पञ्चदशोत्तरशततमः सर्गः ११५
श्रीवाल्मीकिरुवाच ।
एवमुक्तो भगवता वसिष्ठेन महात्मना ।
रामः कमलपत्राक्ष उन्मीलित इवाबभौ ॥ १ ॥
रामस्य बोधादाश्चर्यं मायातन्नाशसंस्थितिः ।
लवणापन्निदानं च पृष्टमत्र प्रकीर्त्यते ॥ १ ॥
उन्मीलितो विकासितः । अर्थात्पद्म इवेति गम्यते ॥ १ ॥
विकासितान्तःकरणः शोभामलमुपाययौ ।
आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव ॥ २ ॥
तदेव स्पष्टमाह - विकासितेति । आश्वस्तः समाधानतोषितः ॥ २ ॥
बोधविस्मयसञ्जातसौम्यस्मितसिताननः ।
दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह ॥ ३ ॥
बोधप्रयुक्तविस्मयात्सञ्जातेन सौम्येन स्मितेन सितं धवलितमाननं यस्य ॥
३ ॥
श्रीराम उवाच ।
अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
अविद्यमाना या विद्या तया सर्वे वशीकृताः ॥ ४ ॥
अविद्यमाना अत्यन्तासती या तया ॥ ४ ॥
प्। ३९७) २३४
इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये ।
अविद्ययापि यन्नामासदेव सदिव स्थितम् ॥ ५ ॥
इदं दृश्यमानं तत् प्रसिद्धं संसारदुःखमविद्ययोपादानभूतयापि
[पाधिभूतयेति इति पाठः] । नामेति किलार्थे ॥ ५ ॥
अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे ।
रूपं मदवबोधार्थं कथयानुग्रहात्पुनः ॥ ६ ॥
नद्या इव प्रवाहवत्याः संसारनिदानभूताया मायायाः । मदवबोधार्थं
ममावबोधदार्ढ्यार्थं पुनः कथय ॥ ६ ॥
अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते ।
लवणोऽसौ महाभागः किं नामापदमाप्तवान् ॥ ७ ॥
किं कस्मान्निमित्तात् । नामेति किलार्थे ॥ ७ ॥
संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः ।
ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् ॥ ८ ॥
तृतीयं पृच्छति - संश्लिष्टयोरिति ।
जतुकाष्ठवत्संश्लिष्टयोर्मल्लमेषवत्परस्पराहतयोर्वा देहदेहिनोर्मध्ये
कः शुभाशुभकर्मफल्योरेकभाक् । मुख्यो भोक्तेत्यर्थः ॥ ८ ॥
लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् ।
किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः ॥ ९ ॥
चतुर्थः प्रश्नः स्पष्टः ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
काष्ठकुड्योपमो देहो न किञ्चन इहानघ ।
स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥ १० ॥
एवं पृष्ठो वसिष्ठो विवेकदार्ढ्यहेतुत्वप्रकर्षात्तृतीयं प्रश्नं
प्रथमं समादधानोऽर्थात्प्रथममपि समाधत्ते - काष्ठेत्यादिना । न
किञ्चन वस्तुसदित्यर्थः । तथाचाचेतनत्वादसत्त्वाच्च न देहस्य
कर्मफलभोक्तृताप्रसक्तिरित्यर्थः ॥ १० ॥
चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् ।
विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ॥ ११ ॥
किं तर्हि भोक्तृ तदाह - चेतस्त्विति । तस्य जाड्यदोषं परिहरति -
चिच्छक्तीति । चिदाभासतादात्म्यापन्नमित्यर्थः । संसारे भोक्तृत्वे
संरम्भोऽभिनिवेशो यस्य तत् ॥ ११ ॥
देही हि कर्मभाग्यो हि नानाकारशरीरधृक् ।
अहङ्कारमनोजीवनामभिः परिकल्प्यते ॥ १२ ॥
तदेव जीव इत्याह - देहीति ॥ १२ ॥
तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव ।
सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ॥ १३ ॥
अप्रबुद्धं मनो नानासञ्ज्ञाकल्पितकल्पनम् ।
वृतीरनुपतच्चित्रा विचित्राकृतितां गतम् ॥ १४ ॥
नानावृत्तीरनुपतदिति नामभेदे निमित्तोक्तिः ॥ १४ ॥
अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि ।
सम्भ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ॥ १५ ॥
तस्य चाप्रबोधो निमित्तमित्याह - अग्रबुद्धमिति ॥ १५ ॥
अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः ।
तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ॥ १६ ॥
सम्प्रबुद्धस्य मनसस्तमः सर्वं विलीयते ।
कमलस्य यथा हार्दं दिनालोकविकासिनः ॥ १७ ॥
हार्दं हृदयस्थम् ॥ १७ ॥
चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।
कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ॥ १८ ॥
दुःखस्य कोविदो भोक्ता ॥ १८ ॥
जडो देहो न दुःखार्हो दुःखी देह्यविचारतः ।
अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ॥ १९ ॥
शुभाशुभानां धर्माणां जीवो विषयतां गतः ।
अविवेकैकदोषेण कोशेनेव हि कीटकः ॥ २० ॥
कीटकः कौशेयकोशकाराख्यः ॥ २० ॥
अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् ।
नानाकारविहारेण परिभ्रमति चक्रवत् ॥ २१ ॥
अविवेकलक्षणेनामयेन रोगेणोन्नद्धं बद्धम् ॥ २१ ॥
उदेति रौति हन्त्यत्ति याति वल्गति निन्दै ।
मन एव शरीरेऽस्मिन्न शरीरं कदाचन ॥ २२ ॥
भ्रमणमेव प्रपञ्चयति - उदेतीति ॥ २२ ॥
यथा गृहपतिर्गेहे विविधं हि विचेष्टते ।
न गृहं तु जडं राम तथा देहे हि जीवकः ॥ २३ ॥
सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।
मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥ २४ ॥
मानवं जीवम् ॥ २४ ॥
अत्र ते शृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।
लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ॥ २५ ॥
तदुपपादकत्वे द्वितीयप्रश्नोत्तरमवतारयति - अत्रेति ॥ २५ ॥
मनः कर्मफलं भुङ्क्ते शुभं वाऽशुभमेव वा ।
यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ॥ २६ ॥
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।
एकं [एकान्तेनेति इति पाठः] तेनोपविष्टेन चिन्तितं मनसा चिरम् ॥
२७ ॥
पितामहो मे सुमहाव्राजसूयस्य याजकः ।
अहं तस्य कुले जातस्तं यजे मनसा मखम् ॥ २८ ॥
बाह्यसम्भारासामर्थ्याद्राजादिपीडानिमित्ते राजसूये
मन्त्रिपुरोहिताद्यसम्मतेर्वा मनसा यज्ञकल्पनमिति बोध्यम् ॥ २८ ॥
इति सञ्चिन्त्य मनसा कृत्वा सम्भारमादृतः ।
राजसूयस्य दीक्षायां प्रविवेश महीपतिः ॥ २९ ॥
ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् ।
देवानामन्त्रयामास ज्वालयामास पावकम् ॥ ३० ॥
यथेच्छं यजमानस्य मनसोपवनान्तरे ।
ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ॥ ३१ ॥
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।
विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ॥ ३२ ॥
विबुध्यत बाह्यदृष्टिं प्रापेत्यर्थः । अडभावश्छान्दसः । स्वे स्वीये ॥ ३२ ॥
प्। ३९८) २३५
एवं स लवणो राजा राजसूयमवाप्तवान् ।
मनसैव हि तुष्टेन युक्तं तस्य फलेन च ॥ ३३ ॥
तस्य फलेन युक्तं भवितुमिति शेषः ॥ ३३ ॥
अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।
तन्मनः पावनोपाये सत्ये योजय राघव ॥ ३४ ॥
तत्तस्मात्कारणान्मनसः पावने विशोधने उपाये विचारनिरोधादौ । मन एव
क्रियाशक्तिप्राधान्येन कर्तृ करणं क्रिया च । सैव सुखदुःखफलात्मना
परिणता तत्फलं मन एव चिदाभासव्याप्त्या चिच्छक्तिप्राधान्येन भोक्तृ
भोगश्चेति कर्तृभोक्तृभावप्रवाह एव मायानद्याः
स्वरूपमित्यर्थात्प्रथमप्रश्नविषयोऽप्यनेन सन्दर्भेण सन्दर्शितो बोध्यः
। चतुर्थप्रश्नं तूत्तरसर्गे समाधास्यति ॥ ३४ ॥
पूर्णे देशे सुसम्पूर्णः पुमान्नष्टे विनश्यति ।
देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ॥ ३५ ॥
एवं रामं समाधाय देवादीन्सभ्यान्प्रति विस्तरेण वर्णितमर्थं
पिण्डीकृत्याह - पूर्णे इति । हे बुधाः अयं मनोरूपः पुमान्पूर्णे
कालादिपरिच्छेदशून्ये दिशति स्वात्माकारं ददातीति देश आलम्बनं तत्र
प्रतिष्ठितः सम्पूर्णो भवति । नष्टे नित्यनश्वरे परिच्छिन्ने देहादिदेशे
प्रतिष्ठितस्तु तद्भावप्राप्त्या विनश्यति । अतो देहोऽहमिति येषां
नश्वराहम्भावनिश्चयस्तैरलम् । प्रयोजनं नास्तीत्यर्थः ॥ ३५ ॥
उच्चैर्विवेकवति चेतसि सम्प्रबुद्धे
दुःखान्यलं विगलितानि विविक्तबुद्धेः ।
भास्वत्करप्रकटिते ननु पद्मखण्डे
सङ्कोचजाड्यतिमिराणि चिरं क्षतानि ॥ ३६ ॥
उपसंहरति - उच्चैरिति ।
शास्त्राचार्यपुरस्कृतसम्यग्विचारपरिपाकादुच्चैर्विवेकवति
निरूढसारासारविवेके चेतसि सम्प्रबुद्धे नास्म्यहं कदापि देहादिस्वभावः
किन्तु पूर्णानन्दस्वप्रकाशैकरसं ब्रह्मैवाहमस्मीति सम्यक् प्रबुद्धे सति
विविक्ता वृत्तीद्धबोधेन बाधिता बुद्धिवृत्तिरपि येन तथाविधस्य
ब्रह्मीभूतस्याधिकारिणः सर्वदुःखानि अलं समूलं चिरं विगलितानि
कदाचिदपि न भवन्तीत्यर्थः । पद्मखण्डे भास्वतः सूर्यस्य करैः प्रकटिते
सङ्कोचो मुकुलता जाड्यं तुहिनम्लानता तिमिरं कोशान्तर्बाह्यान्धकारश्च
चिरं यथा क्षतानि नष्टानि भवन्ति तद्वदित्यर्थः ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे
सुखदुःखभोक्तृतोव्पदेशो नाम पञ्चदशोत्तरशततमः सर्गः ॥
११५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
सुख्दुःखभोक्तत्वोपदेशो नाम पञ्चदशोत्तरशतमः सर्गः ॥ ११५ ॥