०१

प्रथमः सर्गः १

अथोत्पत्तिप्रकरणादनन्तरमिदं शृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥ १ ॥

सदभयनिजपूर्णानन्दसंवित्प्रतिष्ठं
यदिह निजमहिम्ना विश्वरूपाणि बिभ्रत् ।
विहरति च विमोहात्तेषु नानात्मबुद्ध्या
श्रुतिविदितसतत्त्वं तत्परं ब्रह्म वन्दे ॥ १ ॥

प्रसिद्धचित्रवैधर्म्यं जगच्चित्रस्य वर्ण्यते ।
साङ्ख्यादिमतमुन्मृज्य साध्यते ब्रह्ममात्रता ॥ १ ॥

उत्पत्तिप्रकरणे यतो वा इमानि भूतानि जायन्ते इत्यादीनां सर्वेषां
सृष्टिप्रतिपादकवाक्यानामद्वये ब्रह्मणि जगदध्यारोपप्रदर्शनद्वारा
तटस्थलक्षणतया तात्पर्यविश्रान्तिप्रदर्शनमुखेन जगज्जीवादिभेदं निरस्य
प्रत्यग्ब्रह्मैकरस्यं व्युत्पादितम् । इदानीं येन जातानि जीवन्ति येन द्यौः
पृथिवी दृढा एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ
विधृतौ तिष्ठतः को ह्येवान्यात्कः भीषास्माद्वातः पवते एको दाधार
भुवनानि विश्वा य एको जालवानीशत ईशनीभिः परमशक्तिभिः अनुज्ञाता
ह्ययमात्मास्य सर्वस्य स्वात्मानं दधाति इत्यादि
साम्प्रतिकजगत्स्थितिनिर्वाहकताप्रतिपादकश्रुतीनाम् सदेव सोम्येदमग्न आसीत्
आत्मा वा इदमेक एवाग्र आसीत्
इत्यादिप्रलयकालिकजगत्सत्तानिर्वाहकत्वप्रतिपादकश्रुतीनां च
पुरुषमतिवैचित्र्यप्रभवनानातात्पर्योत्प्रेक्षणयुक्तभ्रान्तिवैचित्र्यनिरासेन
सच्चिदानन्दैकरसे ब्रह्मणि सच्चिद्रूपतोपपादनेन
तटस्थलक्षणतात्पर्यपर्यवसानप्रदर्शनमुखेनापि विस्तरोपपादितं
ब्रह्मैक्यज्ञानं स्थिरीकर्तुं स्थितिप्रकरणमारभमाणो भगवान्वसिष्ठः
सङ्गतिं प्रदर्श्यन्प्रतिजानीते - अथेति । उत्पत्तेः
स्थितिहेतुत्वाद्धेतुतासङ्गतिरिति भावः ।
एवमेककार्यत्वसङ्गतिरप्यस्तीत्याशयेनाह - ज्ञातमिति ।
आनन्तर्याधिकारपरोऽप्यथशब्दः शङ्खवीणामृदङ्गध्वनिवत्स्वरूपतो
मङ्गलमेवेति प्रकरणादौ मङ्गलमप्याचरितं बोध्यम् ॥ १ ॥

एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।
अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ॥ २ ॥

जगदुत्पत्तौ मिथ्यात्वप्रदर्शनाय व्युत्पादिता न्यायाः स्थितावपि तुल्या
इत्यतिदेशेन दर्शयति - एवं तावदित्यादिना ॥ २ ॥

अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम् ॥ ३ ॥

अकर्तृकं हेतुकरणोपकरणसम्पन्नलेखकशून्यम् ।
अरङ्गमुपादानरञ्जकद्रव्यशून्यम् । गगने
इत्यनेनाधारभित्त्यादिशून्यतापि चित्रस्य दर्शिता । द्रष्टुरपि
दृश्यान्तःपातादद्रष्टृकम् । मोहनिद्रया प्रमातुरभिभवेऽपि
साक्षिणोऽनभिभवादनिद्रम् ॥ ३ ॥

भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् ।
मर्कटानलतापान्तमसदेवार्थसाधकम् ॥ ४ ॥

मर्कटैः कल्पितोऽनलो गुञ्जागैरिकादिसञ्चयरूपस्तत्तापोऽन्तो दृष्टान्तो यस्य ।
तेनापि तेषां शीतनिवृत्तिरैतिह्यप्रसिद्धेत्याशयेनोक्तमसदेवार्थसाधकमिति
॥ ४ ॥

ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् ।
सद्रूपमपि [तद्रूपम् इति पाठः] निःशून्यं तेजः
सौरमिवाम्बरे ॥ ५ ॥

सौरं तेज आलोको नत्वातपः ॥ ५ ॥

रत्नाभापुञ्जमिव खे दृश्यमानमभित्तिमत् ।
गन्धर्वाणां पुरमिव दृश्यं [दृश्यमानं इति पाठः]
नित्यमभित्तिमत् ॥ ६ ॥

अभित्तिमदनाधारम् ॥ ६ ॥

मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् ।
सङ्कल्पपुरवत्प्रौढमनुभूतमसन्मयम् ॥ ७ ॥

प्रौढं विस्तृतम् । स्फुटमनुभूतमिति वा ॥ ७ ॥

कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् ।
निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् ॥ ८ ॥

कविकल्पितकथार्थनगरपर्वतादिसंस्थानप्रतिभानमिवात्मा स्वरूपं यस्य ।
क्वचिदपि देशे काले वा न स्थितमिति हेतोरस्थितमसत् । अन्तःसारमतिदृढम् ॥ ८ ॥

भूताकाशमिवाकरभासुरं शून्यमात्रकम् ।
शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम् ॥ ९ ॥

अवाङ्मुखीकृतेन्द्रनीलमहाकटाहाकारभासुरम् । यावदग्रस्थं
तावदलमातपनिरोधादिसमर्थम् । क्षेतुमशक्यमक्षतमविच्छिन्नं च ॥ ९ ॥

वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् ।
स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् ॥ १० ॥

व्योममलस्य कालिम्नो वर्णः स्निग्धता । राहोः शिर इतिवद्वा । व्योमतलस्य इति
पाठे स्पष्टम् । अर्थनिष्ठं भोगलक्षणार्थक्रियाकारि ॥ १० ॥

चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ।
प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम् ॥ ११ ॥

अरसं शुष्कं निर्मकरन्दं च ॥ ११ ॥

अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ।
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ॥ १२ ॥

असत्यं स्वतः । अवास्तवं फलतोऽपि । सारो मकरन्दपरागादिः ॥ १२ ॥

शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ।
अपिण्डग्रहमाशुन्यमिन्द्रचापमिवोत्थितम् ॥ १३ ॥

पिण्डग्रहो मूर्तता तच्छून्यम् ॥ १३ ॥

परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः ।
कृतं जडमसारात्म कदलीस्तम्भभासुरम् ॥ १४ ॥

परस्य परमात्मन आमर्शेनेषद्विचारेणापि । परस्यान्यस्य
वाय्वातपजनादेरामर्शेनेषदभिघातेनापि च । कदलीस्तम्भः कदलीतरुः ॥ १४

स्फुरितेक्षणदृष्टान्धकारचक्रकवर्तनम् ।
अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् ॥ १५ ॥

स्फुरितेक्षणेनाक्षिरोगविशेषेण । अभवद्रूपमसम्भवद्रूपम् ॥ १५ ॥

वार्बुद्बुदमिवाभोगि शून्यमन्तःस्फुरद्वपुः ।
रसात्मकं चाप्यरसमविच्छिन्नक्षयोदयम् ॥ १६ ॥

आभोगि कल्पिताकारम् । रस आपातरमणीयता तदात्मकमप्यरसं
परिणामकटुकम् । तदेव प्रपञ्चयति - अविच्छिन्नेति । क्षयोदया
जन्ममरणानि ॥ १६ ॥

नीहार इव विस्तारि गृहीतं सन्न किञ्चन ।
जडशून्यास्पदं शून्यं केषाञ्चित्परमाणुवत् ॥ १७ ॥

साङ्ख्यानां केवलजडात्मकम् । जडशून्यमविद्या तदास्पदं वेदान्तिनाम् ।
शून्यं माध्यमिकानाम् । क्षणिकत्वात्कालतः परमाणुवद्योगाचार्याणाम् ।
कालतो देशतश्च परमाणुवत्सौत्रान्तिकवैभाषिकयोः । देशत एव
परमाणुवत्कणादगौतमीययोः । अनियतस्वभावपरमाणुवदार्हतानामिति
वादिभिर्बहुधा विकल्पितमित्यर्थः ॥ १७ ॥

किञ्चिद्भूतमयोऽस्मीति स्थितं शून्यमभूतकम् ।
गृह्यमाणोऽप्यसद्रूपो निशाचर इवास्थितम् ॥ १८ ॥

बाह्ये जगत्युक्तन्यायमाध्यात्मिकेऽपि दर्शयन्नाह - किञ्चिदिति ॥ १८ ॥

श्रीराम उवाच ।

महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरः ।
परे भूय उदेत्येतत्तत एवेति किं वद ॥ १९ ॥

नन्वेवं जगत्स्वतः सत्ताशून्यं ब्रह्मसत्ता च जगन्न स्पृशति तदा सदेव
सोम्येदमग्र आसीत् इत्यादीनां सत्कार्यवादिश्रुतीनां
तदनुसारिव्यासकपिलाद्युपबृंहणानां कथं सामञ्जस्यं स्यादिति
मन्यमानो रामः पृच्छति - महाकल्पेति । इति यद्व्यासादिभिरुक्तं तत्किं
कथं समञ्जसमित्यर्थः ॥ १९ ॥

एवम्बोधाः किमज्ञाः स्युरुत ज्ञा इति च स्फुटम् ।
यथावद्भगवन्ब्रूहि सर्वसंशयशान्तये ॥ २० ॥

एवं प्रलये स्वसत्तया कारणे जगदस्तीति प्रकारेण बोधो येषां ते कपिलादयः ॥
२० ॥

श्रीवसिष्ठ उवाच ।

इदं बीजेऽङ्कुर इव दृश्यमास्ते महाशये ।
ब्रूते य एवमज्ञत्वमेतत्तस्यास्ति शैशवम् ॥ २१ ॥

महति शये शयने प्रलये । एतद्वक्ष्यमाणप्रकारं
शैशवमसङ्गात्मविवेचनेऽपि जगत्सत्यताविश्वासदार्ढ्यलक्षणं
बाल्यमस्ति ॥ २१ ॥

शृण्वेतत्किमसम्बन्धं कथमेतदवास्तवम् ।
विपरीतो बोध एष वक्तुः श्रोतुश्च मोहकृत् ॥ २२ ॥

एतद्वक्ष्यमाणयुक्तिजातं शृणु । कारणे प्रागुत्पत्तेः कार्यमस्तीति
वदन्प्रष्टव्यः किं तत्सत्तासामान्येनास्ति उत बीजादिसत्तया उताङ्कुरादिसत्तया ।
आद्ये तदङ्कुरादि किमसम्बन्धं केन असम्बन्धो यस्य तथाविधम् ।
सामान्यसत्तायाः सर्ववस्तुसाधारण्याज्जायमानाङ्कुरादेः सर्वत्र
सम्बन्धप्रसङ्ग इत्यर्थः । अस्त्विष्टापत्तिरिति चेत् एतदङ्कुरादिक्षेत्रे
अङ्कुरितबीजे दृष्टमेव वास्तवम् । कुसूलस्थबीजे शिलाशकले वा
भ्रान्तिदृष्टमवास्तवमित्येतत्कथमित्यर्थः । द्वितीयेऽपि बीजसत्ताया
अङ्कुरसम्बन्धस्य घटपटादिसम्बन्धस्य च स्वरूपतो विशेषानिरूपणान्न
विद्यते सम्बन्धो यस्य तदसम्बन्धं किं वस्तु यद्बीजेन स्यादिति । व्रीह्यादिबीजे
सर्वजगत्सत्त्वप्रसङ्गः । इष्टापत्तावङ्कुरितबीजेऽङ्कुराद्येव वास्तवं न
घटपटादीत्येतत्कथमित्यर्थः । तृतीयेऽप्यङ्कुरस्वरूपसत्तया
बीजसम्बन्धस्य घटादिसम्बन्धस्य च विशेषानिरूपणादसम्बन्धं किं
वस्तु । सर्वत्राङ्कुरसद्भावप्रसङ्ग इत्यर्थः । इष्टापत्तौ
बीजादावेवाङ्कुरादि वास्तवं नान्यत्रेत्येतत्कथमित्यर्थः । किञ्च
साधारणसत्तया असाधारणमङ्कुराद्यस्ति कारणसत्तया कार्यमस्ति
कार्यसत्तया च कारणमस्तीति पक्षत्रयेऽप्युक्तिसम्भवाघटनाद्विपरीत एवायं
बोध इत्याशयेनाह - विपरीत इति ॥ २२ ॥

बीजे किलाङ्कुर इव जगदास्त इतीह या ।
बुद्धिः सा सत्प्रलापार्थं मूढा शृणु कथं किल ॥ २३ ॥

किञ्च बीजेऽङ्कुर इव प्रलये जगदस्तीति दृष्टान्तो विषमः ।
कूटस्थचिदेकरसस्यात्मनो बीजत्वस्यैवासम्भवादित्याशयेनाह - बीजे
इत्यादिना । सत्प्रलापार्थं प्रलये जगत्सत्त्वे दृष्टान्तोपन्यासार्थं या
बुद्धिः सा मूढा भ्रान्तिः । दार्ष्टान्तिकवैषम्यादित्यर्थः ॥ २३ ॥

बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरम् ।
यवधानादिधान्यानि युक्तः [युक्तस्तत्राङ्कुरोद्भव इति पाठः]
पत्राङ्कुरोद्भवः ॥ २४ ॥

वैषम्यमेव स्फुटयति - बीजमित्यादिना । यवधानाः
सतुषयवास्तदादिबीजं दृश्यं दर्शनार्हम् । तथाच
तत्राङ्कुराद्यन्वयव्यतिरेकस्य
प्रत्यक्षसिद्धत्वात्सावयवत्वात्परिणामिस्वभावत्वादङ्कुरवैजात्यभेदनिर्वा
हकजातिसंस्थानादिभेदवत्त्वाच्च युक्तोऽङ्कुरादिबीजभाव इत्यर्थः ॥ २४ ॥

मनःषष्ठेन्द्रियातीतं यत्स्यादतितरामणु ।
बीजं तद्भवितुं शक्तं [शक्य इति पाठः] स्वयम्भूर्जगतां
कथम् ॥ २५ ॥

दार्ष्टान्तिके तु न तथेत्याह - मन इति । स्वयमेव भवति स्वयं भवत्येवेति
च स्वयम्भूः कूटस्थाद्वितीयचिदात्मा । तथाच यस्य बीजत्वमेव दुर्घटं
दूरे तत्र जगतः स्वसत्तया स्थितिरिति भावः ॥ २५ ॥

आकाशादपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाख्यानुपलम्भस्य कीदृशी बीजता कथम् ॥ २६ ॥

तत्सूक्ष्ममसदाभासमसदेव ह्यतादृशम् ।
कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ॥ २७ ॥

एवं तत्त्वज्ञदृशा बीजत्वासम्भवमुक्त्वा अज्ञदृशापि तस्य
तदसम्भवमाह - तदिति । वस्तुतः अतादृशं सदेकरसम
पिसूक्ष्मत्वादज्ञदृशा असदाभासमित्यसदेवेत्यर्थः । अङ्कुरो
जगदङ्कुरः ॥ २७ ॥

गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥ २८ ॥

न किञ्चिद्यत्कथं किञ्चित्तत्रास्ते वस्तु वस्तुनि ।
अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते ॥ २९ ॥

न किञ्चिदात्मनः किञ्चित्कथमेति कुतोऽथवा ।
शून्यरूपाद्घटाकाशाज्जातोऽद्रिः क्व कुतः कदा ॥ ३० ॥

न किञ्चिदात्मनः अथात आदेशो नेति नेति इति सर्वनिषेधात्मनः ॥ ३० ॥

प्रतिपक्षे कथं किञ्चिदास्ते च्छायातपे यथा ।
कथमास्ते तमो भानौ कथमास्ते हिमोऽनले ॥ ३१ ॥

चिदेकरससत्ताया जडानेकरससत्ताप्रतिपक्षत्वादपि तत्र न जगत्सत्ता
सम्भावितेत्याह -प्रतिपक्षे इति ॥ ३१ ॥

मेरुरास्ते कथमणौ कुतः किञ्चिदनाकृतौ ।
तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव ॥ ३२ ॥

ननु मास्तु भेदेन सत्तदैक्येन तु स्यात्तत्राप्याह - तदतद्रूपयोरिति ।
चिदचिद्रूपयोरित्यर्थः ॥ ३२ ॥

साकारवटधानादावङ्कुराः सन्ति युक्तिमत् ।
नाकारे तन्महाकारं जगदस्तीत्ययुक्तिकम् ॥ ३३ ॥

नाकारे अनाकारे । नायं नञ् किन्तु नशब्दोऽन्यः प्रतिषेधार्थः समस्यते ॥ ३३

देशान्तरे यच्च नरान्तरे च
बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यम् ।
नास्त्येव तत्तद्विधबुद्धिबोधे
न किञ्चिदित्येव तदुच्यते च ॥ ३४ ॥

किञ्चायं साङ्ख्यादिभिः कल्पितः कारणे जगत्सद्भावः स किं
लौकिकप्रमाणबलादुत सदेव सोम्येदमग्र आसीत् इत्यादिश्रुतिबलात् । नाद्य इत्याह

  • देशान्तरे इति । यद्बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यं घटपटादि
    तदधिकरणदेशाद्देशान्तरे तदधिकरणकालात्कालान्तरे च साक्षात्स्वयं
    द्रष्टरि नरान्तरे वा द्रष्टरि सत्यसति च
    तत्तद्विधप्रत्यक्षानुमानादिबुद्धिवृत्तिलक्षणे बोधे नास्त्येव न भात्येव
    तद्दृश्यादर्शनादियोग्यानुपलब्धिवशान्न किञ्चिदसदेवेति
    सर्वैर्लौकिकप्रामाणिकैरुच्यते । अतः सर्वलौकिकानुपलम्भविरुद्धं प्रलये
    जगत्सद्भावकल्पनमित्यर्थः ॥ ३४ ॥

कार्यस्य तत्कारणतां प्रयातं
वक्तीति यस्तस्य विमूढबोधः ।
कैर्नाम तत्कार्यमुदेति तस्मा-
त्स्वैः कारणाद्यैः सहकारिरूपैः ॥ ३५ ॥

न द्वितीयोऽपीत्याह - कार्यस्येति । सदेव सोम्येदमग्र आसीत् इत्यादिश्रुतिषु न
कार्यकारणयोर्द्धे सत्ते प्रतीयेते । एकमेवाद्वितीयम् इति वाक्यशेषविरोधात् ।
तत्रैतद्विमृश्यताम् - किं कार्यमेव सत् तत्कार्यसत्त्वमेव कारणतां
प्रयातं कारणे आरोपितं श्रुतिर्वक्तीति वा कारणमेव सत्तत्सत्त्वमेव कार्ये
आरोपितमिति श्रुतिर्वक्तीति वा । अथवा सदेव सत् सत्सत्तैव कार्यकारणयोरारोपितेति ।
तत्र तस्य साङ्ख्यस्य बोधः स आद्यपक्षानुसारी चेत् स विमूढबोधो भ्रम
एव । वाचारम्भणं विकारो नामधेयम्
इत्यादिकार्यानृतत्वपरश्रुत्यननुगुणत्वात्कारणानृतत्वापादकत्वेन
स्वसिद्धान्तबाधकत्वाच्चेत्याशयेनाह - कैर्नामेति । कारणानां
गुणानामेवानृतत्वे तन्महदादिकार्यं कैः कारणैरुदेत्यौत्पद्यते नाम ।
कारणे असति कार्यस्योत्पत्तुमेवाशक्तेरित्यर्थः । अत एव न द्वितीयोऽपि । कार्ये असति
तत्तत्कारणताया अपि तद्घटिताया निरूपयितुमशक्तेरिति परिशेषात्तृतीयकल्प
एव श्रुत्यभिप्रेतो युक्तश्च परिग्राह्य इत्याह - तस्मादित्याद्युत्तरश्लोकेन ॥
३५ ॥

दुर्बुद्धिभिः कारणकार्यभावं
सङ्कल्पितं दूरतरे व्युदस्य ।
तदेव तत्सत्यमनादिमध्यं
जगत्तदेतत्स्थितमित्यवेहि ॥ ३६ ॥

तस्मात्कार्यकारणभेदसत्यतायाः श्रुत्यसम्मतत्वाद्दुर्बुद्धिभिः
साङ्ख्यादिभिः सङ्कल्पितं कारणकार्यभावमुपादानोपादेयभावं स्वैः
स्वीयैः सहकारिरूपैः कारणाद्यैर्निमित्तप्रयोजनादिभेदैः सह दूरं
व्युदस्य मिथ्येति निरस्य यदेवावशिष्टमनादिमध्यान्तं सन्मात्रं वस्तु
तदेवाहिकुण्डलवज्जगदिति स्थितं नान्यदित्यवेहीत्यर्थः ॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
स्थितिप्रकरणे जन्यजनिनिराकरणं नाम प्रथमः सर्गः ॥ १ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे स्थितिप्रकरणे
जन्यजनिनिराकरणं नाम प्रथमः सर्गः ॥ १ ॥