षष्ठः सर्गः ६
श्रीवसिष्ठ उवाच ।
अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः ।
आरब्धवान्मनोराज्यमिदमेकः किलोशना ॥ १ ॥
इह शुक्रस्य मनसा स्वर्गे गमनमुच्यते ।
तत्र शक्रेण सन्मानात्सन्निधावुपवेशनम् ॥ १ ॥
इदं वक्ष्यमाणप्रकारं मनोराज्यम् । एवकारः
प्रकारान्तरवारणाद्देहविस्मृतिपर्यन्तताद्योतनार्थः ॥ १ ॥
एषा हि ललना व्योम्नि सहस्रनयनालये ।
सम्प्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् ॥ २ ॥
एषा पुरोवर्तिनी मयानुगम्यमाना सहस्रनयनस्येन्द्रस्यालये स्वर्गे गच्छतीति
शेषः । अयं तामनुगच्छन्नहम् ॥ २ ॥
इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।
द्रवत्कनकनिष्यन्दविलासिवपुषः सुराः ॥ ३ ॥
कनकनिष्यन्दो द्रुतसुवर्णम् । तद्धि अत्यन्तं कान्तिमत्प्रसिद्धम् । तदिव विलासि
शोभमानं वपुर्येषाम् ॥ ३ ॥
इमास्ता लोचनोल्लासदृष्टनीलाब्जदृष्टयः ।
मुग्धहासविलासिन्यः कान्ता हरिणदृष्टयः ॥ ४ ॥
लोचनोल्लासेन प्रत्यक्षेण दृष्टानि नीलाब्जानीव दृष्टयो यासां ता इमाः
कान्ता अप्सरसः ॥ ४ ॥
इमे ते कौसुमोद्द्योता अन्योन्यप्रतिबिम्बिताः ।
विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥ ५ ॥
कौसुमैः पारिजातादिकुसुमरचितैर्माल्यैरुद्द्योतन्ते प्रकाशन्ते इति
कौसुभोद्द्यओताः कौस्तुभोद्द्योताः इति पाठे कौस्तुभबहुद्य्तमानाः
[कौस्तुभवदुद्द्योतमानाः इति पाठः साधुः] ।
अन्योन्यप्रतिबिम्बितात्वादेव विश्वरूपः सर्वाकारो हरिस्तदुपमाकाराः । मत्ता
हृष्टाः काशन्ते दीप्यन्ते तच्छीलाः मरुतो देवाः । प्राग्वर्णितानामपि
देवानां प्रकारान्तरेण वर्णनान्न पौनरुक्त्यम् ॥ ५ ॥
ऐरावणकटामोदविरक्तमधुपश्रुताः ।
इमास्ताः काकलीगीता गीर्वाणगणगीतयः ॥ ६ ॥
ऐरावणस्यैरावतस्य कटौ गण्डौ । ताभ्यां मदजलं लक्ष्यते । तदामोदेऽपि
विरक्तैरनासक्तैर्मधुपैः श्रुता आकर्णिताः काकल्या मधुरास्फुटध्वनिना
गीता आलापिताः ॥ ६ ॥
इयं सा कनकाम्भोजचलद्वैरिञ्चसारसा ।
मन्दाकिनीतटोद्यानविश्रान्तसुरनायका ॥ ७ ॥
कनकाम्भोजेषु चलन्तो भ्रमन्तो वैरिञ्चा विरिञ्चिसम्बन्धिनो हंसाः
सारसाश्च यस्याम् ॥ ७ ॥
एते ते यमचन्द्रेन्द्रसूर्यानलजलानिलाः ।
लोकपालास्तनुद्योतकीर्णदीप्तानलार्चिषः ॥ ८ ॥
तनुद्योतैः शरीरकान्तिभिः कीर्णाः परितः प्रसारिता दीप्तानलार्चिषो यैः ॥ ८ ॥
अयं स रणवृत्तान्तहेतिकण्डूयिताननः ।
ऐरावणो रणे दन्तप्रोतदैत्येन्द्रमण्डलः ॥ ९ ॥
रणवृत्तान्तेषु युद्धप्रसङ्गेषु हेतिभिरायुधैः कण्डूयितमिव आननं
यस्य ॥ ९ ॥
इमे ते भूतलस्थानाद्व्योम्नि तारकतां गताः ।
वैमानिकाश्चरच्चारुचामीकरमयातपाः ॥ १० ॥
चरन्तः प्रसरन्तश्चारुचामीकरमया इव आतपा देहविमानादिकान्तयो येषाम् ॥
१० ॥
मेरूपलतलास्फालसीकराकीर्णदेवताः ।
एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥ ११ ॥
एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।
दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥ १२ ॥
इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।
चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥ १३ ॥
चन्द्रांशुनिकरा इव सुखस्पर्श आकारः शैत्यमान्द्यादियुक्तः सन्निवेशो
येषाम् ॥ १३ ॥
पुष्पकेसरनीहारपटवासरणोत्सुकैः ।
लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् ॥ १४ ॥
पुष्पैः केसरैर्नीहारैर्हिममकरन्दकणैः पटान्वासयन्ति सुगन्धयन्तीति
पटवासाः परागास्तैश्च यः पवनान्दोलनक्रीडार्थं च
परस्परताडनलक्षणो रणस्तत्र उत्सुकैरासक्तैर्लतागणैरङ्गनागणैश्च
लतालक्षणैरङ्गनागणैर्वा लतासदृशैरङ्गनागणैर्वा व्याप्तम् ॥ १४ ॥
कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।
इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥ १५ ॥
नारदतुम्बुरू गन्धर्वविशेषौ ऋषी वा ॥ १५ ॥
इमे ते पुण्यकर्तारौ भूरिभूषणभूषिताः ।
व्योमन्युड्डीयमानेषु विमानेषु च संस्थिताः ॥ १६ ॥
मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः ।
देवेश्वरं निषेवन्ते वनं वनलता इव ॥ १७ ॥
देवेश्वरमिन्द्रम् ॥ १७ ॥
इन्द्राश्मजालकुसुमाश्चिन्तामणिगुलुच्छकाः ।
कल्पवृक्षा इमे पक्वफलस्तबकदन्तुराः ॥ १८ ॥
इन्द्राश्मजालानीन्द्रनीलसमूहरूपाणि । चन्द्राश्म इति पाठे
चन्द्रकान्तसमूहसदृशानि कुसुमानि येषाम् । चिन्ता मणय एव गुलुच्छकाः
कलिकागुच्छानि येषाम् । पक्वैः फलस्तवकैर्दन्तुरा उन्नतदन्ता इव
शोभमानाः ॥ १८ ॥
इह तावदिमं शक्रमहमासनसंस्थितम् ।
द्वितीयमिव त्रैलोक्यस्रष्टारमभिवादये ॥ १९ ॥
त्रैलोक्यस्रष्टारं ब्रह्माणम् ॥ १९ ॥
इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।
तेनाभिवादितस्तत्र द्वितीय इव खे भृगुः ॥ २० ॥
अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः ।
गृहीतहस्त आनीय समीपमुपवेशितः ॥ २१ ॥
समीपमानीय उपवेशितः ॥ २१ ॥
धन्यस्त्वदागमे नाथ स्वर्गोऽयं शुक्र शोभते ।
उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् ॥ २२ ॥
अथ तत्रोपविश्यासौ भार्गवः शोभिताननः ।
श्रियं जहार शशिनः सकलस्यामलस्य च ॥ २३ ॥
सकलस्य पूर्णस्य अमलस्य रजःकलङ्करहितस्य ॥ २३ ॥
सकलसुरगणाभिवन्दितोऽसौ
भृगुतनयः शतमन्युपार्श्वसंस्थः ।
चिरतरमतुलामवाप तुष्टिं
नरपतिसत्तमलालनं बभूव ॥ २४ ॥
नरपतिसत्तमस्य राजोत्तमस्येन्द्रस्य लालनं लालनीयः पुत्रादिरिव प्रियतम इति
यावत् ॥ २४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे
भार्गवोपाख्याने भार्गवमनोराज्यं नाम षष्ठः सर्गः ॥ ६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भार्गवमनोराज्यं नाम षष्ठः सर्गः ॥ ६ ॥