दशमः सर्गः १०
श्रीवसिष्ठ उवाच ।
अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसम्बोधाद्विरराम समाधितः ॥ १ ॥
दृष्टपुत्रतनोः कोपो भृगोरत्रोपवर्ण्यते ।
कालं प्रत्यथ कालेन बोधनं चात्मविद्यया ॥ १ ॥
परमं परमात्मानं सम्बोधयति स्फुटं दर्शयतीति परमसम्बोधः
समाधिस्ततः ॥ १ ॥
नापश्यदग्रे तनयं विनयावनताननम् ।
सामन्तं गुणसेनायाः पुण्यं मूर्तमिव स्थितम् ॥ २ ॥
गुणसेनाया गुणसमूहस्य सामन्तमधिष्ठातारम् ॥ २ ॥
अपश्यत्केवलं कायकङ्कालं पुरतो महत् ।
देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत् ॥ ३ ॥
कायलक्षणं कङ्कालं शवम् ॥ ३ ॥
तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरिं ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥ ४ ॥
कङ्कालमेव वर्णयति - तापेत्यादिना । तापेनातपेन शुष्कवपुः । राहुः
सर्पशिरा इतिवद्बहुव्रीहिः । कृत्तिरन्ध्रेषु चर्मच्छिद्रेषु कृतनीडत्वात्
स्फुरितास्तित्तिरयः पक्षिभेदा यत्र । संशुष्कान्त्राया उदरगुहायाश्छायायां
विश्रान्ता दर्दुरा भेका यस्य ॥ ४ ॥
नेत्रगर्तकसंसक्तप्रसूतनवकीटकम् ।
पर्शुकापञ्जरप्रोतकोशकारकृमिव्रजम् ॥ ५ ॥
नेत्रगर्तके संसक्ता प्रसूता अपत्यपरम्पराभिर्वृद्धा नवकीटका यस्य ।
पर्शुकानि पार्श्वास्थीनि तल्लक्षणे पञ्जरे प्रोताः कोशकारकृमयः
पूर्वदेशप्रसिद्धा लूता वा ॥ ५ ॥
प्राक्तनीमुपभोगेहामिष्टानिष्टफलप्रदाम् ।
धाराधौतान्त्रया तद्वद्भृशं शुष्कास्थिमालया ॥ ६ ॥
उपभोगेहां भोगवासनां शुष्कास्थिमालया विडम्बयदित्युत्तरेणान्वयः ।
नानावैचित्र्यसन्धिबन्धैर्देहारम्भकत्वेन चास्थ्रां वासनानां च साम्यात्
॥ ६ ॥
शिरोघटेन शुभ्रेण मसृणेनेन्दुवर्चसा ।
विडम्बयच्च कर्पूराप्लुतलिङ्गशिरःश्रियम् ॥ ७ ॥
त्वचो विशीऋनत्वेनास्थिमात्रशेषादिन्दुवर्चसा पूजाविशेषे
कर्पूरैराप्लुतस्याभिषिक्तस्य शिवलिङ्गशिरसः श्रियं शोभां विडम्बयत्
अनुकुर्वत् ॥ ७ ॥
ऋज्व्या संशुष्कशिरया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् ॥ ८ ॥
वासनाप्रसृतमात्मानमनुसृतयेव ॥ ८ ॥
मृणालिकापाण्डुरया धारावभृतमांसया ।
नासाग्रास्थिकया वक्त्रे कृतसीमाकृतिं दधत् ॥ ९ ॥
वर्षधाराभिरवभृतमांसया शीर्णमांसया नासाग्रास्थिकया वक्रे
मुखमण्डले कृतः सीमामध्यावधारणशङ्कुर्यस्य तदाकृतिं तधत् ।
नासास्थ्यग्रस्य मुखमण्डलमध्यत्वादित्यर्थः । नासाग्रस्थितया इति पाठे
अस्थिकयेति विशेष्यमध्याहार्यम् ॥ ९ ॥
दीर्घकन्धरया नूनमुन्नतीकृतवक्त्रया ।
प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे ॥ १० ॥
दीर्घया कन्धरया ग्रीवया ॥ १० ॥
जङ्घोरुजानुदोर्दण्डैर्द्विगुणां दीर्घतां गतैः ।
प्रतिष्ठानमिवाशान्तं दीर्घाध्वश्रमभीतितः ॥ ११ ॥
दण्डशब्दस्य प्राण्यङ्गवचनत्वाभावान्न द्वन्द्वैकवद्भावः ।
जङ्घादिभिरष्टभिः आशान्तं अष्टदिगन्तं प्रति प्रतिष्ठानं
प्रतिष्ठमानं प्रस्थानं कुर्वाणमिव विश्लिष्य पलायनकाममिवेति यावत् ।
मुगभावश्छान्दसः । दीर्घाध्वश्रमभीतित इति तत्र हेतूत्प्रेक्षा । नहि दीर्घे
परलोकाध्वनि कायवहनश्रमः सोढुं शक्यत इति भयादिवेत्यर्थः ॥ ११ ॥
उदरेणातिरिक्तेन चर्मशेषेण शोषिणा ।
प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम् ॥ १२ ॥
प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः ।
पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः ॥ १३ ॥
आलानं बन्धनस्तम्भम् ॥ १३ ॥
आलोकसमकाले हि प्रतिभानं ततो भृगोः ।
चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात् ॥ १४ ॥
आलोकनमालोकस्तत्समकालं प्रतिभानं वक्ष्यमाणवितर्कः अभूदिति शेषः ॥
१४ ॥
अचिन्तयत एवास्य भविष्यं तनयं ततः ।
कालं प्रति बभूवाशु कोपः परमदारुणः ॥ १५ ॥
भविष्यमवश्यभाव्यर्थमचिन्तयतः तनयं मृतं दृष्ट्वेति शेषः ॥ १५
॥
अकाल एव मत्पुत्रो नीतः किमिति कोपितः ।
कालाय शापमुत्स्रष्टुं भगवानुपचक्रमे ॥ १६ ॥
अथाकलितरूपोऽसौ कालः कवलितप्रजः ।
आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ ॥ १७ ॥
अकलितरूपः अरूपोऽपीति यावत् । आकलितं कल्पितं रूपं येनेति वा ॥ १७ ॥
खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः ।
षड्भुजः षण्मुखो वह्न्या वृतः किङ्करसेनया ॥ १८ ॥
प्रतिपार्श्वं षड्भुजो द्वादशमासभुज इत्यर्थः षडृतुमुखः ॥ १८ ॥
यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥ १९ ॥
यत्करस्थत्रिशूलाग्रनिःसृतैरग्निमण्डलैः ।
विरेजुरुदितैराशाः कानकैरिव कुण्डलैः ॥ २० ॥
आशा दिशः । कानकैः कनकमयैः ॥ २० ॥
यत्परश्वसनापास्तशिखरा मेदिनीभृतः ।
दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः ॥ २१ ॥
परेण प्रबलेन श्वसनेन श्वासवायुना अपास्तशिखराः ॥ २१ ॥
यत्खड्गमण्डलोद्द्योतैः श्यामं बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलमिवाबभौ ॥ २२ ॥
कल्पे प्रलयकाले दग्धस्य जगतो धूमेन पर्याकुलं मुखमिव
[पर्याकुलमिवेत्येतावतैव निर्वाहे मुखमिवेत्याद्यधिकमत्रेति भाति]
विकृतम् ॥ २२ ॥
स उपेत्य महाबाहो कुपितं तं महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह ॥ २३ ॥
महाबाहो इति रामस्य राज्ञो वा सम्बोधनम् ॥ २३ ॥
विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किं नु हेतुं विनोत्तमाः ॥ २४ ॥
हेतुना परापराधादिनिमित्तेन सतापि ॥ २४ ॥
त्वमनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन सम्पूज्यसे पूज्यः साधो नेतरयेच्छया ॥ २५ ॥
इतरया शापभयादिनिमित्तया ॥ २५ ॥
मा तपःक्षपयाऽबुद्धे कल्पकालमहानलैः ।
यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ २६ ॥
शापदाने प्रत्युत तवैवानिष्टं स्यान्न ममेत्याशयेनाह - मा तप इति ।
अबुद्धे व्यर्थबुद्धे इति क्षेपच्छलेन ज्ञानबाधितत्वादविद्यमानबुद्धे इति
प्रशंसा । समानवाक्ये युष्मदस्मदादेशा वक्तव्याः इति
कात्यायनवचनविरोधाद्भिन्नवाक्यस्थपदात्परस्य मे इत्यादेशश्छान्दसः ॥
२६ ॥
संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि क्व न शक्ता वयं मुने ॥ २७ ॥
अप्रधृष्यतामुक्त्वा स्वस्याव्याहतशक्तितामाह - संसारेति ।
संसारावलयो ब्रह्माण्डपङ्क्तयः । क्व कस्मिन्विषये न
शक्तास्तमुदाहरेत्यर्थः । क्व नु शप्ता इति पाठे तु क्व कस्मिन्नपराधे केन
वा शापेनाभिभूता इत्यर्थः । स्वयं नियतिः स्वाभाविकी मर्यादा ।
ईहितमिच्छाद्वेषादिनिमित्तान्तरकृतमित्यर्थः ॥ २७ ॥
भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः ।
स्वयं नियतिरेषा हि नावयोरेतदीहितम् ॥ २८ ॥
स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः ।
भोक्तारं भोजनं याति सृष्टिं चाप्यन्तकःस्वयम् ॥ २९ ॥
सृज्यत इति सृष्टिस्तां जन्यभावमित्यर्थः । अन्तको विनाशकालः । स
यद्यदेवासृजत तत्तदत्तुमध्रियतेति श्रुतेरिति भावः ॥ २९ ॥
इदमित्थं मुने रूपं ममेह परमात्मनः ।
स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते ॥ ३० ॥
कुतस्तव सर्वभोक्तृता किं वा स्वरूपं तत्राह - इदमिति । इदं [इह इति
मुद्रितपुस्तके पाठः] मूर्तामूर्तं जगत्परमात्मनो मम इत्थं
भोज्यस्वभावतयैव स्वस्मिन् कल्पितं रूपम् । यतः परमात्मा स्वात्मनि
स्वयमेव जगदात्मना विजृम्भते । अतः स्वयमेवोपसंहरतीत्यर्थः ॥ ३० ॥
नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश्चेह कर्तारो दृष्ट्याऽनष्टकलङ्कया ॥ ३१ ॥
इदमप्यौपनिषदव्यवहारदृशोक्तं परमार्थदृशा त्वाह - नेहेति ।
कर्मठदृष्ट्या त्वाह - बहव इति । अनष्टकलङ्कयेति च्छेदः ॥ ३१ ॥
कर्तृताकर्तृते ब्रह्मन्केवलं परिकल्पिते ।
असम्यग्दर्शनेनैव न सम्यग्दर्शनस्य ते ॥ ३२ ॥
सम्यग्दर्शनं तत्त्वसाक्षात्कारो यस्य तस्य ते कर्तृताकर्तृते न स्तः ॥ ३२ ॥
पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च ।
स्वयमायान्ति यान्तीह कल्पते हेतुनामभिः ॥ ३३ ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः इत्यादिभगवद्दर्शितं
पक्षमाश्रित्याह - पुष्पाणीति । हेतुनामभिः [इह विषये कर्त्रादिशब्देः
काल एव कल्पते इति कालपदाध्याहारेण योजना कार्या] कर्त्रादिशब्दैः ।
हेतुना विधिः इति पाठे विधीयत इति विधिः प्राणिकर्मैव स्वाक्षिप्तेन हेतुना
निमित्तवैचित्र्येण विचित्रकार्येऽपि कल्पते समर्थो भवतीत्यर्थः ॥ ३३ ॥
अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते [कर्तृकर्तृते इति
पाठः] ।
न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु ॥ ३४ ॥
परमार्थदृशा अभावान्न सत्ये व्यवहारसंवादान्नानृते । कालस्य
कालरूपस्य परमात्मनः ॥ ३४ ॥
मनो मिथ्याभ्रमाभोगे कर्तृताकर्तृतामयीम् ।
करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ॥ ३५ ॥
भ्रान्तेक्षणो दुष्टदृष्टिः ॥ ३५ ॥
तेन मागा मुने कोपमापदामीदृशः क्रमः ।
यद्यथा तत्तथैवाशु सत्यमालोकयाकुलः ॥ ३६ ॥
तेन वर्णितरीत्या अपराधासम्भवेन । आकुलः सन् कोपं भागाः ॥ ३६ ॥
न वयं प्रतिभार्थेहा नाभिमानवशीकृताः ।
स्वतो हि तात वशगाः केवलं नियतौ स्थिताः ॥ ३७ ॥
रागाभिमानादिवशात्त्वत्पुत्रवधे अपराधिता स्यान्न च मे तौ स्त इत्याह -
न वयमिति । प्रतिभार्थे भ्रान्तिकल्पितख्यातिपूजाद्यर्थे ईहा रागो येषाम् । अस्मदो
द्वयोश्च इति बहुवचनम् । त्वत्समीपागमनमपि न त्वत्क्रोधभयात्किन्तु
तपस्विनो मान्या इति नियतिवशादित्याशयेनाह - स्वत इति ॥ ३७ ॥
प्रकृतव्यवहारेहानियतीरियतेर्वशात् ।
प्राज्ञाः समभिवर्तन्ते नाभिमानमहातमः ॥ ३८ ॥
सर्वप्राज्ञानुसारित्वान्नियतिवश्यता ममोचिता तव तु
क्रोधाभिमानतमोनुवृत्तिरनुचितेत्याशयेनाह - प्रकृतेति ।
जगन्मर्यादापालकेश्वरेच्छालक्षणमहानियतेर्वशादवान्तरप्रकृतव्यव
हारेच्छानियतीः समनुवर्तन्त इत्यर्थः ॥ ३८ ॥
कर्तव्यमेव नियतं केवलं कार्यकोविदैः ।
सुषुप्तिवृत्तिमाश्रित्य कदाचित्त्वं न नाशय ॥ ३९ ॥
कार्यकोविदैर्व्यवहारचतुरैः कर्तव्यमेव अवश्यं कर्तव्यं नियतं
स्वस्वोचितमर्यादापालनं त्वं सुषुप्तवृत्तिं तमोवृत्तिमाश्रित्य न नाशय ।
कदाचिदपि नाशय इति पाठे स्पष्टम् ॥ ३९ ॥
क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि ॥ ४० ॥
सर्वप्राज्ञप्रसिद्धे ॥ ४० ॥
स्वकर्मफलपाकोत्थामविचार्य दशां मुने ।
किं मुर्ख इव सर्वञ मुधा मां शप्तुमिच्छसि ॥ ४१ ॥
मुधा व्यर्थम् ॥ ४१ ॥
देहिनामिह सर्वेषां शरीरं द्विविधं मुने ।
किं न जानासि तं देहमेकमन्यन्मनोभिधम् ॥ ४२ ॥
इत्थं भृगोर्मोहं विनिन्द्य प्रसुप्तं ज्ञानं प्रबोधयितुमुपक्रमते -
देहिनामित्यादिना । तं प्रसिद्धं स्थूलम् ॥ ४२ ॥
तत्र देहो जडोऽत्यर्थमाविनाशपरायणः ।
मनस्तुच्छं च नियतं कदर्थीक्रियते तव ॥ ४३ ॥
आविनाशः ईषन्निमित्तेनापि विनाशः । नियतं आमोक्षस्थायि । तुच्छं
प्रातिभासिकम् । कदर्थीक्रियते क्रोधादिना पीड्यते ॥ ४३ ॥
चतुरेण यथा साधो रथः सारथिनोह्यते ।
कुर्वता किञ्चन स्नेहाद्देहोऽयं मनसा तथा ॥ ४४ ॥
स्नेहादभिमानात्किञ्चन ईदृशमिति विशिष्य वक्तुमशक्यमन्तर्व्यापारं
कुर्वता ॥ ४४ ॥
असत्सङ्कल्पः क्रियते सच्छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥ ४५ ॥
असद्देहान्तरविषयः सङ्कल्पः क्रियते । सत् पूर्वसिद्धं विनाश्यते ।
पङ्कपुरुष आर्द्रमृत्पुत्रिका क्रीडार्था ॥ ४५ ॥
चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते ।
तद्वद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥ ४६ ॥
असत्सङ्कल्पनमेव कलना तद्रूपाद्धेतोर्बद्धम् ॥ ४६ ॥
अयं देह इवात्रस्थमिदमङ्गमिदं शिरः ।
इदं स्फारविकारं तन्मन एवाभिधीयते ॥ ४७ ॥
तस्य देहकलनाप्रकारमभिनयन्नाह - अयमिति ॥ ४७ ॥
मनो हि जीवाज्जीवाख्यं निश्चयैकतया नु धीः ।
अहङ्कारोऽभिमन्तृत्वान्नानाता स्वयमेव हि ॥ ४८ ॥
एकमेव मनो यथा पूर्वपूर्वजीवाज्जिवान्तराख्यं भवति तथा जीवटोपाख्याने
वक्ष्यते । मनःसङ्कल्पितेऽर्थे निश्चयैकतया मन एव तदनु धीर्भवति ।
अभिमन्त्र्त्वादहङ्कार इति मनः स्वयमेव नानाता नानात्वं भवतीत्यर्थः ॥
४८ ॥
देहवासनया चेतस्त्वन्यानि स्वानि चेच्छया ।
पार्थिवानि शरीराणि ह्यसन्ति परिपश्यति ॥ ४९ ॥
आलोकयति चेत्सत्यं तदा सत्यमयीं मनः ।
शरीरभावनां त्यक्त्वा परामायाति निर्वृतिम् ॥ ५० ॥
इदञ्च मनसो देहादिकल्पकत्वमात्मसाक्षात्कारपर्यन्तपर्यन्तमेव
नोत्तरत्रेत्याह - आलोकयतीति ॥ ५० ॥
तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दूराद्दूरतरं गतम् ॥ ५१ ॥
एवं भृगुं प्रबोध्य मनोविलासमात्रकृतां तत्पुत्रकथां प्रस्तौति -
तदिति ॥ ५१ ॥
इममौशनसं त्यक्त्वा देहं मन्दरकन्दरे ।
प्रयातो वैबुधं सद्म नीडोड्डीनः खगो यथा ॥ ५२ ॥
इमं त्वया दृश्यमानम् ॥ ५२ ॥
तत्र मन्दरगुञ्जेषु पारिजाततलेषु च ।
नन्दनोद्यानखण्डेषु लोकपालपुरेषु च ॥ ५३ ॥
मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् ।
असेवत महातेजाः षट्पदः पद्मिनीमिव ॥ ५४ ॥
देवसुन्दरीमप्सरसम् ॥ ५४ ॥
तीव्रसंवेगसम्पन्नस्वसङ्कल्पोपकल्पिते ।
अथ पुण्यक्षये जाते नीहार इव शार्वरे [शाम्बरे इति पाठः] ॥ ५५ ॥
स्वर्ग इव पुण्यक्षयात्तत्पातोऽपि मनःकल्पनयैवेत्याशयेनाह - तीव्रेति ॥ ५५
॥
प्रम्लानकुसुमोत्तंसः खिन्नाङ्गावयवोल्लसः ।
स पपात तया सार्धं कालपक्वं फलं यथा ॥ ५६ ॥
स्वर्ग उत्तंसकुसुमम्लान्यादिकं स्वर्गे पुण्यक्षयचिह्नम् ॥ ५६ ॥
वैबुधं तत्परित्यज्य नभस्येव शरीरकम् ।
भूताकाशमथासाद्य वसुधायां व्यजायत ॥ ५७ ॥
अजायत जन्म लेभे ॥ ५७ ॥
आसीद्विप्रो दशार्णेषु कोसलेषु महीपतिः ।
धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे ॥ ५८ ॥
तस्य तत्तद्वासना कर्मानुसारीणि पूर्वमुक्तान्यनुक्तानि च बहूनि जन्मान्याह
- आसीदित्यादिना ॥ ५८ ॥
सूर्यवंशे नृपः पौण्ड्रः सौरशाल्वेषु देशिकः ।
कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः ॥ ५९ ॥
पौण्ड्रः पुण्ड्रदेशाधिपतिः । देशिको मन्त्रसिद्धः अन्येषामुपदेष्टा । अत
एव मन्त्रोपास्तिप्रभावात्कल्पं विद्याधरः । अथ अनन्तरं मुनेः सुतो जातः ॥
५९ ॥
मद्रेष्वथ महीपालस्ततस्तापसबालकः ।
वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः ॥ ६० ॥
अन्यास्वपि विचित्रासु वासनावशतः स्वयम् ।
विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु ॥ ६१ ॥
नैतावन्त्येवास्य जन्मानि किन्त्वन्यान्यप्यासन्नित्याह - अन्यास्वपीति ॥ ६१ ॥
अभूद्विन्ध्यनगे भूयः किरातः कैकटेषु च ।
सौवीरेष्वथ सामन्तस्त्रिगर्तेषु च गर्दभः ॥ ६२ ॥
सामन्तो मण्डलेश्वरः । तत्र कृतैः पापैस्तिर्यक्स्थावरादिजन्मान्यपि
दर्शयति - त्रिगर्तेष्वित्यादिना ॥ ६२ ॥
वंशगुल्मः किरातेषु हरिणश्चीनजङ्गले ।
सरीसृपस्तालवृक्षे तमाले वनकुक्कुटः ॥ ६३ ॥
अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।
प्रजजाप पुरा विद्यां विद्याधरपुरप्रदाम् ॥ ६४ ॥
कल्पं विद्याधरोऽभवदिति यदुक्तं प्राक् तत्सनिमित्तं प्रपञ्चयति - अयं
स इत्यादिना ॥ ६४ ॥
तेनासावभवद्ब्रह्मन्व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरलीलानिचयलालकः ॥ ६५ ॥
हारकेयूरादिभिर्लीलानिचयैश्च लालको विलासयिता स्त्रीणाम् ॥ ६५ ॥
नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणः ॥ ६६ ॥
अत एव स तासां प्रियतम इत्याशयेनाह - नायिकेति ॥ ६६ ॥
स कल्पावधिमासाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा ॥ ६७ ॥
द्वादशादित्यधामनि कल्पान्ते युगपदुदितद्वादशादित्यार्चिषि भस्मताम् ॥ ६७ ॥
जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥ ६८ ॥
अथ कालेन सञ्जाते विचित्रारम्भकारिणि ।
संसाररचनारम्भे ब्राह्मे रात्रिविपर्यये ॥ ६९ ॥
सा मुने वासना तस्य वातव्याचलिता सती ।
कृते ब्राह्मणतामेत्य जातोऽद्य वसुधातले ॥ ७० ॥
कृते आद्ययुगे ॥ ७० ॥
वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।
जातो मतिमतां मध्ये समधीताखिलश्रुतिः ॥ ७१ ॥
कल्पं विद्याधरो भूत्वा नद्यास्त्वथ महामुने ।
तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः ॥ ७२ ॥
विविधविषयवासनानुवृत्त्या
खदिरकरञ्जकरालकोटरासु ।
जगति जठरयोनिषु प्रयातो
गहनतरासु च काननस्थलीषु ॥ ७३ ॥
उपसंहरति - विविधेति । खदिरकरञ्जकण्टककरालगिरिकोटरकल्पासु
जठरयोनिषु गर्भवासभेदेषु प्रयातो भ्रान्तः ॥ ७३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः ॥ १० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे कालवचनं
नाम दशमः सर्गः ॥ १० ॥