१२१

एकविंशत्युत्तरशततमः सर्गः १२१

चण्डाल्युवाच ।

केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर ।
अवृष्टिदुःखमभवद्भीषणं भग्नमानवम् ॥ १ ॥

तच्छ्रुत्वा विस्मितस्यात्र लवणस्य गृहागमे ।
विनिर्णयो वसिष्ठोक्त्या रामस्याप्यत्र कीर्त्यते ॥ १ ॥

अवृष्टिप्रयुक्तं दुर्भिक्षदुःखम् । भग्ना मानवा येन तत् ॥ १ ॥

महतानेन दुःखेन सर्वे ते ग्रामका जनाः ।
विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः ॥ २ ॥

पञ्चत्वं मरणम् ॥ २ ॥

तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो ।
सौम्य शोचाम सद्बाष्पमाचान्तेक्षणधारया ॥ ३ ॥

तेन बन्धुमरणेन दुर्भिक्षेण च सद्बाष्पं सबाष्पं आचान्तयेव स्रवन्त्या
ईक्षणधारया अस्त्रधारया । सद्बाष्पाः इति पाठे वयमित्यस्य विशेषणम् ॥ ३ ॥

इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः ।
मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत् ॥ ४ ॥

भूयो विचारयामास तदाश्चर्यमनुत्तमम् ।
भूयो भूयोऽथ बभूवाश्चर्यवानिति ॥ ५ ॥

इतिशब्दः प्रश्नप्रकारबाहुल्यद्योतकः ॥ ५ ॥

तेषां समुचितैर्दानसन्मानैर्दुःखसङ्क्षयम् ।
कृत्वा करुणयाविष्टो इष्टलोकपरावरः ॥ ६ ॥

तेषां पक्वणजनानाम् [पक्वणेति पाठो मुद्रितपुस्तके सर्वत्र] ॥ ६ ॥

स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः ।
आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह ॥ ७ ॥

नियतेर्दैवस्य ॥ ७ ॥

प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः ।
कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः ॥ ८ ॥

प्रत्यक्षं दृष्ट इति शेषः ॥ ८ ॥

यथावस्तुतया तस्य तत उक्तः स तादृशः ।
संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः ॥ ९ ॥

स तादृशः प्रश्नो मया यथावस्तु वस्तुयाथार्थ्यं तद्भावेन उक्तः
समाहितः । दिवः अन्तरिक्षात् ॥ ९ ॥

इत्येवं राघवाविद्या महती भ्रमदायिनी ।
असत्सत्तां नयत्याशु सच्चासत्तं नयत्यलम् ॥ १० ॥

श्रीराम उवाच ।

कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः ।
भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि ॥ ११ ॥

सत्यात्वं जाग्रत्कालानुभवयोग्यताम् । भ्रमोदार इवैषोऽर्थ इति पाठे न मे
गलतीत्येतदुत्तरं संशयपदमध्याहार्यम् । संशयोभगवन्सोऽयम् इति
पाठे तु स्पष्टम् ॥ ११ ॥

श्रीवसिष्ठ उवाच ।

सर्वमेतदविद्यायां सम्भवत्येव राघव ।
घटेषु पटता दृष्टा स्वप्नसम्भ्रमितादिषु ॥ १२ ॥

सम्भवमेवोपपादयति - घटेष्वित्यादिना ॥ १२ ॥

दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः ।
चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी ॥ १३ ॥

श्रेष्ठा सुखनिद्राप्रयाता यामिनी रात्रिरिव ॥ १३ ॥

असम्भवच्च भवति स्वप्ने स्वमरणं यथा ।
असच्च सदिवाभाति [सदिवोदेतीति इति पाठः] स्वप्नेष्विव नभोगतिः ॥
१४ ॥

सुस्थितं सुष्ठु चलति भ्रमे भूपरिवर्तवत् ।
अचलं चलतामेति मदविक्षुब्धचित्तवत् ॥ १५ ॥

सुस्थितं स्थिरम् । भ्रमे भ्रमणे । चित्तशब्देन तद्दृश्यं लक्ष्यते ॥ १५ ॥

वासनावलितं चेतो यद्यथा भावयत्यलम् ।
तत्तथानुभवत्याशु न तदस्ति न वाप्यसत् ॥ १६ ॥

यदैवाभ्युदिता विद्या त्वहन्त्वादिमयी मुधा ।
तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता ॥ १७ ॥

अनन्तता असङ्ख्येयता ॥ १७ ॥

प्। ४१०) २४१

प्रतिभासवशादेव सर्वो विपरिवर्तते ।
क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः ॥ १८ ॥

विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् ।
बिभर्ति सिंहतामेडो वासनावशतः स्वयम् ॥ १९ ॥

आत्मानं स्वं एडकं मेषम् ॥ १९ ॥

विषमभ्रमदाविद्यामोहाहन्तादयह् समाः ।
सर्वे चित्तविपर्यासफलसम्पत्तिहेतुतः ॥ २० ॥

काकतालीयवच्चेतोवासनावशतः स्वतः ।
संवदन्ति महारम्भा व्यवहाराः परस्परम् ॥ २१ ॥

तथाच कल्पितत्वाविशेषेऽपि संवादविसंवादाभ्यामेव लोके
सत्यत्वमिथ्यात्वव्यवहारो न परमार्थविमर्शेनेत्याशयेनाह -
काकतालीयवदिति ॥ २१ ॥

वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् ।
प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम् ॥ २२ ॥

तर्हि लवणव्यवहारे कया रीत्या संवादस्तमाह - वृत्तमिति । पक्कणे
प्राक्कस्यचिद्यद्वृत्तं चाण्डालीविवाहादि तल्लवणस्य मनोगतं प्रतिभातमिति
संवादभ्रम इत्यर्थः ॥ २२ ॥

विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा ।
तथा क्र्तामप्यकृतामिति स्मरति निश्चितम् ॥ २३ ॥

अनुभूतविस्मृतिवदननुभूतस्मृतिरपि न दोषायेत्याशयेनाह -
विस्मरतीति । यद्यपि लवणस्य भ्रान्तावनुभव एव न
स्मृतिस्तथाप्यनुभवस्मृत्याद्यवान्तरवैलक्षण्यमपि कल्पनामात्रत्वान्न
विमर्शक्षममिति सूचनायेत्थमुक्तम् ॥ २३ ॥

तथा न भुक्तवानस्मि भुक्तवानिति चेतसि ।
स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते ॥ २४ ॥

विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः ।
प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा ॥ २५ ॥

प्रतिभाससंवादयोः पूर्वापरभावोऽपि कल्पनामात्रत्वान्न व्यवस्थित
इत्याशयेनाह - विन्ध्येति द्वाभ्याम् । तस्य लवणस्य ॥ २५ ॥

अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः ।
स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि ॥ २६ ॥

लावणी प्रतिभाऽरूढा विन्ध्यापुष्कसचेतसि ।
विन्ध्यपुष्कससंविद्वाऽरूढा पार्थिवचेतसि ॥ २७ ॥

प्रतिभाभेदकल्पनमपि तथा एकत्र जाताया एवोभयत्र
भानसम्भवादित्याशयेनाह - लावणीति । लवणस्येयं लावणी । उभयत्र
आरूढेति च्छेदः ॥ २७ ॥

यथा बहूनां सदृशं वचनं नाम मानसम् ।
तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च ॥ २८ ॥

प्रतिभातद्विषययोः संवादे दृष्टान्तमाह - यथेति । बहूनां कवीनां
मानसोत्प्रेक्षारचितकाव्यार्थप्रतिपादकं वचनं कदाचित्सदृशं
सच्छब्दतोऽर्थतश्च संवाद भवति तथा लवणपुल्कसभ्रान्तिरूपे स्वप्नेऽपि
भवतीत्यर्थः ॥ २८ ॥

व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः ।
सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥ २९ ॥

तर्हि किं सा व्यवहारगतिरत्यन्तासती नेत्याह - व्यवहारेति ।
अधिष्ठानचित्सत्तयैव सर्ववस्तुसत्ता न स्वातन्त्र्येणेत्याह - सत्तेति ॥ २९ ॥

संवेदनेतरा भाति वीचिर्वा जलसङ्गतिः [सङ्गत इति पाठः] ।
भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा ॥ ३० ॥

इवार्थे वाशब्दः । संवेदनसत्तैव भूतभव्यभविष्यत्प्रपञ्चगता सती
संवेदनादितरेव भाति जले वीचिरिव बीजे तरुरिव चेत्यर्थः ॥ ३० ॥

तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् ।
सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम् ॥ ३१ ॥

तस्याः संवेदनेतरसत्तायाः । सत्त्वदृशा संवेदनात्सत्त्वं तथा
असंवित्तेस्त्वसन्मयमिति । तत्सत्तासत्ते भ्रान्तिसंवेदनाधीने इत्यर्थः ॥ ३१ ॥

नाविद्या विद्यते किञ्चित्तैलादि सिकतास्विव ।
हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना ॥ ३२ ॥

भ्रान्तिगोचरस्य चाविद्यामात्रत्वादसत्त्वमेव फलितमित्याशयेनाह - नेति ।
पदं वस्तु स्यात्किं नेत्यर्थः ॥ ३२ ॥

अविद्ययात्मतत्त्वस्य सम्बन्धो नोपपद्यते ।
सम्बन्धः सदृशानां च यः स्फुटः स्वानुभूतितः ॥ ३३ ॥

वस्तुसम्बन्धाद्वस्तु कुतो न स्यात्तत्राह - अविद्ययेति ॥ ३३ ॥

जतुकाष्ठादिसम्बन्धो यः समासमयोगतः ।
नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् ॥ ३४ ॥

पार्थिवत्वद्रवत्वाभ्यां समासमयोगतः यो जतुकाष्ठादिसम्बन्धः असौ
असदृशयोरन्योन्ययोः सम्बन्धोदाहरणाय न योग्यो यतस्तदुभयतस्तस्या
अविद्याया एकस्या एव स्पन्दो विलासस्तन्मात्रमित्यर्थः ॥ ३४ ॥

परमार्थमयं सर्वं यथा तेनोपलादयः ।
चिता समभिचेत्यन्ते सम्बन्धवशतः समाः ॥ ३५ ॥

यदि तु चिन्मयमेवाभ्युपगम्येत तर्हि समैस्तैश्चितः सम्बन्ध उपपद्यत
इत्याह - परार्थमयमिति । यथा येन प्रकारेण परमार्थमयास्तेन हेतुना
चिता समा इति सम्बन्धवशतश्चेत्यन्ते चिता प्रकाश्यन्ते इति भवेदित्यर्थः ॥ ३५ ॥

यदा चिन्मात्रसन्मात्रमयाः सर्वे जगद्गताः ।
भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः ॥ ३६ ॥

तस्मिन्पक्षेऽपि दोषमाह - यदेति । तदा स्वानुभवस्थितेः
स्वप्रकाशताबलादेव विभान्ति न चिदन्तरसम्बन्धबलात् । दीपस्य
स्वप्रथायां दीपान्तरसम्बन्धापेक्षाभावादित्यर्थः ॥ ३६ ॥

न सम्भवति सम्बन्धो विषमाणां निरन्तरः ।
न परस्परसम्बन्धाद्विनानुभवनं मिथः ॥ ३७ ॥

उक्तमेव कल्पद्वयं श्लोकद्वयेन स्फुटं पुनराह - न सम्भवतीति ॥ ३७ ॥

सदृशे [सदंशे इति पाठः] सदृशं वस्तु
क्षणाद्गत्वैकतामलम् ।
रूपमास्फारयत्येकमेकत्वादेव नान्यथा ॥ ३८ ॥

द्वितीयकल्पे अणुमात्रस्याप्यचिदंशस्य
भेदकस्याभावादखण्डब्रह्मस्वप्रकाशतैव फलितेत्याशयेन
क्षणाद्गत्वैकतामलमित्युक्तम् ॥ ३८ ॥

प्। ४११) २४१

चिच्चेत्यमिलिता [चिच्चेत्यचितितारूपदृश्ययोदेति चेतन इति
पाठष्टीकानुगुणः] दृश्यरूपयोदेति चेतनः ।
(जडं [जडं जडेन इति श्लोकार्ध क्वचिन्न पठ्यते] जडेन
मिलितं घनं सम्पद्यते जडम् ।)
न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत् ॥ ३९ ॥

यो मूढानां चेतनस्य चिच्चेत्यचितितारूपेण दृश्यया त्रिपुट्या
उदितत्वानुभवः स न चिज्जडयोरभेदसम्बन्धमादायोपपादयितुं शक्य
इत्याशयेनाह - चिदिति ॥ ३९ ॥

चिज्जडौ चित्र एकत्र न तौ सम्मिलतः क्वचित् ।
चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम् ॥ ४० ॥

नापि भेदसम्बन्धमादायोपपादयितुं शक्यत इत्याह - चिज्जडाविति । एकत्र
एकस्मिंस्त्रिपुटीपटीचित्रे । नापि चिन्मयानां चिता सम्बन्ध इति
पक्षमादायाप्युपपादयितुं शक्यत इत्याह - चिन्मयत्वादिति ।
सादृश्याच्चिदालम्भसम्भवेऽपि भेदकाभावाद्वेद्यत्वासिद्धेर्न
दृश्यवेदनांशोपपत्तिरित्यर्थः ॥ ४० ॥

दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः ।
पदार्थो हि पदार्थेन परिणाम्यनुभूयते ॥ ४१ ॥

ननु जडत्वेन साम्येऽपि यथा दारुपाषाणमृदामेकगृहघटकत्वेन योगो
यथा वा।प्यत्वेन साजात्येऽपि जिह्वारसयोर्योगस्तथा चित्त्वेन साम्येऽपि दृशो
दृश्ययोगोऽस्तु तत्राह - दार्विति । दार्वादिजडपदार्थो
गृहादिपदार्थभावेन परिणामी अनुभूयते नतु चिदित्यर्थः ॥ ४१ ॥

जिह्वयैव रसास्वादः सजातीयामलोदयः ।
ऐक्यं च विद्धि सम्बन्धं नास्त्यसावसमानयोः ॥ ४२ ॥

सजातीयाभ्यां जिह्वारसाभ्याममलः स्फुट उदयो यस्य तथाविधो रसास्वादो
रासनचित्तवृत्तिरूपः परिणाम्यनुभूयते इत्यनुषङ्गः ।
किञ्चिदभिन्नयोरेकीभावो हि सम्बन्धः स च पक्षद्वयेऽपि दुर्घट इत्याह -
ऐक्यं चेति ॥ ४२ ॥

जडचेतनयोस्तेन नोपलादि जडं मतम् ।
चिदेवोपलकुड्यादिरूपिणीति मिता चिता ॥ ४३ ॥

जडचेतनयोरिति पूर्वान्वयि । तेन किं फलितं तदाह - तेनेति । इति मिता सती ॥ ४३

एकीभावं गता द्रष्टृदृश्यादि कुरुते भ्रमम् ।
काष्ठोपलाद्यशेषं हि परमार्थमयं यतः ॥ ४४ ॥

परमार्थतस्त्वेकीभावं गता ॥ ४४ ॥

तदात्मना तत्सम्बन्धं [तत्सम्बन्ध इति पाठः साधुः]
दृश्यत्वेनोपलभ्यते ।
सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः ॥ ४५ ॥

तर्हि परमार्थचिदात्मनां काष्ठपाषाणादीनां कथं गृहभावेन
सम्बन्धो दृश्यते तत्राह - तदात्मनेति । कल्पितरूपेणैव तेषां
सम्बन्धो दृश्यते न वास्तवचिद्रूपेणेत्यर्थः । यद्यस्माद्धेतोरनन्तं
ब्रह्मैव सर्वप्रकाराढ्यं सर्वमिव भाति ततो हेतोर्विश्वं सन्मात्रमिति
परेणान्वयः ॥ ४५ ॥

विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर ।
असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः ॥ ४६ ॥

असत्तात्यागो मिथ्यात्वाग्रहणं स एव चिच्चमत्कारः ॥ ४६ ॥

पूरितं चिच्चमत्कारो नच किञ्चन पूरितम् ।
सङ्कल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा ॥ ४७ ॥

न देशकालरोधाय तथा सर्गेष्विति स्थितिः ।
भेदबोधे हि सर्गत्वमहन्त्वादिभ्रमोदयः ॥ ४८ ॥

हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।
कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम् ॥ ४९ ॥

कटकादि हेम्नि भ्रमो मिथ्यैव । यतस्तत् हेमदेशादेव देशं
हेमभवनादेव भवं सत्तं च लभते इति शेषः ॥ ४९ ॥

दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा ।
कटकादिमहाभेदमेकं हेम यथामलम् ॥ ५० ॥

कटकादिमहाभेदं हेम यथा भेददृग्दर्शनपरित्यागे एकं हेमैव
तद्वदित्यर्थः ॥ ५० ॥

बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् ।
सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी ॥ ५१ ॥

बोधव्यक्तेरेकत्वात् सदेव विश्वं असन्नयति असत्त्वमापदयति । असद्विश्वं वा
सन्नयति सदैकरस्यं प्रापयति ॥ ५१ ॥

जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका ।
मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः ॥ ५२ ॥

सम्बन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम् ॥ ५३ ॥

कुम्भाद्यनुस्यूतं निष्कृष्टमृत्स्वरूपमिव द्रष्ट्रादित्रिपुट्यनुस्यूतं
तत्साक्षिचिन्मात्रं त्रिपुटीनिरासेन दर्शयति - सम्बन्धे इति । तत्प्राग्दर्शितं
यत्परं ब्रह्म तदिदं निष्कृष्टप्रत्यक्स्वरूपमेवेत्यखण्डो वाक्यार्थो
दर्शितो द्रष्टव्यः ॥ ५३ ॥

देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥ ५४ ॥

तस्य त्रिपुटीशून्यता कदा प्रसिद्धा तत्राह - देशादिति । प्राग्व्याख्यातम् ॥
५४ ॥

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।
अचेतनं चाजडं च तन्मयो भव सर्वदा ॥ ५५ ॥

अचेतनं चित्तवृत्तिरहितम् । तन्मयस्तदेकरसः ॥ ५५ ॥

जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा ॥ ५६ ॥

शिलाया हृदयं घनं चिदेकघनमिति यावत् । अक्षुब्धः समाधिस्थः
क्षुब्धो व्यवहरन् ॥ ५६ ॥

कस्यचित्किञ्चनापीह नोदेति न विलीयते ।
अक्षुब्धो वाथवा क्षुब्धः स्वस्थस्तिष्ठ यथासुखम् ॥ ५७ ॥

ननु क्षुब्धस्य कथं तन्मयता तिष्ठेत्तत्राह - कस्यचिदिति ।
व्यवहारदशायामपि परमार्थदृष्टिमेवानुवर्तस्वेति भावः ॥ ५७ ॥

नाभिवाञ्छति नो द्वेष्टि देहे किञ्चित्क्वचित्पुमान् ।
स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत ॥ ५८ ॥

सामान्येनोक्तं विशिष्याह - नेति । पुमान् आत्मा ॥ ५८ ॥

भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा ।
चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः ॥ ५९ ॥

यथा अनागते व्यवहार्ये चित्तस्यानासङ्गः स्वतःसिद्धस्तथा वर्तमानेऽपि
मिथ्यात्वदृष्ट्या सम्पादनीय इत्याशयेनाह - भविष्यदिति ॥ ५९ ॥

प्। ४१२) २४२

यथा देशान्तरनरो यथा काष्ठं यथोपलः ।
तथैव पश्य चित्तं त्वमचित्तैव यदात्मना ॥ ६० ॥

यथा दूरदेशस्थो नरः सन्नप्यसत्समः । काष्ठोपलं तु
सन्निहितमप्यचेतनत्वादेवासङ्गाभिमानाद्यक्षमं तथैव चित्तं
पश्येत्यर्थः । यद्यस्मादात्मना आत्मस्वरूपेण विविच्य दर्शने अचित्ततैव
विदुषामनुभवसिद्धेत्यर्थः । छान्दसस्तलोपः ॥ ६० ॥

यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा ।
स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः ॥ ६१ ॥

तदेव स्पष्टमाह - यथेति ॥ ६१ ॥

प्रेक्ष्यमाणं न यत्किञ्चित्तेन यत्क्रियते क्वचित् ।
कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत् ॥ ६२ ॥

चित्तस्यावस्तुत्वे चित्तकार्याणां सुतरामसत्त्वमित्याह - प्रेक्ष्यमाणमिति ॥
६२ ॥

अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते ।
पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते ॥ ६३ ॥

शुद्धस्यात्मनः अशुद्धचित्तानुवृत्तिरनुचितात्वादपि हेयेत्याशयेनाह -
अत्यन्तेति । पर्यन्ताः प्रत्यन्तदेशास्तद्वासिनः । तस्मान्न
जननमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानि इति श्रुत्या
म्लेच्छानुवृत्तेर्निषिद्धत्वादिति भावः ॥ ६३ ॥

निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् ।
स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः ॥ ६४ ॥

पङ्केन मृदा कृतो निर्मितः प्रतिमादिरिव ॥ ६४ ॥

चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा ।
भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः ॥ ६५ ॥

नास्त्येवेति मुख्यं कल्पः । भूतं मृतमेव सत् अद्य वेत्ति मिथ्या पश्यतीति
गौणः कल्पः ॥ ६५ ॥

प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः ।
स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे ॥ ६६ ॥

प्रेक्षायां आत्मप्रेक्षायां चित्तप्रेक्षायां च ॥ ६६ ॥

असता चित्तयक्षेण ये मुधा स्ववशे कृताः ।
तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः ॥ ६७ ॥

अशनिर्वैद्युताग्निः ॥ ६७ ॥

चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ।
भव भावनया मुक्तो युक्त्या परमयान्वितः ॥ ६८ ॥

युक्त्या मननेन भावनया ध्यानेन ॥ ६८ ॥

असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः ।
व्योममारणकर्मैकनीतकालान्धिगस्तु तान् ॥ ६९ ॥

मूढनिन्दात्राधिकारिप्रोत्साहनाय ॥ ६९ ॥

व्यपगलितमना महानुभावो
भव भवपारगतो भवामलात्मा ।
सुचिरमपि विचारितं न लब्धं
मलममलात्मनि मानसात्म किञ्चित् ॥ ७० ॥

महानुभावस्तत्त्वावबोधकुशलः सन् प्रथमं व्यपगलितमना भव
ततस्तत्त्वबोधेनामलात्मा सन् भवपारगतो भव । उक्तार्थं द्रढयितुं
वसिष्ठो विचारविशुद्धं स्वानुभवमाह - सुचिरमिति । मया सुचिरमपि
मनस्तत्त्वलाभाय विचारितं तथाप्यमलात्मनि मानसात्मकं मलं किञ्चिदपि
न लब्धं तस्मान्नास्त्येवेति मद्वाक्यादपि स्थिरो भवेत्यर्थः ॥ ७० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे
चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ॥ १२१ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे
चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ॥ १२१ ॥