११६

षोडशोत्तरशततमः सर्गः ११६

श्रीराम उवाच ।

राजसूयफलं प्राप्तं लवणेन किल प्रभो ।
प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ॥ १ ॥

तुर्यप्रश्नसमाधाने वर्णितार्थनिदर्शनात् ।
सोपोद्घातास्ततो योगभूमयोऽन्नावतारिताः ॥ १ ॥

चतुर्थप्रश्नस्योत्तरं जिज्ञासू रामस्तदुपोद्बलकं द्वितीयप्रश्नोत्तरे
प्रमाणं पृच्छति - राजसूयफलमिति । लवणेन राज्ञा
चण्डालभावादिकल्पनारूपे जालशम्बरे शाम्बरिकोपदर्शितमायाजाले
राजसूयप्रयुक्तमनिष्टफलं प्राप्तम् । किलेत्यैतिह्येन यदुक्तमत्रास्मिन्नर्थे
किमिव प्रमाणं स्यात् । इवशब्दस्तदसम्भवद्योतनार्थः । न तावत्प्रत्यक्षम् ।
मदीयमानसराजसूयस्येदं फलमिति लवणेन स्वतो ज्ञातुमशक्यत्वात् ।
तद्व्याप्यलिङ्गानामप्यप्रसिद्धेस्तेनान्यैर्वा ज्ञातुमशक्त्या
तन्मूलशब्दस्य ह्यैतिह्यस्य वा तत्राप्रसरादित्यर्थः । कल्पनाजालमम्बरे इति
पाठे तु अम्बरे चित्ताकाशे कल्पनाजालात्मकं फलमित्यन्वयः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

यदा शाम्बरिकः काले सम्प्राप्तो लावणीं सभाम् ।
तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ॥ २ ॥

यद्यप्यन्येषां तत्र प्रमाणाप्रसरस्तथापि योगबलात्स्वस्य तत्प्रत्यक्षमिति
तन्मूलैवान्येषां प्रसिद्धिरिति वसिष्ठः समाधत्ते - यदेत्यादिना ॥ २ ॥

अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि ।
किमेतदिति यत्नेन पृष्टश्च लवणेन च ॥ ३ ॥

शाम्बरमस्यास्तीति शाम्बरि तथाविधं कर्म चरित्रं यस्य तस्मिन् ।
सभ्यैर्लवणेन च पृष्ठः ॥ ३ ॥

चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः ।
शृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥ ४ ॥

दृष्ट्वा । योगबलेनेति शेषः । प्रासङ्गिकं प्रश्नं समाधाय प्राक्तनं
चतुर्थप्रश्नसमाधानं प्रतिजानीते - शृण्विति ।
शाम्बरिकस्येहितमभिप्रायम् ॥ ४ ॥

राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् ।
आपदुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ॥ ५ ॥

अतः शक्रेण गगनाद्दुःखाय लवणस्य सः ।
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥ ६ ॥

राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम् ।
अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ॥ ७ ॥

महापदं शारीरराजसूयफलद्वादशाब्दिकापदपेक्षया पञ्चगुणां
षष्टिवर्षकल्पनात्मिकामित्यर्थः । अनेन मानसराजसूयादेः
स्वाराज्यादिसुखफलमपि शारीरापेक्षया पञ्चगुणमधिकमिति गम्यते ॥ ७ ॥

तस्मात्प्रत्यक्षमेवैतद्राम नात्र सन्देहोऽस्ति । मनो हि विलक्षणानां
क्रियाणां कर्तृ भोक्तृ च तदेव निर्घृष्य संशोध्य चित्तरत्नमिह
हिमकणमिवातपेन विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि ।
चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि । सा
विचित्रकेन्द्रजालवशादिदमुत्पादयति । अविद्याचित्तजीवबुद्धिशब्दानां
भेदो नास्ति वृक्षतरुशब्दयोरिवेति ज्ञात्वा चित्तमेव विकल्पनं कुरु ।
अभ्युदिते चित्तवैमल्यार्कबिम्बे सकलङ्कविकल्पोत्थदोषतिमिरापहरणं
न तदस्ति राघव यन्न दृश्यते यन्नात्मीक्रियते यन्न परित्यज्यते यन्न
म्रियते यन्नात्मीयं यन्न परकीयं सर्वं सर्वदा सर्वो भवतीति
परमार्थः ॥ ८ ॥

उक्तमुपसंहरन्प्रकृते योजयति - तस्मादित्यादिना गद्येन । हठयोगेन
निर्घृष्य राजयोगेन संशोध्य निर्विकल्पसमाधिना विलीनतां नीत्वा विवेकेन
तत्त्वसाक्षात्कारेण परं श्रेयो मोक्षं प्राप्स्यसि । विचित्रकं
विविधचित्ररचनाप्रकृतिभूतं यदिन्द्रजालमिव वासनारूपं तद्वशात् ।
विकल्पनं विगतकल्पनं कुरु । तिमिरापहरणं भविष्यतीति शेषः । नतु
स्वचित्तलये स्वाविद्याक्षये वा स्वादृष्टार्जितस्य स्वाविद्याकार्यस्यैव निवृत्तिः
स्यान्न सर्वादृष्टाविद्याकार्यस्य स्वचित्तादेस्तदकारणत्वादित्याशङ्क्य
सर्वं सर्वादृष्टकार्यं सर्वोपभोग्यं चेति सर्वाविद्याकार्यं
सर्वात्मकस्वात्मदर्शनात्सर्वं दृष्टं भवति सर्वमप्यात्मीकृतं
भवति सर्वमपि त्यक्तं भवति सर्वमपि मारितं भवतीति नात्रासम्भावना
युक्तेत्याशयेनाह - न तदस्तीति । तत्कुतस्तत्राह - यन्नात्मीयमिति । यतः
सर्वमात्मीयं सर्वं परकीयं यस्मात्सर्वं सर्वदा सर्वो भवतीति
परमार्था स्थितिरित्यर्थः । तथाच मधुब्राह्मणश्रुतिः इयं पृथिवी
सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु इत्याद्या
प्रसिद्धेत्याशयः ॥ ८ ॥

प्। ३९९) २३५

भावराशिस्तथा बोधः सर्वो यात्येकपिण्डताम् ।
विचित्रमृद्भाण्डगणो यथाऽपक्वो जले स्थितः ॥ ९ ॥

अतः समाधिपरिपाकजन्यबोधेन
मनस्तत्कार्यप्रपञ्चयोरविद्यायाश्चैकरसब्रह्मात्मभावः परिशिष्यत इति
पद्येनोपसंहरति - भावराशिरिति ।
भावराशिर्दृश्यपदार्थसमूहस्तथा तद्विषयकविचित्रवृत्तिरूपो
बोधस्तदुपहितः सर्वो जीवश्चैकपिण्डतां ब्रह्मैकरसतां याति । यथा अपक्व
इति च्छेदः ॥ ९ ॥

श्रीराम उवाच ।

एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत इति भवता
प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूपस्यास्य मनसोऽसत्ता भवति
॥ १० ॥

गुरूक्तेस्तात्पर्यसर्वस्वमनूद्य दर्शयन् रामो मनःसमुच्छेदं
स्वबुद्धितर्कितोपायैरशक्यं मन्यमानस्तदुपायान्तरं जिज्ञासुर्गद्येन
पृच्छति - एवमिति ॥ १० ॥

श्रीवसिष्ठ उवाच ।

रघुकुलेन्दो शृणु मनःप्रशमने युक्तिं यां ज्ञात्वा
स्वस्वाचारदूरे मनःसन्धिरयमेष्यसि ॥ ११ ॥

वसिष्ठस्तदुपायं वक्तुं प्रतिजानीते - रघुकुलेन्दो इति । स्वानि स्वानि
बहिःप्रचारद्वाराणीन्द्रियाणि तेषामाचारः सञ्चारस्तस्य दूरे तदविषये
ब्रह्मणि मनःसन्धिरयं मनोवृत्तिधाराम् । रलयोरभेदान्मनसः
सन्धानेन लयं वा एष्यसि प्राप्स्यसि ॥ ११ ॥

इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्तिरिति तत्पूर्वोक्तम् ॥ १२ ॥

ननु यस्यानादौ संसारे कदापि नाशो न प्रसिद्धस्तस्य कथमुच्छेदः
सम्भाव्यत इत्याशङ्क्य तत्सम्भावनाय मध्ये मध्ये तस्य नाशप्रसिद्धिं
परिणामिस्वभावतया इतरभूतादितुल्यतां च दर्शयितुं प्रागुक्तां
सात्त्विकादिभेदेन त्रिविधां जीवसृष्टिं स्मारयति - इह हीत्यादिना ।
पूर्वोक्तं स्मर्तव्यमिति शेषः । यद्यपि द्वादशधा जीवजातयः
प्रागुक्तास्तथापि सात्त्विकादित्रैविध्ये द्वादशानामन्तर्भावात्त्रिविधेत्युक्तम् ।
आध्यात्मिकाधिदैविकाधिभौतिकभेदाद्वा त्रिविधा । तासु त्रिविधास्वपि सृष्टिषु
मूलकारणं हैरण्यगर्भं मनस्तत्सङ्कल्पानुसारीण्यन्यानि मनांसीत्यपि
प्रागुक्तम् ॥ १२ ॥

तत्रेदम्प्रथमया मनःकल्पनया देहीति सा ब्रह्मरूपिणी सङ्कल्पमयी
भूत्वा यदेव सङ्कल्पयति तदेव पश्यति तेनेदं भुवनाडम्बरं
कल्प्यते ॥ १३ ॥

तत्र हैरण्यगर्भमनसः स्वसङ्कल्पवैचित्र्यब्रह्माण्डाकारपरिणतस्य
कल्पान्ते विलयः प्रसिद्धस्तत्कार्याणां च भौतिकानां विलयदर्शनात्तस्यापि
विलयस्वभावतानुमातुं शक्यते । एवं मूलकारणे मनसि
विलयस्वभावतानिश्चये तत्तुल्यस्वभावतया अस्मदादिमनःस्वपि सा
सम्भावयितुं शक्यत इत्याशयेनाह - तत्रेदम्प्रथमयेत्यादिना ।
इदम्प्रथमया आद्यया । देही चतुर्मुखाकारदेहवानहमिति या ब्रह्मरूपिणी
धातृस्वरूपा कल्पना सा तदेव पश्यति सत्यसङ्कल्पत्वादित्याशयः ॥ १३ ॥

तत्र जननमरणसुखदुःखमोहादिकं संसरणं कल्पयन्ती
कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं विलीयते
हिमकणिकेवातपगता ॥ १४ ॥

अस्मदादिजन्ममरणादिसंसारोऽपि तदीयकल्पनैवेत्याह - तत्रेति । कल्पेषु
चतुर्युगसहस्रमितेषु स्वाहस्सु तत्तदनुकूलरचनाभी रचितानां
देवासुरादीनां बहुभिर्नामभिर्मन्थरं गुरुतरं यथा स्यात्तथा स्थित्वा
भोगिपर्यङ्कशायिनि विष्णौ स्वयं विलीयते आतपगता हिमकणिका यथा
स्वकारणे तेजसि लीयते तद्वत् ॥ १४ ॥

कालोदितः सङ्कल्पवशात् पुनरन्यतया जायते सापि पुनर्विलीयते
पुनरप्युदेति सैवेति भूयोभूयोऽनुसंसरन्ती स्वयमुपशाम्यति ॥ १५ ॥

पुनः सृष्टिकाले उदितो भगवन्नाभिपद्मादाविर्भूतश्चेत् पुनरन्यतया
कल्पान्तरसर्गान्तरतया सा प्राक्तनी कल्पना जायते स पुनः कल्पान्ते विलीयते
पुनरप्युदेति । इति यावदधिकारप्रारब्धक्षयं संसरन्ती तत्क्षये
स्वतःसिद्धादात्मबोधाद्द्विपरार्धावसाने समूलं स्वयमुपशाम्यति ॥ १५ ॥

इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च समतीता भविष्यन्तीति
सन्ति चेतरा अनन्ता यासां सङ्ख्यापि न विद्यते ॥ १६ ॥

एवमन्येष्वपि हैरण्यगर्भमनस्सु नश्वरस्वभावता प्रमाणसिद्धेत्याह

  • इत्थमित्यादिना । अस्मिन् ब्रह्माण्डेऽपि प्रतिपरमाणु
    ब्रह्माण्डकोटिकल्पनास्तीति प्रागुक्तरीत्या बोध्यम् ॥ १६ ॥

प्। ४००) २३६

एवमस्यां तादृशि वर्तमानायामीश्वरादागत्य जीवो यथा जीव्यते
विमुच्यते तच्छृणु ॥ १७ ॥

यथा समष्टिमनांसि पुरुषयत्नसाध्यैरेवोपासनज्ञानैरुपचीयन्ते
शाम्यन्ति चैवं व्यष्टिजीवमनांस्यपि
जन्ममरणबीजकामकर्मवासनासङ्कल्पैरुपचीयन्ते
निरोधज्ञानाभ्यासप्रकर्षैः शाम्यन्तीति नासम्भावनीयो मनोनाश
इत्याशयेन सृष्ट्यादिकालादारभ्य मोक्षकल्पनान्तां जीवसंसृतिं
सङ्क्षेपविस्तराभ्यां प्रपञ्चयति - एवमस्यामित्यादिना । अस्यां
प्रागुक्तायां समष्टिकल्पनायां तादृशि परमात्मनि वर्तमानायां
सत्यां जीवो व्यष्टिजीवो जीव्यते जीवति । पदविकरणव्यत्ययश्छान्दसः ॥ १७ ॥

ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थितकाशशक्तिमवलम्ब्य
तत्रस्थपवनतानुपातिनी घनसङ्कल्पत्वं गच्छति ॥ १८ ॥

सङ्क्षेपेण सूत्रितमर्थं विवरीतुकामः प्रथममीश्वरादागत्येत्यंशं
विवृणोति - मनःशक्तिरिति । प्रलये उपाधिविलयादव्याकृते लीनानां
जीवानां संस्कारमात्रेण परिशिष्टा मनःशक्तिः प्रथममव्याकृतात्
शब्दतन्मात्रात्मकाकाशशक्त्याविर्भावे सति पुरःस्थितां प्रथमोत्पन्नां
तामवलम्ब्य स्वयमप्यभुदिता सती पवनशक्त्यात्मकस्पर्शतन्मात्रोत्पत्तौ
तत्रत्यपवनतानुपातिनी ईषच्चलनयोग्यतालक्षणं घनसङ्कल्पत्वं गच्छति ॥
१८ ॥

ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकरणतां नीत्वा
सात्वसूक्ष्मा प्रकृतिर्भूत्वा
गगनपवनतेजोरूपतासङ्कल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं
विशन्ती प्राणिनां गर्भतां च गच्छति ॥ १९ ॥

ततः पुरःप्राप्तरूपरसगन्धात्मकतन्मात्रक्रमेण
पञ्चकतामपञ्चीकृतपञ्चभूतात्मकतामेत्य अन्तःकरणतां
मनोबुद्धिरहङ्कारश्चित्तमिति व्यवहारबीजजीवोपाधितां नीत्वा प्राप्य सा
प्रागुक्तमनःशक्तिरसूक्ष्मोपचिता पञ्चीकृतस्थूलप्रकृतिर्भूत्वा
पञ्चीकृतगगनपवनतेजोरूपतासङ्कल्पात् क्रमेण प्रालेयरूपतां
नीहारवृष्ट्यादिजलरूपतामुपेत्य शालिगोधूमाद्योषधिं सस्यं विशन्ती
अन्नभूता पुरुषैर्भुक्ता रेतोभावं प्राप्य स्त्रीयोनौ निषिक्ता
कललबुद्बुदादिक्रमेण प्राणिनां गर्भतां च गच्छति ॥ १९ ॥

जायते तस्मात्ततः पुरुषः सम्पद्यते ॥ २० ॥

तस्माज्जायते प्रसूयते ततो जन्मनः
कदाचित्सुकृताधिक्यात्कर्मज्ञानाधिकृतः पुरुषः सम्पद्यत इत्यर्थः ॥ २०

तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्याग्रहणं कर्तव्यं
गुरवोऽनुगन्तव्याः ॥ २१ ॥

तेनेत्यादि निगदव्याख्यातम् ॥ २१ ॥

ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायते ॥ २२ ॥

तवेव चमत्कृतिर्विवेकवैराग्यादिसाधनसम्पत्तिर्जायते ॥ २२ ॥

स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेयविचार उत्पद्यते ॥ २३ ॥

स्वच्छदृशा चित्तवृत्तेः पुरुषस्य संसारानर्थो हेयो मोक्षोपाय उपादेय
इति विचार उत्पद्यते ॥ २३ ॥

तादृग्विवेकवति सङ्कलिताभिमाने
पुंसि स्थिते विमलसत्त्वमयाग्र्यजातौ ।
सप्तात्मिकावतरति क्रमशः शिवाय
चेतःप्रकाशनकरी ननु योगभूमिः ॥ २४ ॥

गद्योक्तार्थसारं पद्येनोक्त्वोपसंहरंस्तादृशे पुरुषे
योगभूमिकामात्यन्तिकमनोनाशोपायभूतामवतारयति - तादृगिति ।
तादृक्साधनान्तरोपचितो यो विवेकस्तद्वति विमलसत्त्वमयी
अग्र्यजातिर्ब्राह्मणाद्युत्तमजातिर्यस्य स तादृशोऽहमिति सङ्कलितः
स्वीकृतोऽभिमानोऽनेन तस्मिन्नधिकारिपुंसि स्थिते अचले सति शिवाय
परमपुरुषार्थाय वक्ष्यमाणसाप्तविध्यात्मिका चेतसः प्रकाशनं
ज्ञानेनामिज्वलनं तत्करणशीला योगभूमिः
क्रमशश्चित्तोपरमतारतम्यक्रमेणावतरति ।
वक्ष्यमाणलक्षणैराविर्भवतीत्यर्थः ॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षो० उत्पत्तिप्रकरणे
साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः ॥ ११६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः ॥ ११६ ॥