विंशत्युत्तरशततमः सर्गः १२०
श्रीवसिष्ठ उवाच ।
हेमोर्मिकादिवन्मिथ्या कथितायाः क्षयोन्मुखम् ।
त्वं महत्त्वमविद्यायाः शृणु राघव कीदृशम् ॥ १ ॥
लवणेन पुनर्गत्वा प्राग्दृष्टं विन्ध्यपक्कणम् ।
चण्डालीश्वश्रुसंवादः कृतोऽत्र प्रतिपाद्यते ॥ १ ॥
हेमोर्मिकानिदर्शनेन वर्णितं विश्वस्य ब्रह्मविवर्तत्वं तत्परिक्षितवतो
लवणस्यानुभवसिद्धमिति त्वयापि विमृश्य द्रष्टव्यमित्याशयेनाह -
हेमोर्मिकेति । मिथ्याशब्दोत्तरमितिशब्दोऽध्याहार्यः । विमर्शमात्रेण
क्षयोन्मुखं महत्त्वमाशर्यभूतत्वम् ॥ १ ॥
लवणोऽसौ महीपालस्तथा दृष्ट्वा तदा भ्रमम् ।
द्वितीये दिवसे गन्तुं प्रवृत्तस्तां महाटवीम् ॥ २ ॥
असौ प्राग्वर्णितो लवणः । तामैन्द्रजालिकोपदर्शिताम् ॥ २ ॥
यत्र दृष्टं मया दुःखमरण्यानीं स्मरामि ताम् ।
चित्तादर्शगतां विन्ध्यात्कदाचिल्लभ्यते हि सा ॥ ३ ॥
चित्तमेवादर्शो दर्पणस्तद्गताम् । विन्ध्यादिति ल्यब्लोपे कर्मण्यधिकरणे वा
पञ्चमी । विन्ध्यं प्राप्य विन्ध्ये गत्वा वेत्यर्थः ॥ ३ ॥
इति निश्चित्य सचिवैः प्रययौ दक्षिणापथम् ।
पुनर्दिग्विजयायेव प्राप्य विन्ध्यमहीधरम् ॥ ४ ॥
पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् ।
बभ्राम कौतुकात्सर्वां व्योमवीथीमिवोष्णगुः ॥ ५ ॥
उष्णगुः सूर्यः ॥ ५ ॥
अथैकस्मिन्प्रदेशे तां चिन्तामिव पुरोगताम् ।
ददर्शोग्रामरण्यानीं परलोकमहीमिव ॥ ६ ॥
अरण्यानीं महारण्यम् । अरण्यान्महत्त्वे आनुक् ॥ ६ ॥
स तत्र विहरंस्तांस्तान्वृत्तान्तान्सकलानथ ।
दृष्टवान्पृष्टवांश्चैव ज्ञातवांश्च विसिस्मिये ॥ ७ ॥
तांस्तान् प्रागनुभूतानित्यर्थः ॥ ७ ॥
तान्परिज्ञातवांश्चासीद्व्याधान्पुल्कसजान्पुनः ।
विस्मयाकुलया बुद्ध्या भूयो बभ्राम सम्भ्रमी ॥ ८ ॥
सम्भ्रमी कुतूहली ॥ ८ ॥
अथ प्राप्य महाटव्यां पर्यन्ते धूमधूसरे ।
तमेव ग्रामकं यस्मिन्सोऽभवत्पुष्टपुल्कसः ॥ ९ ॥
तत्रापश्यज्जनांस्तांस्तांस्ताः स्त्रियस्ताः कुटीरकाः ।
नानाकाराञ्जनाधारांस्तांस्तांश्च वसुधातटान् ॥ १० ॥
कुटीरकाः अल्पाः कुटीः । कुटीशमीशुण्डाभ्यो रः स्वार्थे कन् ॥ १० ॥
तांश्चाकाण्डपरिभ्रष्टांस्तान्वृक्षांस्तांस्त्वनुव्रजान् ।
तांस्तथैव समुद्देशांस्तान्व्याधानेकलान्सुतान् ॥ ११ ॥
अकाण्डे दुर्भिक्षे परिभ्रष्टान् दुर्दशाक्रान्तान् । अनुव्रजान् स्वानुगान् । एकलान्
बन्धुवर्जितान् ॥ ११ ॥
अन्यासु वृद्धासु सबाष्पनेत्रा-
स्वार्तार्तियुक्तासु च वर्णयन्ती ।
अकालकान्तारविशीर्णबन्धु-
दुःखान्यसङ्ख्यानि सखीषु वृद्धा ॥ १२ ॥
तत्रत्यं वृत्तान्तं वर्णयति - अन्यास्वित्यादिना । वृद्धा अस्य श्वश्रूः ।
आर्तानां स्वबन्धूनामार्तिभिर्युक्तास्वन्यासु वृद्धासु सखीषु अकाले दुष्काले
कान्तारेषु विशीर्णानां स्वबन्धूनां दुःखानि वर्णयन्ती सती इदं
वक्ष्यमाणप्रकारं परिरोदितीति परेणान्वयः ॥ १२ ॥
वृद्धा प्रवृद्धोज्ज्वलनेत्रबाष्पा
कष्टं [कन्थावृता इति पाठः] बताशुष्ककुचा कृशाङ्गी ।
अवग्रहोग्राशनिदग्धदेशे
तत्रार्तनादा परिरोदितीदम् ॥ १३ ॥
तामेव विशिनष्टि - वृद्धेति । इतरवृद्धापेक्षया प्रकर्षेण
वृद्धान्युज्ज्वलानि नेत्रबाष्पाणि यस्याः ।
अवग्रहोऽनावृष्टिस्तल्लक्षणेनोग्राशनिना दग्धप्राये देशे ॥ १३ ॥
हा पुत्रि पुत्रावृतसर्वगात्रे
दिनत्रयाभोजनजर्जराङ्गि ।
कृत्वासिना वर्मणि जीर्णदेहाः
कथं क्व मुक्ता भवतासवस्ते ॥ १४ ॥
रोदनप्रकारमेवाह - हा पुत्रीत्यादिना । वर्मणि स्वकोशे असिनेव प्रवेशं
कृत्वा भवता स्थितेन राज्ञा अत एव प्राणप्रियास्ते यूयं दुर्भिक्षजीर्णदेहाः
कथं मुक्तास्त्यक्ताः क्व वा मुक्ता इति पुत्रैः सह बहुत्वोक्तिः । अथवा
पूर्ववदसिना भवता राज्ञा जीर्णदेहा जर्जरशरीरा असवः स्वप्राणाः कथं
मुक्ताः क्व मुक्ता इत्यर्थः । निर्विसर्गपाठे तु जीर्णदेहा त्वं कथं मुक्ता
असवश्च ते कथं मुक्ता इति योज्यम् ॥ १४ ॥
तालीदलालम्बनमम्बुदाद्रौ
दन्तान्तरस्थारुणसत्फलस्य ।
स्मरामि गुञ्जाफलदाम भर्तुः
पुरस्थमुद्रामरहासिनस्ते ॥ १५ ॥
इदानीं राज्ञः कुटुम्बभरणाय कृतं साहसकृत्यं स्मरन्त्याह -
तालीति । अम्बुदवदुन्नते अद्रौ तालवृक्षमारुह्य फलं गृहीत्वा अवतरणकाले
करद्वयस्यापि व्यापृतत्वात्फलधारणाशक्तेर्दन्तान्तरस्थं
दन्तावष्टब्धं अरुणं सत् परिपक्वं फलं यस्य तथाविधस्य अत एव
पुरस्थमुद्रया तत्कालोपस्थितवेषेण अमरं मरणवर्जितं हनूमन्तं
हासिनः हसितुं शीलस्य ते तव दैवात्स्खलने तालीदलस्य
सन्निहिततालान्तरशाखाया आलम्बनं साहसम् । तलालम्बनम् इति पाठे तले
मूले आलम्बनमवतरणं साहसं स्मरामीत्यर्थः ॥ १५ ॥
प्। ४०८) २४०
कदम्बजम्बीरलवङ्गगुञ्जा-
कुञ्जान्तरतस्तु चरत्तरक्षोः ।
पश्यामि पुत्रस्य कदा नु भूयो
भयङ्कराण्युड्यतिवल्गितानि ॥ १६ ॥
कदम्बजम्बीरवृक्षाणां लवङ्गगुञ्जावल्लीनां च
कुञ्जस्यान्तरन्तःप्रदेशे निलीय चरतस्तरक्षोर्व्याघ्रजातिमेदस्य भयङ्कराणि
भयजनकानि पुत्रस्य पुत्रात्प्रियतमस्य जामातुः उड्यतिना उड्ड्यनेन वल्गितानि
तद्वधार्थं गमनानि ॥ १६ ॥
न तानि कामस्य विलासिनीह
मुखेऽपि शोभालसितानि सन्ति ।
तमालनीले चिबुकैकदेशे
सुतस्य चान्यास्यगतामिषस्य ॥ १७ ॥
इदानीं स्वपुत्र्यां सकामस्य तस्य मुखशोभां स्मृत्वा वर्णयति - न
तानीति । पानादिकाले अन्यस्याः स्वप्रेयस्या आस्यात् गतं प्रीत्या प्राप्तमामिषं
मांसशकलं येन तथाविधस्य सुतस्य अनुकम्प्यस्य ते तच्चर्वणकाले
तमालसदृशश्मश्रुभिर्नीले चिबुकैकदेशे यानि शोभायुक्तानि लसितानि
विलासाः सन्ति तानि इह जगति विलासिनि कामस्य मन्मथस्य मुखे सम्पूर्णेऽपि न
सन्तीत्यर्थः ॥ १७ ॥
सुतापनीता सह तेन भर्त्रा
यमेन यस्या यमुना समाना ।
तमालवल्लीसहपुष्पगुच्छा
समीरणेनेव वने वरेण ॥ १८ ॥
इदानीं भर्त्रा सह पुत्र्या मरणं सम्भावयन्त्याह - सुतेति । यस्याः
यमुना वर्णेन समाना सा मम सुता तेन भर्त्रा सह यमेन अपनीता
नूनमित्यर्थः । वरेण बलीयसा ॥ १८ ॥
हा पुत्रि गुञ्जाफलदामहारे
समुन्नताभोगपयोधराङ्गि ।
वातोल्लसत्कज्जललोलवर्णे
पर्णाम्बरे बादरजम्बुदन्ते ॥ १९ ॥
पर्णान्येव अम्बरादिवस्त्रवत्परिधानादीनि यस्याः । बादराणि बदरबीजानि
जम्बूनि तद्बीजानीव वा दन्ता यस्याः ॥ १९ ॥
हा राजपुत्रेन्दुसमानकान्त
सन्त्यज्य शुद्धान्तविलासिनीस्ताः ।
रतिं प्रयातोऽसि ममात्मजायां
न सापि ते सुस्थिरतामुपेता ॥ २० ॥
संसारनद्याः सुतरङ्गभङ्गैः
क्रियाविलासैर्विहितोपहासैः ।
किं नाम तुच्छं न कृतं नृपेशो
यद्योजितः पुष्कसकन्यकायाम् ॥ २१ ॥
विहितः उचित उपहासो येभ्यस्तथाविधैः क्रियाविलासैः कर्मपरिपाकैः ।
सुतरङ्गभङ्गैरिति व्यस्तरूपकम् । किं नाम तुच्छं निन्द्यं फलं न
कृतम् । तदेवाह - नृपेश इति ॥ २१ ॥
सा त्रस्तसारङ्गसमाननेत्रा
स दृप्तशार्दूलसमानवीर्यः ।
उभौ गतावेकपदेन नाश-
माशा सहार्थेन यथा महेहा ॥ २२ ॥
एकपदेन युगपत् यथा महेहा बहुमनोरथयुक्ता आशा अर्थेन धनेन सह
नाशं गच्छति भाग्यविपर्यये तद्वदित्यर्थः ॥ २२ ॥
मृतेश्वराश्वस्तनिजात्मजास्मि
दुर्देशयातास्मि च दुर्गताऽस्मि ।
दुर्जातिजातास्मि महापदेऽस्मि
साक्षाद्भयं भोऽस्मि महापदस्मि ॥ २३ ॥
इदानीं स्वात्मानमनुशोचन्त्याह - मृतेश्वरेति । आशु अस्तनिजात्मजा
मृतस्वपुत्री । दुर्गता दरिद्रास्मि । महति अपदे विषमस्थाने अस्मि । किञ्च भो
सख्यः साक्षाद्भयमेवाहमस्मि ।
महापदेवाहमस्मीत्यतिशयद्योतनायाभेदारोपः ॥ २३ ॥
नीचावमानप्रभवस्य मन्योः
क्षुधाप्रपन्नस्य कलत्रकस्य ।
शोकस्य वृत्तावनिवार्यवृत्ते-
र्नार्यस्म्यनेकायतनं विनाथा ॥ २४ ॥
विनाथा अहं नीचावमानप्रभवस्य मन्योः कोपस्य क्षुधया प्रपन्नस्य
कलत्रकस्य पोष्यवर्गस्य वृत्तौ आहारविषये अनिवार्यवृत्तेः शोकस्य
चेत्याद्यनेकेषामायतनं गृहं नारीरूपं धात्रा निर्मितास्मीति शेषः ॥ २४ ॥
दैवोपतप्तस्य विबान्धवस्य
मूढस्य रूढस्य महाधिभूमौ ।
यत्प्राणनं यन्मरणं महाप-
द्यस्यात्मनिर्जीवितमुत्तमं तत् ॥ २५ ॥
इदानीं स्वसदृशं जनमन्यमपि निन्दन्त्याह - दैवेति । महत्यां
आधिर्मानसदुःखं तल्लक्षणायां भूमौ रूढस्य प्रादुर्भूतस्य
ईदृशस्य यस्य जनस्य यत्प्राणनं जीवनं यन्मरणं या च महापत् तत्
ततः आत्मनिर्जीवितं स्वतो जीवशून्यं पाषाणादि उत्तमं श्रेष्ठमित्यर्थः ॥
२५ ॥
जनैर्विहीनस्य कुदेशवृत्ते-
र्दुःखान्यनन्तानि समुल्लसन्ति ।
सहस्रशाखारससङ्कुलानि
तृणानि वर्षास्विव पर्वतस्य ॥ २६ ॥
जनैः स्वजनैर्विहीनस्य कुदेशे वृत्तिः स्थितिर्यस्य तथाविधस्य पुंसः ।
विशेषणे पुंस्पर्वतसाधारणे ॥ २६ ॥
एवं लपन्तीं स्वकलत्रवृद्धां
दासीभिराश्वास्य नृपः स्त्रियं ताम् ।
पप्रच्छ किंवृत्तमिहैव का च
का ते सुता कश्च सुतस्तवेति ॥ २७ ॥
लपन्तीं विलपन्तीम् । स्वकलत्रवृद्धां पुल्कसीभूतस्वपोष्येषु वृद्धां
श्वश्रूं दासीभिराश्वास्येति साक्षादसम्भाष्यत्वद्योतनाय ॥ २७ ॥
प्। ४०९) २४०
उवाच सा बाष्पविलोचनाथ
ग्रामस्त्वयं पुष्पसघोषनामा ।
इहाभवत्पुष्कसकः पतिर्मे
बभूव तस्येन्दुसमा सुतैका ॥ २८ ॥
सा दैवयोगात्पतिमिन्द्रतुल्य-
मिहागतं दैववशेन भूपम् ।
अयं विशीर्णं मधुकुम्भमाप
वने वराकी करमी यथैका ॥ २९ ॥
दैवयोगाद्भाग्यवशात् । दैववशेन दुरदृष्टवशेन अयं शुभावहं
विधिं प्राप्येति शेषः । विशीर्णं विशीर्णमुखपिधानं मधुकुम्भं
करभी गर्दभी उष्ट्री वा आप प्राप्तवती ॥ २९ ॥
सा तेन सार्धं सुचिरं सुखानि
भुक्त्वा प्रसूता तनयाः सुतांश्च ।
वृद्धिं गता काननकोटरेऽस्मिम्-
स्तुम्बीलता पादपसंश्रितेव ॥ ३० ॥
तुम्बीलता अलाबुवल्ली ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे
चण्डालीशोचने नाम विंशत्युत्तरशततमः सर्गः ॥ १२० ॥
इति श्रीवासिष्ठमहारामायणतातर्यप्रकाशे उत्पत्तिप्रकरणे चण्डालीशोचनं
नाम विंशत्युत्तरशततमः सर्गः ॥ १२० ॥