०२

द्वितीयः सर्गः २

श्रीवसिष्ठ उवाच ।

अथैतदभ्युपगमे वच्मि वेद्यविदां वर ।
समस्तकलनातीते महाचिद्व्योम्नि निर्मले ॥ १ ॥

तर्कैः स्वरूपभेदेन निरस्य जगतः स्थितम् ।
पूर्णानन्दात्म सन्मात्रस्थितिः शिष्टात्र वर्ण्यते ॥ १ ॥

एतस्य जगतः प्रलये पृथक्सत्त्वाभ्युपगमे वच्मि दोषानिति शेषः । ननु यदि
नास्ति जगत्तर्हि सर्ग एव न सिद्ध्येत् । उत्पत्तिक्रिया हि कर्तृसाध्या नह्यसति कर्तरि
सिद्ध्यति । नचोत्पद्यमानादन्यत्कर्त्रस्ति । ब्रह्मैव सत्त्वात्तत्कर्तृ
चेत्तदेवोत्पद्येत न जगत् । नच कूटस्थमुत्पत्त्यादिभिर्विकारैर्युज्यते ।
तस्मादुत्पत्तिसिद्धये प्रलये जगतोऽपि सत्ताभ्युपेयेत्याशङ्कामनूद्य निरस्यति

  • समस्तेत्यादिना ॥ १ ॥

जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा ।
कैरिवोदेति कथय कारणैः सहकारिभिः ॥ २ ॥

भवेत्कर्तृसत्ताकल्पनं यदि कर्तृमात्रादुत्पत्तिक्रिया सिद्ध्येत् । सा हि
कर्तारमिव स्वसिद्धये करणोपकरणाधिकरणादीनि कारकान्तराण्यपि
सहकारीण्यपेक्षते तदभावात्सत्त्वेन कल्पितमपि जगन्नोत्पत्तुं
शक्नोतीत्याशयेनाह - जगदादीति । आदिपदं वैचित्र्यप्रपञ्चार्थम् ।
इवकारस्त्वत्यन्तासम्भावितत्वद्योतनार्थः ॥ २ ॥

सहकारिकारणानामभावे त्वङ्कुरोद्गतिः ।
वन्ध्याकन्येव दृष्टेह न कदाचन केनचित् ॥ ३ ॥

सहकारिकारणानामभावे यद्यवोदितम् ।
मूलकारणमेवाङ्ग तत्स्वभावस्थितिं गतम् ॥ ४ ॥

तस्माद्रज्जुसर्पादिवत्सहकारिकारणानामभावेऽपि अवोदितमाविर्भूतं
यद्यभ्युपगच्छसि तर्हि मूलकारणमेव भ्रान्तिकृतजगत्स्वभावस्थितिं
गतं न वस्तुतो जगत्सर्गोऽस्तीति व्यर्था तस्य प्रलये सत्त्वकल्पनेत्यर्थः ॥ ४ ॥

सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति ।
यथास्थितमनाकारं क्व जन्यजनकक्रमः ॥ ५ ॥

तदेव स्पष्टमाह - सर्गादाविति ॥ ५ ॥

अथ पृथ्व्यादयोऽन्ये वा केचिदत्रोपकुर्वते ।
सहकारिकारणत्वं तत्पूर्वं चात्र दूषणम् ॥ ६ ॥

ननु प्रलये सर्वजगत्सत्त्वस्विकारान्न सहकारिदौर्लभ्यं तदन्तर्गतैः
पृथव्यादिभिः परस्परमुपकर्तुं शक्यत्वादित्याशङ्क्य परिहरति -
अथेति । तत्पूर्वं पृथ्व्याद्युत्पत्तिपूर्वकं वाच्यम् । नहि
स्वयमेवानुत्पन्नमन्यस्योत्पत्तौ सहकारि भवितुं शक्नोति । तथाचोत्पत्तिसिद्धौ
सहकारित्वसिद्धिस्तत्सिद्धाबुत्पत्तिसिद्धिरित्यन्योन्याश्रयोऽत्र दूषणमित्यर्थः ॥ ६

तस्मात्पदे जगच्छान्तमास्ते तत्सहकारिभिः ।
चित्तात्प्रसरतीत्युक्तिर्बालस्य न विपश्चितः ॥ ७ ॥

इत्थं च साङ्ख्यादिकल्पना बालिशकल्पनैवेत्युपसंहरति - तस्मादिति । पदे
सप्रकृतौ शान्तं प्रलये तिरोहितम् ॥ ७ ॥

तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति ।
चेतनाकाशमेवाशु कचतीत्थमिवात्मनि ॥ ८ ॥

परमते निरस्ते परिशिष्टं स्वसिद्धान्तं दर्शयति - तस्मादिति ॥ ८ ॥

अत्यन्ताभाव एवास्य जगतो विद्यते यदा ।
तदा ब्रह्मेदमखिलमिति तद्राम नान्यथा ॥ ९ ॥

ब्रह्मैवेदममृतं पुरस्तात् इत्यादिश्रुतीनामपि बाधायां
सामानाधिकरण्यादत्रैव तात्पर्यमित्याशयेनाह - अत्यन्ताभाव इति ।
तत्प्रसिद्धं श्रुतितात्पर्यम् ॥ ९ ॥

पूर्वं प्रध्वंसनान्योन्याभावैर्यदुपशाम्यति ।
न शाम्यत्येव तच्चित्ते शाम्यत्येव तु दृश्यते ॥ १० ॥

एवञ्च श्रौतबाधात्पूर्वं जागतं घटपटादि मुद्गरप्रहारादिना
प्रध्वंसैर्वस्त्वन्तरात्मनान्योन्याभावैश्च यदुपशाम्यति इदमिदानीं नास्ति
इदं न भवतीति गृह्यमाणमभावरूप उपशमं भजते इति यत्तन्न
शाम्यत्येव नासावुपशमः किन्तु तिरोधानेन तस्य चक्षुरादिदृश्यताया
एवोपरमः । यतश्चित्ते वासनात्मना न शाम्यत्येवेत्यर्थः । अयं न्यायः
प्रागभावात्यन्ताभावयोरपि योज्यः । स्वसत्तया ब्रह्मसत्तया वा सतो
घटादेर्बाधमन्तरेण क्वाप्यसत्त्वायोगान्मृत्पिण्डभूतलादावदर्शनस्य
तिरोधानेनाप्युपपत्तेरिति ॥ १० ॥

अत्यन्ताभाव एवास्य भावैर्यदुपशाम्यति ।
न शाम्यत्येव सच्चित्ते क्व शाम्यत्येव दृश्यता ॥ ११ ॥

यत् यदि दृश्यं भावैः कामकर्मवासनादिबीजैः सह उपशाम्यति तदाऽस्य
दृश्यस्यात्यन्ताभाव आत्यन्तिकोच्छेद एव भवेत् । चित्ते तु सति
कामादिभावानां दुर्वारत्वान्न शाम्यत्येव । अतो दृश्यता विना ज्ञानं क्व
शाम्यति । तदुपशमो दुर्लभ एवेत्यर्थः ॥ ११ ॥

अत्यन्ताभाव एवातो जगद्दृश्यस्य सर्वथा ।
वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसङ्क्षये ॥ १२ ॥

अत एव समूलमनोनाशान्तश्रौतबाधातिरिक्तः
सर्वदृश्यानर्थसङ्क्षयरूपे मोक्षे उपायो नास्तीत्याह - अत्यन्तेति ।
अत्यन्ताभावोऽधिष्ठानदर्शनेन बाध एवात्र युक्तिः । इमां युक्तिं वर्जयित्वा ॥
१२ ॥

चिदाकाशस्य बोधोऽयं जगद्भातीति यत्स्थितम् ।
अयं सोऽहमिदं नाहं लोके चित्रकथा यथा ॥ १३ ॥

यत् यदा जगत्तत्त्वसाक्षात्कारवशाच्चिदाकाशस्य बोधः । राहोः शिर
इतिवत्षष्ठी । बोधैकरसश्चिदाकाश एव नाणुमात्रमप्यचिद्रूपमस्तीति स्थितं
परिनिष्ठितं ज्ञानं भवति तदा अयं देवदत्तादिनामा देहः स
विशिष्टमातापितृजन्यः प्रत्यभिज्ञायमान एवाहं इदं
परकीयदेहकुड्यादि नाहमिति लोके प्रसिद्धः पामरव्यवहारश्चित्रकथा यथा
तथा भाति । भित्तिलिखितचित्रस्य सर्वस्य परमार्थतो भित्तिमात्रत्वेऽपि
चित्रप्रासादभित्तौ इयं भित्तिरिति भवति चित्रमनुष्यगजादौ नेयं भित्तिरिति
तद्वदित्यर्थः ॥ १३ ॥

इदमद्र्यादि पृथ्व्यादि तथेदं वत्सरादि च ।
अयं कल्पः क्षणश्चायमिमे मरणजन्मनी ॥ १४ ॥

चित्रकथा न्यायमेव पृथ्व्यादिष्वपि प्रपञ्चयति - इदमित्यादिना ॥ १४ ॥

अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।
अयं स सर्गप्रारम्भो भाव्यभावक्रमस्त्वसौ ॥ १५ ॥

एष दृश्यमानः स श्रुतिपुराणप्रसिद्धो भाव्यानां
सृज्यानामाकाशादीनां भावक्रमः सृष्टिक्रमः ॥ १५ ॥

लक्ष्माणीमानि कल्पानामिमा ब्रह्माण्डकोटयः ।
एते चेमे परिगता इमे भूय उपागताः ॥ १६ ॥

लक्ष्माणि लक्षणानि । परिगता अतीताः सर्गाः ॥ १६ ॥

इमानि धिष्ण्यजालानि देशकालकला इमाः ।
महाचित्परमाकाशमनावृतमनन्तकम् ॥ १७ ॥

धिष्ण्यजालानि चतुर्दशधा भिन्ना देवमनुष्यादिस्थानभैदाः । देशानां
सप्तद्वीपानां कालानां कृतत्रेताद्वापरादीनां कलाः कल्पनाः ॥ १७ ॥

यथापूर्वं स्थितं शान्तमित्येवं कचति स्वयम् ।
परमाणुसहस्रांशुभास एता महाचितेः ॥ १८ ॥

इत्येवं वर्णितेन चित्रकथान्यायेन महाचित्परमाकाशमेव स्वयं स्वात्मनि
कचति स्फुरति नान्यदित्यर्थः । तर्हि किं महाचित्प्रकाश एतावानेव नेत्याह ##-
प्रभाः परिच्छिन्नास्तथा मनोनिर्गतब्र्ह्माण्डकोटिषु परिच्छिन्ना
एताश्चिद्भासः । यथा च नभोविस्तृतेन सूर्यप्रकाशेन
परमाणुभेदभ्रमणादि दृश्यते तथा महाचित्परमाकाशेऽपीति भावः ॥ १८

स्वयमन्तश्चमत्कारो यः समुद्गीर्यते चिता ।
तत्सर्गभानं भातिदमरूपं नतु भित्तिमत् ॥ १९ ॥

तथाच मनःपरिच्छेदपीडिता चित् स्वात्नर्गतं जगद्वमतीवेत्युत्प्रेक्षमाण आह

  • स्वयमिति ॥ १९ ॥

नोद्यन्ति नच नश्यन्ति नायान्ति नच यान्ति च ।
महाशिलासु लेखानां सन्निवेशा इवाचलाः ॥ २० ॥

स्फटिकशिलान्तर्नयनदोषात्प्रतीयमाना रेखा इव न पदार्थभेदाः सन्तीत्याह

  • नोद्यन्तीत्यादिना ॥ २० ॥

इमे सर्गाः प्रस्फुरन्ति स्वात्मनात्मनि निर्मले ।
नभसीव नभोभागा निराकारा निराकृतौ ॥ २१ ॥

नभसीवेत्यादयः पृथक्सत्ताशून्यत्वे दृष्टान्ताः ॥ २१ ॥

द्रवत्वानीव तोयस्य स्पन्दा इव सदागतौ ।
आवर्ता इव चाम्भोधेर्गुणिनो वा यथा गुणाः ॥ २२ ॥

विज्ञानघनमेवैकमिदमेवमवस्थितम् ।
सोदयास्तमयारम्भमनन्तं [मनारम्भं इति पाठः]
शान्तमाततम् ॥ २३ ॥

सोदयास्तमयारम्भमिदं जगदेवमुक्तदृष्टान्तानुसारेण शान्तं
ब्रह्मैवाततं विस्तृतम् ॥ २३ ॥

सहकार्यादिहेतूनामभावे शून्यतो जगत् ।
स्वयम्भूर्जायते चेति किलोन्मत्तकफूत्कृतम् ॥ २४ ॥

एवञ्च सहकार्यभावे सत्यपि कर्तरि उत्पत्त्याद्यसिद्धेः साङ्ख्यानां कल्पना
उन्मत्तचेष्टेवेत्युपसंहरति - सहकारीति । स्वयं भवति अस्तीति स्वयम्भूः ।
प्रागुत्पत्तेः पृथक्सत्त्वेनाभ्युपगतोऽपि पदार्थ इत्यर्थः । शून्यतः
शून्यकल्पप्रधानादित्यर्थः । जायते चेति चकारो जन्युत्तरभाविनी सत्ता
प्रागेवाभ्युपगता चेज्जनिकल्पनवैयर्थ्यमपीति दोषान्तरसमुच्चयार्थः ॥ २४ ॥

प्रशान्तसर्वार्थकलाकलङ्को
निरस्तनिःशेषविकल्पतल्पः ।
चिराय विद्रावितदीर्घनिद्रो
भवाभयो भूषितभूः प्रबुद्धः ॥ २५ ॥

सर्वार्थस्वप्नदर्शनहेतुत्वाद्विकल्पास्तल्पमिव । तत्कल्पनेऽपि हेतुर्दीर्घनिन्द्रा
अविद्या सैव स्वरूपजागरेण विद्राविता
चेत्स्वाप्नव्याघ्रादिकल्पजन्ममृत्य्वादिभयहेतुबाधादभयः ।
तल्पादुत्थितेन राज्ञा स्वसभाभूरिव भूषिता अलङ्कृता
ब्रह्मवित्सभाभूर्येन तथाविधो भवेत्युपदेश आशीश्च ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु
स्थितिप्रकरणे स्थितिबीजोपन्यासो नाम द्वितीयः सर्गः ॥ २ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे स्थितिबीजोपन्यासो
नाम द्वितीयः सर्गः ॥ २ ॥