त्रयोदशः सर्गः १३
काल उवाच ।
एतासां भूतजातीनामूर्मीणामिव सागरात् ।
विविधानां विचित्राणां लतानामिव माधवे ॥ १ ॥
उपवर्ण्य मनःशक्तीरथात्र भृगुकालयोः ।
शुक्रस्य सन्निधौ गन्तुमुत्थानं प्रतिपाद्यते ॥ १ ॥
उक्तासु जीवजातिषु जीवन्मुक्तानामेव कृतार्थता नान्येषामित्याह -
एतासामित्यादिना । सागरात् आविर्भूतानामिति शेषः । एतासां मध्ये ये
जितमनोमोहास्ते भवन्तीति भव्याः कृतार्था इति परेणान्वयः ।
भव्यगेयप्रवचनीय - इत्यादिना कर्तरि यत् ।
यक्षादित्रितयोपादानमुदाहरणार्थं नतु परिगणनाय । मनुष्यादिष्वपि
सम्भवात् ॥ १ ॥
भव्या जितमनोमोहा दृष्टलोकपरावराः ।
जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिन्नराः ॥ २ ॥
अन्ये तु काष्ठकुड्याभा मूढाः स्थावरजङ्गमाः ।
अपरे क्षीणमोहास्ते किं तेषां प्रविचार्यते ॥ ३ ॥
साधनचतुष्टयसम्पन्ना अज्ञा एव शास्त्रविचारेऽधिकारिणो न तत्त्वज्ञा
इत्याशयेनाह - किं तेषामिति ॥ ३ ॥
लोके प्रबुध्यमानानां भूतानामात्मसिद्धये ।
विहरन्तीह शास्त्राणि कल्पितान्युदितात्मभिः ॥ ४ ॥
किमर्थ तर्हि तेषां देहधारणमिति चेत्
शास्त्रप्रकल्पनेनाज्ञोद्धारार्थमेवेत्याशयेनाह - लोके इति ॥ ४ ॥
सम्प्रबुद्धाशया ये तु दुष्कृतानां परिक्षये ।
तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते ॥ ५ ॥
ज्ञानमुत्पद्यते पुंसः क्षयात्पापस्य कर्मणः इति स्मृतेः शास्त्रमपि
शुद्धचित्तेष्वेव सफलं नान्येष्वित्याशयेनाह - सम्प्रबुद्धेति ॥ ५ ॥
विलीयते मनोमोहः सच्छास्त्रप्रविचारणात् ।
नभोविहरणाद्भानोः शार्वरं तिमिरं यथा ॥ ६ ॥
शर्वर्यां भवं शार्वरम् ॥ ६ ॥
अक्षीयमाणं हि मनो मोहायैव न सिद्धये ।
नीहार इव सञ्चाद्य वेताल इव वल्गति ॥ ७ ॥
नीहार इवेत्यावरणे वेताल इवेति विक्षेपे दृष्टान्तौ । वल्गति नृत्यति ॥ ७ ॥
सर्वेषामेव देहानां सुखदुःकार्थभाजनम् ।
शरीरं मन एवेह नतु मांसमयं मुने ॥ ८ ॥
देहानां तदात्मतापन्नजीवानाम् ॥ ८ ॥
योऽयं मांसास्थिसङ्घातो दृश्यते पाञ्चभौतिकः ।
मनोविकल्पनं विद्धि न देहः परमार्थतः ॥ ९ ॥
मनःशरीरेण तव पुत्रोऽयं कृतवान्मुने ।
तदेव प्राप्तवानाशु वयं नात्रापराधिनः ॥ १० ॥
स्वया वासनया लोको यद्यत्कर्म करोति यः ।
स तथैव तदाप्नोति नेतरस्येह कर्तृता ॥ ११ ॥
स्वानुसंहितमन्तर्यन्मनोवासनया स्वया ।
को नाम भुवनेशोऽस्ति तत्कर्तुं यस्य शक्तता ॥ १२ ॥
मनोवाअसनया अनुसन्धानमात्रेणापि क्षणाद्यत्क्रियते तदस्माभिर्महतापि
यत्नेन चिरेणापि कर्तुं न शक्यत इति
नास्मास्वपराधसम्भावनापीत्याशयेनाह - स्वानुसंहितमिति ॥ १२ ॥
ये सर्गा नरकाभोगा या जन्ममरणैषणाः ।
स्वमनोमननेनेदं स निष्पन्दोऽपि दुःखदः ॥ १३ ॥
स मननात्मको निष्पन्द ईषँचलनमपि दुःखदः ॥ १३ ॥
बहुनात्र किमुक्तेन शब्दसङ्ग्रहकारिणा ।
उत्तिष्ठ भगवन्यामो यत्र ते तनयः स्थितः ॥ १४ ॥
शब्दसङ्ग्रहः श्रवणं तत्कारिणा नत्वर्थप्रदर्शकेनेत्यर्थः । याम इति
अस्मदो द्वयोश्च इति वा अनुचरसाहित्याद्वा बहुवचनम् ॥ १४ ॥
सर्वं चित्तशरीरेण भुक्त्वा शुक्रः क्षणादिव ।
तथेन्दुरश्मिसङ्घट्टात्समङ्गातापसः स्थितः ॥ १५ ॥
सर्वं स्वर्गभोगं चित्तकल्पितशरीरेण भुक्त्वा अथ आकाशादिक्रमेण
भूमाववतीर्ण इन्दुरश्मिसम्पर्कादोषधीः प्रविश्यान्नादिभावक्रमेण
जन्मपरम्परां प्राप्य सम्प्रति समङ्गायां तापसो भूत्वा स्थित इत्यर्थः ॥
१५ ॥
तत्प्राणपवनश्चित्तान्मुक्त इन्द्वंशुवत्फलम् ।
अवश्यायतया भूत्वा वीर्यं तेनान्तरास्थितः ॥ १६ ॥
इन्दुरश्मिसङ्घट्टादिति यदुक्तं तद्विशदयति - तत्प्राणेति । तस्य शुक्रस्य
प्राणपवनश्चित्ताच्चेतनशक्तेर्मुक्तः सम्मूर्च्छितः सन् अवश्यायतया
नीहारभावेन इन्द्वंशुसम्पर्कात्तद्वद्भूत्वा सस्याद्वारा तत्फलं व्रीह्यादि
भूत्वा पुरुषं प्रविश्यवीर्यं रेतो भूत्वा अन्तरा स्त्रीगर्भे स्थित इत्यर्थः ॥ १६ ॥
इत्युक्त्वा भगवान्कालो हसन्निव जगद्गतिम् ।
हस्ताद्धस्तेन जग्राह भृगुमिन्दुमिवांशुमान् ॥ १७ ॥
हस्तादिति ल्यब्लोपे पञ्चमी । हस्तं प्रसार्येत्यर्थः । दृष्टान्तपक्षे
लक्षितलक्षणया हस्तशब्देन करशब्दवाच्यकिरणपरिग्रहः ॥ १७ ॥
अहो नु चित्रा नियतेर्व्यवस्थेति वदञ्छनैः ।
भगवान्भृगुरुत्तस्थावुदयाद्रेर्यथा रविः ॥ १८ ॥
नियतेर्दैवस्य कर्मणो वा ॥ १८ ॥
तेजोनिधी ह सममङ्ग स्मुत्थितौ तौ
भातस्तदाम्बरतले सामालजाले ।
तुल्योदयाविव नभस्यमले विहर्तु-
मभ्युत्थितौ सजलदौ सकलेन्दुसूर्यौ ॥ १९ ॥
श्रीवाल्मीकिरुवाच ।
ह इति किलेत्यर्थे निपातः अङ्गेति सम्बोधने । सतमालजाले मन्दरे समं समं
युगपत्समुत्थितौ तेजोनिधी तौ भृगुकालौ सजलदे अम्बरतले तुल्योदयौ सकलः
पूर्ण इन्दुश्च सूर्यश्च ताविव भातः प्रकाशत इत्यर्थः ॥ १९ ॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा क्र्तनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
भार्गवोपाख्याने भृगुसमाश्वासनं नाम त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भृगुसमाश्वासनं नाम त्रयोदशः सर्गः ॥ १३ ॥
अष्टमो दिवसः ॥