अष्टादशोत्तरशततमः सर्गः ११८
श्रीवसिष्ठ उवाच ।
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
नानया ज्ञातया भूयो मोहपङ्के निमज्जसि ॥ १ ॥
इह सप्तपदा ज्ञानभूमिका लक्षणैः स्वकैः ।
आरूढलक्षणैश्चैव मोक्षान्ता साधु वर्ण्यते ॥ १ ॥
ज्ञातया अभ्यासक्रमेणानुभूतया ॥ १ ॥
वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
मम त्वभिमता नूनमिमा एव शुभप्रदाः ॥ २ ॥
ननु योगशास्त्रे यमनियमाद्यष्टाङ्गभेदभिन्ना योगभूमिकाः प्रसिद्ध
एव किं ता एवैता नेत्याह - वदन्तीति । वादिनो योगसाङ्ख्यवादिनः । ता
योगभूमिकास्तुच्छसिद्धिफला अन्येषामभिमताः । मम तु इमा
ज्ञानभूमिका एवाभिमताः । यतः परमपुरुषार्थलक्षणशुभप्रदा
इत्यर्थः ॥ २ ॥
अवबोधं विदुर्ज्ञानं तदिदं सप्तभूमिकम् ।
मुक्तिस्तु ज्ञेयमित्युक्तं भूमिकासप्तकात्परम् ॥ ३ ॥
किं तज्ज्ञेयं किं वा ज्ञानं यद्भूमयो वर्ण्यन्ते इति ते लक्षयति -
अवबोधमिति । अखण्डस्वाकारवृत्त्या रूढं ब्रह्म
अज्ञाननिवर्तकत्वाज्ज्ञानं निवृत्ताज्ञानं तु तदेव
ज्ञेयमित्युपचाराद्द्विधोच्यत इत्यर्थः ॥ ३ ॥
सत्यावबोधो मोक्षश्चैवेति पर्यायनामनी ।
सत्यावबोधो जीवोऽयं नेह भूयः प्ररोहति ॥ ४ ॥
तथाच पूर्वापरावस्थाकल्पितावान्तरप्रवृत्तिनिमित्तभेदस्य
मिथ्याभूतस्यापाये
अवबोधमोक्षपदयोरेकार्थमात्रनिष्ठत्वात्पर्यायनामता फलिता ।
यतस्तादृशो जीवो न भूयः प्ररोहति येन भेदादपर्यायता स्यादित्याशयेनाह
- सत्यावबोध इति ॥ ४ ॥
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु [भविष्यदुःखेति मुद्रितपुस्तके पाठः]
तृतीया तनुमानसा ॥ ५ ॥
उद्देशः स्पष्टः ॥ ५ ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ ६ ॥
आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते ।
एतासां भूमिकानां त्वमिदं निर्वचनं शृणु ॥ ७ ॥
उद्दिष्टानां लक्षणोक्तिं वक्तुं प्रतिजानीते - एतासामिति ॥ ७ ॥
स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ ८ ॥
प्रेक्ष्ये प्रेक्षिष्ये । इडभावश्छान्दसः । शास्त्रैर्विचारितवेदान्तवाक्यैः
सज्जनैर्गुरुभिश्च । वैराग्यग्रहणं साधनचतुष्टयोपलक्षणम् । तथाच
निषिद्धवर्जननिष्कामयज्ञदानाद्यनुष्ठानप्रयुक्ता
सन्न्याससाधनचतुष्टयसम्पत्तिसहिता मुक्तिपर्यवसिता
श्रवणादिप्रवृत्तिफलोपहितात्मसाक्षात्कारोत्कटेच्छैव प्रथमा
भूमिकेत्यर्थः ॥ ८ ॥
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९ ॥
गुरुशुश्रुषाभिक्षाशनशौचादियतिधर्मपालनसहिते श्राणमनने एवात्र
सदाचारः । अन्यस्य चित्तशुद्धिमात्रहेतुत्वेन प्रागेव सिद्धत्वात् ॥ ९ ॥
प्। ४०३) २३७
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता ।
यात्र सा तनुता भावात्प्रोच्यते तनुमानसा ॥ १० ॥
अभ्यर्हितत्वाद्विचारणाशब्दस्य पूर्वनिपातः । भावनं भावो निदिध्यासनं
तस्मात् । तथाच साधनचतुष्टयसम्पत्त्यादिपूर्वकश्रवणमननाभ्यां
सहितान्निदिध्यासनाद्या मनस इन्द्रियार्थेषु शब्दादिविषयेषु असक्तता
अग्रहणपर्यन्ता तनुता सविकल्पसमाधिरूपा सूक्ष्मता सा तनुमानसाख्या
भूमिका प्रोक्ता । तनु सूक्ष्मतमं मानसं यस्यामिति व्युत्पत्तेरित्यर्थः ।
अण्णन्तस्योपसर्जनत्वान्न ङीप् । तथाचोक्तं योगशास्त्रे
श्रोत्रादिकरणैर्यावच्छब्दादिविषयग्रहः । तावद्ध्यानमिति प्रोक्तं समाधिः
स्यात्ततः परः ॥ इति ॥ १० ॥
भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् ।
सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता ॥ ११ ॥
अर्थे बाह्यार्थे विषये संस्कारोच्छेदादात्यन्तिकी चित्ते या
विरतिस्तद्वशात्तत्स्थैर्यात् । शुद्धे मायातत्कार्यादवस्थात्रयाच्च शोधिते
सर्वाधिष्ठानसन्मात्ररूपे आत्मनि क्षीरोदकवत्त्रिपुटीविलयेन
साक्षात्कारपर्यन्ता या स्थितिर्निर्विकल्पकसमाधिरूपा सा सत्त्वापत्तिर्मनसः
परमात्मसत्त्वात्मनैवापन्नत्वादित्यर्थः । अत्र ह्यसौ ब्रह्मविदित्युच्यते ॥ ११ ॥
दशाचतुष्टयाभ्यासादसंसङ्गफलेन च ।
रूढसत्त्वचमत्कारात्प्रोक्ताऽसंसक्तिनामिका ॥ १२ ॥
असंसङ्गश्चित्तस्य बाह्याभ्यन्तराकारैस्तत्संस्कारैश्चास्पर्शस्तल्लक्षणेन
समाधिपरिपाकफलेन च हेतुना रूढ उपचितश्चित्ते
निरतिशयानन्दनित्यापरोक्षब्रह्मात्मभावसाक्षात्कारलक्षणश्चमत्कारो
यस्यां सा । यद्यप्युत्तमाधिकारिणां द्वितीयभूमिकायामपि साक्षात्कारः
शाब्दापरोक्षात्प्रसिद्धस्तथापि
पञ्चमभूमिकायामात्यन्तिकद्वैतसंस्कारोच्छेदप्रयुक्तोत्कर्षातिशयस्य
मन्दमध्यमाधिकारिणामपि चतुर्थभूमिकान्तोत्पन्नसाक्षात्कारस्य
पञ्चम्यां निरूढतरत्वोपपत्तेश्च सूचनाय रूढेति चमत्कारविशेषणम् ।
अत एव चतुर्थभूमिकान्ते क्वचित्पञ्चमीं भूमिकां प्राप्तो ब्रह्मविद्वर
इत्युच्यते । न विद्यते अविद्यातत्कार्यसंसक्तिः सर्वथा यस्यामिति व्युत्पत्त्या
असंसक्तिनामिका ॥ १२ ॥
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ १३ ॥
अस्या एव परिपाकोत्कर्षादुत्तरे द्वे भूमिके भवत इत्याशयेनाह -
भूमिकापञ्चकेति । वक्ष्यमाणं नाम अन्वर्थतया निर्वक्ति -
आभ्यन्तराणामिति ॥ १३ ॥
परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् ।
पदार्थाभावनानाम्नी षष्ठी सञ्जायते गतिः ॥ १४ ॥
तर्हि कथं देहयात्रासिद्धिस्तत्राह - परप्रयुक्तेनेति । अस्यां च
भूमिकायां ब्रह्मविद्वरीयानित्याख्यायते ॥ १४ ॥
भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भतः ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ १५ ॥
सप्तमीं भूमिकामाह - भूमिषट्केति । परप्रयत्नेनापि
भेदस्यानुपलम्भत इत्यर्थाद्गम्यते । तुर्यं जाग्रदाद्यवस्थात्रयनिर्मुक्तं
शिवमद्वैतं चतुर्थं मन्यन्ते इति श्रुत्या तादृशीविद्वदनुभवसिद्धत्वेन
प्रतिपादितं ब्रह्म गच्छति आत्मतयानुभवत्यखण्डितं यस्यामवस्थायां
सा तुर्यगा । तां तु प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । सच ब्रह्मवित्प्रभृतिषु
तुरीयस्तं गच्छतीति तुर्यगा ॥ १५ ॥
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते ।
विदेहमुक्तिविषयस्तुर्यातीतमतः परम् ॥ १६ ॥
इहास्मिन्नेव देहे विद्यते । अतोऽस्या अवस्थायाः परं विदेहमुक्तिविषयस्तुर्यातीतं
ब्रह्मैवेति न भूमिकासु गण्यत इत्यर्थः ॥ १६ ॥
ये हि राम महाभागाः सप्तमीं भूमिकां गताः ।
आत्मारामा महात्मानस्ते महत्पदमागताः ॥ १७ ॥
जीवन्मुक्ता न सज्जन्ति सुखदुःखरसस्थितौ ।
प्रकृतेनार्थकार्याणि किञ्चित्कुर्वन्ति वा न वा ॥ १८ ॥
किञ्चित्कुर्वन्ति षष्ठभूमिकायां न वा कुर्वन्ति
सप्तमभूमिकायामित्याशयः ॥ १८ ॥
पार्श्वस्थबोधिताः सन्तः सर्वाचारक्रमागतम् ।
आचारमाचरन्त्येव सुप्रबुद्धवदक्षतम् ॥ १९ ॥
कुर्वन्ति वा नवेत्युक्तेर्यथेष्टाचारपरत्वाशङ्कां वारयन् स्वाशयं
प्रकटयति - पार्श्वस्थेति । सर्वेषां
तत्तदाश्रमनिष्ठानामाचारक्रमेणागतमाचारं सदाचारमेवाचरन्ति
आचरन्त्येवेति द्विविधोऽपि नियमोऽत्र विवक्षितः । अक्षतं आसङ्गेनादूषितम् ।
अक्षता इति पाठे फलासक्तिलक्षणक्षतरहिता इत्यर्थः । तथाच न
यथेष्टाचरणप्रसक्तिरिति भावः । तथाचाहुः - विदितब्रह्मतत्त्वस्य
यथेष्टाचरणं यदि । शुनां तत्त्वविदां चैव को भेदोऽशुचिभक्षणे ॥ इति ॥ १९
॥
आत्मारामतया तांस्तु सुखयन्ति न काश्चन ।
जगत्क्रिया सुसंसुप्तान्रूपालोकाः स्त्रियो यथा ॥ २० ॥
अनासङ्गव्यवहारेण सुखदुःखानुदयं सदृष्टान्तमाह -
आत्मारामतयेति । जगत्क्रियाव्यवहारास्तान् जीवन्मुक्तान्न सुखयन्ति । यथा
सुसंसुप्तान् गाढनिद्रावशान् रूपेण सौन्दर्यातिशयेन आलोक्यन्त इति
रूपालोकाः स्त्रियो न सुखयन्ति तद्वदित्यर्थः । जगत्क्रियासु संसुप्तान् रूपालोकः
स्त्रियो यथा इति पाठे तु यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः इति
भगवदुक्तदिशा जगद्व्यापारेषु स्वप्नवन्मिथ्यात्वदर्शनात्सुप्तप्रायांस्तान्
ब्रह्मादिसम्पदोऽपि न सुखयन्ति । यथा स्त्रीरूपालोकोऽन्याः स्त्रियो न सुखयति तत्र
रागाभावात्तद्वदित्यर्थः ॥ २० ॥
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम् ॥ २१ ॥
म्लेच्छादिवच्चेतो देहात्मबुद्धिर्येषां तेषां मनुष्यादीनां चेत्यर्थः ॥ २१ ॥
प्राप्ता ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये ।
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ॥ २२ ॥
पशवो हनुमत्प्रभृतयः । म्लेच्छा धर्मव्याधादयः आदिपदादसुराः
प्रह्लादकर्कटीप्रमृतयश्च गृह्यन्ते ॥ २२ ॥
ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति हि मुक्तता ।
मृगतृष्णाम्बुबुद्ध्यादि शान्तिमात्रात्मकस्त्वसौ ॥ २३ ॥
मृगतृष्णाम्बुबुद्धेरादिपदाच्छुक्तिरूप्यबुद्धेश्च या शान्तिर्बाधः
सैव मात्रा तुला यस्य तदात्मकः । तत्तुल्य इति यावत् ॥ २३ ॥
प्। ४०४) २३८
ये तु मोहात्समुत्तीर्णा न प्राप्ताः पावनं पदम् ।
आस्थिता भूमिकास्वासु स्वात्मलाभपरायणाः ॥ २४ ॥
यद्यपि द्वितीयादिभूमिषु चतुर्थभूमौ वा
ज्ञानोदयेनाज्ञानावरणभङ्गान्मोहात्सम्यगुत्तिर्णा एव तथापि
प्रबलप्रारब्धप्रयुक्तविक्षेपात्पावनमात्यन्तिकमनोनाशोपलक्षितनिरतिशया
नन्दपूर्णतालक्षणं विदेहकैवल्यं न प्राप्ता इत्यर्थः ॥ २४ ॥
सर्वभूमिगताः केचित्केचिद्द्वित्रैकभूमिकाः ।
भूमिषट्कगताः केचित्केचित्सप्तैकभूमिकाः ॥ २५ ॥
एकस्मिन्नेव जन्मनि क्रमात्सर्वभूमिगताः । एवं सर्वत्र सप्तैकभूमिका
सप्तमैकभूमिकाः सनकादयः ॥ २५ ॥
भूमित्रयगताः केचित्केचिद्न्त्यां भुवं गताः ।
भूचतुष्टयगाः केचित्केचिद्भूमिद्वये स्थिताः ॥ २६ ॥
भूचतुष्टयगाः केचिदित्येतदन्यस्य पूर्वोक्तस्यैवानुवादः प्रपञ्चार्थः ॥ २६
॥
भूम्यंशभाजनाः केचित्केचित्सार्धत्रिभूमिकाः ।
केचित्सार्धचतुर्भूगाः सार्धषड्भूमिकाः परे ॥ २७ ॥
भूम्यंशः पादभूम्यर्धभूम्यादिः ॥ २७ ॥
विवेकिनो नरा लोके चरन्त इति भूमिषु ।
ग्रहायतनतापस्य दृशावेशेषु संस्थिताः ॥ २८ ॥
इति उक्तप्रकारासु भूमिषु चरन्तः सन्तो दृशा भूमात्मदृष्ट्या
गृह्णन्तीति ग्रहाः ग्रहातिग्रहाख्याः सान्तर्बाह्यकरणतद्विषयाः आयतनं
तदाधारभूतं शरीरं च तत्प्रयुक्तस्य तापस्याध्यात्मिकादिभेदभिन्नस्य
आवेशेषु बाधलक्षणेष्वात्मान्तःप्रवेशनेषु संस्थिता उद्युक्ताः सन्तीत्यर्थः
॥ २८ ॥
ते हि धीराः सुराजानो दशास्वासु जयन्ति ये ।
तृणायतेऽत्र दिग्दन्तिघटाभटपराजयः ॥ २९ ॥
सेन्द्रियमनोजय एव सर्वशत्रुजयादुत्कृष्टः स्वात्मसाम्राज्यमेव
सर्वोत्कृष्टा राजता नान्येत्याह - ते हीति । शोभनाः सर्वोत्कृष्टा राजानः
। न पूजनात् इति न टच् । अत्र अस्याग्रे दिग्दन्तिघटासहितानां सर्वशत्रुभटानां
पराजयस्तत्प्रयुक्तसप्तद्वीपराज्यं च तृणायते तुच्छीभवतीत्यर्थः ॥ २९ ॥
ये तासु भूमिषु जयन्ति हि ये महान्तो
वन्द्यास्त एव हि जितेन्द्रियशत्रवस्ते ।
सम्नाड्विराडपि च यत्र तृणायते वै
तस्मात्परं जगति ते समवाप्नुवन्ति ॥ ३० ॥
उक्तमेवार्थं स्फुटं वदन्नुपसंहरति - एतास्विति । येनेष्टं राजसूयेन
यश्चैकः सर्वभूमण्डलाधिपतिरन्येषां राज्ञां शासिता स सम्राट् । युवा
स्यात्साधुयुवाध्यापकः । आशिष्टो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी
सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः इति
श्रुत्युक्तलक्षणमानुषानन्दसम्पन्न इत्यर्थः । विराट् ब्रह्मशरीरः
प्रजापतिर्दैवानन्दपरमावधिरपि यत्र सप्तमभूमौ तृणायते तस्मात्परं
विदेहकैवल्यसुखं जगति इहैव यतस्ते समवाप्नुवन्तीत्यर्थः ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषुत्पत्तिप्रकरणे ज्ञानभूमिकोपदेशो
नामाष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
ज्ञानभूमिकोपदेशो नामाष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥