त्रयोदशोत्तरशततमः सर्गः ११३
श्रीवसिष्ठ उवाच ।
एषा हि वासना नित्यमसत्यैव यदुत्थिता ।
द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते ॥ १ ॥
सर्वदुर्वासनोच्छेदी विचारैर्विविधैर्मृतः ।
द्वैतमिथ्यात्वधीरूढस्तत्त्वबोधोऽत्र वर्ण्यते ॥ १ ॥
यद्यतो हेतोरसत्यैवोत्थिता तत्ततस्त्यक्तुं बाधितुं युज्यते ॥ १ ॥
अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते ।
नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः ॥ २ ॥
नष्टप्रज्ञेषु विवेकविज्ञानशून्येषु विद्यमाना परमार्थसत्येव
दृढतरा विद्यते । सम्यक्प्रज्ञेषु तु
अभावादपरमार्थत्वान्नाम्नैवाङ्गीकृता वन्ध्यापुत्रवत् । अतः सा कुतः ॥ २
॥
मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय ।
नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥ ३ ॥
अतस्तत्त्वज्ञतामेव विचारेण सम्पादयेत्याह - मा भवेति ॥ ३ ॥
नात्र तत्त्वादृते किञ्चिद्विद्यते वस्त्ववस्तु च ।
ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा ॥ ४ ॥
तत्त्वात्परमात्मनः । वस्तु भावः । अवस्तु अभावः ॥ ४ ॥
स्वविकल्पादृते नैतान्भावाभावानसन्मयान् ।
नित्येऽसिते तते शुद्धे मा समारोपयात्मनि ॥ ५ ॥
असिते देहादिबन्धनशून्ये । षिञ् बन्धने क्तः ॥ ५ ॥
नासि कर्ता किमेतासु क्रियासु ममता तव ।
एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् ॥ ६ ॥
बन्धस्याकर्तृतामूलत्वात्तामेव प्रथमं त्यजेत्याह - नासीति । एकस्मिन्
अद्वितीये । नह्येकमात्रकारकसाध्या क्रिया प्रसिद्धेति भावः ॥ ६ ॥
मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते ।
साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ ॥ ७ ॥
अकर्ता अकर्तृत्वाभिमानी च मा भव । अकर्तृतया ईहिते अभिमाने कृते
उपादेयं प्राप्यं साध्यं स्वयत्ननिष्पाद्यं किं साध्यं फलमस्ति । न
किञ्चिदित्यर्थः ॥ ७ ॥
कर्ता संस्त्वमसक्तत्वाद्भाअवाभावे रघूद्वह ।
असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः ॥ ८ ॥
भावोऽभिमानस्तदभावे सति असक्तत्वादकर्तापि एवमकर्तापि
संस्तत्राप्यभिमानाभावे अकर्तृत्वेऽप्यसक्तत्वात्कर्तापि । तर्हि
किमज्ञवत्कर्ताहं नेत्याह - कर्तृवदिति । अस्पन्दात्मदर्शिनस्तव
नाज्ञकर्तृवद्देहस्पन्दनेनात्मस्पन्दभ्रमलक्षणकर्तृताप्रसक्तिरित्यर्थ
ः ॥ ८ ॥
सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत् ।
उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि ॥ ९ ॥
क्रियाफलमिथ्यात्वे कर्मासक्तिरेव न युक्तेति तर्केणापि दृढीकुर्वन्नाह -
सत्यमिति ॥ ९ ॥
यत्रेन्द्रजालमखिलं मायामयमवस्तुकम् ।
तत्र कास्था कथं नाम हेयोपादेयदृष्टयः ॥ १० ॥
दर्शिततर्कस्य विपर्ययपर्यवसानं दर्शयति - यत्रेति । यत्रतत्रेति शब्दौ
यर्हितर्हीत्यर्थे ॥ १० ॥
संसारबीजकणिका यैषा विद्या रधूद्वह ।
एषा ह्यविद्यमानैव सतीव स्फारतां गता ॥ ११ ॥
कुत इन्द्रजालतेति चेदाविद्यकत्वादित्याह - संसारेति ॥ ११ ॥
येयमाभोगिनिःसारा संसारारम्भचक्रिका ।
विज्ञेया वासनैषा सा चेतसो मोहदायिनी ॥ १२ ॥
चारुवंशलतेवान्तःशून्या निस्सारकोटरा ।
सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी ॥ १३ ॥
अविद्यारूपां संसारारम्भचक्रिकामेव विस्तरेण वर्णयति - चार्वित्यादिना ।
अन्तःशून्येत्यस्य विवरणं निःसारकोटरेति । मूलनाशं विना व्युच्छिन्नापि न
नश्वरी ॥ १३ ॥
प्। ३९१) २३१
गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते ।
मृद्व्यप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता ॥ १४ ॥
निर्झरोर्मिपक्षे कूलद्रुमच्छेदिनीत्वात्तीक्ष्णाग्रेति बोध्यम् ॥ १४ ॥
दृश्यते प्रकराभासा सदर्थे नोपयुज्यते ।
तरङ्ग्ण्यतरङ्गाभा स्वाकारपरिनिष्ठिता ॥ १५ ॥
प्रकरः कार्यसमर्थकारणकलापस्तद्वदाभासः प्रथा यस्याः । तथापि
सदर्थे सत्यपुरुषार्थे । तरङ्गिणीपक्षे स्नानपानादिसत्यार्थक्रियार्थे ।
अतरङ्गाभा सत्यतरङ्गशून्यस्वप्नतरङ्गिणीसदृशी
मृगत्ष्णातरङ्गिणीव । स्वाकारः प्रतीतिमात्रशोभमान आकारस्तत्रैव
परिनिष्ठिता परिसमाप्ता नार्थक्रियायामित्यर्थः ॥ १५ ॥
क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः ।
यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः ॥ १६ ॥
स्वाकारानेव प्रपञ्चयति - क्वचिदिति । यस्या वर्ण्यमानचक्रिकायाः
प्रसादादुद्भवा आविर्भूताः व्यतिरेकं परस्परभेदमुपागताः
सर्वपदार्था इति शेषः ॥ १६ ॥
अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी ।
न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥ १७ ॥
जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी ।
निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥ १८ ॥
अन्यस्पन्दं मनश्चाञ्चल्यमुपजीवति तच्छीला ॥ १८ ॥
ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा ।
वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् ॥ १९ ॥
सत्त्वगुणेन शुद्धवर्णापि तमसा मषीमलिनकोटरा । अन्यस्य परमात्मनः
प्रसादेन सान्निध्येन वल्गति चलति । तस्यावेक्षणात्साक्षात्काराद्दीयते खण्ड्यते
। दो अवखण्डने ॥ १९ ॥
आलोके विमले म्लाना तमस्यपि विराजते ।
मृगतृष्णेव शुष्काभा नानावर्णविलासिनी ॥ २० ॥
विमले स्वात्मालोके आवरकत्वान्म्लाना ॥ २० ॥
वक्रा विषमयी तन्वी मृद्वी सङ्कटकर्कशा ।
ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी ॥ २१ ॥
तृष्णादिरूपेणापि तामेवाह - वक्रेति । सङ्कटहेतुत्वात्कर्कशा । ललनेव
चञ्चला । भोगिनी सर्पिणी ॥ २१ ॥
स्वयं दीपशिखेवाशु क्षीयते स्नेहसङ्क्षये ।
सिन्दूरधूलिलेखेव विना रागं विराजते ॥ २२ ॥
रागं स्नेहं विनापि सिन्दूरधूलिलेखेव रागवती विराजते ॥ २२ ॥
क्षणप्रकाशतरला कृतसंस्था जडाशया ।
मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता ॥ २३ ॥
जडया आशया कृतसंस्था सम्पादितस्थितिः । विद्युत्पक्षे
डलयोरभेदाज्जलस्याशया मेघे कृतस्थितिरित्यर्थः ॥ २३ ॥
यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते ।
लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा ॥ २४ ॥
दहति । सन्तापदुःखे पर्यवस्यतीति यावत् । विद्युत्पक्षे स्पष्टम् ॥ २४ ॥
अप्रार्थितैवोपनता रमणीयाप्यनर्थदा ।
अकालपुष्पमालेव श्रेयसेनाभिनन्दिता ॥ २५ ॥
अकालपुष्पमालाप्युत्पातत्वादनर्थदा ॥ २५ ॥
अत्यन्तविसृतैवातिसुखाय भ्रमदायिनी ।
दुःस्वप्नकलनेवेयमनर्थायैव तर्किता ॥ २६ ॥
तर्किता पुनःपुनस्तर्कैरनुसन्धीयमाना ॥ २६ ॥
प्रतिभासवशादेषा त्रिजगन्ति महान्ति च ।
मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च ॥ २७ ॥
मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता ।
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता ॥ २८ ॥
वियोगिनामथान्येषां कान्ताविभवशालिनाम् ।
रात्रिवत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः ॥ २९ ॥
सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम् ।
कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम् ॥ ३० ॥
विपर्यासो भ्रमस्तदेकशीलिनां पुंसाम् ॥ ३० ॥
अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु ।
दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥ ३१ ॥
अविद्याया अपि ब्रह्मणि जगद्विवर्तारोपे सन्निधानमात्रेण निमित्तता नतु
परिणामितेति स्वमतं दर्शयति - अस्या इति ॥ ३१ ॥
सनितम्बस्तनी चित्रे [त्वित्ते इति पाठः] न स्त्री स्त्रीधर्मिणी यथा ।
तथैवाकारचिन्तेयं कर्तुं योग्या न किञ्चन ॥ ३२ ॥
कुतो नास्याः कर्तृतेति चेदयोग्यत्वादित्याह - सनितम्बेति । स्त्रीधर्मिणी
गृहकार्यकरणादिसमर्थेति यावत् । आकारचिन्ता प्रागनुभूतार्थवासनारूपा ।
इयमविद्या ॥ ३२ ॥
मनोराज्यमिवाकारभासुरा सत्यवर्जिता ।
सहस्रशतशास्त्रापि न किञ्चित्परमार्थतः ॥ ३३ ॥
तदेव स्पष्टमाह - मनोराज्यमिति ॥ ३३ ॥
अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता ।
विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥ ३४ ॥
फेनमालेव सञ्जातध्वस्ता विच्छेदवर्जिता ।
जडेव चञ्चलाकारा गृह्यमाणा न किञ्चन ॥ ३५ ॥
सञ्जातध्वस्ता उत्पन्नप्रध्वंसिनी । विच्छेदवर्जिता प्रवाहनित्या । जडा
नीहारपटलीव ॥ ३५ ॥
अटत्युड्डामराकारा रजःप्रसरधूसरा ।
बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥ ३६ ॥
धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी ।
गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥ ३७ ॥
गर्भीकृतो रसः परमात्मा जलं च यया । अत एव जगन्ति आक्रम्य प्रक्रम्य
परिभूय च परिवर्तते भ्रमति ॥ ३७ ॥
धारा जलधरस्येव सुदीर्घा जलनिर्मिता ।
असारसंसारदृढा रज्जुस्तृणगणैरिव ॥ ३८ ॥
असारैः पेलवैः संसारैः संसरणसंस्कारैर्दृढा । तत्र दृष्टान्तः ##-
प्। ३९२) २३२
तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता ।
मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥ ३९ ॥
कविभिः कल्पनामात्रेण वर्णिता तरङ्गमालेवोत्पलमालेव च पङ्के पापे
कर्दमे च प्रौढा जलात्मिका जडात्मिका । लडयोरभेदात् ॥ ३९ ॥
जनेन दृश्यते वृद्धितत्परा नच वर्धते ।
विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥ ४० ॥
विषास्वादः सविषमोदकास्वादः ॥ ४० ॥
नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति ।
मिहिकेवाग्रदृष्टापि गृह्यमाणा न किञ्चन ॥ ४१ ॥
न जाने इति । बाधितस्य वादिसहस्रैरपि स्वरूपनिरूपणासम्भवादिति भावः ।
मिहिका नीहारधूमपटलीव ॥ ४१ ॥
पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी ।
आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥ ४२ ॥
द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा ।
यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥ ४३ ॥
अनयोपहते चित्ते दीर्घकालमिवाकुलैः ।
जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥ ४४ ॥
इवशब्दो मिथ्यात्वद्योतकः ॥ ४४ ॥
अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः ।
उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयघेरिव ॥ ४५ ॥
स्वस्मिन्स्वात्मनि अनया उपहृते । आवरणेनासत्प्राये कृते सतीत्यर्थः ॥ ४५ ॥
मनोज्ञमपि सत्यं च दृश्यते सदसत्तया ।
अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥ ४६ ॥
तस्या विपर्यासशक्तिमाह - मनोज्ञमिति । सद्ब्रह्म । असज्जगत् ॥ ४६ ॥
पदार्थरथमारूढा भावनैषा बलान्विता ।
आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥ ४७ ॥
पदार्था विषयास्तद्रूपं रथं । तदाकारतामिति यावत् । भावना
उद्भूतवासनारूपा एषा अविद्या मनः आक्रामति मोहयित्वा बध्नाति ॥ ४७ ॥
करुणास्यन्दमानाक्षी स्रवत्क्षीरलवस्तनी ।
भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥ ४८ ॥
मातृपत्न्यादिरूपतामप्यविद्यैव धारयतीत्याह - करुणेति ॥ ४८ ॥
विषीकरोति निःस्यन्दसन्तर्पितजगत्त्रयम् ।
सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं बिम्बमैन्दवम् ॥ ४९ ॥
निःस्यन्दैरमृतद्रवैश्चन्द्रिकाद्यात्मना परिणतैः
सन्तर्पितजगत्त्रयमैन्दवं बिम्बमपि विषीकरोति ॥ ४९ ॥
उन्मत्तरववेतालनर्तनारम्भसम्भ्रमम् ।
स्थाणवः सम्प्रयच्छन्ति मूका अप्येतयान्धया ॥ ५० ॥
अन्धयतीत्यन्धया एतया निमित्तभूतया मूका
वागादिसर्वकर्मेन्द्रियव्यापारशून्या अपि स्थाणव
उन्मत्तरववेतालनर्तनारम्भसम्भ्रमं सम्प्रयच्छन्ति जनयन्ति वने
इत्यर्थः ॥ ५० ॥
सन्ध्यादिषु च कालेषु लोष्टपाषाणभित्तयः ।
अस्याः प्रसादाद्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥ ५१ ॥
सर्पाजगरदृष्टिभिस्तथा तथा भ्रान्तिभिः ॥ ५१ ॥
एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने ।
दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥ ५२ ॥
अभ्याशतां सामीप्यम् ॥ ५२ ॥
आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा ।
क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥ ५३ ॥
कालस्य संहाररुद्रस्येष्टा निशा प्रलयरातिरिव ॥ ५३ ॥
न तदस्तीह यन्नाम न करोतीयमुद्धता ।
अस्यास्त्वकिञ्चनायास्तु शक्ततां पश्य राघव ॥ ५४ ॥
अकिञ्चनायाः स्वसत्तायामपि दरिद्रायाः ॥ ५४ ॥
संरोधयेत्प्रयत्नेन संविदेवाशु संविदम् ।
सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥ ५५ ॥
संविदा विवेकबुद्ध्या । संविदं विषयबुद्धिम् । संरोधफलमाह -
सरिदिति । स्रोतोनिरोधेन सरिदिवेत्यध्याहार्यम् ॥ ५५ ॥
श्रीराम उवाच ।
अविद्यमानयैवेदं पेलवाङ्ग्या सुतुच्छया ।
मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥ ५६ ॥
इत्थं विस्मापितो रामोऽविद्यास्वरूपपर्यालोचनेन विस्मितस्तां
वर्णयन्विस्मयमभिनयति - अविद्यमानयैवेत्यादिना ॥ ५६ ॥
अरूपया निराकृत्या चारुचेतनहीनया ।
असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥ ५७ ॥
आकृतेः पृथग्ग्रहणाद्रूपपदं नीलादिपरम् । असत्या
मृगतृष्णानद्येवानश्यन्त्या अशुष्यन्त्या ॥ ५७ ॥
आलोकेन विनश्यन्त्या [विनाश्यन्त्या इति पाठः] स्फुरन्त्या
तमसोन्तरे ।
कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥ ५८ ॥
कौशिकस्येक्षणं चक्षुस्तद्धर्मिण्या तत्सदृशया ॥ ५८ ॥
कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम् ।
देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥ ५९ ॥
क्रियाशक्तिमात्राश्रयत्वात्कुकर्मैकान्तकारिण्या
ज्ञानशक्तिशून्यत्वाद्देहमप्यविजानन्त्या ॥ ५९ ॥
सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया ।
अनारतास्तङ्गतया चित्रमन्धीकृतं जगत् ॥ ६० ॥
प्राकृतानां मूढानां कान्तया रम्यया । प्राकृतस्य पृथग्जनस्य
कान्तया भार्यया च अस्तङ्गतया असत्या तमस्तिरोहितया च ॥ ६० ॥
अनन्तदुःखाकुलया सदैव मृतयानया ।
सम्बोधहीनया यत्र चित्रमन्धीकृतं जगत् ॥ ६१ ॥
मृतया मृतकल्पया ॥ ६१ ॥
कामकोपघाङ्गिन्या तमःप्रसरवक्रया ।
अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् ॥ ६२ ॥
अचिरेण ज्ञानोदये वधे च अशरीरिण्या ॥ ६२ ॥
स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया ।
दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् ॥ ६३ ॥
स्वात्मविषये येऽन्धरूपा मूढास्तदास्पदया । इह श्लोकपञ्चके
श्लिष्टैर्विशेषणैः समासोक्त्या निशाचरी दीना स्त्री काचिदुपमा गम्यते ॥ ६३ ॥
पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया ।
विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् ॥ ६४ ॥
इतस्त्रिभिः श्लोकैस्तां पुरुषस्य प्रतिकूलभार्यात्वेन वर्णयति - पुरुषेति ।
पुरुषस्य आसक्तिरसङ्ग ऐक्याध्यासस्तेन पुरुषसङ्गिन्या ।
नानाविचित्रविषयकल्पनक्रियया पुरुषस्य भोगसम्पादनात्पुरुषानुरागिण्या ।
विवक्षासु स्वतत्त्वविचारेषु विद्रवन्त्या ॥ ६४ ॥
प्। ३९३) २३२
पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम् ।
तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् ॥ ६५ ॥
ईक्षितं साक्षात्कारम् । आवृणोतीत्यावरणा । नन्द्यादित्वकल्पनाल्ल्युः ॥ ६५ ॥
न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति ।
तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् ॥ ६६ ॥
अनन्तदुष्प्रसरविलासकारिणी
क्षयोदयोन्मुखसुखदुःखभागिनी ।
इयं प्रभो विगलति केन वाऽसमा
मनोगुहानिलयनिबद्धवासना ॥ ६७ ॥
वर्णितां वासनामयीमविद्यामुपसंहरंस्तदुच्छेदोपायं पृच्छति -
अनन्तेति । दुष्प्रसरविलासा दुश्चेष्टाविभ्रमाः । क्षयोदयोन्मुखानि
मरणजन्मप्रभृतीनि सुखदुःखानि भाजयति प्रापयति तच्छीला । असमा
विषमा । केनोपायेन विगलति नश्यति ॥ ६७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः ॥ १३३ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे अविद्यावर्णनं
नाम त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥