यथा निकृन्तति उन्मूलितो भवति तथा चलति ।
विवेकाद्यनधिकृतस्थावरादियोनिष्वेव जीवं पातयतीत्यर्थः ॥ २२ ॥
चित्तानर्थविमुक्तोऽद्रौ गजाभ्रहरिविग्रहम् ।
नाद्य पश्यति मे देहः परानन्द इव स्थितः । २३ ॥
अद्रौ अस्मिन्मन्दरे मे देहश्चित्तलक्षणेनानर्थेन विमुक्तः सन्नद्य
गजानामभ्रैर्मेघैर्हरिभिः सिंहैश्च विग्रहं वैरं
युयुत्साप्रतिगर्जनाभिगमनादिलक्षणं न पश्यति ।
प्राक्कौतुकदर्शनपरानन्दे स्थित इव यथा प्राग्बहिः कौतुकदर्शनेन नन्दति
तथाद्य नेत्यर्थः । अथवा अद्रौ स्फटिकशिलासु प्रतिबिम्बितं जगाभ्रहरीणां
विग्रहं युद्धं मूर्तिं वाद्य न पश्यतीत्यर्थः । नाट्यं पश्यति इति पाठे तु
यथा परानन्दे परमात्मनि स्थितो जीवन्मुक्तः प्रथमं गजमिव स्थूलं
अभ्रमिव सूक्ष्मं हरिमिव कारणं च विग्रहाः शरीराणि
यस्मिंस्तथाविधमात्मनटस्य नाट्यं पश्यति तथा मम देहोऽपि
चित्तानर्थविमुक्तत्वादेव पृथक् स्थितेन मदात्मना अस्मिञ्जद्रौ क्वचिद्रवाः
क्वचिदभ्राणि क्वचिद्धरयः सिंहमर्कटादय इति नानाविग्रहमात्मनटस्य
नाट्यं पश्यतीत्यर्थः ॥ २३ ॥
सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् ।
अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु ॥ २४ ॥
सर्वे आशारूपा ये ज्वरास्तन्निदानभूतो यो मोहस्तल्लक्षणाया मिहिकाया
अभ्रबीजस्य शरदागमभूतम् । सर्वासामाशानां दिशां वा सर्वास्वाशासु
दिक्षु वा ज्वरभूताया मोहमिहिकायाः शरदागमम् । अचित्तत्वं मनोनाशं
विना ॥ २४ ॥
त एव सुखसम्भोगसीमान्तं समुपागताः ।
महाधिया शान्तधियो ये याता विमनस्कताम् ॥ २५ ॥
सुखसम्भोगा हैरण्यगर्भानन्दान्ता विषयसुखभोगास्तेषां सीमान्तं
परमावधिं भूमानन्दम् । अपरिच्छिन्नब्रह्मसाक्षात्कारत्वान्महाधिया ।
रागादिधीकार्योपशमाच्छान्तधियः ॥ २५ ॥
सर्वदुःखदशामुक्तां संस्थितां विगतज्वराम् ।
दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् ॥ २६ ॥
स्वदेहे जीवन्मुक्तदेहसाम्यं सम्भाव्याभिनन्दति - सर्वेति । दिष्ट्या
भाग्योदयेन ॥ २६ ॥
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ भार्गवेण तदा किल ।
सुबहून्युपभुक्तानि शरीराणि पुनःपुनः ॥ २७ ॥
रामस्य प्रश्नाशयः स्पष्टः ॥ २७ ॥
भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं पुनः ।
महानतिशयो जातः परिदेवनमेव वा ॥ २८ ॥
तत्तेभ्यः शरीरेभ्यः । तस्मिन्काये किं कस्माद्धेतोः महान् प्रवृद्धः ।
अतिशयः स्नेहस्येति शेषः ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
शुक्रस्य कलना राम यासौ जीवदशां गता ।
कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी ॥ २९ ॥
शुक्रस्य
साम्प्रतिकग्रहपदाधिकारोपभोगप्रयोजकप्राक्कल्पानुष्ठितसत्कर्मणामुत्क्र्
आन्तिकाले एतत्कल्पभाविभृगूत्पाद्यशरीराकारेण परिणतानां
तादृशाकारवासनात्मनैव प्रलये चिरमवस्थानादाकाशादिक्रमेणैतत्कल्पे
भृगुशरीरोत्पत्तौ अन्नद्वारा प्राणापानप्रवाहेण तद्धृदयं प्रविश्य
रेतोरूपपरिणामद्वारा
चिराभ्यासदृढीकृतप्राक्तनकामकर्मवासनानुसारेणैव
शुक्रदेहारम्भात्तेन कतिपयकर्मभोगेऽपि भोक्तव्यप्रारब्धकर्मणां
बहूनामवशिष्टत्वाद्युक्तस्तस्मिन्स्नेहातिशयो न देहान्तरेषु
तद्भोग्यकर्मणामनवशेषादित्याशयेनोत्तरं वसिष्ठ आह -
शुक्रस्येत्यादिना । कलना प्राक्तनोत्क्रान्तिकालिकी भाविदेहाकारकलना ।
भार्गवरूपिणी भृगूत्पाद्यदेहाकारा या प्राक्कल्पे आसीदिति शेषः ॥ २९ ॥
सा हीदम्प्रथमत्वेन समुपेत्य परात्पदात् ।
भूताकाशपदं प्राप्य वातव्यावलिता सती ॥ ३० ॥
सा हि सैवेदानीमौशनसी तनुः सम्पन्नेति परेणान्वयः । केन क्रमेण तमाह
- इदम्प्रथमत्वेनेत्यादिना ।
परात्पदात्प्रलयकालपरिशिष्टान्मायाशबलेश्वरात् इदम्प्रथमत्वेन
एतत्कल्पीयप्रथमशरीरभावेन समुपेत्य
सिक्तोच्छूनबीजान्तरङ्कुरशक्तिवदीषदाविर्भूय क्रमादाकाशादिपदं
तत्तद्भूतसाम्यं प्राणवातेन वृष्टिद्वारा अन्नादिभावेन व्यावलिता
अन्तर्भाविता सती ॥ ३० ॥
प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः ।
क्रमेण वीर्यतामेत्य सम्पन्नौशनसी तनुः ॥ ३१ ॥
प्राणक्रियाविशेषात्मना अन्नग्रासिना अपानप्रवाहेण ॥ ३१ ॥
विहितब्राह्मसंस्कारा तत्र सा पितुरग्रगा ।
कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥ ३२ ॥
विहिता विधिवदनुष्ठिता ब्राह्मा ब्राह्मणजन्मोचिता
गर्भाधानपुंसवनजातकर्मान्नप्राशनचौलोपनयनादयः संस्कारा
यस्याम् । नह्यसंस्कृततया ग्रहाधिकारो भोक्तुं शक्यत इति भावः ॥ ३२ ॥
इदम्प्रथममायाता यदासौ ब्रह्मणस्तनुः ।
अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् ॥ ३३ ॥
ब्रह्मणः सकाशादुक्तरीत्या इदं प्रथमं यथा स्यात्तथा यदा
यस्माद्धेतोरायाता अतः अकाले । पञ्चम्या अपि च्छान्दसो दाप्रत्ययः ॥ ३३ ॥
वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् ।
स शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः ॥ ३४ ॥
ज्ञानिनोऽपि न प्रारब्धमतिवर्तन्त इत्याशयेनाह - वीतेति ॥ ३४ ॥
ज्ञस्याज्ञस्य च देहस्य यावद्देहमयं क्रमः ।
लोकवद्व्यवहारोऽयं सक्त्यासक्त्याथवा सदा ॥ ३५ ॥
यावद्देहं यावज्जीवनं सदा सर्वकाले क्रमो मर्यादानियमः न
कदाचिद्व्यभिचरतीत्यर्थः । ज्ञस्य सक्त्या अज्ञस्य त्वसक्त्येति विशेष इत्यर्थः ॥
३५ ॥
ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।
लोकसंव्यवहारेषु ते स्थिता लोकजालवत् ॥ ३६ ॥
अत एवेतरव्यवहारेष्वपि तयोस्तुल्यतैवेत्याह - ये इति ॥ ३६ ॥
व्यवहारे यथैवाज्ञस्तथैवाखिलपण्डितः ।
वासनामात्रभेदोऽत्र कारणं बन्धमोक्षदम् ॥ ३७ ॥
तर्हि द्वयोः साम्ये एकस्य बन्धोऽपरस्य मोक्ष इति विशेषः कुतस्तत्राह -
वासनेति ॥ ३७ ॥
यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् ।
असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ॥ ३८ ॥
दुःखे दुःखनिमित्तप्राप्तौ । दर्शयन्ति विडम्बयन्ति ॥ ३८ ॥
सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।
महात्मानो हि दृश्यन्ते दृश्य एवाप्रबुद्धवत् ॥ ३९ ॥
दुःखवृत्तिषु दुःखनिमित्तेषु दुःखिता दुःखिता इव । दृश्ये
व्यवहारविषये एवाप्रबुद्धवद्वर्तन्ते स्वात्मतत्त्वे तु सुस्थिरा
नाज्ञवद्वर्तन्त इत्यर्थः ॥ ३९ ॥
सूर्यस्य प्रतिबिम्बानि क्षुभ्यन्ति न पुनः स्थिरम् ।
चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ॥ ४० ॥
एकस्यैकदैव स्थिरास्थिरवृत्तिविरोधवारणाय दृष्टान्तमाह -
सूर्यस्येति । यथा सूर्यस्य जलस्थानि प्रतिबिम्बवपूंष्येव क्षुभ्यन्ति सञ्चलन्ति
नतु नभस्थं स्थिरं बिम्बवपुस्तद्वदित्यर्थः । त्वर्थे पुनःशब्दः ॥ ४० ॥
अवस्थित इव स्वस्थः प्रतिबिम्बेषु भास्करः ।
सन्त्यक्तलोककर्मापि बुद्ध एवाप्रबुद्धधीः ॥ ४१ ॥
यथा प्रतिबिम्बेष्ववस्थितो भास्करः स्वस्थ एवास्वस्थोऽभिन्नश्चल इव भवति
तद्वद्बुद्ध एव व्यवहारस्थोऽप्रबुद्धधीर्भवतीत्यर्थः ॥ ४१ ॥
मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि ।
बद्धबुद्धिन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ॥ ४२ ॥
तर्ह्यज्ञवद्विहितनिषिद्धकर्मभिस्तस्य बन्धोऽपि स्यादित्याशङ्क्य
बुद्धिन्द्रियासङ्गपूर्वककर्मणामेव बन्धकता नान्येषामित्याशयेनाह ##-
। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ इत्यादिना ॥ ४२ ॥
सुखदुःखदृशो लोके बन्धमोक्षदृशस्तथा ।
हेतुर्बुद्धिन्द्रियाण्येव तेजांसीव प्रकाशने ॥ ४३ ॥
सुखदुःखदृशः सुखदुःखभोगस्य ॥ ४३ ॥
बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः ।
समो ह्यतीव तिष्ठ त्वं संशान्तसकलैषणः ॥ ४४ ॥
ननु तर्हि मया कथं स्थेयं तत्राह - बहिरिति । आचारवर्जितः
कूटस्थात्मदृढनिष्क्रियः । अत एव समो वैषम्यशून्यः ॥ ४४ ॥
सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।
कुरु कर्माणि कार्याणि नूनं देहस्य संस्थितिः ॥ ४५ ॥
एषणा कर्मफलासङ्गस्तद्विमुक्तेन आत्मनि ब्रह्मणि तिष्ठता
प्रतिष्ठितेनात्मना मनसा कर्माणि कुरु । नूनमिति हेतौ । यतो देहस्य कार्याणि
कर्माणि संस्थितिः स्वभाव इत्यर्थः । नहि देहभृता शक्यं त्यक्तुं
कर्माण्यशेषतः इति भगवताप्युक्तम् ॥ ४५ ॥
आधिव्याधिमहावर्तगर्तसंसारवर्त्मनि ।
ममतोग्रान्धकूपेऽस्मिन्मा पतातापदायिनि ॥ ४६ ॥
आधयो मानसदुःखानि । व्याधयः शारीरदुःखानि । महान्त आवर्ता
मरणजन्मभ्यां परिवर्तनानि तान्येव गर्ताः श्वभ्राणि यस्मिंस्तथाविधे
संसारवर्त्मनि ममतोग्रान्धकूपे मा पत ॥ ४६ ॥
न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण ।
शुद्धबुद्धस्वभावस्त्वमात्मान्तः सुस्थिरो भव ॥ ४७ ॥
तदपतने उपायमाह - न त्वमित्यादिना । भावेषु दृश्यवस्तुषु देहादिषु
तिष्ठसीत्यर्थः । त्वयि सन्तीति शेषः ॥ ४७ ॥
त्वं ब्रह्म ह्यमलं शुद्धं त्वं सर्वात्मा च सर्वकृत् ।
सर्वं शान्तमजं विश्वं भावयन्वै सुखी भव ॥ ४८ ॥
भावयन् विचारेणानुभवन्सन् ॥ ४८ ॥
व्यपगतममतामहान्धकारः
पदममलं विगतैषणं समेत्य ।
प्रभवसि यदि चेतसो महात्मम्-
स्तदतिधिये महते सते नमस्ते ॥ ४९ ॥
हे महात्मन् विगतैषणं सकलैषणानिवर्तकं
पूर्णानन्दममलमविद्यादिशून्यं पदं समेत्य सम्यगनुभवेन प्राप्य
व्यपगतममतामहान्धकारः संश्चेतसश्चित्तस्य यदि वधे प्रभवसि
समर्थः स्यास्तर्हि अतिधिये अपरिमितबुद्धये महते पूर्णाय सते
परमार्थसत्यब्रह्मभूताय ते नमः । अस्मदादीनामपि सदा वन्द्यो
भविष्यसीत्याशयः ॥ ४९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्र० भार्गवोपा०
भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः ॥
१५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः ॥ १५ ॥