११४

चतुर्दशोत्तरशतमः सर्गः ११४

श्रीराम उवाच ।

अविद्याविभवप्रोत्थं निबिडं पुरुषस्य हि ।
महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ॥ १ ॥

इहाविद्याक्षयोपायः स्वात्मदर्शनमुच्यते ।
विशुद्धात्मस्वरूपं चासङ्कल्पाद्वासनाक्षयः ॥ १ ॥

वासनाक्षयोपायं पृष्ट्वा तन्मूलाविद्यावरणक्षयोपायं पृच्छति -
अविद्येति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

यथा तुषारकणिका भास्करालोकनात्क्षणात् ।
नश्यत्येवमविद्येयं राघवात्मावलोकनात् ॥ २ ॥

एवं पृष्टो वसिष्ठः प्रथममविद्याक्षयोपायमाह - यथेत्यादिना ॥ २

तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।
आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ॥ ३ ॥

संसारलक्षणेषु भृगुषु गिरिप्रपातेषु । देहिनं देहाभिमानिनमहङ्कारम्
। आन्दोलयत्यधोधःपातनेनावलोडयति ॥ ३ ॥

अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।
स्वयमात्मावलोकेच्छा मोहसङ्क्षयदायिनी ॥ ४ ॥

अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते ।
आतपानुभवार्थिन्याश्छायाया इव राघव ॥ ५ ॥

परं परमात्मानम् ॥ ५ ॥

दृष्टे सर्वगते बोधे स्वयमेव विलीयते ।
सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ॥ ६ ॥

सर्वासु आशासु दिक्षु अभ्युदिते द्वादशार्कगणे छाया यथा तथा ॥ ६ ॥

इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते ।
स चासङ्कल्पमात्रेण सिद्धो भवति राघव ॥ ७ ॥

कारणाविद्यानाशोपायमुक्त्वा कार्याविद्याजयोपायमाह - इच्छेति ।
तन्नाश इति । तथाच श्रुतिः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुते इति ॥ ७ ॥

मनागपि मनोव्योम्नि वासनारजनीक्षये ।
कालिमा तनुतामेति चिदादित्यमहोदयात् ॥ ८ ॥

वासना कामवासना । कालिमा अविद्यावरणम् ॥ ८ ॥

यथोदिते दिनकरे क्वापि याति तमस्विनी ।
तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ॥ ९ ॥

दृढवासनया बन्धो घनतामेति चेतसः ।
बलाद्वेतालसङ्कल्पः सन्ध्याकाले यथा शिशोः ॥ १० ॥

शिशोर्दृढतरवेतालवासनावासितस्येति शेषः ॥ १० ॥

श्रीराम उवाच ।

यावत्किञ्चिदिदं दृश्यं साविद्या क्षीयते च सा ।
आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ॥ ११ ॥

प्रश्नः स्पष्टः ॥ ११ ॥

श्रीवसिष्ठ उवाच ।

चेत्यानुपातरहितं सामान्येन च सर्वगम् ।
यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ १२ ॥

चेत्यानुपातो विषयव्याप्तिस्तद्रहितम् । सर्वचेत्यानां
कारणत्वात्सामान्यमविद्या तेन च वर्जितम् । निर्विशेषावरणमिति
[निर्विक्षेपावरणं इति पाठः] यावत् ॥ १२ ॥

आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत् ।
तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ॥ १३ ॥

तदसम्भावनावारणाय सकार्याविद्यायास्तत्र बाधं प्रपञ्चयति -
आब्रह्मेत्यादिना ॥ १३ ॥

सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् ।
कल्पनान्या मनोनाम्नी विद्यते नहि काचन ॥ १४ ॥

न जायते न म्रियते किञ्चिदत्र जगत्त्रये ।
न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १५ ॥

केवलं केवलाभासं सर्वसामान्यमक्षतम् ।
चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १६ ॥

सर्वसामान्यं सर्वानुगतसद्रूपम् ॥ १६ ॥

प्। ३९४) २३३

तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।
शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥ १७ ॥

यैषा स्वभावातिगतं स्वयं सङ्कल्प्य धावति ।
चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ॥ १८ ॥

तस्मिन्नात्मनि यैषा आम्लाना सावरणा चित् स्वभावातिगतं चित्स्वभावविरुद्धं
जाड्यपरिच्छेदादिस्वभावं चेत्यं स्वयं सङ्कल्प्य धावति सा विक्षेपम्लाना
तत्प्रसिद्धं मनः स्मृतमित्यर्थः ॥ १८ ॥

एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः ।
विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ॥ १९ ॥

एतस्मान्मनोदेवात् ॥ १९ ॥

एकस्मिन्वितते शान्ते या न किञ्चन विद्यते ।
सङ्कल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥ २० ॥

या संसृतिः ॥ २० ॥

अतः सङ्कल्पसिद्धेयं सङ्कल्पेनैव नश्यति ।
येनैव जाता [जायते तेन इति पाठः] तेनैव वह्निज्वालेव वायुना ॥ २१

वायुनेति । वायोरग्निः इति श्रुतेरिति भावः ॥ २१ ॥

पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता ।
असङ्कल्पनमात्रेण साविद्या प्रविलीयते ॥ २२ ॥

निदिध्यासनपरिपाकपौरुषोद्योगात्सिद्धेन साक्षात्कारप्रतिष्ठितेन
असङ्कल्पनमात्रेण ॥ २२ ॥

नाहं ब्रह्मेति सङ्कल्पात्सुदृढाद्बध्यते मनः ।
सर्वं ब्रह्मेति सङ्कल्पात्सुदृढान्मुच्यते मनः ॥ २३ ॥

तथाच बन्धमोक्षावपि मनोधर्मावेव नात्मधर्मावित्याह - नाहमिति ॥
२३ ॥

सङ्कल्पः परमो बन्धस्त्वसङ्कल्पो विमुक्तता ।
सङ्कल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ॥ २४ ॥

नाहं ब्रह्मेति सङ्कल्पं सर्वं ब्रह्मेति विरोधिसङ्कल्पप्रतिष्ठितज्ञानेन
संविजित्येत्यर्थः ॥ २४ ॥

दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा ।
लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ॥ २५ ॥

अत्राम्बरे या नास्ति सा नलिनीव बालेन मनःस्वार्थो मनोरथस्तेन विलासार्थं
यथा दृढा कल्प्यते तथैवेयं द्विविधाप्यविद्या इत्थं
विकल्पजालिकेवासत्येवापि सत्समा बालेन मूढजनेन न सुखाय
अत्यन्तदुःखायैव दृढा कलिता कल्पितेति चतुर्थेनान्वयः । नलिनीविशेषणानि
स्पष्टानि ॥ २५ ॥

उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः ।
विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ॥ २६ ॥

विकल्पजालिकेवेत्थमसत्येवापि सत्समा ।
मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ॥ २७ ॥

तथैवेयमविद्येह भवबन्धनबन्धनी ।
चपला न सुखायैव बालेन कलिता दृढा ॥ २८ ॥

कृशोऽति दुःखी बद्धोऽहं हस्तपादादिमानहम् ।
इति भावानुरूपेण व्यवहारेण बध्यते ॥ २९ ॥

बन्धकल्पनाभेदान्प्रपञ्चयति - कृश इति ॥ २९ ॥

नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः ।
इति भावानुरूपेण व्यवहारेण मुच्यते ॥ ३० ॥

नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम् ।
इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥ ३१ ॥

तन्मोक्षोपायकल्पनां दर्शयति - नाहमिति ॥ ३० ॥ ३१ ॥

प्रोत्तुङ्गसुरशैलाग्रवैदूर्यशिखरप्रभा ।
अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि ॥ ३२ ॥

अविद्यादिकल्पनाया दृष्टान्तान्तरमाह - प्रोत्तुङ्गेत्यादिना । वैदूर्यं
नीलमणिविशेषस्तन्मयशिखरस्य प्रभा परितः प्रसृता व्योम्नः कालिमेति
योगभाष्यकारमतेनोक्तम् । ज्यौतिषिकमतेनाप्याह - अथवेति ।
दूरत्वादर्कांशुमिर्दुर्भेदा निरसितुमशक्या
ब्रह्माण्डखर्परसन्निहितप्राग्वर्णिततिमिरस्य श्रीः कान्तिरेव व्योम्नः
कालिमेति यथा धरणिसंस्थेन पुंसा कल्प्यते एवमियमविद्या इद्धया
स्वसङ्कल्पनया कल्पितेत्यर्थः ॥ ३२ ॥

कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः ।
पुंसा धरणिसंस्थेन स्वसङ्कल्पनयेद्धया ॥ ३३ ॥

कल्पितैवमविद्येयमनात्मन्यात्मभावना ।
पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ॥ ३४ ॥

श्रीराम उवाच ।

मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा ।
तदेतत्किङ्कृतं ब्रह्मन्नीलत्वं नभसो वद ॥ ३५ ॥

नीलमणि प्रभात्वे शरन्मेघनीरपटलादिष्वपि नीलिमप्रतिभासापत्तेरुत्तरतो
नैल्याधिक्यप्रतीत्यापत्तेर्मेरोः पद्मरागादिमणिमयशृङ्गप्रभया
रक्तिमादिप्रतिभासस्याप्यवर्जनाद्विनिगमकाभावान्न योगिकल्पना युक्तिमती ।
ब्रह्माण्डोर्ध्वाधःखर्परयोः स्वर्णरजतमयत्वात्
तदण्डमभवद्धैमं सहस्रार्कसमद्युति इति पुराणेषु ब्रह्माण्डस्य
महाप्रकाशताश्रवणादूर्ध्वोर्ध्वं
सत्यलोकादिलोकैर्भास्वरतरतमैर्व्याप्तत्वादाब्रह्माण्डखर्परमसति
व्यवधाने आदित्यरश्मिव्याप्तेर्दुर्वारत्वान्मध्ये
तिमिरासम्भवादतिदूरपातिनामादित्यरश्मीनामगम्येदूरतमे देशे
अस्मदादिचक्षुःप्रसरकल्पनाया असम्भावनीयत्वान्निशि नक्षत्रादिदर्शने
तमसो व्यवधायकत्वादर्शनाद्ब्रह्माण्डखर्परस्यापि
दर्शनापत्तेरान्तरालिकसत्यादिलोकविमानादिदर्शनावर्जनप्रसङ्गाच्च न
ज्यौतिषिककल्पनापि युक्तेति मन्यमानो रामस्तत्पक्षावाक्षिप्य नभोनैल्यतत्त्वं
पृच्छति - मेर्विति ॥ ३५ ॥

श्रीवसिष्ठ उवाच ।

न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता ।
अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी ॥ ३६ ॥

रामाभिप्रेतयुक्तीरेवानूद्य दर्शयन्वसिष्ठः पक्षद्वयासम्भवं
स्वयमपि दर्शयति - नेति । अन्येषां पद्मरागादिरत्नानां प्रभाया
अभावात्तद्वन्मैरवी मेरुसम्बन्धिनी नीलमणिप्रभापि नेत्यर्थः ॥ ३६ ॥

तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः ।
प्राकाश्यादण्डपारस्य तमसो नात्र सम्भवः ॥ ३७ ॥

प्रथमपक्षं निरस्य द्वितीयं निरस्यति - तेजोमयत्वादिति ।
इवशब्दोऽनर्थकः प्रसिद्धिद्योतको वा । प्राकाश्यात्सर्वतः प्रकाशव्याप्तत्वात् ।
अण्डपारस्य अण्डान्तर्वर्तिनभःपारस्य ॥ ३७ ॥

प्। ३९५) २३३

केवलं शून्यतैवैषां वह्नि सुभग लक्ष्यते ।
वयस्येवानुरूपा या अविद्याया असन्मयी ॥ ३८ ॥

एवं पक्षद्वयमनूद्य सिद्धान्तमाह - केवलमिति । बह्वी विपुला । अविद्याया
अनुरूपा वयस्या सखीव या लक्ष्यते ॥ ३८ ॥

स्वदृष्टिक्षयसम्पत्तावक्ष्णोरेवोदितं तमः ।
वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते ॥ ३९ ॥

अक्ष्णोरेव स्वदृष्टेः स्वीयदर्शनशक्तेः क्षयस्य दूरे कुण्ठीभावस्य
सम्पत्तौ सत्यां यद्वस्तु स्वभावात्तमोऽदर्शनमुदितं तद्व्योम्नः कार्ष्ण्यं
नैल्यमित्यवलोक्यत इत्यर्थः ॥ ३९ ॥

एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा ।
न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा ॥ ४० ॥

एतत् निदर्शनम् । तथेति बुद्ध्यस्वेति शेषः ॥ ४० ॥

असङ्कल्पो ह्यविद्याया निग्रहः कथितो बुधैः ।
यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ॥ ४१ ॥

प्रासङ्गिकं समाधाय प्रकृतमनुसन्धत्ते - असङ्कल्प इत्यादिना । सः
असङ्कल्पः सुकरो भाति न दुष्कर इत्यर्थः ॥ ४१ ॥

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ४२ ॥

एतदेवाभिप्रेत्य प्राक्प्रतिज्ञातमित्याह - भ्रमस्येति ॥ ४२ ॥

नष्टोऽहमिति सङ्कल्पाद्यथा दुःखेन नश्यति ।
प्रबुद्धोऽस्मीति सङ्कल्पाज्जनो ह्येति यथा सुखम् ॥ ४३ ॥

दुःखेन नश्यति स्वप्ने । प्रबुद्धो जाग्रदस्मीति सङ्कल्पात्सुखं
स्वाप्नदुःखापगमम् ॥ ४३ ॥

तथा सम्मूढसङ्कल्पान्मूढतामेति वै मनः ।
प्रबोधोदारसङ्कल्पात्प्रबोधायानुधावति ॥ ४४ ॥

प्रबोधाय बोधैकरसब्रह्मभावाय ॥ ४४ ॥

क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती ।
यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ॥ ४५ ॥

संस्मरणादज्ञोऽस्मीति सङ्कल्पनात् । शाश्वतीति अनाद्यविद्यावत्तदनादितापि
तत्प्रतीतिक्षणकल्पितैवेति न नित्यमुक्तत्वविरोध इति सूचनाय ।
विस्मरणात्सङ्कल्पवासनामूलोच्छेदान्नश्वरी नित्यनष्टा ॥ ४५ ॥

भावनी सर्वभावानां सर्वभूतविमोहिनी ।
भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ॥ ४६ ॥

स्वात्मनो नाशे अदर्शने भारिणी गुरुतरा । वृद्धिशीलेति यावत् । स्वात्मनो
वृद्धौ अपरिच्छिन्नस्वरूपावाप्तौ ॥ ४६ ॥

मनो यदनुसन्धत्ते तत्सर्वेन्द्रियवृत्तयः ।
क्षणात्सम्पादयन्त्येता राजाज्ञामिव मन्त्रिणः ॥ ४७ ॥

मनसो निरोधेऽपि कथमिन्द्रियैर्वासनोद्भवो न स्यात्तत्राह - मन इति ॥ ४७ ॥

तस्मान्मनोनुसन्धानं भावेषु न करोति यः ।
अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ॥ ४८ ॥

अन्तश्चेतनयत्नो ब्रह्माहम्भावना ॥ ४८ ॥

यदादावेव नास्तीदं तदद्यापि न विद्यते ।
यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ॥ ४९ ॥

तमेवान्तश्चेतनयत्नप्रकारं दर्शयति - यदित्यादिना ॥ ४९ ॥

मननीयमतो नान्यत्कदा कस्य कथं कुतः ।
निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ॥ ५० ॥

अतो ब्रह्मणोऽन्यन्नास्ति । चतुर्भिः किंवृत्तैः कालसम्बन्धिप्रकारनिमित्तानि
व्युदस्यन्ते । अपयन्त्रणमपगतसङ्कोचं पूर्णतयेति यावत् ॥ ५० ॥

परं पौरुषमाश्रित्य यत्नात्परमया धिया ।
भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ॥ ५१ ॥

यदुदेति परो मोहो जरामरणकारणम् ।
आशापाशशतोल्लासिवासना तद्विजृम्भते ॥ ५२ ॥

परो मोहः स्वाज्ञानं तदेव जरामरणादिकारणे । यद्यत्कार्यात्मना उदेति
तत्सर्वं वासनैव विजृम्भते न वस्तुसदित्यर्थः ॥ ५२ ॥

मम पुत्रा मम धनमयं सोऽहमिदं मम ।
इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ ५३ ॥

शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत् ।
अनन्यया वासनया त्वहम्भावाहिरर्पितः ॥ ५४ ॥

यथा जले वातेन तरङ्गाहिः कल्पितस्तथा वासनया आत्मनि
अहम्भावलक्षणोऽहिः कल्पितः ॥ ५४ ॥

परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम् ।
आत्मतत्त्वादृते सत्यं न कदाचन किञ्चन ॥ ५५ ॥

हे तत्त्वज्ञ विवेकिन् परमार्थेन दर्शनेन मम अहमिति द्वयम्पि अलम् ।
नास्त्येवेत्यर्थः ॥ ५५ ॥

खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः ।
सैवान्येव विचित्रेयमविद्या परिवर्तते ॥ ५६ ॥

खं च अद्रयश्च द्यौश्च उर्वी च नदीश्रेण्यश्चेति द्वन्द्वः ।
दृष्टिसमकालया सृष्ट्या । जीवन्मुक्तानां दृष्ट्या
दृष्टिसृष्टिवादस्यैव शास्त्रे प्रतिष्ठापनादिति भावः ॥ ५६ ॥

उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः ।
सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजङ्गधीः ॥ ५७ ॥

परितो विच्छेद्या त्रिविधपरिच्छेदवती ॥ ५७ ॥

खाद्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव ।
नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ॥ ५८ ॥

खाद्रीत्यादिसमाहारद्वन्द्वः । आर्षं स्त्रीत्वम् । इयं या अविद्या सा अज्ञस्य ।
ज्ञस्य अविद्या नास्ति । तत् खादि ब्रह्मैवेत्यर्थः ॥ ५८ ॥

रज्जुसर्पविकल्पौ द्वावज्ञेनैवोपकल्पितौ ।
ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ॥ ५९ ॥

द्वौ व्यावहारिकप्रातिभासिको विकल्पौ । अकृत्रिमा स्वतःसिद्धा ॥ ५९ ॥

मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम् ।
अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ ६० ॥

कस्तवायं जडो मूको देहो भवति राघव ।
यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ ६१ ॥

अनात्मनि देहे आत्मताभ्रान्तिरेव सर्वदुःखनिदानमिति प्रथमं तां वारयति

  • क इति । जडत्वादेव मूको वागाद्यनधिष्ठाता ॥ ६१ ॥

प्। ३९६) २३४

यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः ।
श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ॥ ६२ ॥

जतु लाक्षा ।
श्लिष्टयोरपीत्यपिशब्दादत्यन्तासंश्लिष्टयोरध्यस्तासङ्गयोर्दूरनिरस्तमेकत्
वमिति द्योत्यते ॥ ६२ ॥

भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः ।
पवनस्य तथा देहनाशे नात्मा न नश्यति ॥ ६३ ॥

विदेहत्वादेवात्मनो जन्ममरणादिसम्भावनापि नास्तीत्याह - भस्त्रेति ॥ ६३ ॥

दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्तिं रघूद्वह ।
मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ॥ ६४ ॥

अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।
यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ॥ ६५ ॥

प्रसरं त्वमविद्याया मा प्रयच्छ रधूद्वह ।
अनयोपहिते चित्ते दुष्पारेह कदर्थना ॥ ६६ ॥

अविद्याया आत्मविस्मृतेः । अदर्थना दुरुक्तिः । दुष्पारा दुरुत्तरा ॥ ६६ ॥

मथ्यैवानर्थकारिण्या मनोमननपीनया ।
अनया दुःखदायिन्या महामोहफलान्तया ॥ ६७ ॥

अविद्याया असम्भावितानर्थसहस्रकारितां प्रपञ्चयति - मिथ्यैवेत्यादिना ।
अनया चन्द्रबिम्बेऽपि दाहसंशोषदुःखं समनुभूयते इति परेणान्वयः ॥ ६७

चन्द्रबिम्बे सुधार्द्रेऽपि कृत्वा रौरवकल्पनम् ।
नारकं दाहसंशोषदुःखं समनुभूयते ॥ ६८ ॥

जलकल्लोलकह्लारपुष्पसीकरवीचिषु ।
सरस्सु मृगतृष्णाढ्यं मरुत्त्वं परिदृश्यते ॥ ६९ ॥

अनयेत्येतदत्रोत्तरश्लोके चानुषज्जते ॥ ६९ ॥

नभोनगरनिर्माणपातोत्पातनसम्भ्रमाः ।
स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः ॥ ७० ॥

संसारवासनाश्चेतो यदि नाम न पूरयेत् ।
तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् ॥ ७१ ॥

न पूरयेत् इयमिति शेषः । तत्तर्हि । नयेयुरात्मानमिति शेषः ॥ ७१ ॥

दृश्यते रौरवा वीचिनरकानर्थशासना ।
मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु ॥ ७२ ॥

शासना यातना । मिथ्याज्ञाने वृद्धिं गते सति ॥ ७२ ॥

अनया वेधितं चेतो बिसतन्तावपि क्षणात् ।
पश्यत्यखिलसंसारसागरानर्थविभ्रमम् ॥ ७३ ॥

अनयोपहते चित्ते राज्य एव हि संस्थिताः ।
तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः ॥ ७४ ॥

न योग्याः नोचिताः ॥ ७४ ॥

तस्माद्राम परित्यज्य वासनां भवबन्धनीम् ।
सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा ॥ ७५ ॥

सर्वरागः सर्वद्वैताकाररञ्जनं तन्मयीम् ॥ ७५ ॥

तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना ।
स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ॥ ७६ ॥

कार्येषु व्यवहारेषु । रागेषु रक्तिविषयेषु । रञ्जना आसक्तिः ॥ ७६ ॥

विदितकौतुकसङ्घसमिद्धया [१]
यदि करोषि सदैव सुशीलया ।
वरधिया गतप्राकृतिकक्रिय-
स्तदसि केन सहानुपमीयसे ॥ ७७ ॥

विदितं निरतिशयानन्दरूपत्वात्परमकौतुकं ब्रह्म यैस्ते
विदितकौतुकास्तत्त्वविदस्तेषां सङ्घे समाजे पुनःपुनर्विचारेण समिद्धया
दृढतरब्रह्माहम्भावनिश्चयप्रदीप्तया अत एव सर्वत्र
समदर्शान्दिसुशीलया वरधिया अनासङ्गबुद्ध्या यदि करोषि सदा व्यवहरसि
तत्तर्हि गता अपगताः प्राकृतिका अविद्याप्रयुक्ताः क्रिया
जन्ममरणादिविभ्रमा यस्य तथाविधोऽसि । नित्यमुक्तस्वरूपोऽसीति यावत् । तदा
केन जीवन्मुक्तेन महाप्रभावेण ब्रह्मणा हरिणा हरेण वा सह अनुपमीयसे
नोपमां गच्छसि । नञस्तिङन्तेन समासश्छान्दसः । अनुपम आत्मा इष्यसे
इति क्यचि कर्मणि अनुपम इवाचरसीति क्यङि वा च्छान्दसेनेत्वेन कथञ्चिद्योज्यम्
। महानुपमीयसे इति पाठास्तु ऋजुः । संयुक्तात्पूर्वं गुरु रहसंयुक्ताद्वेति
च्छन्दःशिक्षावचनाद्गतप्राकृतिक इत्यत्र न वृत्तभङ्गः शङ्क्यः ॥ ७७

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे
यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ॥
११४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥