सप्तदशोत्तरशततमः सर्गः ११७
श्रीराम उवाच ।
कीदृश्यो भगवन्योगभूमिकाः सप्तसिद्धिदाः ।
समासेनेति मे ब्रूहि सर्वतत्त्वविदांवर ॥ १ ॥
ज्ञानभूमिप्रभेदानामुपोद्घातेन वर्ण्यते ।
अज्ञानभूमिका सप्तविधा यद्वा प्रसङ्गतः ॥ १ ॥
समासेन सङ्ग्रहेण । इतिशब्दो लक्षणप्रभेदानां तदुपयोग्यर्थान्तराणां
च प्रश्नस्य द्योतनाय ॥ १ ॥
श्रीवसिष्ठ उवाच ।
अज्ञानभुः सप्तपदा ज्ञभुः सप्तपदैव हि ।
पदान्तराण्यसङ्ख्यानि भवन्त्यन्यान्यथैतयोः ॥ २ ॥
तत्र इतिशब्दपृष्टं ज्ञानभूमिकाबोधोपयुक्तमज्ञानभूमिकाभेदं
प्रथमं वक्तुकामो वसिष्ठो ज्ञानाज्ञानभूमिके विभज्य दर्शयति -
अज्ञानेति ॥ २ ॥
स्वयत्नसाधकरसान्महासत्ताभरोन्नतेः ।
एते प्रतिपदं बद्धमूले सम्फलतः फलम् ॥ ३ ॥
स्वाभाविकप्रवृत्तिलक्षणः पुरुषप्रयत्नो भोगरागदार्ढ्यलक्षणो
रसावेशश्चाज्ञानभूप्रतिष्ठायामसाधारणहेतू ।
शास्त्रीयसाधनचतुष्टयविशिष्टः श्रवणादिप्रयत्नो
मुमुक्षादार्ढ्यलक्षणरसावेशश्च ज्ञानभूप्रतिष्ठायाम् ।
अधिष्ठानब्रह्मसत्तोत्कर्षाधीनस्वसत्तालाभस्तूभयत्र साधारणो हेतुः ।
एतेभ्यो हेतुभ्य एते भूमिके प्रतिपदं स्वस्वविषये बद्धमूले सत्यौ
स्वस्वोचितं संसारस्थितिदुःखलक्षणं तन्मुक्तिनिर्तिशयानन्दावाप्तिलक्षणं
च फलं सम्फलतः । यथा अधोभुवनभुवः सप्तपदा उत्तरोत्तरं
रजस्तमोदुःखबहुला नरकान्ताः ऊर्ध्वभुवनभुवस्तूत्तरोत्तरं
सत्त्वसुखज्ञानबहुलाः सत्यलोकान्ताः क्रममुक्तिफलाश्च
तद्वदित्यर्थाद्गम्यते ॥ ३ ॥
प्। ४०१) २३६
तत्र सप्तप्रकारां त्वमज्ञानस्य भुवं शृणु ।
ततः सप्तप्रकारां त्वं श्रोष्यसि ज्ञानभूमिकाम् ॥ ४ ॥
तत्र तयोर्भूमिकयोर्मध्ये ॥ ४ ॥
स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहन्त्ववेदनम् ।
एतत्सङ्क्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम् ॥ ५ ॥
तत्र भूमिद्वयस्य प्रत्येकं फलतः सामान्यलक्षणमाह - स्वरूपेति ॥ ५ ॥
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।
रागद्वेषोदयाभावात्तेषां नाज्ञत्वसम्भवः ॥ ६ ॥
तत्राद्यलक्षणं स्फुटयति - शुद्धेति ॥ ६ ॥
यत्स्वरूपपरिभ्रंशाच्चेत्यार्थे चितिमज्जनम् ।
एतस्मादपरो मोहो न भूतो न भविष्यति ॥ ७ ॥
द्वितीयं स्फुटयति - यदिति ॥ ७ ॥
अर्थादर्थान्तरं चित्ते याति मध्ये हि या स्थितिः ।
निरस्तमनना यासौ स्वरूपस्थितिरुच्यते ॥ ८ ॥
आद्यस्याप्रसिद्धिं वारयति - अर्थादिति । पूर्वविषयाच्च्युतस्य
विषयान्तरमननात्प्राङ् निरस्तमनना स्वरूपावस्थितिः प्रसिद्धेत्यर्थः ॥ ८ ॥
संशान्तसर्वसङ्कल्पा या शिलान्तरिव स्थितिः ।
जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता ॥ ९ ॥
मूर्च्छासुषुप्त्योर्वारणाय विशिनष्टि - जाड्यनिद्रेति ॥ ९ ॥
अहन्तांशे क्षते शान्ते भेदे निःस्पन्दतां गते ।
अजडा या प्रकचति तत्स्वरूपमिति स्थितम् ॥ १० ॥
अन्तरहन्तांशे बहिर्भेदे । उभयत्र निस्पन्दतां गते । अजडा स्वप्रकाशा या
चिदिति शेषः ॥ १० ॥
तत्रारोपितमज्ञानं तस्य भूमीरिमाः शृणु ।
बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥ ११ ॥
तत्र तस्यां प्रत्यक्चिति । आरोपितमनादितयाध्यस्तम् ॥ ११ ॥
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।
इति सप्तविधो मोहः पुनरेव परस्परम् ॥ १२ ॥
श्लिष्टो भवत्यनेकाख्यः शृणु लक्षणमस्य च ।
प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः ॥ १३ ॥
पदान्तराण्यसङ्ख्यानीति यदुक्तं तदुपपादयति - पुनरेव परस्परं
श्लिष्ट इति । अस्य सप्तविधस्य मोहस्य प्रत्येकं लक्षणं शृण्वित्यर्थः ।
बीजजाग्रल्लक्षणमाह - प्रथममिति । चितो
मायाशबलचैतन्यात्सकाशात्सर्गादौ जागरादौ वा प्रथमं चेतनं
चिदाभाससंवलितरूपं यत्स्यात्तत्प्राणधारणादिक्रियोपाधिना
भविष्यच्चित्तजीवादिनामशब्दानां तदर्थानां च भाजनं
वक्ष्यमाणजाग्रद्बीजभूतं स्थितं बीजजाग्रदिति परेणान्वयः ॥ १३ ॥
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ।
बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते ॥ १४ ॥
एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं शृणु ।
नवप्रसूतस्य परादयं चाहमिदं मम ॥ १५ ॥
जाग्रल्लक्षणं श्रावयति -त्वमिति । नवप्रसूतस्य बीजजाग्रतः परात् परतः ।
अयं स्थूलदेहोऽहं इदं देहभोग्यजातं मम इति यः
प्रत्ययस्तज्जाग्रदित्यर्थः ॥ १५ ॥
इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ।
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥ १६ ॥
अयं सोऽहमिदं तन्मे इत्युक्तलक्षणस्य जाग्रत्प्रत्ययस्य जन्मानन्तरमुदितः ।
नकारलोपश्छान्दसः । अथवा सजातीयपूर्वपूर्वज्न्मसंस्कारोद्बोधेन
दृढतरोदितः अत एव पीवरः अभ्यासादुपचितः । तथाहि
ब्राह्मणादिजन्मसाधारण्येऽपि जन्मान्तराभ्यासात्
केषाञ्चिद्ब्राह्मणोचितक्रियास्वभिनिवेशः पाटवातिशयश्च दृश्यते न
सर्वेषाम् । तथाचैहिकात्प्राक्तनाद्वा दृढाभ्यासपाटवादुपचिताभिनिवेशो
जाग्रत्प्रत्ययो महाजाग्रदित्यर्थः ॥ १६ ॥
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन् ।
अरूढमथ वा रूढं सर्वथा तन्मयात्मकम् ॥ १७ ॥
जाग्रत्स्वप्नं लक्षयति - अरूढमिति । अरूढमनभ्यासपेलवं
रूढमभ्यासदृढम् । यथा लवणस्य ॥ १७ ॥
यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते ।
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ॥ १८ ॥
द्विचन्द्रशुक्तिरूप्यादिभ्रान्तयोऽपि जाग्रत्स्वप्नभेदा एवेत्याह - द्विचन्द्रेति ॥
१८ ॥
अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत् ।
अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि ॥ १९ ॥
स्वप्नं लक्षयति - अल्पकालमिति । निद्रान्ते निद्रामध्ये निद्रावसाने वा
प्रतीयत इति प्रत्ययः । यः प्रत्ययोऽनुसन्धीयते स स्वप्नः कथित इत्यर्थः ।
तस्याज्ञस्य । स च महाजाग्रत्स्थितेर्महाजाग्रदन्तर्गतस्थूलशरीरस्य हृदि
कण्ठादि हृदयान्तनाडीप्रदेशे भवतीत्यर्थः ॥ १९ ॥
निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः ।
स स्वप्नः कथितस्तस्य महाजाग्रत्स्थितेर्हृदि ॥ २० ॥
चिरसन्दर्शनाभावादप्रफुल्लबृहद्वपुः ।
स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः ॥ २१ ॥
उक्तलक्षणोपपादनाय स्वप्नमेव पुनर्विशिनष्टि -
चिरसन्दर्शनाभावादिति । स्वप्नजाग्रतोर्लक्षणमाह - स्वप्नो जाग्रत्तयेति ।
रूढो दृढाभिनिवेशाच्चिरकालस्थायित्वकल्पनाद्वा उपचितः यथा
हरिश्चन्द्रस्य द्वादशवर्षात्मकः । महाजाग्रत्पदं महाजाग्रत्साम्यं
गतः सन्नित्यर्थः ॥ २१ ॥
अक्षतेवाक्षते देहे स्वप्नजाग्रन्मतं हि तत् ।
षडवस्थापरित्यागे जडा जीवस्य या स्थितिः ॥ २२ ॥
स चास्य दैवाद्देहनाशेऽपि तथैवाग्रेऽप्यनुवर्तते इति सूचनाय क्षते देहे
इत्युक्तम् । सुषुप्तिं लक्षयति - षडवस्थेति । पूर्वाः षडवस्थाः
कर्मफलभोगभूमित्वात्कर्मजाः । सुषुप्तिस्तु पूर्वोद्भूतकर्मणां भोगेन
क्षये उत्तरेषामनुद्भवेऽन्तराले छत्रापायवत्सर्वसूक्ष्मस्थूलप्रपञ्चविलये
तद्बीजाज्ञानमात्रपरिशेषात्तदुपहितात्ममात्रपरिशेषरूपेत्याशयेनाह -
जडा जीवस्य या स्थितिरिति ॥ २२ ॥
प्। ४०२) २३७
भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः ।
एते तस्यामवस्थायां तृणलोष्टशिलादयः ॥ २३ ॥
भविष्यद्दुःखानि [१] बोधयन्ति अनुभावयन्तीति
भविष्यद्दुःखबोधानि वासनाकर्माणि तैराढ्या सम्पन्ना सुषुप्तिरेव
सौषुप्ती । सुषुप्तौ कारणे विलीनस्य जगतः संस्कारात्मना सत्वमेव नासत्वं
पुनरुद्भवाभावप्रसङ्गादित्याशयेनाह - एते इति ॥ २३ ॥
पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः ।
सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव ॥ २४ ॥
उपसंहरति - सप्तावस्था इति ॥ २४ ॥
एकैका शतशाखात्र नानाविभवरूपिणी ।
जाग्रत्स्वप्नश्चिरं रूढो जागृतावेव गच्छति ॥ २५ ॥
तास्वेकैकान्तरन्यान्याविर्भावात्परस्परं संवलनाच्चानन्तभेदाः
सम्भवन्तीत्याह - एकैकेति । जागृतावेव गच्छति मिलति ॥ २५ ॥
नानापदार्थभेदेन सविकासं विजृम्भते ।
अस्यामप्युदरे सन्ति महाजाग्रद्दशादृशः ॥ २६ ॥
अस्यां जाग्रद्भावापन्नायां जाग्रत्स्वप्नदशायाम् । उदरे अन्तः
महाजाग्रद्दशालक्षणाः दृशः प्रत्ययाः । दृशः साक्षिणो
महाजाग्रद्दशाः सन्तीति पृथक् पदच्छेदो वा ॥ २६ ॥
तासामप्यन्तरे लोको मोहान्मोहान्तरं व्रजेत् ।
अन्तःपातिजलावर्त इव धावति नौर्भ्रमम् ॥ २७ ॥
लोको जनः जीव इति यावत् । नद्यन्तःपातिजलावर्ते नौरिव भ्रमं धावति गच्छति ॥
२७ ॥
काश्चित्संसृतयो दीर्घं स्वप्नजाग्रत्तया स्थिताः ।
काश्चित्पुनः स्वप्नजाग्रज्जाग्रत्स्वप्नास्तथेतराः ॥ २८ ॥
दीर्घं दीर्घकालम् । स्वप्नजाग्रदिति जातावेकवचनम् ॥ २८ ॥
अज्ञानभूमिरिति सप्तपदा मयोक्ता
नानाविकारजगदन्तरमेदहीना ।
अस्याः समुत्तरसि चारुविचारणाभि-
र्दृष्टे प्रबोधविमले स्वयमात्मनीति ॥ २९ ॥
वर्णितामज्ञानभूमिकामुपसंहरंस्तदुत्तरणोपायमाह -
अज्ञानभूमिरिति । नानाविकारैर्जगदन्तरभेदैश्च हीना निन्द्या अवश्यहेयेति
यावत् । इति उक्तवक्ष्यमाणप्रकाराभिश्चारुविचारणाभिः प्रबोधमले स्वयं
प्रत्यङ्मात्रैकरसे आत्मनि दृष्टे सति अस्याः अविद्याभूमेः
सकाशात्समुत्तरसि निर्गत एवासीत्यर्थः । स्वयमुत्तरसीति वा सम्बन्धः ॥ २९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूत्पत्तिप्रकरणे
अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥