०५

पञ्चमः सर्गः ५

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ पूर्वापरविदां वर ।
अयं मनसि संसारः स्फारः कथमिव स्थितः ॥ १ ॥

भृगावत्र समाधिस्थे शुक्रस्य क्रीडतो गिरौ ।
अप्सरोदर्शने मोहात्तन्मयीभाव ईर्यते ॥ १ ॥

कथं कीदृशदृष्टान्तप्रकारेणेव बहिः स्फुरन्नयं स्फारः संसारो
मनसि यथा स्फुरति प्रत्यक्षं प्रतिभाति तथा दृष्टान्तदृष्ट्या
दृष्टान्तप्रदर्शनेन कथयेत्यर्थः ॥ १ ॥

यथायं मनसि स्फारः संसारः स्फुरति स्फुरन् ।
दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ ॥ २ ॥

श्रीवसिष्ठ उवाच ।

यथैन्दवानां विप्राणां जगन्त्यवपुषामपि ।
स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥ ३ ॥

उक्तान्येवात्रैन्दवादिजगन्ति दृष्टान्त इत्याह - यथेति ॥ ३ ॥

लवलणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः ।
चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम् ॥ ४ ॥

आकुलाकृतेर्व्याकुलचित्तस्य ॥ ४ ॥

भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।
यथा भोगाधिनाथत्वं संसारित्वं बभूव च ॥ ५ ॥

भार्गवोपाख्यानमप्यत्र दृष्टान्तत्वेनावतारयति - भार्गवस्येति ।
भोगाधिनाथत्वमप्सरोभोगलिप्सुत्वम् । संसारित्वं तदर्थं
स्वर्गादिगन्तृत्वं जन्मान्तरवत्त्वं च । नाथतिरत्रोपयाज्जायाम् ॥ ५ ॥

भोगेश्वरत्वं च यथा [तथा इति पाठः] तथेदं मनसि स्थितम् ।

श्रीराम उवाच ।

भगवन्भृगुपुत्रस्य स्वर्गभोगबुभुक्षया ॥ ६ ॥

भोगेश्वरत्वं स्वर्गे अप्सरोभोक्तृत्वम् । प्रश्नः स्पष्टः ॥ ६ ॥

कथं भोगाधिनाथत्वं संसारित्वं बभूव च ।

श्रीवसिष्ठ उवाच ।

शृणु राम पुरा वृत्तं संवादं भृगुकालयोः ॥ ७ ॥

सानौ मन्दरशैलस्य तमालविटपाकुले ।
पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले ॥ ८ ॥

सानौ प्रस्थे जातं भृगुकालयोः संवादं शृण्विति पूर्वेणान्वयः ।
उक्तस्योपोद्घातमाह - पुरेत्यादिना ॥ ८ ॥

अतप्यत तपो घोरं कस्मिंश्चिद्भगवान्भृगुः ।
तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः ॥ ९ ॥

शुक्रः सकलचन्द्राभः [तथा इति पाठः] प्रकाश इव भासुरः

भृगुर्वनवरे तस्मिन्समाधावेव संस्थितः ॥ १० ॥

सकलः पूर्णः । भास्कर इति पाठे प्रकाशत इति प्रकाशः स्फुरन् भास्कर इव ॥
१० ॥

सर्वकालं समुत्कीर्णो वनोपलतलादिव ।
शुक्रः कुसुमशय्यासु कलधौताजिरेषु च ॥ ११ ॥

सर्वकालं संस्थित इति पूर्वेणान्वयः । वनोपलतलात्प्रकृतेः
समुत्कीर्णष्टङ्कच्छेदनिष्पादित इवेति निश्चलत्वेनोत्प्रेक्षा । कलधौताजिरेषु
रूप्यहेमवेदिकासु ॥ ११ ॥

मन्दरोद्दामदोलासु बालो रमणलीलया ।
विद्याविद्यादृशोर्मध्ये शुक्रः प्राप्तमहापदः ॥ १२ ॥

विद्यादृक् पारमार्थिकात्मतत्त्वदर्शनं अविद्यादृक्
पामरादिप्रसिद्धजगत्सत्यतादर्शनं तयोर्मध्ये ॥ १२ ॥

त्रिशङ्कुरिव रोदोन्तरवर्तत तदाकुलः ।
निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ ॥ १३ ॥

रोदस्योर्द्यावाभूम्योरन्तर्मध्ये विश्वामित्रनिर्मिते स्वर्गे त्रिशङ्कुराजर्षिरिव
अवर्तत । अत एव रागादिना आकुलः ॥ १३ ॥

अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः ।
ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा ॥ १४ ॥

अव्यग्रो विषयान्तरे अव्याक्षिप्तचित्तः ॥ १४ ॥

क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः ।
मन्दारमालावलितां मन्दानिलचलालकाम् ॥ १५ ॥

क्षीरोदस्य मध्याल्लुलितां मथनेनोत्पादिताम् । लक्ष्म्या इवाप्सरसामपि
क्षीरोदादुत्पत्तिप्रसिद्धेरुभयविशेषणम् ॥ १५ ॥

हारझाङ्कारिगमनां सुगन्धितनभोनिलाम् ।
लावण्यपादपलतां मदघूर्णितलोचनाम् ॥ १६ ॥

सुगन्धितौ नभोनिलौ यया । नभोग्रहणमपगतेऽप्यनिले तत्प्रदेशस्य चिरं
सुगन्धित्वद्योतनार्थम् ॥ १६ ॥

अमृतीकृततद्देशां देहेन्दूदयदीप्तिभिः ।
कान्तामालोक्य तस्याभूदुल्लसत्तरलं मनः ॥ १७ ॥

देहलक्षणादिन्दोरुदयो यासां ताभिर्दीप्तिभिः किरणैः ॥ १७ ॥

दृष्टनिर्मलपूर्णेन्दुवपुरम्बुनिधेरिव ।
साप्यालोक्य शुक्रमुखं तथा परवशा ह्यभूत् ॥ १८ ॥

अम्बुनिधेवपुः संस्थानमिव उल्लसत् तरलं च ॥ १८ ॥

मनसिजेषु पराहतमाशयं
स परिबोध्य मनस्तदनूशना ।
विगलितेतरवृत्तितयात्मना
स च वधूमय एव बभूव ह ॥ १९ ॥

स च उशना तदनु अप्सरोदर्शनानन्तरं मनसिजस्येषुभिः पराहतमाशेते
विषयेषु मुह्यतीत्याशयं मनो यथाशक्ति विवेकैः परिबोध्य बहिः
शारीरकान्तानुसरणादिव्यापारान्निरुध्यैकाग्रतामापाद्यापि
अन्तर्विगलितेतरवृत्तितया वध्वेकाग्रचित्तत्वात्तदात्मना वधूमय एव बभूव
। यच्चित्तस्तन्मयो भवतित्यादिश्रुतिस्मृत्यनुभवप्रसिद्धिद्योतनाय ह इति
निपातः ॥ १९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे
भार्गवोपाख्याने भार्गवस्खलनं नाम पञ्चमः सर्गः ॥ ५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
भार्गवस्खलनं नाम पञ्चमः सर्गः ॥ ५ ॥