१२२

द्वाविंशत्युत्तरशततमः सर्गः १२२

श्रीवसिष्ठ उवाच ।

प्रथमं जातमात्रेण पुंसा किञ्चिद्विकसितबुद्धिनैवं
सत्सङ्गमपरेण भवितव्यम् ॥ १ ॥

इहादौ वर्ण्यते पुंसो ज्ञानभूम्युदयक्रमः ।
रामस्य शोकमोहादिनिरासैर्बोधनं ततः ॥ १ ॥

तत्र ज्ञानभूमिकाक्रमं गद्यैर्विवक्षुस्तल्लाभोपायेषु प्रथमपीठिकामाह

  • प्रथममिति किञ्चिद्विकसितबुद्धिना इह जन्मनि जन्मान्तरे
    वानुष्ठितैर्निष्कामकर्मभिः शुद्धचित्तेनेत्यर्थः ॥ १ ॥

अनवरतप्रवाहपतितोऽयमविद्यानदीनिवहः शास्त्रसज्जनसम्पर्कादृते
न तरितुं शक्यते ॥ २ ॥

सत्सङ्गात्साधनचतुष्टयसम्पत्तिसहितोऽध्यात्मशास्त्रसम्बन्धः सिद्ध्यति
सैव प्रथमा भूमिकेत्याशयेनाह - अनवरतेत्यादिना ॥ २ ॥

तेन विवेकतः पुरुषस्य हेयोपादेयविचार उपजायते ॥ ३ ॥

तदासौ शुभेच्छाभिधां विवेकभुवमापतितो [मवतीर्णो भवतीति
पाठः] भवति ॥ ४ ॥

ततो विवेकवशतो विचारणायाम् ॥ ५ ॥

तज्जयाद्द्वितीयभूमिकावतारं दर्शयति - तत इत्यादिना ॥ ५ ॥

सम्यग्ज्ञानेनासम्यग्वासनां त्यजतः संसारभावनातोमनस्तनुतामेति
॥ ६ ॥

तज्जयात्तृतीयभूमिकावतार इत्याह - सम्यग्ज्ञानेनेत्यादिना ॥ ६ ॥

तेन तनुमानसां नाम विवेकभूमिमवतीर्णो भवति ॥ ७ ॥

प्। ४१३) २४२

यदैव योगिनः सम्यग्ज्ञानोदयस्तदैव सत्त्वापत्तिः ॥ ८ ॥

चतुर्थभूमिकावतारप्रकारमाह - यदैवेति ॥ ८ ॥

तद्वशाद्वासना तनुतां गता यदा तदैवासावसंसक्त इत्युच्यते
कर्मफलेन न बध्यत इति ॥ ९ ॥

पञ्चम्यवतारमाह - तद्वशादिति । तन्नाम व्याचष्टे - कर्मफलेनेति
॥ ९ ॥

अथ तानववशादसत्ये भावनातानवमभ्यस्यति ॥ १० ॥

षष्ठ्यां भूमौ ततोऽवतारमाह - अथेति । असत्ये बाह्येऽर्थे
भावनातानवं सदैवतान्तरमुखतयावस्थानेन [सदैवान्तर्मुखतया
इति पाठः] ब्रह्माहम्भाववासनोपचयेन बाह्यार्थस्य क्रमेण
विस्मरणमित्यर्थः ॥ १० ॥

यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारवस्तुषु स्थितोऽपि
स्वात्मन्येव [स्वात्मन्यवक्षीण इति पाठः]
क्षीणमनस्त्वादभ्यासवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति
नालम्बनेन सेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढः
सुप्तप्रबुद्ध इव कर्तव्यं करोति ॥ ११ ॥

कियत्कालं तदभ्यासस्तत्राह - यावदिति । न कुर्वन् समाधिस्थोऽपि । व्यवहरन्
व्युत्थितोऽपि । बाह्यं स्नानभोजनादि कुर्वन्नपि न पश्यति । अत एव नालम्बनेन
रुच्या सेवते नाभिध्यायति न स्मरति । मूढः शिशुरुन्मत्तो वा सुप्तप्रबुद्ध
इव कर्तव्यं स्नानभोजनादि परेच्छया करोति ॥ ११ ॥

तनुभावितमनस्कस्तेन योगभूमिकां भावनामधिरूढः ॥ १२ ॥

तनुभावितमनस्कः सूक्ष्मतमब्रह्मैकरसीकृतचित्तस्तेनोक्तलक्षणेन
योगभूमिकां भावनां पदार्थाभावनाख्यांअधिरूढो भवतीति शेषः ॥
१२ ॥

इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य सर्वथैव कुर्वन्नपि
बाह्यपदार्थान्भावनां त्यजति तुर्यात्मा भवति ततो जीवन्मुक्त इत्युच्यते
॥ १३ ॥

सप्तमभूमिकावतारक्रममाह - इत्यन्तर्लीनचित्त इति । इति
उक्तप्रकारेणान्तर्ब्रह्मणि लीनचित्तः परेच्छया कार्यमात्रेण
कदाचिद्बाह्यपदार्थान्स्नानभोजनादीन्कुर्वन्नपि सर्वथैव तद्भावनां
त्यजति । तुर्यात्मा स्वयमेव भवति । षष्ठभूमिकापर्यन्तं चित्तस्य
ब्रह्माकारतास्थैर्ये लेशतो यत्नानुवृत्तिरस्ति । सप्तम्यां तु भूमिकायां
सर्वथैव तन्निवृत्त्या स्वारसिकी प्रतिष्ठेति विशेष इति भावः । स एव जीवन्मुक्त
इत्युच्यते ॥ १३ ॥

नाभिनन्दति सम्प्राप्तं नाप्राप्तमभिशोचति ।
केवलं विगताशङ्कं सम्प्राप्तमनुवर्तते ॥ १४ ॥

यद्यपि प्राक्तनभूमिष्वपि कृतसाक्षात्कारा जीवन्मुक्ता एव तथापि तेषां
कदाचित्प्रबलप्रारब्धोपनीतप्रियाप्रियस्पर्शसत्त्वान्न मुख्यं
जीवन्मुक्तिसुखं सप्तम्यां तु भूमिकायां
योगपरिपाकजन्यपुण्यातिशयेनात्युत्कटेन तिरस्कृतं प्रारब्धकर्म
जीवनव्यवहाराभासमात्रे व्यवतिष्ठते न हर्षशोकादिजननाय
प्रभवतीत्याशयेन तल्लक्षणं पद्येनाह - नाभिनन्दतीति ॥ १४ ॥

त्वयापि राघव ज्ञातं ज्ञातव्यमखिलान्तरम् ।
ननु ते सर्वकार्येभ्यो वासना तनुतां गता ॥ १५ ॥

तव तु अत्यन्तशुद्धचित्तत्वाद्द्वितीयभूमिकायामेव स्वविचारेणैव
प्रत्यगात्मतत्त्वं परिज्ञातमित्याशयेनाह - त्वयेति ॥ १५ ॥

शरीरातीतवृत्तिस्त्वं शरीरस्थोऽथवा भव ।
मागाः शोकं च हर्षं त्वं त्वमात्मा विगतामयः ॥ १६ ॥

शरीरातीतवृत्तिः सदैव समाधिस्थः । शरीरस्थो लोकसङ्ग्रहव्यवहारी ॥ १६ ॥

त्वय्यात्मनि सिते स्वच्छे सर्वगे सर्वदोदिते ।
कुतो दुःखसुखे राम कुतो मरणजन्मनी ॥ १७ ॥

सिते स्वयम्प्रभे । स्वच्छे निर्मले ॥ १७ ॥

अबन्धुरपि कस्मात्त्वं बन्धुदुःखानि शोचसि ।
अद्वितीये स्थिते ह्यस्मिन्बान्धवाः क इवात्मनि ॥ १८ ॥

आत्मबोधेन मरणजन्मादिप्रयुक्तशोकजयेऽपि बान्धवसङ्गजः शोकः
कथं जय्यस्तत्राह - अबन्धुरिति ॥ १८ ॥

दृश्यते केवले देहे परमाणुचयः परम् [पर इति पाठः] ।
देशकालान्यतापत्तेर्नात्मोदेति न लीयते ॥ १९ ॥

बन्धूनां देहः शोकार्ह उतात्मा । नाद्य इत्याह - दृश्यत इति । केवले
भस्मीभूते । परमाणुचयस्त्वचेतनत्वादेवन शोकार्ह इत्यर्थः । न द्वितीय
इत्याह - देशेति ॥ १९ ॥

अविनाशोऽपि कस्मात्त्वं विनश्यामीति शोचसि ।
अमृत्युवसतौ स्वच्छे विनाशः क इवात्मनि ॥ २० ॥

घटे कपालतां याते घटाकाशो न नश्यति ।
यथा तथा शरीरेऽस्मिन्नष्टेऽपि न विनश्यति ॥ २१ ॥

न विनश्यति आत्मेति शेषः ॥ २१ ॥

मृगतृष्णातरङ्गिण्यां क्षीणायामातपो यथा ।
न नश्यति तथा देहे नष्टे नात्मा विनश्यति ॥ २२ ॥

वाञ्छैवोदेति ते कस्माद्भ्रान्तिरन्तर्निरर्थिका ।
अद्वितीयो द्वितीयं किंयद्वस्त्वात्माभिवाञ्छतु ॥ २३ ॥

श्रव्यं स्पृश्यं तथा दृश्यं रस्यं घ्रेयं च राघव ।
न किञ्चिदस्ति जगति व्यतिरिक्तं यदात्मनः ॥ २४ ॥

सर्वशक्ताविमास्तस्मिन्नात्मन्येवाखिलाः स्थिताः ।
शक्तयो वितते व्यक्ते आकाश इव शून्यता ॥ २५ ॥

नन्वातपे मृगतृष्णाभ्रमशक्तय इव जगच्छक्तयस्तर्हि पृथक्
स्युस्तत्राह - शक्तय इति ॥ २५ ॥

चित्ताद्राघव रूढेयं त्रिलोकीललनोदिता ।
त्रिविधेनक्रमेणेह जन्मना जनितभ्रमा ॥ २६ ॥

तर्ह्यत्यन्तासतो जगतः प्ररोहे किं बीजमिति चेच्चित्तमेवेति प्रागुक्तमेवेत्याह ##-

मनःप्रशमने सिद्धे वासनाक्षयनामनि ।
कर्मक्षयामिधानैव मायेयं प्रविनश्यति ॥ २७ ॥

अत एव चित्तक्षयात्तत्क्षय इत्याह - मन इति । कर्मणां क्रियादिशक्तीनां
क्षयो निवासस्तदभिधाना ॥ २७ ॥

प्। ४१४) २४३

संसारोग्रारघट्टेऽस्मिन्नारूढा यन्त्रवाहिनी ।
रज्जुस्तां वासनामेतां छिन्धि राघव यत्नतः ॥ २८ ॥

आरघट्टे । पेषणयन्त्राधःशिलामध्यशङ्काविति यावत् । आरूढा
तिर्यक्काष्ठप्रान्ते आरोपिता । अत एव यन्त्रमूर्ध्वपेषणपाषाणं वहति
तच्छीला रज्जुः । तथाहि । पृथ्वी अधोयन्त्रशिलेव मेरुस्तच्छङ्कुरिव
ज्योतिश्चक्रमूर्ध्वशिलायन्त्रमिव वासनावष्टब्धं जगद्दृश्यत इति भावः
॥ २८ ॥

अपरिज्ञानमानैषा महामोहप्रदायिनी ।
परिज्ञाता त्वनन्ताख्या सुखदा ब्रह्मदायिनी ॥ २९ ॥

आगता ब्रह्मणो भुक्त्वा संसारमिह लीलया ।
पुनर्ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयते ॥ ३० ॥

संसारं भुक्त्वा स्वलीलाभूतयैव ब्रह्मविद्यया ब्रह्मैव संस्मृत्य
ब्रह्मण्येव विलीयत इत्यन्वयः ॥ ३० ॥

शिवाद्राघव नीरूपादप्रमेयान्निरामयात् ।
सर्वभूतानि जातानि प्रकाशा इव तेजसः ॥ ३१ ॥

रेखावृन्दं यथा पर्णे वीचिजालं यथा जले ।
कटकादि यथा हेम्नि तथोष्णादि यथाऽनले ॥ ३२ ॥

रेखावृन्दं शिराजालम् ॥ ३२ ॥

तदेतद्भावनारूपे तथेदं भुवनत्रयम् ।
तस्मिन्नेव स्थितं जातं तस्मादेव तदेव च ॥ ३३ ॥

भावनारूपे वासनावच्छिन्ने ब्रह्मणि ॥ ३३ ॥

स एव सर्वभूतानामात्मा ब्रह्मेति कथ्यते ।
तस्मिञ्ज्ञाते जगज्ज्ञातं स ज्ञाता भुवनत्रये ॥ ३४ ॥

तदेकविज्ञानेन सर्व विज्ञातमित्याह - तस्मिन्निति । स ज्ञातेति । नान्योऽतोऽस्ति
द्रष्टा इत्यादिश्रुतेरिति भावः ॥ ३४ ॥

शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः ।
चिद्ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः ॥ ३५ ॥

विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता ।
सैषा शुद्धानुभूतिर्हि सोऽयमात्मा चिदव्ययः ॥ ३६ ॥

प्रियाप्रियविषयाणामिन्द्रियैः सह दैवात्संयोगेऽपि तेषु
मिथ्यात्वनिश्चयाद्धर्षामर्षविवर्जिता सैषोक्तलक्षणा जीवन्मुक्तानुभूतिरेव
स प्रसिद्ध आत्मा नतु मूढैरनुभूयमानः संसारस्वभाव इत्यर्थः ॥ ३६ ॥

आकाशातितराच्छाच्छ इदं तस्मिंश्चिदात्मनि ।
स्वाभोग एव हि जगत्पृथग्वत्प्रतिबिम्बति ॥ ३७ ॥

हर्षामर्षविवर्जितेति यदुक्तं तदुपपादनायाह - इदं तस्मिन्नित्यादिना ।
स्वाभोगे स्वान्तरेव जगत्पृथग्वत् अन्यदिव प्रतिबिम्बति तस्य च शुद्धसाक्षिणा
प्रियाप्रियभागेन विवेक्तुमशक्यत्वात्तद्विवेकाय तदुभयव्यतिरेकेणान्तराले
बुद्धिरन्तःकरणं प्रतिबिम्बति सैव प्रियाप्रियविकल्पनैर्लोभमोहादयो ये
भावास्तान्याति न त्वात्मेत्यर्थः ॥ ३७ ॥

बुद्धिस्तद्व्यतिरेकेण लोभमोहादयो हि तान् ।
पात्यसद्व्यतिरेकेण ते च तस्मिंस्तदेव ते ॥ ३८ ॥

ते च जगत्तद्बुद्धितत्प्रयुक्तलोभमोहादयः असतैव व्यतिरेकेण परस्परभेदेन
तस्मिंश्चिदात्मनि प्रतिबिम्बिता इति परमार्थतस्तदात्मरूपमेव । तेन हि
दर्पणव्यतिरेकेण तदन्तर्दृश्यमानाः पर्वतवननद्यादयः सन्तीत्यर्थः ॥
३८ ॥

अदेहस्यैव ते राम निर्विकल्पचिदाकृतेः ।
लज्जाभयविषादेभ्यः कुतो मोहः समुत्थितः ॥ ३९ ॥

एवञ्च देहात्मबुद्धीनां मूढानामेव भयविषादादयो युक्ता नतु
तवेत्याह - अदेहस्यैवेत्यादिना ॥ ३९ ॥

अदेहो देहजैरेभिर्लज्जादिभिरसन्मयैः ।
किं मूर्ख इव दुर्बुद्धिर्विकल्पैरभिभूयसे ॥ ४० ॥

अखण्डचितिरूपस्य देहे खण्डनमागते ।
असम्यग्दर्शिनोऽप्यस्ति न नाशः किमु सन्मतेः ॥ ४१ ॥

आपतेदर्कमार्गेऽपि न निरुद्धगमागमम् ।
चित्तं नाम स विज्ञेयः पुरुषो न शरीरकम् ॥ ४२ ॥

असम्यग्दर्शिनोऽपि न नाश इति यदुक्तं तदुपपादयितुं
देहाद्व्यतिरिक्तचित्तात्मानं व्युत्पादयति - आपतेदिति । यच्चित्तं
सञ्चारस्वातन्त्र्यात्सर्वत्र आपतेत् । अर्कस्य मार्गे निरालम्बनेऽपि यन्न निरुद्धा
गमागमाः सञ्चारा यस्य तथाविधं तच्चित्तमेव पुरि शेते इति पुरुषः
संसार्यात्मा विज्ञेयो नतु शरीरमित्यर्थः ॥ ४२ ॥

शरीरे सत्यसति वा पुमानेव जगत्त्रये ।
ज्ञोऽप्यज्ञोऽपि स्थितो राम नष्टे देहे न नश्यति ॥ ४३ ॥

यानीमानि विचित्राणि दुःखानि परिपश्यसि ।
तानि देहस्य सर्वाणि नाग्राह्यस्य चिदात्मनः ॥ ४४ ॥

इदानीमसंसार्यात्मानं दर्शयितुं चित्तमपि देहकोटावेव निक्षिप्य देहस्यैव
प्रियाप्रियस्पर्श इत्याह - यानीति ॥ ४४ ॥

मनोमार्गादतीतत्वाद्यासौ शून्यमिव स्थिता ।
चित्कथं नाम दुःखैर्वा सुखैर्वा परिगृह्यते ॥ ४५ ॥

परिगृह्यते व्याप्यते ॥ ४५ ॥

स्वास्पदात्मानमेवासौ विनष्टादेहपञ्जरात् ।
अभ्यस्तां वासनां यातः षट्पदः खमिवाम्बुजात् ॥ ४६ ॥

ननु नष्टे देहे जीवः क्व याति तत्राह - स्वास्पदात्मानमिति । असौ जीवो
विनष्टाद्देहपञ्जराद्विनष्टदेहाभिमानं परित्यज्य प्रथमं स्वास्पदं
स्वप्रतिष्ठाभूतं परमात्मानमेव याति । मनः प्राणे प्राणस्तेजसि तेजः
परस्यां देवतायाम् इति
श्रुतेर्मनःप्राणाद्युपाधिविलयाद्बिम्बभूतेश्वरैक्यं गच्छतीत्यर्थः । तर्हि
कुतो न मुच्यते तत्राह - अभ्यस्तामिति ।
भेदवासनामूलोच्छेदिज्ञानानुदयान्न मुच्यत इति भावः ॥ ४६ ॥

असच्चेदात्मतत्त्वं तदस्मिंस्ते देहपञ्जरे ।
नष्टे किं नाम नष्टं स्याद्राम केनानुशोचसि ॥ ४७ ॥

ननु यदि जीवः प्रतिबिम्बस्तर्हि
तस्योपाध्यतिरिक्तसत्त्वायोगादसत्त्वमुपाधिनाशेन नाशश्च स्यादिति
चेदस्त्वेवं तथापि न त्वं जीव इति तदसत्त्वे नाशे वा न तव शोको युक्त इत्याह

  • असदिति । तत्प्रसिद्धमात्मतत्त्वं जीवरूपम् ॥ ४७ ॥

प्। ४१५) २४३

सत्यं भावय तेन त्वं मा मोहमनुभावय ।
निरिच्छस्यात्मनो नेच्छा काचिदप्यनघाकृतेः ॥ ४८ ॥

वस्तुतस्तु प्रतिबिम्बो बिम्बमेव । बिम्बस्येवोपाध्यनुप्रविशभेदादिकल्पनया
प्रतिबिम्बत्वेन ग्रहणात् । जडोपाधिकार्यत्वे चिदाभासस्य जडत्वापत्तौ
संसारभानाभोगाच्च । तेन त्वं जीवं तदुपाधिपरित्यागेन सत्यं ब्रह्मैवेति
भावय सम्भावय मोहं भ्रान्तिप्राप्तमसन्नश्वरदेहादिभावं
भानुभावय । पूर्णब्रह्मभावतृप्तत्वादेव निरिच्छस्य ॥ ४८ ॥

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ४९ ॥

तर्हीच्छां विना तस्य कथं सर्गादिसिद्धिस्तत्राह - साक्षिभूते इति ॥ ४९ ॥

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
स्वयं जगन्ति दृश्यन्ते सन्मणाविव रश्मयः ॥ ५० ॥

अनिच्छमपि सम्बन्धो यथा दर्पणबिम्बयोः ।
तथैवेहात्मजगतोर्भेदाभेदौ व्यवस्थितौ ॥ ५१ ॥

सूर्यसन्निधिमात्रेण यथोदेति जगत्क्रिया ।
चित्सत्तामात्रकेणेदं जगन्निष्पद्यते तथा ॥ ५२ ॥

पिण्डग्रहो निवृत्तोऽस्या एवं राम जगत्स्थितेः ।
आकाशमेषा सम्पन्ना भवतामपि चेतसि ॥ ५३ ॥

पिण्डग्रहो मूर्ताकारः । एवं उक्तोपदेशप्रकारेण । भवतामिति रामातिरिक्तान्
श्रोतॄन् प्रत्युक्तिः ॥ ५३ ॥

सत्तामात्रेण दीपस्य यथालोकः स्वभावतः ।
चित्तत्त्वस्य स्वभावात्तु तथेयं जागती स्थितिः ॥ ५४ ॥

आलोकः प्रभा ॥ ५४ ॥

पूर्वं मनः समुदितं परमात्मतत्त्वा-
त्तेनाततं जगदिदं स्वविकल्पजालैः ।
शून्येन शून्यमपि तेन यथाम्बरेण
नीलत्वमुल्लसितचारुतराभिधानम् ॥ ५५ ॥

विस्तरोक्तं प्रकरणार्थं सङ्क्षिप्य दर्शयन्नुपसंहरति -
पूर्वमित्यादिना । यथा शून्येनाम्बरेणाकाशेन शून्यमसदपि नीलत्वं
सर्वजनानुभवेनोल्लसितमवाङ्मुखीकृतस्निग्धेन्द्रनीलमणिमयमहाकटाह्
अमिव नीलं नभो दृश्यते इत्युपमोत्प्रेक्षादियोग्यतया चारुतरमभिधानं
वाग्व्यवहारो यस्मिंस्तथाविधमाततं विस्तारितं तथा तेन मनसापीदं
जगदित्यर्थः ॥ ५५ ॥

सङ्कल्पसङ्क्षयवशाद्गलिते तु चित्ते
संसारमोहमिहिका गलिता भवन्ति ।
स्वच्छं विभाति शरदीव खमागतायां
चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥ ५६ ॥

अत एव निमित्तापाये नैमित्तिकापायान्निर्मलात्ममात्रपरिशेषसिद्धिरित्याह -
सङ्कल्पेति । मिहिकास्तुषाराः । शरदि समागतायां स्वमाकाशमिव स्वच्छं
चिन्मात्रमन्तः प्रत्यगात्मस्वभावे ॥ ५६ ॥

कर्मात्मकं प्रथममेव मनोऽभ्युदेति
सङ्कल्पतः कमलजप्रकृतीस्तदेत्य ।
नानाभिदं जगदिदं हि मुधा तनोति
वेतालदेहकलनामिव मुग्धबालः ॥ ५७ ॥

व्यष्टिभ्रमकल्पनायामिव समष्टिसृष्टिकल्पनायामपि
मनोधीनावेवाविर्भावतिरोभावाविति दर्शयति - कर्मात्मकमिति ।
सकलप्राणिकर्मसमष्ट्यात्मकं समष्टिक्रियाशक्तिप्रधानं च मनः
प्रथममुदेति आविर्भवति । ततस्तत्र चित्प्रतिबिम्बात्कमलजमन्वादिरूपाः
प्रकृतीः स्रष्टृशरीराण्येत्य स्वीकृत्य सङ्कल्पतो नानाभिधं जगन्मुधा
व्यर्थमेव तनोति सृजतीत्यर्थः ॥ ५७ ॥

असन्मयं सदिव पुरो विलक्ष्यते
पुनर्भवत्यथ परिलीयते पुनः ।
स्वयं मनश्चिति चितसंस्फुरद्वपु-
र्महार्णवे जलवलयावली यथा ॥ ५८ ॥

तस्माद्दृश्यं सर्वं व्यष्टिसम।टिभेदकल्पितमनोमात्रं
मनश्चासदज्ञानकार्यत्वादित्यसत एवाधिष्ठानसाक्षिसत्तास्फूर्तिबलेन
सत्तया स्फुरणमुत्पत्तिरिति रीत्या जगज्जन्मादिविवर्तोपादानत्वं
ब्रह्मणस्तटस्थलक्षणं तेन निष्प्रपञ्चसच्चिदानन्दैकरसं पूर्णं
ब्रह्मैव परमार्थभूतं लक्ष्यत इति सर्वसृष्टिश्रुतीनां तात्पर्यार्थं इति
सिद्धमित्याशयेनाह - असन्मयमिति । असदज्ञानं तन्मयं
तत्परिणामभूतं मनः स्वयमेव चिति स्वाधिष्ठानचैतन्ये चितेनौपचयेन
संस्फुरज्जगद्वपुः पुरः सदिव साक्षिणा विलोक्यते । यथा महार्णवे पूर्णे
तत्सत्तामात्रसिद्धापरिच्छिन्नजलवलयानां पङ्क्तिरित्यर्थः ।
तस्माद्दृश्यमात्रस्य वाचारम्भणस्यानृतत्वात्प्रत्यगेकरसं पूर्णं
ब्रह्मैवाविकृतं सदास्ते इति सिद्धम् ॥ ५८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते
मोक्षोपायेषूत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम
द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥

इति
श्रीमत्परमाहंसपरिव्राजकाचार्यश्रीमत्सर्वज्ञसरस्वतीपूज्यपादशिष्यश्री
मद्रामचन्द्रसरस्वतीपूज्यपादशिष्य-
श्रीमद्गङ्गाधरेन्द्रसरस्वतीपूज्यपादशिष्येण
श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वरूपनिरूपणं
नाम द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥

समाप्तमिदमुत्पत्तिप्रकरणम् ॥