नवमः सर्गः ९
श्रीवसिष्ठ उवाच ।
इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः ॥ १ ॥
इह शुक्रशरीरस्य भृगुसन्निधिवर्तिनः ।
मृतप्रायस्य पतनं शुष्कता चोपवर्ण्यते ॥ १ ॥
इति उक्तप्रकारेण चिन्तयतो मनोराज्यैः कल्पयतः । पितुर्भृगोरग्रतः ॥ १ ॥
अथ कालेन महता पवनातपजर्जरः ।
कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥ २ ॥
पवनातपाभ्यां जर्जरः शिथिलीकृतः ॥ २ ॥
मनस्तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्विवैणकः ॥ ३ ॥
तासु तासु स्वकल्पितस्वर्गगमनादिदशासु । एणको हरिणः ॥ ३ ॥
भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् ।
मनस्तस्य विशश्राम समङ्गासरितस्तटे ॥ ४ ॥
भोगकल्पनाभिर्भ्रान्तम् । जन्ममरणपरम्पराकल्पनयोद्भ्रान्तम् ।
विशश्राम विश्रान्तिं प्राप ॥ ४ ॥
अनन्तवृत्तान्तघनां पेलवां सुदृढामपि ।
तां संसृतिदशां शुक्रो विदेहोऽनुभवन्स्थितः ॥ ५ ॥
मनःकल्पनामात्रत्वात्पेलवाम् । सत्यताभ्रान्त्या
प्राक्तनदेहविस्मरणात्सुदृढाम् । विदेहः शुक्रदेहनिरपेक्षः ॥ ५ ॥
मन्दराचलसानुस्था सा तनुस्तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥ ६ ॥
चर्मशेषा बहिः । अन्तस्त्वस्थिशेषा ॥ ६ ॥
शरीररन्ध्रप्रवहद्वातसीत्काररूपया ।
चेष्टा दुःखक्षयानन्दात्काकल्येव प्रगायति ॥ ७ ॥
सा तनुरभिमानदुःखक्षयप्रयुक्तादानन्दाद्धेतोः शरीररन्ध्रेषु
वेणुरन्ध्रेष्विव प्रवहतः सञ्चरतो वातस्य ये वेषुध्वनिवत्सीत्कारास्तद्रूपया
[तद्भूतया इति क्वचित्] काकल्या सूक्ष्माव्यक्तमधुरध्वनिना देहस्य
ईदृशी गतिरिति तच्चेष्टाः प्रगायतीवेत्युत्प्रेक्षा ॥ ७ ॥
मनोवराकमवटे लुठितं भवभूमिषु ।
हसतीवेति शुभ्राभ्रसितया दन्तमालया ॥ ८ ॥
तामेव देहदशामुत्प्रेक्षान्तरैरपि वर्णयति - मनोवराकमित्यादिना । सा
तनुर्भवभूमिषु भोगाशालक्षने अवटे शुष्कपल्वले इति
प्रागवर्णितप्रकारेण लुठितं मनोवराकं शुभ्राभ्रसितया दन्तमालया
हसतीव ॥ ८ ॥
दर्शयन्ती जगच्छून्यं वपुरक्ष्णोरकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया ॥ ९ ॥
सा तनुर्मुखमण्डलरूपे अरण्ये जरत्कूपसमूहरूपया
नासानयनवक्रादिगर्तानां शोभया अकृत्रिमं स्वाभाविकं जगतः
शून्यमसद्रूपतां विवेकिनां वपुरक्ष्योः प्रत्यक्षं दर्शयन्तीव
स्थितेत्यर्थः । वपुर्ग्रहणं तदाश्रितप्रमाणान्तरोपलक्षणार्थम् ॥ ९ ॥
तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
प्रागनुस्मरणोल्लासमिव वाष्पं विमुञ्चति ॥ १० ॥
प्राक्तापोपतप्ता पश्चात्संसिक्ता । प्रागनुस्मरणं
स्वबन्धुभूतपूर्वपूर्वदेहपरम्परानुस्मरणं
तत्प्रयुक्ताद्दुःखादानन्दाद्वा उल्लसतीति प्रागनुस्मरणोल्लासं बाष्पम्
अश्रुधूमाभासयोः श्लेषादभेदारोपः ॥ १० ॥
चन्द्रानिलविलासेन लुलिता वनभूमिषु ।
धारानिकरपातेन विनुन्ना जलदागमे ॥ ११ ॥
प्रावृण्निर्झररूपेण प्लुता गिरिनदीतटे ।
पांशुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥ १२ ॥
प्रावृड्निर्झरस्य रूपेण धातुरागेण प्लुता रञ्जिता ॥ १२ ॥
शुष्ककाष्ठवदालोला वातेषु कृतखाकृतिः ।
तारमारुतसीत्कारे वने तप इवास्थिता ॥ १३ ॥
स्वाकृतिर्विलोडनोत्थखड्शब्दकरणम् । अव्यक्तानुकरणाड्डाचि
बहुलग्रहणान्न द्वित्वम् । भूतानां भाङ्कारो
भयङ्करधवनिस्तत्करणशीला अरण्यलक्ष्मीः अलक्ष्मीः । बाल्या बलिकर्मणा ।
आहारेणेति यावत् । ब्राह्मणादेराकृतिगणत्वात्कर्मणि ष्यञ् ङीष् ।
चर्ममयोदरी चर्ममात्रशेषोदरी ॥ १३ ॥
वक्रा शुष्कान्त्रतन्त्री च भूतभाङ्कारकारिणी ।
अरण्यलक्ष्मीर्बाल्येव शून्या चर्ममयोदरी ॥ १४ ॥
रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः ॥ १५ ॥
तर्हि सा तनुः श्वापदगृध्रादिभिः कुतो न भक्षिता तत्राह - रागेति ।
सप्रमाणत्वाच्च न विशीर्णेत्यपि द्रष्टव्य ॥ १५ ॥
यमनियमकृशीकृताङ्गयष्टि-
श्चरति तपः स्म भृगूद्वहस्य चेतः ।
तनुरथ पवनापनीतरक्ता
चिरमलुठन्महतीषु सा शिलासु ॥ १६ ॥
यमनियमाभ्यां कृशीकृता अङ्गयष्टिः स्वकल्पितशरीरान्तरं येन ।
क्लीबेऽपि विभक्त्यलुक् छान्दसः । भृगूद्वहस्य शुक्रस्य चेतश्चित्तं
तपश्चरति स्म समङ्गातटे । सा प्राक्तनी शुक्रतनुः ॥ १६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
भा० भार्गवकलेवरवर्णनं नाम नवमः सर्गः ॥ ९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भार्गवकलेवरवर्णनं नाम नवमः सर्गः ॥ ९ ॥