११९

एकोनविंशोत्तरशततमः सर्गः ११९

श्रीवसिष्ठ उवाच ।

ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् ।
विरौति नाहं हेमेति तथात्माहन्तयानया ॥ १ ॥

निरस्य मायिकं रूपं सन्मात्रैकत्वदर्शनम् ।
भूमिकासु स्थिरीकर्तुं युक्तिरत्र प्रपञ्च्यते ॥ १ ॥

तदर्थं परमात्मनः सहजस्वपूर्णानन्दस्वप्रकाशभावविस्मरणे
मायिकजीवजगद्भावारोपेण नानाविधदुःखशोकादिप्राप्तौ च
दृष्टान्तमाह - ऊर्मिकेति । यथा हेम स्वतः सर्वतः कालत्रयेऽपि
स्वर्णैकस्वभावं परमार्थतो लेशतोऽप्यस्वर्णशून्यमपि स्वात्मन्येव
कल्पितया ऊर्मिकासंविदा अङ्गुलीयकभ्रान्त्या स्वां हेमतां हेमैकरसतां
विस्मृत्य अदृष्ट्वा बाह्यमलसम्पर्कप्रयुक्तकांस्यादिभावकल्पनया
विरौति रोदिति । अचेतनस्य
रोदनायोगात्कांस्योर्मिकादिशब्दाभिलापस्तत्स्वामिरोदनं वा
तदीयरोदनत्वेनोपचर्यते । तथा आत्माप्यहन्तया रोदितीत्यर्थः ॥ १ ॥

श्रीराम उवाच ।

ऊर्मिकासंविदुदयः कथं हेम्नो यथा मुने ।
अहन्ता चात्मन इति यथावद्ब्रूहि मे प्रभो ॥ २ ॥

यथाशब्दोऽपि कथमित्यर्थे उत्तरान्वयी । तथाच आत्मनः अहन्ता च कथं इति
दृष्टान्तं दार्ष्टान्तिकं च यथावदुपपत्तिभिर्ब्रूहि । व्यक्तं
वर्णयेत्यर्थः ॥ २ ॥

श्रीवसिष्ठ उवाच ।

सत एवागमापायौ प्रष्टव्यौ नासतः सता ।
अहन्त्वमूर्मिकात्वं च सती तु न कदाचन ॥ ३ ॥

आगमापायावुत्पत्तिनाशौ स्वतःसिद्धेन द्रष्ट्रा द्रष्टुं शक्यौ
अतस्तादृशावेव प्रष्टव्यौ त्वयेत्यर्थः । अयं भावः । षट्सु भावविकारेषु
मध्यमाश्चत्वारः सत एव प्रसिद्धाः नासतस्तद्वदुत्पत्तिनाशावपि सत एव
वाच्यौ । नह्यसदुत्पत्तिक्रियां कर्तुं नाशक्रियाधारीभवितुं वा शक्नोति ।
यद्यसदुत्पद्येत नश्येद्वा तर्ह्यसद्धर्मावुत्पत्तिनाशावप्यसन्तौ स्याताम् ।
नहि तौ तदा द्रष्टुं शक्यौ । सतोऽसद्भिः सम्बन्धाभावात् । तस्मात्सदेव हेम
ब्रह्म वा ऊर्मिकाहन्तादिवेषेणोत्पद्यत इति ॥ ३ ॥

प्। ४०५) २३८

हेम [यदि हेम ग्राह्यं तर्हि हेम्नि हेमनिमित्तमूर्मिकां त्वं
गृहाणेति मध्यस्थेन उदितो भवत्यर्थात्क्रेता तत्तदा
सोर्मिकेणार्थाद्विक्रेत्रा यद्दीयते तदस्ति सत्यमित्यन्वयः । उदिते यदीति
सप्तम्यन्तपाठेऽर्थात्क्रेतरि मध्यस्थेन इति उदिते सति इत्याद्यन्वयः ।
हेम्नीति निमित्तात्कर्मयोगे इति सप्तमी] हेम्न्यूर्मिकां च त्वं
गृहाणेत्युदितो यदि ।
यद्दीयते सोर्मिकेण तत्तदस्ति न संशयः ॥ ४ ॥

हानोपादानादिक्रियासम्बन्धोऽपि सत एव दृष्टो नासत इत्याह - हेमेति ।
गृहाण मूल्येन क्रीणीहि इति मूल्ये दापिते सोर्मिकेण विक्रेत्रा यत् हेम
बहुमूल्येन दीयते तदस्ति सत्यम् । तथाच ब्रह्मैव सर्वव्यवहारगोचरो
नाणुमात्रमपि तदन्यद्व्यवहारेऽपि निरूपयितुं शक्यमिति भावः ॥ ४ ॥

श्रीराम उवाच ।

एवं चेत्तत्प्रभो किं स्यादूर्मिकात्वं तु कीदृशम् ।
अनयैवार्थनिश्चित्या ज्ञास्यामि ब्रह्मणो वपुः ॥ ५ ॥

यदि हेमैव क्रयादिसर्वव्यवहारगोचरस्तर्हि तदनुभातस्योर्मिकाद्याकारस्य
हेमस्वरूपातिरिक्तं किं स्वरूपं स्यात्कीदृशं किम्प्रकारं वा
यदूर्मिकादिशब्दैरभिलप्यत इति प्रश्नार्थः ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

रूपं राघव नीरूपमसतश्चेन्निरूप्यते ।
तद्बन्ध्यातनयाकारगुणांस्त्वं समुदाहर ॥ ६ ॥

अविचारितरमणीयं तत् विचारिते तु न किञ्चिदित्याशयेनोत्तरमाह - रूपमिति ॥ ६

ऊर्मिकात्वं मुधा भ्रान्तिर्मायैषा सत्स्वरूपिणी ।
रूपं तदेतदेवास्याः प्रेक्षिता यन्न दृश्यते ॥ ७ ॥

यद्यवश्यं रूपं वाच्यं तर्ह्यविचारकालमात्रस्थितिकत्वं मायाया
रूपमित्याशयेनाह - रूपमिति । प्रेक्षिता विचार्य दृष्टा सती न दृश्यते
तुच्छीभवतीति यत्तत्प्रसिद्धमेतदेवास्या रूपमित्यर्थः ॥ ७ ॥

मृगतृष्णाम्भसि द्वीन्दावहन्तारूपकादिषु ।
एतावदेव रूपं यत्प्रेक्ष्यमाणं न लभ्यते ॥ ८ ॥

तथा प्रसिद्धिमेवान्यत्रापि मायिके दर्शयति - मृगतृष्णेत्यादिना ॥ ८ ॥

यः शुक्तौ रजताकारं प्रेक्षते रजतस्य सः ।
न सम्प्राप्नोत्यणुमपि कणं क्षणमपि क्वचित् ॥ ९ ॥

अपर्यालोकनेनैव सदिवासद्विराजते ।
यथा शुक्तौ रजतता जलं मरुमरीचिषु ॥ १० ॥

यन्नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते ।
अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्विवाम्बुधीः ॥ ११ ॥

अप्रेक्ष्यमाणं नास्तित्वं स्फुरति रजतादिभावेनेति शेषः ॥ ११ ॥

असदेव च सत्कार्यकरं भवति च स्थिरम् ।
बालानां मरणायैव वेतालभ्रान्तिसम्भ्रमः ॥ १२ ॥

नन्वसतः सत्कार्यकारिता स्थिरता च क्व दृष्टा तत्राह - बालानामिति ।
भ्रान्तिप्रयुक्तः सम्भ्रमो भयरोदनादिः ॥ १२ ॥

हेमतां वर्जयित्वैकां विद्यते हेम्नि नेतरत् ।
ऊर्मिकाकटकादित्वं तैलादिसिकतास्विव ॥ १३ ॥

नेहास्ति सत्यं नो मिथ्या यद्यथा प्रतिभाव्यते [भासत इति
पाठः] ।
तत्तथार्थक्रियाकारि बालयक्षविकारवत् ॥ १४ ॥

न वस्तुसत्ता अर्थक्रियाव्यवस्थाहेतुः किन्त्वारोपे अधिष्ठानसत्ताप्रतिभास
एवेत्याशयेनाह - नेहेति । सत्यमेवार्थक्रियाकारि मिथ्याभूतमेव वा
अर्थक्रियाकारीति नियमो नास्तीत्यर्थः ॥ १४ ॥

सद्वा भवत्वसद्वापि सुरूढं हृदये हि यत् ।
तत्तदर्थक्रियाकारि विषस्येवामृतक्रिया ॥ १५ ॥

इदं च प्राग्बहुश उक्तमेवेति स्मारयति - सद्वेति ॥ १५ ॥

परमैषैव सा विद्या मायैषा संसृतिर्ह्यसौ ।
असतो निष्प्रतिष्ठस्य यदहन्त्वस्य भावनम् ॥ १६ ॥

दृष्टान्तं व्युत्पाद्य दार्ष्टान्तिकेऽपि तत्साम्यमाह - परमेषैवेत्यादिना ॥
१६ ॥

हेम्न्यस्ति नोर्मिकादित्वमहन्ताद्यस्ति नात्मनि ।
अहन्ताभाववस्त्वेमं स्वच्छे शान्ते सिते परे ॥ १७ ॥

अभाववस्त्वसदेव वस्तु न परमार्थवस्त्वित्यर्थः ॥ १७ ॥

न सनातनता काचिन्न च काचिद्विरिञ्चिता ।
न च ब्रह्माण्डता काचिन्न च काचित्सुतादिता ॥ १८ ॥

अवस्तुत्वं ब्रह्मातिरिक्तस्य सर्वस्य अथात आदेशो नेति नेति स एष नेति नेत्यात्मा
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् नेह नानास्ति किञ्चन यत्र
नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा
इत्याद्यपवादकश्रुतिसहस्रसिद्धमित्याशयेनाह - न सनातनतेत्यादिना ।
सर्वकालसम्बन्धः सनातनता सा च कालातीते नास्ति । सुता ब्रह्मसूनवः
प्रजापतयस्तदादिता ॥ १८ ॥

न लोकान्तरता काचिन्न च स्वर्गादिता क्वचित् ।
न मेरुता नासुरता न मनस्त्वं न देहता ॥ १९ ॥

न महाभूतता काचिन्न च कारणता क्वचित् ।
न च त्रिकालकलना न भावाभाववस्तुता ॥ २० ॥

त्वत्ताहन्तात्मता तत्ता सत्ताऽसत्ता न काचन ।
न क्वचिद्भेदकलना न भावो न च रञ्जना ॥ २१ ॥

भावो रागस्तत्कार्यं रञ्जना ॥ २१ ॥

सर्वं शान्तं निरालम्बं जगत्त्वं शाश्वतं शिवम् ।
अनामयमनाभासमनामकमकारणम् ॥ २२ ॥

सर्वं जगत्त्वं जगतः पारमार्थिकं रूपं
शान्तमधिष्ठानसन्मात्रमित्यर्थः ॥ २२ ॥

न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च ।
मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम् ॥ २३ ॥

सत् उत्पत्त्याख्यभावविकारवत् । असत् नाशाख्यभावविकारवत् । मध्यान्तं
आन्तरालिकभावविकारवत् । अथवा सन्न नष्टम् असन्न स्थितम् अनयोर्मध्यं
उत्पत्तिनाशौ अन्तौ अवधी यस्य तथाभूतम् ॥ २३ ॥

प्। ४०६) २३९

श्रीराम उवाच ।

अवबुद्धं समं ब्रह्म सर्वमेव मयाधुना ।
तथापि भूयः कथय सर्गः किमिव लोक्यते ॥ २४ ॥

इत्थं निष्प्रपञ्चे परमार्थैकरसे ब्रह्मणि बोधितेऽपि तत्र
चित्तवृत्तिस्थिरीकरणाशक्तेः परावृत्तः पुनर्विपरीतभावनाकातरो रामः
पृच्छति - अवबुद्धमिति । किमिव लोक्यत इति । ज्ञानेनाज्ञाने नष्टे
तन्मूलजगतोऽपि बाधात्पुनर्भानमनुपपन्नमिति भावः ॥ २४ ॥

श्रीवसिष्ठ उवाच ।

परे शान्ते परं नाम स्थितमित्थमिदन्तया ।
नेह सर्गो न सर्गाख्या काचिदस्ति कदाचन ॥ २५ ॥

यदि त्वया तत्त्वं बुद्धं तर्हि पुनर्जगद्भानं ब्रह्मभानमेव ॥ २५ ॥

महार्णवाम्भसीवाम्बु संस्थिता परमेश्वरे ।
जलं द्रवत्वात्स्पन्दीव निस्पन्दं परमं पदम् ॥ २६ ॥

तत्र सकृद्भेदस्य तदाख्यायाश्च निमित्तापायादेव असत्त्वादित्याशयेन
वसिष्ठः परिहरति - परे इति । परं तत्त्वं परे शान्ते स्वस्वभावे एव
स्थितं न ताः प्रच्युतम् । इत्थं च पूर्णात्मभावात्सर्गस्तदाख्या च इदन्तया
इह ब्रह्मणि नास्ति किन्तु तत्स्वभावेनैवास्तीत्यर्थः ।
कदाचनेत्युक्तेस्तादृशस्थितेः कादाचित्कत्वाभाव उक्तः । किमिव लोक्यते इति किं
दृष्टान्तस्य प्रश्न उत निमित्तस्य । आद्ये बाधाद्ब्रह्मीभूतनामरूपस्य
ब्रह्मस्वरूपे स्थितौ दृष्टान्तमुक्त्वा यस्ततो विशेषस्तमाह - जलमिति ॥ २६

भाः स्वात्मनीव कचति न कचत्येव तत्पदम् ।
भासां तत्त्वं हि कचनं पदं त्वकचनं विदुः ॥ २७ ॥

तस्य स्वप्रकाशत्वे दृष्टान्तमुक्त्वा तत्रापि पूर्ववद्विशेषमाह - भा इति
। भाः सूर्यादिज्योतिः कचति दीप्यते । कचनं दीप्तिक्रिया भासां सूर्यादीनां
तत्त्वं स्वभावः । अकचनं निष्क्रियम् ॥ २७ ॥

अध ऊर्ध्वं वर्जयित्वा यथाब्धेरुदरे पयः ।
स्फुरत्येवं परे चित्त्वादिदं नानेव तत्परम् ॥ २८ ॥

ईषद्विदः स्वयं चित्त्वाच्चेत्यतामिव गच्छति ।
बुद्ध्यते सर्ग इत्येव समास्थास्यति शास्वतम् ॥ २९ ॥

द्वितीयेऽप्याह - ईषदिति । ईषद्विदः अपरिपक्वबोधस्य तव । चेत्यतामिव
गच्छतीत्यस्य विशदीकरणं बुध्यते सर्ग इत्येवेति । सच सर्गो ज्ञानपरिपाके
शाश्वतं ब्रह्मस्वरूपं प्रतिष्ठास्यति ॥ २९ ॥

सर्गस्तु परमार्थस्य सञ्ज्ञेत्येव विनिश्चयः ।
नानास्ति नायमत्यन्तमम्बरस्य यथाम्बरम् ॥ ३० ॥

यतस्तदा अयमज्ञदृष्टो नानाभेदः अत्यन्तं नास्ति । यथा
अम्बरस्याकाशस्याम्बरमाकाशान्तरं नास्त्यनवस्थापातादतस्तथा
परमार्थस्य परमार्थान्तराभावात्सर्गशब्दो ब्रह्मण एव सञ्ज्ञेति
विद्वन्निश्चय इत्यर्थः ॥ ३० ॥

चित्तात्सर्गसमापत्तिरचित्तात्सर्गसङ्क्षयः ।
परे परमसंशान्ते हेम्नीव कटकभ्रमः ॥ ३१ ॥

तथा चात्यन्तिकचित्तविनाशाभाव एव तव पुनः सर्गालोकने हेतुरित्याशयेनाह

  • चित्तादिति ॥ ३१ ॥

सन्नेव सर्गो सत्यत्वमेति चित्तशमोदये ।
असत्सत्तामवाप्नोति स्वतः संवेदनोदये ॥ ३२ ॥

संवेदनं चित्तं तस्योदये ॥ ३२ ॥

संवेदनमहन्तावत्सर्गसम्भ्रमसम्भ्रमः ।
असंवेदनमाशान्तं परं विद्धि न तज्जडम् ॥ ३३ ॥

अहन्तावत् अभिमानयुक्तं संवेदनं चित्तमेव सर्गभ्रमणभ्रान्तिः ॥ ३३ ॥

नानेव सर्गो नानायं ज्ञस्यैकात्मशिवात्मकः ।
पुंस्त्वकर्मक्रिया सेना मृन्मयी शिल्पिनां यथा ॥ ३४ ॥

ज्ञानिनामपि व्युत्थानदशायां चित्ताभासोदये कथं सर्गभानं तदाह ##-
शेषः । यथा शिल्पिनां पुंस्त्वं पुरुषचातुरी तत्कर्मणा
क्रियानिष्पत्तिर्यस्यास्तथाविधा मृन्मयी सेना वस्तुतो मृदपि सेनेव भासते
तद्वदित्यर्थः । अथवा मृन्मयी पुरुषाद्याकारा सेना पुंस्त्वकर्मक्रिया
युद्धादिपुरुषार्थकारिणीव भाति तद्वदित्यर्थः ॥ ३४ ॥

इदं पूर्णमनारम्भमनन्तमनघोदरम् ।
पूर्णे पूर्णपरापूरैः पूर्णमेवावतिष्ठते ॥ ३५ ॥

तेषां पारमार्थिकदृष्टौ तु इदं जगत्पूर्ण ब्रह्मैवावतिष्ठते इत्यत्र
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते इति श्रुतिमर्थतो दर्शयति - इदमिति ।
अनारम्भमनुत्पत्तिकम् । अनन्तं नाशरहितम् । अत एव
विकारान्तरदोषरहितमुदरं मध्यं यस्य तथाभूतम् । यतः पूर्णस्यैव
परमात्मन आपूरैः सर्वतोव्याप्तिभिः पूर्णमतः पूर्णं
सत्पूर्णमेवावतिष्ठते नाणुमात्रमप्यपूर्णतां यातीत्यर्थः ॥ ३५ ॥

यदयं लक्ष्यते सर्गस्तद्ब्रह्म ब्रह्मणि स्थितम् ।
नभो नभसि विश्रान्तं शान्तं शान्ते शिवे शिवम् ॥ ३६ ॥

तदेव दृढीकाराय पुनराह - यदयमिति । सामान्ये नपुंसकम् ॥ ३६ ॥

मुकुरप्रतिबिम्बस्थे नगरे नवयोजने ।
यथा दूरमदूरं च तथेशे तदतत्क्रमः ॥ ३७ ॥

ईशे ब्रह्मणि । तस्य दूरत्वस्य अतस्य सामीप्यस्य वा क्रमः परिपाटीत्यर्थः ॥ ३७

असदभ्युदितं विश्वं सदप्यभ्युदितं सदा ।
प्रतिभासात्सदाभासमवस्तुत्वादसन्मयम् ॥ ३८ ॥

एवं च सत एवासद्विश्वाकारेण भानात्तत्त्वदृशा
सदेवाभ्युदितमतत्त्वदृशा असदेवभूदितम् । यतो
भेदप्रतिभासात्तत्सदाभासमसद्भेददर्शने त्वसन्मयमित्यर्थः ॥ ३८ ॥

आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे ।
द्विचन्द्रविभ्रमाभासे सर्गेऽस्मिन्कैव सत्यता ॥ ३९ ॥

मायाचूर्णपरिक्षेपाद्यथा व्योम्नि पुरभ्रमः ।
तथा संविदि संसारः सारोऽसारश्च भासते ॥ ४० ॥

ऐन्द्रजालिकैः परमोहनायाभिमन्त्रितमौषधचूर्ण मायाचूर्णम् । सारः
सत्योऽसारो मृतश्च ॥ ४० ॥

प्। ४०७) २३९

यावद्विचारदहनेन समूलदाहं
दग्धा न जर्जरलतेव बलादविद्या ।
शाखाप्रतानगहनानि बहूनि ताव-
न्नानाविधानि सुखदुःखवनानि सूते ॥ ४१ ॥

सवासनाविद्यानाशो यावत्सप्तमभूमिकाधिरोहणपर्यन्तो न
सम्पन्नस्तावद्विक्षेपदुःखं तत्त्वज्ञानामपि भासत एवातो
जीवन्मुक्तिसुखार्थिभिर्भुमिकाभ्यासः कार्य इत्याशयेनोपसंहरति -
यावदिति ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे
हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे हेमोर्म्युपदेशो
नामैकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥