सप्तमः सर्गः ७
इति शुक्रः पुरं प्राप्य वैबुधं स्वेन तेजसा ।
विसस्मार निजं भावं प्राक्तनं व्यसनं विना ॥ १ ॥
इह भूयः स्वकान्तायाः स्वर्गे शुक्रेण दर्शनम् ।
परस्परानुरागेण सङ्गमश्चोपवर्ण्यते ॥ १ ॥
इति उक्तमनोराज्यप्रकारेण विबुधानां निवासं वैबुधं पुरं स्वर्गम् । स्वेन
स्वकीयेन तेजसा पुण्यसामर्थ्येन । व्यसनं मरणदुःखं विनापि ॥ १ ॥
मुहूर्तमिव विश्रम्य तस्य पार्श्वे शचीपतेः ।
स्वर्गं विहर्तुमुत्तस्थौ स्वर्गाभिपरिमोदितः ॥ २ ॥
स्वर्गेण सुखातिशयेनाभितः परिमोदितो हर्षितः । स्वर्गामिपरिमोदितः इति पाठे
स्वर्गसञ्चरणशीलैर्देवैरुत्साहित इत्यर्थः ॥ २ ॥
स्वःश्रियं स समालोक्य लोललोचनवाञ्छिताम् ।
स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः ॥ ३ ॥
स्वःश्रियं स्वर्गशोभां स्वसौन्दर्यं च । लोललोचनस्य स्त्रीजनस्य
वाञ्छितामभीष्टतामामिति समालोक्य विचार्य । स्त्रैणं स्त्रीसमूहम् ॥ ३ ॥
तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ ।
ददर्श विपिनान्तस्थां भृगुश्चूतलतामिव ॥ ४ ॥
तां पूर्वदृष्टामप्सरसम् । भृगुर्भार्गवः ॥ ४ ॥
सापि तं भार्गवं राम दृष्ट्वा परवशाभवत् ।
तामालोक्य लसल्लोलविलासवलिताकृतिम् ॥ ५ ॥
तामालोक्य स भार्गवोऽपि परवशोऽभवदित्यनुषङ्गः परेण वान्वयः ॥ ५ ॥
आसीद्विलीयमानाङ्गो ज्योत्स्नामिन्दुमणिर्यथा ।
विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् ॥ ६ ॥
स्वेदाख्यं सञ्चारिभावं दर्शयति - विलीयमानाङ्ग इति ॥ ६ ॥
चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ।
तेनावलोकिता सापि तत्परायणतां गता ॥ ७ ॥
निशान्ते चक्रवाकेन कान्तेव परिकूजिता ।
रसाद्विकसिता नूनमन्योन्यमनुरक्तयोः ॥ ८ ॥
निशि वियोगात्परितः कूजितं रुदितं यया सा कान्ता चक्रवाकिनी निशान्ते
प्रातश्चक्रवाकेनावलोकितेव । रसात्प्रेमातिशयाद्विकसिता आविष्कृतशोभा ।
नूनमित्यभेदोत्प्रेक्षाद्योतनाय ॥ ८ ॥
प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ।
सङ्कल्पितार्थदायित्वाद्देशस्याभूच्च तेन सा ॥ ९ ॥
देशस्य नन्दनोद्देशस्य ॥ ९ ॥
सर्वाङ्गं विवशीकृत्य कामायैव समर्पिता ।
पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः ॥ १० ॥
पलाशेष्विव पद्मिन्या धारा इव पयोमुचः ।
सा बभूव स्मरोद्धूता लोलालिवलयाकुला ॥ ११ ॥
पलाशेषु पत्रेषु । तस्याः कम्पाख्यं सञ्चारिभावं दर्शयति - सेति ।
स्मरेणोद्धूता कम्पिता ॥ ११ ॥
मन्दवाताभिनुन्नाया मञ्जर्याः सहधर्मिणी ।
नीलनीरजनेत्रान्तां हंससारसगामिनीम् ॥ १२ ॥
सहशब्दः सादृश्ये । सदृशधर्मिणीत्यर्थः ॥ १२ ॥
मदनः क्षोभयामास गजः कमलिनीमिव ।
अथ तां तादृशीं दृष्ट्वा शुक्रः सङ्कल्पितार्थभाक् ॥ १३ ॥
तमः सङ्कल्पयामास संहार इव भूतभुक् ।
त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः ॥ १४ ॥
संहारे प्रलयकाले । भूतभुक् रुद्रः । त्रिविष्टपस्य स्वर्गस्यावयवोऽसौ
नन्दनोद्देशः ॥ १४ ॥
भूलोकस्यान्धतमसा लोकालोकतटो यथा ।
लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले ॥ १५ ॥
लज्जालक्षणस्यान्धकारस्य तीक्ष्णांशौ सूर्यवन्निवारके तिमिरमण्डले
तस्मिन्मण्डले नन्दनप्रदेशे तस्य मिथुनस्य स्त्रीपुंसद्वन्द्वस्येव
प्रतिष्ठां स्थैर्य आगते प्राप्ते सतीति परेण सहान्वयः ॥ १५ ॥
प्रतिष्ठामागते तस्य मिथुनस्येव मण्डले ।
तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् ॥ १६ ॥
भूतेषु तस्याः सखीजनेषु तस्मात्प्रदेशादभिमतां दिशं गतेषु सत्सु ॥ १६ ॥
तस्मात्प्रदेशाद्भूलोके दिनान्ते विहगेष्विव ।
सा दीर्घचञ्चलापाङ्गी प्रवृद्धमदनव्यथा ॥ १७ ॥
आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ।
धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ॥ १८ ॥
धवलागारं स्फाटिकगृहं तन्मध्यस्थे ॥ १८ ॥
विवेश भार्गवस्तत्र क्षीरोद इव माधवः ।
सा कराववलम्ब्यास्य विवेशावनतानना ॥ १९ ॥
रराज च सुरेभस्य हृदि लग्नेव पद्मिनी ।
उवाच चेदं मधुरं रसस्नेहाक्तया गिरा ॥ २० ॥
सुरेभस्यैरावणस्य ॥ २० ॥
वचो मधुरमानन्दविलासवलिताक्षरम् ।
पश्यामलेन्दुवदनमण्डलीकृतकार्मुकः ॥ २१ ॥
अबलामनुबध्नाति मामेष किल नाङ्गकः ।
पाहि मामबलां नाथ दीनां त्वच्छरणामिह ॥ २२ ॥
नाङ्गकोऽनङ्गकः । अबलां मामनुबध्नाति निर्बन्धयति । अत एव पाहि ॥ २२ ॥
कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ।
स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते ॥ २३ ॥
प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ।
अशङ्कितोपसम्पन्नः प्रणयोऽन्योन्यरक्तयोः ॥ २४ ॥
प्रणयाः प्रीत्यतिशयाः । अवगण्यन्ते न बहुमन्यन्ते । अशङ्कितं
अन्यगोचरतासोपाधिकत्वविच्छेदापराधगणनादिशङ्कारहितं यथा
स्यात्तथा उपसम्पन्नः सञ्जातः ॥ २४ ॥
अधःकरोति निष्यन्दं चन्द्रमाह्लादनं प्रिय ।
न तथा सुखयत्येषा चेतस्त्रिभुवनेशिता ॥ २५ ॥
निष्यन्दं देवसञ्जीवनामृतस्राविणम् । अधःकरोति सञ्जीवकादाह्लादकाच्च
चन्द्रसहस्रादपि प्रियतमप्रणय एवातिशेते इति यावत् । त्रिभुवनेशिता
त्रैलोक्यैश्वर्यम् ॥ २५ ॥
यथा परस्परानन्दः स्नेहः प्रथमरक्तयोः ।
त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ॥ २६ ॥
चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ।
संस्पर्शामृतपानेन तव जीवामि सुन्दर ॥ २७ ॥
चन्द्रांशुरसपानेन चकोरी चपला यथा ।
मामिमां चरणालीनां भ्रमरीं करपल्लवैः ॥ २८ ॥
आलिङ्ग्यामृतसम्पूर्णे स्वपद्महृदये कुरु ।
इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।
व्याघूर्णितालिनयना सुतरोरिव मञ्जरी ॥ २९ ॥
अमृतसम्पूर्णे स्नेहदयामृतभरिते हृत्पद्मान्तस्थे हृदये चित्ते ।
सुतरोः कल्पवृक्षस्य ॥ २९ ॥
तौ दम्पती तत्र विलासकान्ती
विवेशतुस्तासु वनस्थलीषु ।
किञ्जल्कगौरानिलघूर्णितासु
रक्तौ द्विरेफाविव पद्मिनीषु ॥ ३० ॥
विवेशतुः निर्विविशतुः । गुणश्छान्दसः । किञ्जल्कैः
केसरैस्तदीयपरागैर्गौरेण पीतेनानिलेन घूर्णितासु कम्पितासु ।
वनस्थलीपद्मिन्योः साधारणं विशेषणम् ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
भार्गवोपाख्याने नवसङ्गमो नाम सप्तमः सर्गः ॥ ७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे नवसङ्गमो
नाम सप्तमः सर्गः ॥ ७ ॥