चतुर्थः सर्गः ४
श्रीवसिष्ठ उवाच ।
इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन्नाम कर्मणा ॥ १ ॥
इह विश्वस्थितेर्मूलं सेन्द्रियं मन ईर्यते ।
तस्योच्छेदे जगच्छून्यं दृश्यासम्भवदर्शनात् ॥ १ ॥
इन्द्रियग्रामाणां सङ्ग्रामो जयस्तल्लक्षणेन सेतुना ॥ १ ॥
शास्त्रसत्सङ्गमाभ्यासात्सविवेको जितेन्द्रियः ।
अत्यन्ताभावमेतस्य दृश्यस्याप्यवगच्छति ॥ २ ॥
इन्द्रियजये च विवेक उपायस्तत्र च सज्जनसच्छास्त्रैकनिष्ठतोपाय इत्याशयेनाह
- शास्त्रेति ॥ २ ॥
एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथा यान्ति प्रयान्ति च ॥ ३ ॥
विहितस्येन्द्रियजयस्य प्रकृतसम्बन्धं वक्तुं प्रागुक्तं स्मारयति -
एतदिति । रूपिणां सौन्दर्यवतां वर श्रेष्ठ । प्रयान्ति अपगच्छन्ति । न यान्ति इति
पाठेऽप्ययमेवार्थः ॥ ३ ॥
बहुनात्र किमुक्तेन मनःकर्मद्रुमाङ्कुरः ।
तस्मिंश्छिन्ने जगच्छाखी छिन्नः कर्मतनुर्भवेत् ॥ ४ ॥
भोक्तुर्भोग्यभोगाकारपरिणतानि विहितनिषिद्धकर्माण्येव तनुः शरीरं यस्य
तथाविधो जगच्छाखी संसारवृक्षश्छिन्नो भवेत् ॥ ४ ॥
मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते ।
चिकित्सितो वै सकलो जगजालामयो भवेत् ॥ ५ ॥
जगज्जाललक्षण आमयो रोगः ॥ ५ ॥
तदेतज्जायते लोके मनोमननमाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥ ६ ॥
ननु मनसि चिकित्सितेऽपि देहाधीने सुखदुःखे स्यातां तत्राह - तदेतदिति ।
मनसो देहाकारमननमेव स्वप्न इव आकुलं क्रियासमर्थं देहो जायते ॥ ६ ॥
दृश्यात्यन्तासम्भवेन ऋते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैरपि [कल्पशतैरति इति
पाठः] ॥ ७ ॥
तर्हि मनश्चिकित्सायां किमौषधं तदाह - दृश्येति । दृश्यस्य
अत्यन्ताभावो बाधस्तस्मादृते । तृतीया छान्दसी ॥ ७ ॥
एतच्च सम्भवत्येव मनोव्याधिचिकित्सिते ।
दृश्यात्यन्तासम्भवात्म परमौषधमुत्तमम् ॥ ८ ॥
ननु मनोरोग आभ्यन्तरो दृश्यं तु बाह्यं तत् कथं
बाह्यार्थात्यन्तासम्भवादान्तरमनश्चिकित्सासम्भवस्तत्राह - एतदिति ।
एतद्दृश्यात्यन्तासम्भवात्मकं परमौषधं मनोव्याधिचिकित्सिते
सम्भवत्येवोपाय इति शेषः । चिकित्सिते इति भावे क्तः ॥ ८ ॥
मनो मोहमुपादत्ते म्रियते जायते मनः ।
तत्स्वचिन्ताप्रसादेन बध्यते मुच्यते पुनः ॥ ९ ॥
कथं सम्भवति तदाह - मन इति । नहि मनस आन्तरता अर्थानां बाह्यता
च वास्तवी किन्तु मन एव तथा द्वैविध्यादिकल्पनया मोहं भ्रान्तिमुपादत्ते ।
जन्ममृत्युबन्धमोक्षादि च कल्पयतीत्यर्थः ॥ ९ ॥
स्फुरतीदं जगत्सर्वं चित्ते मननमूर्च्छिते ।
शून्यमेवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ॥ १० ॥
कथमिदं ज्ञातमिति चेदन्वयव्यतिरेकाभ्यामित्याह - स्फुरतीति । मननेन
मूर्च्छिते समुच्छ्रिते ॥ १० ॥
मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस्तत्स्थं तस्मादिवेतरत् ॥ ११ ॥
तथा च विमर्शो जगन्मनोधर्म एवेति न धर्मिनिवृत्तौ
स्थातुमर्हतीत्याशयेन दृष्टान्तानाह - मनसीत्यादिना । धर्मेषु
धर्मिभेदो न वास्तव इति द्योतनायान्त्य इवकारः ॥ ११ ॥
यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस्तथेदं चित्तके जगत् ॥ १२ ॥
रश्मिजालं यथा सूर्ये यथालोकस्तु तेजसि ।
यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ॥ १३ ॥
चित्रभानौ अग्नौ ॥ १३ ॥
शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥ १४ ॥
मनो जगज्जगदखिलं तथा मनः
परस्परं त्वविरहिते सदैव हि ।
तयोर्द्वयोर्मनसि निरन्तरं क्षिते
क्षितं जगन्नतु जगति क्षिते मनः ॥ १५ ॥
मनोजगतोर्धर्मिधर्मभावेनाभेदेऽपि धर्मिमनोनाशादेव जगन्नाशो नतु
वैपरीत्येन तथैव लोके दर्शनादित्याशयेनोपसंहरति - मन इति । अविरहिते
अविनाभूते । क्षिते नष्टे सति क्षितं नष्टं भवति ॥ १५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे
स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः ॥ ४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः ॥ ४ ॥