०८

अष्टमः सर्गः ८

श्रीवसिष्थ उवाच ।

इति चित्तविलासेन चिरमुत्प्रेक्षितैः प्रियैः ।
प्रणयैर्भार्गवस्यासीत्तुष्टये सुसमागमः ॥ १ ॥

विविधस्वर्गभोगान्ते पतितस्यात्र भूरिशः ।
जन्मानि वासनायोगात्तापसत्त्वं च कीर्त्यते ॥ १ ॥

उत्प्रेक्षितैः कल्पितैः ॥ १ ॥

मन्दारमालाकलया विबुधासवमत्तया ।
तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥ २ ॥

मन्दारमालाः आकलयति सर्वतो धारयतीति तथोक्तया । मन्दारमालालकया इति
पाठः स्पष्टः । विबुधासवममृतं देवभोग्यमासवान्तरं वा ॥ २ ॥

विहृतं मत्तहंसासु हेमपङ्कजिनीषु च ।
तटीष्वमरवाहिन्याः सह चारणकिन्नरैः ॥ ३ ॥

अमरवाहिन्या मन्दाकिन्याः ॥ ३ ॥

पीतमिन्दुदलस्यन्दैर्देवैः सह रसायनम् ।
पारिजातलताजालनिलयेषु विलासिना ॥ ४ ॥

इन्दुदलानां चन्द्रकलानां स्यन्दैर्निष्यन्दरूपैश्चन्द्रकलारब्धशरीरैरिति
यावत् । लताजालनिलयेषु कुञ्जेषु ॥ ४ ॥

चारुचैत्ररथोद्यानलतालोलासुदोलया ।
चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः ॥ ५ ॥

लताकल्पितया लीलार्थया सुदोलया विलसितं क्रीडितम् ॥ ५ ॥

नन्दनोपवनाभोगो मन्दरेणेव वारिधिः ।
भृशमालोड्यतां नीतः प्रथमैः सह शाम्भवैः ॥ ६ ॥

शाम्भवैः शिवानुचरैः प्रमथैः सह आलोड्यतां परिभ्रान्तताम् ॥ ६ ॥

बालहेमलताजालजटालासु नदीषु च ।
भ्रान्तमुन्मत्तनागेन मैरवीष्वब्जिनीष्विव ॥ ७ ॥

उन्मत्तनागेन मत्तगजेन । मैरवीषु मेरुसम्बन्धिनीषु भूमिषु ॥ ७ ॥

कैलासवनकुञ्जेषु तया सह विलासिना ।
हरेन्दुधवला रात्र्यः क्षिपिता गणगीतिभिः ॥ ८ ॥

हरस्येन्दुना चूडामणिना कृष्णपक्षेऽपि धवलाः । क्षिपिताः क्षिप्ताः ।
अतिवाहिता इति यावत् । इट् छन्दसः ॥ ८ ॥

गन्धमादनशैलस्य विश्रम्योपरि सानुषु ।
सा तेन कनकाम्भोजैरापादमभिमण्डिता ॥ ९ ॥

सा वधुः ॥ ९ ॥

लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु ।
क्रीडितं कृतहासेन राम तेन तया सह ॥ १० ॥

लोकालोको भूप्रान्तपर्वतः प्रसिद्धः ॥ १० ॥

मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः ।
अवसत्स समाः षष्टिं कल्पितामरमन्दिरे ॥ ११ ॥

कच्छेषु जलप्रायशिशिरदेशेषु । हरिणशावकैर्मृगपोतैः । षष्टिं समाः
संवत्सरान् ॥ ११ ॥

क्षीरार्णवतटीष्वस्य वनितासहचारिणः ।
क्षीणं कृतयुगादर्धं श्वेतद्वीपजनैः सह ॥ १२ ॥

गन्धर्वनगरोद्यानलीलाविरचनैरसौ ।
स्रष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥ १३ ॥

मनोरथमात्रेण शुक्र एव सर्वजगत्सृष्टेः क्रमेण स्रष्टा सन्
कालस्यानुकृतिं साम्यं गतः प्रापेत्यर्थः ॥ १३ ॥

अथावसदसौ शुक्रः पुरन्दरपुरे पुनः ।
सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह ॥ १४ ॥

पुण्यक्षयानुसन्धानात्ततश्चावनिमण्डले ।
तयैव सह मानिन्या पपातोपहताकृतिः ॥ १५ ॥

उपहता पतनप्रतिसन्धानभयाद्गलिता आकृतिर्दिव्यशरीरं यस्य ॥ १५ ॥

परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः ।
चिन्तापरवशो ध्वस्तः समितीव हतो भटः ॥ १६ ॥

परालूनानि द्रवीभावेन विच्छिन्नानि समस्ताङ्गानि यस्य । हृते
देवैर्बलाद्गृहीते स्यन्दनं विमानं नन्दनं वनं
वासोलङ्काराद्युपभोगानन्दसाधनं च यस्य । ध्वस्तः अधःपतितः । समिति
युद्धे ॥ १६ ॥

पतितस्यावनौ तस्य चिन्तया सह दीर्घया ।
शरीरं शतधा जातं शिलापातीव निर्झरः ॥ १७ ॥

शरीरं द्रवीभूतस्वरूपम् ॥ १७ ॥

संशीर्णयोर्देहकयोश्चित्तके व्यसनाविले ।
विचेरतुस्तयोर्व्योम्नि निर्नीडौ विहगौ यथा ॥ १८ ॥

चित्तके लिङ्गशरीरे द्वे । व्यसनेन दुःखेन आविले अस्वच्छे ॥ १८ ॥

तत्राविविशतुश्चान्द्रं ते चित्ते रश्मिजालकम् ।
प्रालेयतामुपेत्याशु शालितामथ जग्मतुः ॥ १९ ॥

तत्र व्योम्नि । आविविशतुः प्रविष्टे । प्रालेयतां हिमजलताम् ॥ १९ ॥

शालींस्तान्भुक्तवान्पक्वान्दशार्णेषु द्विजोत्तमः ।
स शुक्रः शुक्रतामेत्य तद्भार्यातनयोऽभवत् ॥ २० ॥

दशार्णेषु देशविशेषेषु । शुक्रतां रेतस्ताम् ॥ २० ॥

ततो मुनीनां संसर्गात्तपस्युग्रे व्यवस्थितः ।
अवसन्मेरुगहने मन्वन्तरमनिन्दितः ॥ २१ ॥

मेरुगहने इलावृतादिवर्षे ॥ २१ ॥

तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः ।
तत्स्नेहेन परं मोहं पुनरप्याययौ क्षणात् ॥ २२ ॥

मृग्या इति अर्थात्साप्सराः शापान्मृगी सम्पन्नेति गम्यते ॥ २२ ॥

पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम् ।
इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम् ॥ २३ ॥

सत्यां श्रुत्यादिप्रमाणनियन्त्रितामवस्थितिं तपोध्यानदानादिनिष्ठां जहौ
॥ २३ ॥

धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तया ।
क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम् ॥ २४ ॥

अहरत् अग्रसत् ॥ २४ ॥

भोगैकचिन्तया सार्धं सममुत्क्रान्तचेतनः ।
प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः ॥ २५ ॥

मद्रेशो मद्रराजस्तस्य पुत्रत्वं प्राक्तनब्राह्मण्यापेक्षया निकृष्टां
क्षात्रयोनिमित्याशयः ॥ २५ ॥

मद्रदेशे चिरं कृत्वा राज्यमुत्सन्नशात्रवम् ।
जरामभ्याजगामात्र हिमाशनिरिवाम्बुजम् ॥ २६ ॥

अभ्याजगाम प्राप ॥ २६ ॥

मद्रराजतनुं चारुं तपोवासनया सह ।
तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः ॥ २७ ॥

तपोवासनया वानप्रस्थधर्मसञ्चिन्तयेत्यर्थाद्गम्यते ॥ २७ ॥

समङ्गाया महानद्यास्तटमासाद्य तापसः ।
तपस्तेपे महाबुद्धिः स राम विगतज्वरः ॥ २८ ॥

विगतज्वरः शान्त्यादिनिरस्तरागादिसन्तापः ॥ २८ ॥

विविधजन्मदशां विविधाशयः
समनुभूय शरीरपरम्पराः ।
सुखमतिष्ठदसौ भृगुनन्दनो
वरनदीसुतटे दृढवृक्षवत् ॥ २९ ॥

असौ प्रागुक्तो भृगुनन्दनः शुक्रो विविधाशयो नानाविधवासनावासितः
संस्तत्तदनुसारिणीं विविधजन्मदशां प्राप्य शरीरपरम्पराः
सम्यगनुभूय दैवाद्वैराग्यादिसाधनसम्प्राप्या सुखं निर्विक्षेपं यथा
स्यात्तथा वरनद्याः समङ्गायाः सुतटे
दृढवृक्षवच्छेदनभेदनादिविक्षेपसहस्रेऽप्यचञ्चलवृत्तिरतिष्ठदित्य
र्थः ॥ २९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
भार्गवोपाख्याने शुक्रविविधजन्मानुभवो नामाष्टमः सर्गः ॥ ८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
शुक्रविविधजन्मानुभवो नामाष्टमः सर्गः ॥ ८ ॥