चतुर्दशः सर्गः १४
श्रीवसिष्ठ उवाच ।
अथ कालभृगू देवौ मन्दराचलकन्दरात् ।
गन्तुं प्रवृत्ताववनौ समङ्गासरितस्तटम् ॥ १ ॥
गत्वा ताभ्यां समाधिस्थशुक्रस्यात्र प्रबोधनम् ।
स्मारणं पूर्ववृत्तस्यागमनेच्छा च कीर्यते ॥ १ ॥
अवनौ अवतीर्येति शेषः ॥ १ ॥
तौ शैलादवरोहन्तौ दृष्टवन्तौ महाद्युती ।
नवहैमलताजालकुञ्जसुप्तनभश्चरान् ॥ २ ॥
नभश्चरान् देवगणान्पक्षिणश्च ॥ २ ॥
वल्लीवलयदोलाभिः क्रीडतो गगनाङ्गणे ।
हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलान् ॥ ३ ॥
हरिणीनामिव मुग्धमुग्धैः अक्षिप्रेक्षितैः कटाक्षैः स्मारितान्युत्पलानि यैः ।
सदृशदर्शनस्य स्मृतिहेतुत्वात्सादृश्यं गम्यते ॥ ३ ॥
सिद्धानध्यासितोत्तुङ्गसिलाशकलविष्टरान् ।
धृताकारानिवोत्साहान्हेलादृष्टजगत्त्रयान् ॥ ४ ॥
अध्यासितान्याश्रितान्युत्तुङ्गशिलाशकलान्येव विष्टराणि आसनानि यैः ।
धृताकारान् स्वीकृतशरीरान् उत्साहानिव स्थितान् । हेलया लीलया दृष्टं
जगत्त्रयं यैः ॥ ४ ॥
कृताजस्रपतत्पुष्पधारासारनिमज्जनान् ।
तालोत्तालकृतोद्धस्तहस्तान्हस्तिघटापतीन् ॥ ५ ॥
तालवृक्षा [इयं व्याख्या न मूलानुसारिणी] इवोत्तालाः स्थूलदीर्घाः
कराः शुण्डादण्डा येषां तान् हस्तिघटापतीन् गजयूथपान् तौ दृष्टवन्तौ
इति सर्वत्र सम्बध्यते ॥ ५ ॥
मदावलेपनिद्रालून्मदान्मूर्तानिव स्थितान् ।
पुष्पकेसररक्ताङ्गपवनारुणवालधीन् ॥ ६ ॥
तानेव विशिनष्टि - मदेति । पुष्पकेसरैः रक्ताङ्गेन रञ्जितेन पवनेन
परागैः पूरणादरुणवालधीनिति देहलीदीपन्यायेन पूर्वोत्तराभ्यां
सम्बध्यते ॥ ६ ॥
चञ्चलांश्चमरांश्चारून्भूभृन्मण्डलचामरान् ।
कृताजस्रपतत्पुष्पधारासारनिमज्जनान् ॥ ७ ॥
चमरान्मृगविशेषान् । भूभृन्मण्डलस्य पर्वतराजसमूहस्य
चामरानिव स्थितान् ॥ ७ ॥
किन्नरान्भूमखर्जूराञ्शाखासरलतां गतान् ।
परस्परफलाघातक्ष्वेडावर्जितकीचकान् ॥ ८ ॥
किन्नरान्दृष्टवन्ताविति पूर्वत्र सम्बन्धः । भूमखर्जूरान्
खर्जूरोत्तमजातिभेदान् शाखापर्यन्तं सरलतामृजुतां गतान् । परस्परस्य
खर्जूरफलैराघातास्ताडनानि तल्लक्षणाभिः क्रीडाभिरावर्जिताः
सफलीकृता अधःप्ररूढाः कीचका वेणवो यैस्तान्मर्कटान् ॥ ८ ॥
धातुपाटलदुर्वक्त्रान्मर्कटान्नटनोत्कटान् ।
लतावितानसञ्छन्नसानूपवनमन्दिरान् ॥ ९ ॥
धातुर्गैरिकमिव पाटलानि दुर्वक्त्राणि विकृतमुखानि येषां तान् । नटने
अवस्पन्दने उत्कटान् शौण्दान् ॥ ९ ॥
सिद्धानमरनारीभिर्मन्दारकुसुमाहतान् ।
धातुपाटलनिर्द्वारपयोदपटसंवृतान् ॥ १० ॥
सिद्धान् देवयोनिविशेषान् । अमरनारीभिरप्सरोभिः रतिकालज्ञापनाय
मन्दारकुसुमैराहतान् । अत एव धातुपाटलैर्निर्द्वारैरच्छिद्रैः पयोदपटैः
संवृतान् ॥ १० ॥
तटानजनसंसर्गान्बौद्धान्प्रव्रजितानिव ।
सरितः कुन्दमन्दारपिनद्धलहरीघटाः ।
सागरोत्कतयेवात्तमधुमासप्रसाधनाः ॥ ११ ॥
तटान् प्रपातदेशान् । अजनसंसर्गान् जनसञ्चारानर्हान् ।
बौद्धप्रव्रजितदृष्टान्तो वृथापतनयोग्यताविवक्षया । सागरे कान्ते
उत्कतया सोत्कण्ठतया हेतुनेव आत्तानि गृहीतानि
मधुमासश्चैत्रस्तत्सम्बन्धीनि प्रसाधनानि पुष्पपल्लवाद्यलङ्कारा
याभिस्ताः । उत्कटताचान्तमधुमांसप्रसाधना इति पाठे तु
सागरस्योत्कटतायै उपभोगमदाय आचान्तैरुपयुक्तैर्मधुमांसैः
प्रसाधनं यासां ताः ॥ ११ ॥
पुष्पभारपिनद्धाङ्गान्वृक्षान्पवनकम्पितान् ।
क्षीबानिव मधुप्राप्तौ घूर्णान्मधुकरेक्षणान् ॥ १२ ॥
शैलराजश्रियं स्फीतां पश्यन्तौ तावितस्ततः ।
प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम् ॥ १३ ॥
क्षणादवापतुस्तत्र पुष्पलोलतरङ्गिणीम् ।
समङ्गां सरितं साधु सर्वपुष्पमयीमिव ॥ १४ ॥
पुष्पलोलतरङ्गामिति बहुव्रीहिणैव मत्वर्थलाभे अतिशयनित्ययोगद्योतनार्थ
इनिप्रत्ययः । तदेव स्पष्टीकर्तुमाह - सर्वपुष्पमयीमिवेति ॥ १४ ॥
ददर्शाथ तटे तस्मिन्कस्मिंश्चित्तनयं भृगुः ।
देहान्तरपरावृत्तं भावमन्यमुपागतम् ॥ १५ ॥
अन्यं भावं अशुक्रताम् ॥ १५ ॥
शान्तेन्द्रियं समाधिस्थमचञ्चलमनोमृगम् ।
सुचिरादिव विश्रान्तं सुचिरश्रमशान्तये ॥ १६ ॥
सुचिरश्रमः अनादिसंसारश्रमस्तस्य शान्तये ॥ १६ ॥
चिन्तयन्तमिवानन्ताश्चिरभुक्ताऽचिरोज्झिताः ।
संसारसागरगतीर्हर्षशोकनिरन्तराः ॥ १७ ॥
चिरं भुक्ता अचिरात् उज्झितास्त्यक्ताः ॥ १७ ॥
नूनं निश्चलतां यातमतिभ्रमितचक्रवत् ।
अनन्तजगदावर्तविवर्तातिशयादिव ॥ १८ ॥
अतिभ्रमितचक्रवदिति दृष्टान्तो रागोपरमक्रमेण चित्तं स्वयमेव
विश्राम्यतीति द्योतनाय ॥ १८ ॥
एकान्तसंस्थितं कान्तं कान्त्यैकाकिनमाश्रितम् ।
उपशान्तेहसम्भग्नचित्तसम्भ्रमसङ्गमम् ॥ १९ ॥
चक्रदृष्टान्ताभिप्रायमेव स्पष्टमाह - उपशान्तेहेति ॥ १९ ॥
निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः ।
हसन्तमखिलां लोकगतिं शीतल्या धिया ॥ २० ॥
द्वन्द्ववृत्तितः शीतोष्णसुखदुःखादेः ॥ २० ॥
विगताखिलवृत्तान्तं विगताशेषभोक्तृतम् ।
निरस्तकल्पनाजालमालम्बितमहापदम् ॥ २१ ॥
वृत्तान्तानि प्रवृत्तयः । भोक्तृतास्तत्फलानि । महापदं
अपरिच्छिन्नात्मसुखम् ॥ २१ ॥
अनन्तविश्रान्तितते पदे विश्रान्तमात्मनि ।
प्रतिबिम्बमगृह्णन्तं सितं मणिमिवास्थितम् ॥ २२ ॥
हेयोपादेयसङ्कल्पविकल्पाभ्यां समुज्झितम् ।
सम्प्रबुद्धमतिं धीरं ददर्श तनयं भृगुः ॥ २३ ॥
तमालोक्य भृगोः पुत्रं कालो भृगुमुवाच ह ।
वाक्यमब्धिध्वनिनिभं तव पुत्रस्त्वसाविति ॥ २४ ॥
विबुध्यतामिति गिरा समाधेर्विरराम सः ।
भार्गवोऽम्भोदघोषेण शनैरिव शिखण्डभृत् ॥ १५ ॥
शिखण्डभृत् मयूरः ॥ २५ ॥
उन्मील्य नेत्रे सोऽपश्यदन्ते कालभृगू प्रभू ।
समोदयाविवायातौ देवौ शशिदिवाकरौ ॥ २६ ॥
अन्ते अन्तिके । समोदयौ सम्मुखोदितौ नत्वसमोदितौ ॥ २६ ॥
कदम्बलतिकापीठादथोत्थाय ननाम तौ ।
समौ समागतौ कान्तौ विप्रौ हरिहराविव ॥ २७ ॥
विप्रौ विप्रवेषौ ॥ २७ ॥
मिथःकृतसमाचाराः शिलायां समुपाविशन् ।
मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव ॥ २८ ॥
मिथः अन्योन्यं कृताः समाचारास्तत्कालोचितगौरवाभिनन्दनाद्याचारा यैः
॥ २८ ॥
अथ शान्तजपो राम स समङ्गातटे द्विजः ।
तावुवाच वचः शान्तममृतस्यन्दसुन्दरम् ॥ २९ ॥
शान्तजपः समापितसमाधिः । जप मानसे च इति धात्वर्थदर्शनात् ।
इदमर्धं पाठक्रमादार्थक्रमबलीयस्त्वात्कदम्बलतिकापीठादित्यतः
प्राग्योज्यम् ॥ २९ ॥
भवतोर्दर्शनेनाहमद्य निर्वृतिमागतः ।
सममागतयोर्लोके शीतलोष्णरुचोरिव ॥ ३० ॥
निर्वृतिं सुखम् ॥ ३० ॥
यो न शास्त्रेण तपसा न ज्ञानेनापि विद्यया ।
विनष्टो मे मनोमोहः क्षीणोऽसौ दर्शनेन वाम् ॥ ३१ ॥
ज्ञानेन उपासनेन विद्यया ब्रह्मविद्यया । अतिशयोक्तिरियं प्रशंसार्था ।
वां युवयोः ॥ ३१ ॥
न तथा सुखयन्त्यन्तर्निर्मलामृतवृष्टयः ।
यथा प्रहर्षयन्त्येता महतामेव दृष्टयः ॥ ३२ ॥
चरणाभ्यामिमं देशं भवन्तौ भूरितेजसौ ।
कौ पवित्रितवन्तौ नः शशाङ्कार्काविवाम्बरम् ॥ ३३ ॥
इत्युक्तवन्तं प्रोवाच भृगुर्जन्मान्तरात्मजम् ।
स्मरात्मानं प्रबुद्धोऽसि नाज्ञोऽसीति रघूद्वह ॥ ३४ ॥
प्रबोधितोऽसौ भृगुणा जन्मान्तरदशां निजाम् ।
मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः ॥ ३५ ॥
ध्यानेन उन्मीलितं उद्घाटितं दिव्यं लोचनं यस्य सः ॥ ३५ ॥
अथासौ विस्मयात्स्मेरमुखो मुदितमानसः ।
वितर्कमन्थरां वाचमुवाच वदतां वरः ॥ ३६ ॥
विस्मयादाश्चर्यदर्शनात् ॥ ३६ ॥
जगत्यविदितारम्भा नियतिः परमात्मनः ।
यद्वशादिदमाभोगि जगच्चक्रं प्रवर्तते ॥ ३७ ॥
नियतिः कर्मफलव्यवस्थाहेतुर्मायाशक्तिः ॥ ३७ ॥
ममानन्तान्यतीतानि जन्मान्यविदितान्यपि ।
दशाफलान्यनन्तानि कल्पान्तकलितादिव ॥ ३८ ॥
दशाफलानि मरणमूर्च्छादिदुर्दशाफलानि दुःखमोहादीनि । कल्पान्तः
प्रलयस्तेन कलितात्सम्पन्नाद्वर्षवातदाहादेरिव ॥ ३८ ॥
दृष्टाः कठिनसंरम्भा विभवोऽप्यर्जनभ्रमाः ।
विहृतं वीतशोकासु चिरं मेरुस्थलीषु च ॥ ३९ ॥
कठिनः संरम्भः क्रोधः उद्यओगश्च येषु ते विभवो राजानो
द्रव्यार्जनभ्रमा अपि ॥ ३९ ॥
पीतमामोदि मन्दारकेसरारुणितं पयः ।
मन्दाकिन्याः सकह्लारं तटीष्वमरभूभृतः ॥ ४० ॥
पयो वारि ॥ ४० ॥
भ्रान्तं मन्दरकुञ्जेषु फुल्लहेमलतालिषु ।
मेरोः कल्पतरुच्छायापुष्पसुन्दरसानुषु ॥ ४१ ॥
न तदस्ति न यद्भुक्तं न तदस्ति न यत्कृतम् ।
न तदस्ति न यद्दृष्टमिष्टानिष्टासु वृत्तिषु ॥ ४२ ॥
न तदस्तीति । सर्वं कृतं भुक्तं दृष्टं चेत्यर्थः । इष्टानिष्टासु
अनुकूलप्रतिकूलासु वृत्तिषु दशासु ॥ ४२ ॥
ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमक्षतम् ।
विश्रान्तोऽथ चिरं श्रान्तो गतो मे सकलो भ्रमः ॥ ४३ ॥
एकविज्ञानेनापि सर्वविज्ञानं दर्शयति - ज्ञातमिति । चिरं श्रान्तोऽहं
सम्प्रति विश्रान्तः ॥ ४३ ॥
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् ।
तां तनुं तावदाशुष्कां शुष्कां वनलतामिव ॥ ४४ ॥
न समीहितमस्तीह नासमीहितमस्ति मे ।
नियते रचनां द्रष्टुं केवलं विहराम्यहम् ॥ ४५ ॥
किं ते तया तन्वा समीहितं तत्राह - नेति ॥ ४५ ॥
यदतिसुभगमार्यसेवितं त-
त्स्थिरमनुयामि यदेकभावबुद्ध्या ।
तदलमभिमता मतिर्ममास्तु
प्रकृतमिमं व्यवहारमाचरामि ॥ ४६ ॥
ननु नियते रचनां द्रष्टुं विहरतस्तव तत्राभिनिवेशात्पुनः
पूर्ववदप्सरोमनोरथानुगमनादिसंसारापत्तिरित्याशङ्क्य
दृढतरतत्त्वज्ञानबाधितानुवृत्तिमात्रत्वान्न
पूर्ववदभिनिवेशप्रसक्तिरित्याह - यदिति ।
यद्यस्मात्कारणादहमेकभावबुद्ध्या एक एवात्मा भावः परमार्थसत्यो
नान्यदिति दृढनिश्चयेन
यच्चरित्रमतिसुभगमत्यन्तशुभावहमार्यैरन्यैश्च जीवन्मुक्तैः सेवितं
तदेव स्थिरं यथा स्यात्तथा अनुयाम्यनुसरामि न पूर्ववन्मूढवृत्तं
तत्तस्मात्तव मम च अभिमता पूर्वदेहजीवनादिरूपा मतिरलं सम्यगस्तु
नाम न काचित्तया क्षतिः । तया प्रकृतं
प्रारब्धशेषभोजकव्यवहारमाचरामि न मूढवदभिनिवेक्ष्यामीत्यर्थः ॥
४६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे भा०
भार्गवजन्मान्तरस्मरणवर्णनं नाम चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भार्गवजन्मान्तरवर्णनं नाम चतुर्दशः सर्गः ॥ १४ ॥