११

एकादशः सर्गः ११

काल उवाच ।

अद्योद्दामतरङ्गौघभाङ्काररणितानिले ।
तीर एव तरङ्गिण्यास्तपस्तपति ते सुतः ॥ १ ॥

भृगोर्योगदशा सम्यक् पुत्रवृत्तान्तदर्शनात् ।
वर्ण्यते कालसंवादान्मनःक्रीडा जगत्स्थितिः ॥ १ ॥

तरङ्गौघानां भाङ्कारैर्मन्द्रध्वनिभिः रणिता ध्वनन्तोऽनिला यत्र ।
तरङ्गिण्याः समङ्गाया तपस्तपति करोति ॥ १ ॥

जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः ।
तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे ॥ २ ॥

यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम् ।
तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय ॥ ३ ॥

तं पुत्रचरित्रात्मकं पुत्रमनोभ्रमम् । विज्ञायते अनेनेति विज्ञानं
योगस्तन्नेत्रं सम्यगुन्मील्य उद्घाट्य ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्ते जगदीशेन कालेन समदृष्टिना ।
मुनिः सञ्चिन्तयामास ज्ञानाक्ष्णा तनयेहितम् ॥ ४ ॥

तनयेहितं पुत्रचरित्रम् ॥ ४ ॥

ददर्श च मुहूर्तेन प्रतिभानवशादसौ ।
पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् ॥ ५ ॥

पुत्रस्योदन्तं वृत्तान्तम् । योगजधर्मविशुद्धबुद्धिदर्पणे बिम्बितमिव
प्रत्यक्षम् ॥ ५ ॥

पुनर्मन्दरसानुस्थां स्वस्थां कालाग्रसंस्थिताम् ।
समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः ॥ ६ ॥

अत्र भृगुः स्वदेहान्निर्गत्य तेषु तेषु प्रदेशेषु समङ्गातटान्तेषु
पुत्रव्र्त्तान्तं क्रमेण दृष्ट्वा पुनरागत्य स्वदेहं विवेशेति न भ्रमितव्यम्
। योगबलेन स्वस्थान एव सर्वदर्शनसम्भवात् । निर्गत्य
भ्रमणेऽप्यतीतानागतदर्शनायोगात् । तस्मात्समङ्गायास्तटादेत्य स्वतनुं
विवेशेत्युक्तेस्तच्चिन्तात्यागस्वशरीरप्रतिसन्धानमात्रे तात्पर्यं बोध्यम् ॥ ६ ॥

विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया ।
वीतरागमुवाचेदं वीतरागो मुनिर्वचः ॥ ७ ॥

वीतरागः अपगतपुत्रस्नेहः ॥ ७ ॥

भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः ।
त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी ॥ ८ ॥

बाला अज्ञाः । यतोऽनुज्ज्वला रागादिमलिनचित्तः ॥ ८ ॥

नानाकारविकाराढ्या सत्येवासत्यरूपिणी ।
विभ्रमं जनयत्येषा धीरस्यापि जगत्स्थितिः ॥ ९ ॥

असत्यरूपिणी जगत्स्थितिः सत्येव परमार्थरूपेव भासमाना सती
परमार्थवस्तुन्येव विभ्रमं जनयतीति वा । धीरस्य विदुषोऽपि ॥ ९ ॥

त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् ।
रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् ॥ १० ॥

विषयजगत्स्थितिरिव करणीभूतं मनोरूपमपि मादृशां दुर्ज्ञेयमित्याह

  • त्वमेवेति । इन्द्रजालसदृशमायाव्यामोहविधायकम् ॥ १० ॥

मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते ।
तेनेमं मृतमालोक्य जातः सम्भ्रमवानहम् ॥ ११ ॥

स्वव्यामोहे द्वे निमित्ते आह - मत्पुत्रस्येति द्वाभ्याम् । न विद्यते ।
आकल्पमित्यर्थः ॥ ११ ॥

अक्षीणाजीवितं पुत्रं कालो मे नीतवानिति ।
नियतेर्वशतो देव तुच्छापीच्छा ममोदिता ॥ १२ ॥

न क्षीणमाजीवितमायुर्यस्य तम् ॥ १२ ॥

ननु विज्ञातसंसारगतयो वयमापदाम् ।
सम्पदां चैव गच्छामो हर्षामर्षवशं विभो ॥ १३ ॥

विस्मयस्याप्यर्थस्य च द्योतको ननुशब्दः ॥ १३ ॥

अयुक्तकारिणि क्रोधः प्रसादो युक्तकारि।इ ।
कर्तव्य इति रूढेयं संसारे भगवन् स्थितिः ॥ १४ ॥

नियतिरूपं द्वितीयहेतुं विवृणोति - अयुक्तेति । स्थितिर्नियतिः ॥ १४ ॥

इदं कार्यमिदं नेति यावत्कार्यं जगद्भ्रमः ।
तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो ॥ १५ ॥

कियत्कालं सा रूढा तत्राह - इदमिति । यावत्कालं इदमवश्यं
कर्तव्यमिदं न कर्तव्यमितीष्टानिष्टसाधनयोः कार्यं फलं सत्यमिति
जगद्भ्रमस्तावदेव । तर्हि स किमिदानीमपि तवोचितो नेत्याह - तस्येति । एतत्
एतर्हि तस्य भ्रमस्य तत्त्वबोधात्परित्यागो वृत्तः । अतस्तदर्थं
क्रोधप्रसादकर्तव्यतानियमोऽपि हेय एवेत्यनुचित एव क्रोध इत्यर्थः ॥ १५ ॥

केवलं तावकीं चिन्तामनालोक्य यदा वयम् ।
भगवन्भवते क्रुद्धा याताः स्मस्तेन बाध्यताम् ॥ १६ ॥

एवं सत्यप्यपराधे क्रोधो न युक्तः असति तु तदारोपेण क्रोधे प्रत्युत
क्रोद्धुरेव दण्डो युक्त इत्याशयेनाह - केवलमिति । चिन्तां वर्णितरूपं
नियतिपरिपालनमात्राभिप्रायम् । बाध्यतां त्वद्दण्ड्यतां याताः स्मः ॥ १६ ॥

त्वयेदानीमहं देव स्मारितस्तनयेहितम् ।
समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया ॥ १७ ॥

मनो जगति भूतानां द्वे शरीरेऽत्र सर्वगम् ।
मन एव शरीरं हि येनेदं भाव्यते जगत् ॥ १८ ॥

हि यस्मान्मन एव भौतिकं शरीरं कल्पयति अतो मन एव द्वे शरीरे इत्यर्थः ।
येन मनसा ॥ १८ ॥

काल उवाच ।

सम्यगुक्तं त्वया ब्रह्मन् शरीरं मन एव च ।
करोति देहं सङ्कल्पात्कुम्भकारो घटं यथा ॥ १९ ॥

इत्थं विनीतवादेन स्वोपदिष्टसूक्ष्मार्थग्रहणेन न तोषितः कालस्तदुक्तिं
प्रशंसंस्तामेवोपपत्तिभिर्द्रढयति - सम्यगुक्तमित्यादिना ॥ १९ ॥

करोत्यकृतमाकारं कृतं नाशयति क्षणात् ।
सङ्कल्पेन मनोमोहाद्बालो वेतालकं यथा ॥ २० ॥

तथा च सम्भ्रमस्वप्नमिथ्याज्ञानादिभासुराः ।
गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥ २१ ॥

मनसः असन्निर्माणशक्तिः सर्वानुभवप्रसिद्धेत्याह - तथा चेति ॥ २१ ॥

स्थूलदृष्टिदशां त्वेतामवलम्ब्य महामुने ।
पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते ॥ २२ ॥

मन एव शरीरं हीत्युक्तेः सम्यक्त्वमुपपाद्य येनेदं भाव्यते
जगदित्युक्तेस्ततोऽपि सम्यक्त्वमित्युपपादयितुं पूर्वां निन्दति -
स्थूलदृष्टिदशामिति ॥ २२ ॥

मनो मनननिर्माणमात्रमेतज्जगत्त्रयम् ।
न सन्नासदिव स्फारमुदितं नेतरन्मुने ॥ २३ ॥

का तर्हि सूक्ष्मदृष्टिस्तामाह - मन इत्यादिना । यतो मन इव
सत्त्वासत्त्वाभ्यामनिर्वचनीयमिदमुदितमित्यर्थः ॥ २३ ॥

चित्तदेहाङ्गलतया भेदवासनयेद्धया ।
द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता ॥ २४ ॥

चित्तदेहस्य अवयवभूतया लतयेव प्रतन्यमानया । नानाता जगद्भिदा ॥ २४ ॥

भेदवासनया पश्यत्पदार्थनिचयं मनः ।
भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ॥ २५ ॥

कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।
भावयत्स्वविकल्पोत्थां याति संसारितां मनः ॥ २६ ॥

मननं कृत्रिमं रूपं ममैतन्न यतोऽस्म्यहम् ।
इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥ २७ ॥

संसरणक्रममुपपाद्य तन्निवृत्त्युपायमाह - मननमिति ।
कृत्रिममननरूपत्यागे अकृत्रिमस्वरूपावस्थितेरर्थप्राप्तत्वादिति भावः ॥
२७ ॥

यथा प्रवितताम्भोधौ द्रुतां नैकतरङ्गिणि ।
शाम्यत्स्पन्दतयानेककल्लोलावलिशालिनि ॥ २८ ॥

उक्तेऽर्थे विस्तरेण समुद्रतरङ्गदृष्टान्तं वर्णयितुमारभते -
यथेत्यादिना । अत्रत्ययथाशब्दस्य चतुर्दशश्लोकस्थेन तथैवेत्यनेनान्वयः ।
वारिसामान्यात्मना अम्भोधिरूपेण तत्तत्प्रदेशे स्थितजलात्मना च
दृश्यमानदूरप्रस्थानरूपस्पन्दाभावाच्छाम्यत्स्पन्दतया स्थिते ।
कल्लोलग्रहणं महत्त्वाद्गोबलीवर्दन्यायेन ॥ २८ ॥

वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।
अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥ २९ ॥

ह्रस्वस्तरङ्गः स्वं रूपं भावयन्स्वस्वभावतः ।
ह्रस्वोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ॥ ३० ॥

स्वं रूपं भावयन्नित्यादिः सर्वस्तार्किकोऽहङ्कारारोपवादः । यदि भावयति
तदा वक्ष्यमाणभावनां करोतीत्यर्थः ॥ ३० ॥

दीर्घस्तरङ्गः स्वं रूपं भावयन्स्वस्वभावतः ।
दीर्घोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ॥ ३१ ॥

ह्रस्वश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।
भावयन्भूतलं याति तादृग्भावनया स्वया ॥ ३२ ॥

तलातलं पातालं भावयन्पतनभयाद्भूतलं तीरभूमिमुद्दिश्य याति ॥ ३२ ॥

उत्पन्नश्च पलादूर्ध्वमुत्थितोऽस्मीति भावितः ।
सरश्मिरत्नजालस्तु शोभते दीप्तया श्रिया ॥ ३३ ॥

पलादल्पकालादूर्ध्वमनन्तरं उत्थितो भोगयोग्यं जन्म प्राप्तोऽस्मीति
भावितोऽभिमन्यमानो दैवाद्गिरिरिव प्ररत्नरश्मिजालसहितः सन् शोभते ।
भूषितोऽस्मीति हृष्यतीत्यर्थः ॥ ३३ ॥

तुषारकरबिम्बस्थः शीतलोऽस्मीति बिम्बति ।
सतटाचलदावाग्निप्रतिबिम्बो ज्वलद्वपुः ॥ ३४ ॥

तस्यान्यान्यपि हर्षभयस्थानानि दर्शयति - तुषारकरेत्यादिना ।
तुषारकरस्य चन्द्रस्य बिम्बनं बिम्बस्तत्र उपाधित्वेन स्थितः सन् शीतलोऽस्मीति
बिम्बत्यभिमन्यते । तटस्थाचलदावाग्निप्रतिबिम्बेन सहितस्तु ज्वलद्वपुरस्मीति
बिभेति कम्पते चेति प्रेणान्वयः ॥ ३४ ॥

बिभेति वत दग्धोऽस्मीत्यात्तमौनश्च कम्पते ।
प्रतिबिम्बितवेलाद्रितटपक्षवनद्रुमः ॥ ३५ ॥

प्रतिबिम्बिताः वेलाद्रितटयोः पक्षप्राया वनद्रुमा यस्मिंस्तथाभूतः सन्
महता राज्यप्राप्त्यादिफलारम्भाडम्बरेण संयुक्तः कृतार्थोऽस्मीति राजते
इति परेणान्वयः ॥ ३५ ॥

महदारम्भसंरम्भसंयुक्तोऽस्मीति राजते ।
विशल्लोलानिलात्यन्तध्वस्तलोलशरीरकः ॥ ३६ ॥

खण्डशः परियातोऽस्मीत्यात्तक्रन्द इवारवी ।
न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोधरात् ॥ ३७ ॥

आत्तक्रन्द आरब्धरोदन इव आरवी ध्वनिमान् । दृष्टान्ते आरोपमुक्त्वा
अपवादं दर्शयति - न चेत्यादिना । पयोभराद्वारिसमूहरूपाज्जलधेः ॥
३७ ॥

नचैकं रूपमेतेषां किञ्चित्सन्नाप्यसन्मयम् ।
नचैते ह्रस्वदैर्घ्याद्या गुणास्तेषु न तेषु ते ॥ ३८ ॥

तेषूर्मिषु गुणा न सन्ति तेषु गुणेषु ऊर्मयश्च नेति दृष्टान्तार्थः ॥ ३८ ॥

नोर्मयः संस्थिता ह्यब्धौ न तत्तत्र न संस्थिताः ।
केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः ॥ ३९ ॥

तत्राब्धौ न संस्थिता इति यत्तत्र । अधिष्ठानात्मना सत्त्वाद्विवर्तात्मना तु
प्रतियोग्यसिद्धावभावासिद्धेरिति भावः । के तर्हि ते ऊर्मयस्तत्राह -
केवलमिति । विकलीकृता अल्पीकृताः । परिच्छेदभेदविकल्पिता इति यावत् ॥ ३९ ॥

नष्टानष्टाः पुनर्जाता जाताजाताः पुनः पुनः ।
परस्परपरामर्शान्नान्यतामुपयान्त्यलम् ॥ ४० ॥

परस्परपरामर्शादन्योन्यमेलनात् ॥ ४० ॥

एकरूपाम्बुसामान्यमया एव निरामयाः ।
तथैवास्मिन्प्रवितते सिते शुद्धे निरामये ॥ ४१ ॥

दार्ष्टान्तिके योजयति - तथैवेत्यादिना । सिते भारूपे ॥ ४१ ॥

ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ।
सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः ॥ ४२ ॥

ब्रह्ममात्रैकवपुषि निरङ्कुशब्रह्मणैकस्वभावे । अत एव ब्रह्मणि ।
पूर्णतैवात्र बृंहणं न वृद्धिक्रियेत्याशयेन तद्व्याख्या स्फाररूपिणीति
॥ ४२ ॥

संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ।
नानाशक्तिर्हि नानात्वमेति स्वे वपुषि स्थितिम् ॥ ४३ ॥

शक्तयः उपचराज्जगन्ति अभेदोपचारे हेतुमाह - नानेति ॥ ४३ ॥

बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ।
स्त्रीपुमान्व्यङ्गरूपेण ब्रह्मैव परिवर्तते ॥ ४४ ॥

व्यङ्गो नपुंसकः त्रिपदद्वन्द्वे विभक्त्यलुक् छान्दसः ॥ ४४ ॥

कल्पनान्या जगन्नाम्नी नासीदस्ति भविष्यति ।
ब्रह्मणो जगतो भेदो मनागपि न विद्यते ॥ ४५ ॥

यौक्तिकदृष्ट्योपपाद्य परमार्थदृष्ट्याप्याह - कल्पनेति ॥ ४५ ॥

सम्पूर्णं खल्विदं ब्रह्म जगद्ब्रह्मैव केवलम् ।
इति भावय यतेन ह्यन्यत्सर्वं परित्यज ॥ ४६ ॥

नानारूपिण्येकरूपा वैरूप्यशतकारिणी ।
नियतिर्नियताकारा पदार्थमधितिष्ठति ॥ ४७ ॥

अन्यपरित्यागोपायतया सर्वाधिष्ठानसन्मात्रं व्युत्पादयति - नानेति ।
नियताकारा सदा सर्वत्रैकरूपा । नियतिः सत्ता ॥ ४७ ॥

जडाजडमुपादत्ते चित्तमायाति चिन्मये ।
वासनारूपिणी शक्तिः स्वस्वरूपा स्थितात्मनः ॥ ४८ ॥

ननु जडाजडसाधारणी सत्ता कथं नियतैकरूपा स्यादित्याशङ्क्य न
चित्तकृतजडाजडविकल्पाभ्यां सन्मात्रैकरूप्यक्षतिरित्याशयेनाह -
जडेति । चिन्मये चिदाभासे चित्तं आयाति । प्राप्ते सति
तत्तद्व्याप्तमहङ्कारमेवात्मतया तदन्यसन्मात्रं चानात्मतया
मन्यमानमनाध्यात्मिकं जडमाध्यात्मिकं चाजडमिति भेदमुपादत्ते ।
सेयं चित्तस्य भेदवासनारूपिणी शक्तिरधिष्ठानसन्मात्रातिरेके
मिथ्यात्वापत्तेरात्मनः स्वस्वरूपैव स्थितेति नैकरस्यहानिरित्यर्थः ॥ ४८ ॥

ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।
नानारूपैः प्रतिस्पन्दैः परिपूर्ण इवार्णवः ॥ ४९ ॥

एवं च वर्णितदृष्टान्तदार्ष्टान्तिकसाम्यमव्याहतमित्याह -
ब्रह्मैवेत्यादिना ॥ ४९ ॥

नानातां स्वयमादत्ते नानाकारविहारतः ।
आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि ॥ ५० ॥

व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।
व्यतिरिक्ता न विश्वेशात्समग्राः कल्पनास्तथा ॥ ५१ ॥

शाखापुष्पलतापत्रफलकोरकयुक्तयः ।
यथैकस्मिंस्तथा बीजे सर्वदा सर्वशक्तिता ॥ ५२ ॥

एकस्मिन्बीजे ॥ ५२ ॥

विचित्रवर्णता यद्वद्दृश्यते कठिनातपे ।
विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी ॥ ५३ ॥

परिणामवाददृष्टान्तेनोपपाद्य
विवर्तवादप्रसिद्धदृष्टान्तेनाप्युपपादयति - विचित्रेत्यादिना ॥ ५३ ॥

विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् ।
एकवर्णात्पयोवाहाच्छक्रचापलता यथा ॥ ५४ ॥

पयोवाहान्मेघात् ॥ ५४ ॥

अजडाज्जडतोदेति जाड्यभावनहेतुका ।
ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता ॥ ५५ ॥

चेतनादचेतनोत्पत्तावपि वादद्वयानुरूपे द्वे दृष्टान्ते आह - अजडादिति ।
सुषुप्तता स्वाप्नरथादिः ॥ ५५ ॥

अचितश्चेतसः शक्तिं स्वबन्धायेच्छया शिवः ।
तनोति तान्तवं कोशं कोशकारकृमिर्यथा ॥ ५६ ॥

ननु चित ऐकरूप्यात्तत्कार्ये अचिति कथं वैचित्र्यसिद्धिरित्यत उक्तं - चेतसः
शक्तिमिति । वासनावैचित्र्यमित्यर्थः ॥ ५६ ॥

स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वैष विस्मृतिम् ।
करोति कठिनं बन्धं कोशकारकृमिर्यथा ॥ ५७ ॥

स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वा स्वकं वपुः ।
संसारान्मोक्षमाप्नोति स्वालानादिव वारणः ॥ ५८ ॥

स्वकं वपुः स्वीर्य पूर्णस्वरूपं भावयित्वा साक्षादनुभूय ॥ ५८ ॥

यथैव भावयत्यात्मा सततं भवति स्वयम् ।
तथैवापूर्यते शक्त्या शीघ्रमेव महानपि ॥ ५९ ॥

भाविता शक्तिरात्मानमात्मतां नयति क्षणात् ।
अनन्तमखिलं प्रावृड्मिहिका महती यथा ॥ ६० ॥

भाविता चिरभावनया दृढीकृता शक्तिर्वासना । आत्मतां स्वानुरूपताम् ।
अनन्तमाकाशम् । प्रावृणिहिका प्रसिद्धा ॥ ६० ॥

या शक्तिरुदिता शीघ्रं याति तन्मयतामजः ।
य एवर्तुः स्थितिं यातस्तन्मयो भवति द्रुमः ॥ ६१ ॥

उक्तमेव स्फुटयति - या शक्तिरिति ॥ ६१ ॥

न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।
बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥ ६२ ॥

इयं बन्धमोक्षकल्पना अज्ञदृशा तत्त्वदृशा तु तत्सम्भावनैव
नास्तीत्याह - नेति ॥ ६२ ॥

नास्ति बन्धो न मोक्षोऽस्ति तन्मयस्त्विव लक्ष्यते ।
ग्रस्तं नित्यमनित्येन मायामयमहो जगत् ॥ ६३ ॥

तन्मयो बन्धमोक्षविकारवानिव लक्ष्यते भ्रान्त्या । कुतः यतोऽस्य नित्यं
पूर्णात्मरूपमनित्येन आविद्यकेन वासनाध्यस्तभोक्तृभोग्यादिभावेन
ग्रस्तं रितोहितम् । तदेव मायामयं जगदित्यर्थः ॥ ६३ ॥

यदैव चित्तं कलितं किलानेनाकलात्मना ।
कोशकारवदात्मायमनेनावलितस्तदा ॥ ६४ ॥

तत्र मुक्यं बन्धं दर्शयति - यदैवेति ॥ ६४ ॥

अन्योन्यरूपास्त्वत्यन्तं विकल्पितशरीरकाः ।
मनःशक्तय एतस्मादिमा निर्यान्ति कोटयः ॥ ६५ ॥

अन्ये बन्धास्तु तत्कृता एवेत्याह - अन्योन्येति ॥ ६५ ॥

तज्जास्तत्स्थाः पृथग्रूपाः समुद्रादिव वीचयः ।
तज्जास्तत्स्थाः पृथक्स्थाश्च चन्द्रादिव मरीचयः ॥ ६६ ॥

पृथगिव भूताः । कर्मज्ञानेन्द्रियभेदात्तामससात्त्विकभेदाद्वा
विभागविवक्षया क्रमाद्दृष्टान्तद्वयोपन्यासः ॥ ६६ ॥

अस्मिन्स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।
चिज्जले वितताभोगे चिन्मात्ररसमालिनि ॥ ६७ ॥

मुख्यामुख्यबन्धोपाधिकजीवाख्यसंविद्भेदानेव
नामरूपक्रियादिवैचित्र्यैर्विस्तरेण दर्शयितुमुपक्रमते - अस्मिन्नित्यादिना ॥
६७ ॥

काश्चित्स्थिरा ब्रह्मविष्णू काश्चिद्रुद्रत्वमागताः ।
काश्चित्पुरुषतां प्राप्ताः काश्चिद्देवत्वमागताः ॥ ६८ ॥

पुरुषतां मनुष्यताम् ॥ ६८ ॥

(लहर्यः [कोष्ठकविन्यस्ताः श्लोकाः प्रक्षिप्ता इति भाति]
प्रस्फुरन्त्येताः स्वभावोद्भावितात्मकाः ।
काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः ॥

घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ।
काश्चित्किन्नरगन्धर्वविद्याधरसुरादिकाः ॥

उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ।
काश्चित्किञ्चित्स्थिराकारा यथा कमलजादिकाः ॥

काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥)

कृमिकीटपतङ्गाहिगोमशाजगरादिकाः ।
काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेम्बुबिन्दुवत् ॥ ६९ ॥

मशा मशकाः । महाम्भोधौ यादोरूपेणेति शेषः । दृष्टान्तशेषो वा ॥ ६९

काश्चिच्चला नरमृगगृध्रजम्बुलकादिकाः ।
स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव ॥ ७० ॥

जम्बुलका जम्बुकाः । चञ्चुलका इति पाठे पक्षिभेदाः । वेलावनतटेष्विव चला
अस्थिराः । तेषु हि वायुप्राबल्यात्सदैव तरुगुल्मलतादीनां चलता प्रसिद्धा ॥ ७० ॥

सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः ।
अतुच्छकलनाः काश्चित्काश्चित्तुच्छशरीरकाः ॥ ७१ ॥

अतुच्छा महती कलना देहसंस्थानकल्पना यासां ताः ॥ ७१ ॥

संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः ।
सुविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् ॥ ७२ ॥

स्थैर्येण चिरस्थायित्वेन । सुविकल्पैर्दृढविकल्पैर्हता मोहिताः । शङ्कन्ते
सम्भावयन्ति ॥ ७२ ॥

अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः ।
कृशोऽतिदुःखी मूढोऽहमितिदुःखैर्वशीकृताः ॥ ७३ ॥

अल्पभावनामेव त्रिधा दर्शयति - कृश इति ॥ ७३ ॥

काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः ।
काश्चित्पुरुषतां प्राप्ताः काश्चिदर्णवतां गताः ॥ ७४ ॥

पुरुषतां सदेहताम् । अर्णवतां सुषुप्तिप्रलययोरिवानाविर्भूतवासनां
मोहार्णवताम् ॥ ७४ ॥

काश्चित्स्थिता जगति कल्पशतान्यनल्पाः
काश्चिद्व्रजन्ति परमं पदमिन्दुशुद्धः ।
ब्रह्मार्णवात्समुदिता लहरीविलोला-
श्चित्संविदो हि मननापरनामवत्यः ॥ ७५ ॥

इन्दुरिव ज्ञानामृतपूर्णत्वाच्छुद्धाः सत्यः परमं पदं
पूर्णस्वरूपावस्थितिलक्षणं मोक्षं व्रजन्ति । लहर्य इव विलोलाश्चितः संविद
औपाधिकसंवेदनभेदाः मननं मनस्तत्तादात्म्याध्यासात्तन्नामधेयाः
॥ ७५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे
भार्गवोपाख्याने संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः ॥ ११

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः ॥ ११ ॥