द्वादशः सर्गः १२
काल उवाच ।
सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवादभिन्नास्ताः सत्यमेतन्मृषेतरत् ॥ १ ॥
तरङ्गाम्बुधिदृष्टान्तात्प्राप्तामात्मविकारताम् ।
वारयन् वक्ति मोहोत्थवैचित्र्यस्य विवर्तताम् ॥ १ ॥
तत्रादौ सर्वजीवानां ब्रह्मैक्यं भेदकप्रपञ्चमिथ्यात्वं चोपपादयितुं
प्रतिजानीते - सुरासुरेति ॥ १ ॥
मिथ्याभावनया ब्रह्मन्स्वविकल्पकलङ्किताः ।
न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः ॥ २ ॥
यद्यभिन्नास्तर्हि कुतस्तथा नानुभवन्ति तत्राह - मिथ्येति । मिथ्याभावना
अनात्मन्यात्मताभ्रान्तिस्तया हेतुनेत्यर्थः । अधोगताः निकृष्टां दशां
प्राप्ताः ॥ २ ॥
ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ ३ ॥
व्यतिरिक्तत्वं परिच्छिन्नतां भावयन्त्यः कल्पयन्त्यः ॥ ३ ॥
या एताः संविदो ब्राह्म्यो मननैककलङ्किताः ।
एतत्तत्कर्मणां बीजमप्यकर्मैव विद्धि ताः ॥ ४ ॥
मननं देहात्मभावस्य पुनःपुनरनुसन्धानं तदेवैतत्कर्मणां
पुण्यपापप्रवृत्तीनाम् । एवम्भूता अपि ताः संविदः अकर्म निष्क्रियं
ब्रह्मैवेति विद्धि ॥ ४ ॥
सङ्कल्परूपयैवान्तर्मुने कलनयैतया ।
कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥ ५ ॥
प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति इति श्रुतेः
कर्मबीजप्ररोहवैचित्र्यव्यवस्थायामपि सङ्कल्पो हेतुरित्याह -
सङ्कल्परूपयेति ॥ ५ ॥
इमा जगति विस्तीर्णाः शरिरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ ६ ॥
आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति निलीयन्ते म्लायन्ति विहसन्ति च ॥ ७ ॥
ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।
काश्चिदल्पविमोहस्था यथोरगनरामराः ॥ ८ ॥
इदानीं तरङ्गस्थानीयांश्चित्संविच्छब्दितान् जीवानुपाधिवैशद्यतारतम्येन
ज्ञानभूमिकाभेदेन कर्मगतिवैचित्र्यप्रयुक्तसंसरणप्रकारभेदेन च
विभज्योदाहरति - ता एता इत्यादिना । ज्ञानैश्वर्योत्कर्षावधित्वादत्यच्छाः ।
ज्ञानाधिकारयोग्यताप्राप्तेरल्पविमोहस्थाः ॥ ८ ॥
काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिदज्ञानसम्मूढाः कृमिकीटत्वमागताः ॥ ९ ॥
इष्टानिष्टयोः प्रवृत्तिनिवृत्तिक्षमत्वात् कृमिकीटदेः
स्थावरन्नात्यन्तमोहस्थतेति भावः ॥ ९ ॥
काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनगादयः ॥ १० ॥
ब्रह्ममहोदधेर्मुक्तेर्दूरे उह्यन्ते प्रवाह्यन्ते
शास्त्रप्रतिकूलप्रवृत्तिभिरित्यर्थः ॥ १० ॥
सत्त्वमात्रं समालोक्य काश्चिदेवमुपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरठाखुना ॥ ११ ॥
एवं संसरणक्रमेण नरादिभावमुपागताः सन्तः सत्त्वं
संसरणश्रमविश्रान्तिहेतुभूतयोगभूमिकासद्भावस्तन्मात्रम् ।
तटमात्रम् इति पाठेऽप्ययमेवार्थः । समालोक्य शास्त्रतः श्रुत्वा
तदुन्मुखाः जाताजाता अपि कृतान्तो विघ्नकारि दुरदृष्टं तल्लक्षणेन
जरठाखुना निखन्यन्ते । भूमिकादूषणेन पीड्यन्त इति यावत् ॥ ११ ॥
काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास्तत्तां समं कायैर्हरिब्रह्महरादिकाः ॥ १२ ॥
अन्तरं ईषद्भेदकं विशुद्धज्ञानोपाधिम् । कायैः समं तत्तां
ब्रह्ममहाम्बुधिताम् । जीवन्मुक्तिमिति यावत् ॥ १२ ॥
अल्पमोहात्मिकाः काश्चित्तमेव ब्रह्मवारिधिम् ।
अदृष्टपारभूम्यौघमवलम्ब्य व्यवस्थिताः ॥ १३ ॥
न दृष्टा पारभूमिर्यस्य तथाविधः ओघः पूर्णता यस्य तं
समाधिभिरवलम्ब्य ॥ १३ ॥
काश्चिद्भोक्तव्यजन्मौघभुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ १४ ॥
अधिकारिदेहप्राप्त्या प्रकाशेऽपि रागान्धत्वात्तामस्यः ॥ १४ ॥
काश्चिदूर्ध्वादधो यान्ति यथा हस्तान्महत्फलम् ।
ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ॥ १५ ॥
ऊर्ध्वात् उत्कृष्टजन्मनः अधः निकृष्टपश्वादिजन्म ॥ १५ ॥
बहुसुखदुःखकराकराक्षयेयं
परमपदास्मरणात्समागतेह ।
परमपदावगमात्प्रयाति नाशं
विहगपतिस्मरणाद्द्विषव्यथेव ॥ १६ ॥
एवमनर्थसहस्रनिदानं जीवभावं प्रपञ्च्य तन्मूलं
स्मारयंस्तन्निवृत्त्युपायमाह - वह्विति । बहवः सुखदुःखकराणां
जन्मनां आकराः खनीभूता रागादयो यस्यां तथाविधा इयं जीवता
परमपदस्य स्वात्मतत्त्वस्यास्मरणादपर्यालोचनदोषात्समागता ॥ १६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
भार्गवोपाख्याने संसारोत्पत्तिविस्तारवर्णनं नाम द्वादशः सर्गः ॥
१२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
संसारोत्पत्तिविस्तारवर्णनं नाम द्वादशः सर्गः ॥ १२ ॥