०३

तृतीयः सर्गः ३

श्रीराम उवाच ।

महाकल्पान्तसर्गादौ प्रथमोऽसौ प्रजापतिः ।
स्मृत्यात्मा जायते मन्ये स्मृत्यात्मैव ततो जगत् ॥ १ ॥

विवर्तत्वं प्रतिष्ठाप्याऽपवादोऽत्र प्रदर्श्यते ।
बोधदृष्ट्याऽज्ञदृष्ट्या तु जगदानन्त्यमुच्यते ॥ १ ॥

बाह्यघटाद्युत्पत्तावुत्पत्तिकर्त्रतिरिक्तसहकार्यपेक्षास्तु जगत्तु त्वया
हिरण्यगर्भमनःसङ्कल्पजं तदीयस्मृतिमनोराज्यकल्पमुक्तं नच तत्र
सहकार्यपेक्षा दृष्टा एवं च प्रलये प्रकृतौ स्वसत्तायां तिरोभूय
सन्नेव मनोरूपः प्रजापतिः स्मृत्यात्मा जायते तस्मिंश्च संस्कारात्मना
सदेव जगत्स्मृत्यात्मैव जायते चेत्को विरोध इति गूढाभिसन्धिना रामः
पृच्छति - महाकल्पान्तेति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

महाप्रलयसर्गादावेवमेतद्रघूद्वह ।
स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः ॥ २ ॥

अस्त्वेवं तथापि जगतो न प्रलये सत्त्वसिद्धिः
स्वप्नमनोरथस्मृत्यादिविषयस्य स्वकालेऽपि सत्त्वाप्रसिद्धेस्तद्बलेन प्रलये
सत्त्वकल्पनासिद्धेरिति गूढाभिसन्धिरेव गुरुरभ्युपगमेन समाधत्ते -
महाप्रलयेति ॥ २ ॥

तत्सङ्कल्पात्मकजगत्स्मृत्यात्मैवमिदं ततः ।
भाति सङ्कल्पनगरं स्थितं पूर्वं प्रजापतेः ॥ ३ ॥

प्रजापतेः पूर्वं प्राथमिकं सङ्कल्पनगरमेवैतज्जगदिति स्थितमित्यर्थः ॥ ३

स्मृतिर्न सम्भवत्येव सर्गादौ परमात्मनः ।
जन्माभावात्कथं कुत्र नभसीव महाद्रुमः ॥ ४ ॥

तर्हि बाह्यविकारमनोतिरिक्तविषयात्मना जगन्माभूत्सत्यं मनोविकारात्मना तु
सत्यमेव । यथा चित्रतुरगो मांसविकारात्मना ह्यसत्योऽपि
रङ्गद्रव्यविकारात्मना सत्यस्तद्वदिति रामशङ्कां लिङ्गैरुपलक्ष्याह ##-
स्युः । तत्र न तावत्परपरिकल्पितं प्रधानं स्मृतिसमर्थम् ।
मृदादिवदचेतनत्वात् । नापि पुरुषाः ।
परैस्तेषामसङ्गोदासीननिर्विकारत्वाभ्युपगमात् ।
परस्परव्यावर्तकधर्मानभ्युपगमेन भेदासिद्ध्या परमात्माभेदे तु
सुतरां स्मृतिर्न सम्भवत्येव । जन्माभावात् विकारान्तराणां तत्पूर्वकत्वात्
अप्राणो ह्यमनाः शुभ्रः इत्यादिश्रुत्या तस्य मनोनिषेधात्तद्द्वारा
स्मर्तृत्वासिद्धेस्तस्य स्मृतिर्नभोद्रुमकल्पैवेति ॥ ४ ॥

श्रीराम उवाच ।

न सम्भवति किं ब्रह्मन्सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसम्मोहैर्नश्यति प्राक्स्मृतिः कथम् ॥ ५ ॥

ननु यथा प्रात्यहिकी सुषुप्तिस्तथा प्रलयोऽपि तत्र च लीनस्य मनसो जागरादाविव
सर्गादावप्याविर्भावात्तदवच्छिन्नप्रजापतेरन्यस्य वा स्मर्तृत्वे को विरोध
इत्याशयेन रामः शङ्कते - न सम्भवतीति । प्राक्स्मृतिः
पूर्वकल्पीयसंस्कारः ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

ये महाप्रलये प्राज्ञाः सर्वे ब्रह्मादयः पुरा ।
किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः ॥ ६ ॥

अभिसन्धिमुद्घाटयन् वसिष्ठः परिहरति - ये महाप्रलये इत्यादिना । अयं
भावः - इयं तव शङ्का किं हिरण्यगर्भजीव एक एव स्वमनसा
नानाजीवशरीरादिभेदान्परिकल्प्य संसरतीति मतेन वा नानाजीवाः
स्वस्वोपभोगयोग्यप्रपञ्चभागं कल्पयन्तो हिरण्यगर्भमपि
स्वस्वबुद्ध्यनुसारेण सर्वस्रष्टारं कल्पयन्तीति मतेन वा । तत्र द्वितीये
महाकल्पान्तसर्गादौ प्रथमोषौ प्रजापतिः इत्यादि
त्वदीयशङ्कोपक्रमविरोधात्सृष्टिश्रुत्यननुगुणत्वात् प्रथमकल्पः
परिशिष्यते । तत्र च प्राक्तनकल्पीयजीवजगतां महाप्रलयकाले
हिरण्यगर्भमुक्त्यैव मुक्तत्वाज्जीवान्तरापरिशेषात्स्मर्ता न कश्चिदस्तीति
नैतत्सर्गसिद्धिरिति । अक्षरार्थः स्पष्टः ॥ ६ ॥

प्राक्तनः कः स्मृतेः कर्ता तस्मात्कथय सुव्रत ।
स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः ॥ ७ ॥

अतः स्मर्तुरभावेन स्मृतिर्वोदेति किं कथम् ।
अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥ ८ ॥

नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः ।
सा जगद्भूरिति प्रौढा दृश्या सास्त्येव चित्प्रभा ॥ ९ ॥

एवं पूर्वपूर्वकल्पीयसर्गा अपि स्मृतिरूपा न सिद्ध्यन्तीति या स्मृतिरिति त्वया
शङ्किता जगद्भूर्जगत्स्थितिः सा प्रौढा ब्रह्मचित्प्रभैव सास्त्येव सदेति
सत्कार्यवादिनीनं श्रुतीनामाशय इत्यर्थः ॥ ९ ॥

भाति संवित्प्रभैवेयमनाद्यन्तावभासिनी ।
यत्तदेतज्जगदिति स्वयम्भूरिति च स्थितम् [स्फुटं इति पाठः] ॥ १० ॥

उक्तार्थमेव स्पष्टमाह - भातीति ॥ १० ॥

अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् ।
स आतिवाहिको देहो विराजो जगदाकृतिः ॥ ११ ॥

विराजो ब्रह्माण्डशरीरस्योपादानभूत आतिवाहिकः सूक्ष्मो देहः स
परमात्मैवेत्यर्थः । तथाच ब्रह्मैव सूक्ष्मस्थूलभावारोपक्रमेण
जगदात्मना भातीति भावः ॥ ११ ॥

परमाणाविदं भाति त्रिजगत्सवनाभ्रखम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥ १२ ॥

अव्यवस्थितस्वभावत्वादपि जगतो न जगद्रूपेण सत्ता किन्तु
ब्रह्मरूपेणैवेत्याशयेनाव्यवस्थितस्वभावमुपपादयति -
परमाणावित्यादिना ॥ १२ ॥

परमाणुः प्रविततस्तस्यास्ते तादृगेव च ।
भाति भासुरताकारि तादृग्गिरिकुलं पुनः ॥ १३ ॥

तस्य पूर्वपरमाणोरन्तरन्यः प्रविततः परमाणुरास्ते सच तादृक्
पूर्वपरमाणुसदृश एव पुनस्तत्रापि तादृक् सवनाभ्रखं गिरिकुलं
भातीत्येव प्रत्यनुसन्ततिमिति परेणान्वयः ॥ १३ ॥

तत्रापि तादृगाकारमेव प्रत्यनुसन्ततम् ।
दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम् ॥ १४ ॥

उपपादितेन यत्फलितं तदाह - एतदिति ॥ १४ ॥

इत्यस्त्यन्तो न सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् ।
अस्यास्त्वभ्युदितं बुद्धं नाबुद्धं प्रति वानघ ॥ १५ ॥

एवञ्च सन्मात्रदृष्टिस्तत्त्वज्ञं प्रति स्वतो यथा अनन्ता
एवमसदनृतजगद्दृष्टिरप्यज्ञं प्रति सङ्ख्यया अनन्तैवेत्याह - इतीति ।
अभ्युदितं परमाभ्युदयं प्राप्तम् । बुद्धं तत्त्वज्ञं प्रति । न आबुद्धं
येन स नाबुद्धोऽज्ञस्तं प्रति वा ॥ १५ ॥

बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् ।
अबुद्धं प्रति बुद्ध्यैतद्भासुरं भुवनान्वितम् ॥ १६ ॥

तदेव स्पष्टीकृत्य दर्शयति - बुद्धं प्रतीत्यादिना ॥ १६ ॥

यथेदं भासुरं भाति जगदण्डकजृम्भितम् ।
यथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ ॥ १७ ॥

यथा स्तम्भे पुत्रिकान्तस्तस्याः स्वाङ्गेषु पुत्रिका ।
तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका ॥ १८ ॥

नाभिन्ना नापि सङ्ख्येया यथाद्रौ परमाणुकाः ।
तथा ब्रह्म बृहन्मेरौ त्रैलोक्यपरमाणवः ॥ १९ ॥

सूर्याद्यंशुषु सङ्ख्यातुं शक्यन्ते लघवोऽणवः ।
उत्पद्यन्ते चिदादित्ये त्रैलोक्यपरमाणवः ॥ २० ॥

शक्यन्ते यदीति शेषः । पूर्वश्लोकान्तेति वानुषञ्जनीयम् ॥ २० ॥

यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च ।
तथा वहन्ति चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥ २१ ॥

वहन्ति प्रवहन्ति । भ्रमन्तीति यावत् ॥ २१ ॥

शून्यानुभवमात्रात्म भूताकाशमिदं यथा ।
सर्गानुभवमात्रात्म चिदाकाशमिदं तथा ॥ २२ ॥

ननु निष्प्रपञ्चस्य कूटस्थस्य कथं सविकारसर्गात्मना भानमिति चेद्यथा
नीरूपस्याशून्यस्य चाकाशस्य तद्विरुद्धरूपवच्छून्यतया भानं
तद्वदित्याह - शून्येति । शून्यमावरणाभावः । असन्नैल्यं च
तदनुभवमात्रात्म तथाऽनुभूयमानं नतु
वास्तवपूर्णनीरूपानुभवात्मेत्यर्थः ॥ २२ ॥

सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः ।
स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम् ॥ २३ ॥

नयत्यध इति । उदरमन्तरं कुरुते अथ तस्य भयं भवति इत्यादिश्रुतेः । श्रेयो
भवतीति । तरति शोकमात्मवित् इत्यादिश्रुतेरिति भावः ॥ २३ ॥

विज्ञानात्मा शासिता विश्वबीजं
ब्रह्मैवालं स्वं चिदाकाशमात्रम् ।
यस्माज्जातं यत्तदेवेति विद्या-
द्वेद्यं स्वान्तर्बोधसम्बोधमात्रम् ॥ २४ ॥

किं तटस्थतयापि ज्ञातं ब्रह्म श्रेयो भवति नेत्याह - विज्ञानात्मेति । यो
विज्ञानात्मा जीवाख्यः प्रत्यगात्मा यश्च विश्वस्य बीजं कारणं शासिता
चेश्वरस्तौ परमार्थदृशा परिशोधने अलं पूर्णं स्वं प्रत्यगेकरसं
चिदाकाशमात्रं ब्रह्मैव । यतो हि बाह्यमाभ्यन्तरं च भेदकोपाधिद्वयं
ब्रह्मणः सकाशादेव जातं श्रूयते । यद्यस्माज्जातं तत्तदेवेति च
तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिनावगतं तस्मात्सर्वं वेद्यं
स्वान्तर्बोधे सम्बोधमात्रं शुद्धं चिन्मात्रमित्यर्थः ॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे
जगदानन्त्यवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जगदानन्त्यवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥