द्वादशोत्तरशततमः सर्गः ११२
श्रीवसिष्ठ उवाच ।
यस्मिंस्तस्मिन्पदार्थे हि येन तेन यथा तथा ।
तीव्रसंवेगसम्पन्नं मनः पश्यति वाञ्छितम् ॥ १ ॥
अत्र चित्तक्षयोपायो वासनात्याग इर्यते ।
चिन्मात्रवासनाभ्यासात्तदेकदृढनिश्चयात् ॥ १ ॥
वासनाक्षयार्थं द्वैतविषये मनसस्तीव्रवेगो निरोद्धव्यश्चिन्मात्राकारे तु
सम्पाद्य इति वक्तुं मनसः स्वतीव्रवेगानुसारिफलसम्पादनस्वभावतामाह
- यस्मिन्निति । यस्मिन्पदार्थे येन येन वाञ्छितेन निमित्तेन यथा यथा
प्रकर्षेण मनस्तीव्रवेगाभिसम्पन्नं भवति तस्मिन्पदार्थे तत्तद्वाञ्छितं
पश्यतीत्यर्थः ॥ १ ॥
जायते म्रियते चैषा मनसस्तीव्रवेगिता ।
सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः ॥ २ ॥
हे सौम्य उपेक्षणेन जायते । निरोधप्रयत्नेन म्रियते शाम्यति । यत उत्पत्तौ
निर्निमित्तेत्यर्थः ॥ २ ॥
शीतता तुहिनस्येव कज्जलस्येव कृष्णता ।
लोलता मनसो रूपं तीव्रातीव्रैकरूपिणी ॥ ३ ॥
स्वभावत इति यदुक्तं तद्विशदयति - शीततेति ॥ ३ ॥
श्रीराम उवाच ।
कथमस्यातिलोलस्य वेगो वेगैककारणम् ।
चलता मनसो ब्रह्मन्बलतो विनिवार्यते ॥ ४ ॥
वेग इत्यस्य व्याख्या चलतेति । वेगस्य तीव्रवेगस्य एकं मुख्यं कारणम् ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
नेह चञ्चलताहीनं मनः क्वचन दृश्यते ।
चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥ ५ ॥
यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्वसंस्थिता ।
तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिका ॥ ६ ॥
चित्तत्वं जगत्कारणमायासंवलितचैतन्यं तत्र संस्थिता स्पन्दशक्तिः
क्रियाशक्तिस्तां मानसीं मनोरूपेण परिणतां विद्धित्यर्थः ॥ ६ ॥
स्पन्दास्पन्दादृते वायोर्यथा सत्तैव नोह्यते ।
तथा [तथाच इति पाठः] न चित्तसत्तास्ति चञ्चलस्पन्दनादृते ॥ ७
॥
सत्ता अस्तिता । नोह्यते न विरर्क्यते ॥ ७ ॥
यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते ।
तदेव च तपःशास्त्रसिद्धान्तो मोक्ष उच्यते ॥ ८ ॥
मनोविलयमात्रेण दुःखशान्तिरवाप्यते ।
मनोमननमात्रेण दुःखं परमवाप्यते ॥ ९ ॥
दुःखमुत्पादयत्युच्चैरुत्थितश्चित्तराक्षसः ।
सुखायानन्तभोगाय तं प्रयत्नेन पातय ॥ १० ॥
अनन्तं त्रिविधपरिच्छेदरहितं यथा स्यात्तथा भुज्यत इव प्रथत
इत्यनन्तभोगाय मोक्षसुखाय ॥ १० ॥
तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते ।
वासनापदनाम्नीं तां विचारेण विनाशय ॥ ११ ॥
अविद्या रजःशक्तिबीजकत्वादविद्या । वासनापदनाम्नीमिति । मनः अनो बहुव्रीहेः
इति प्रतिषेधविषये अन उपधालोपिन इति ङीप् पाक्षिकः ॥ ११ ॥
अविद्यया वासनया तयान्तश्चित्तसत्तया ।
विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते ॥ १२ ॥
त्यागवशाद्बाह्यविषयानुसन्धानत्यागबलात् ॥ १२ ॥
यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः ।
तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति ॥ १३ ॥
एवं वक्तव्योपयोगितया चाञ्चल्यधर्मकतां मनसः समर्थ्य
वास्तवावस्तवरूपद्वयात्मकतामवास्तवांशहेयताप्रदर्शनाय
वास्तवरूपप्रतिष्ठाया विनाशप्रसक्तिवारणाय चाह - यत्तदिति ।
सदसतोर्मध्यं मिथुनीभावरूपमन्तरालम् । अत एवान्यतररूपप्राधान्ये
दोलायिताकृति अविश्रान्तस्थिति ॥ १३ ॥
जाड्यानुसन्धानहतं जाड्यात्मकतयेद्धया ।
चेतो जडत्वमायाति दृढाभ्यासवशेन हि ॥ १४ ॥
कस्मात्तर्ह्येकतरकोटिविश्रान्तिस्तत्राह - जाड्येति द्वाभ्याम् । इद्धया
प्ररूढया ॥ १४ ॥
विवेकैकानुसन्धानाच्चिदंशात्मतया मनः ।
चिदेकतामुपायाति दृढाभ्यासवशादिह ॥ १५ ॥
चिदंशात्मतया इद्धयेत्यनुषज्यते ॥ १५ ॥
पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः ।
पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत् ॥ १६ ॥
प्रयत्नेन स्वाभाविकेन शास्त्रीयेण वा ॥ १६ ॥
पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।
विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव ॥ १७ ॥
भवभावनया मग्नं मनसैव न चेन्मनः ।
बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः ॥ १८ ॥
तत्तत इतरः ॥ १८ ॥
मन एव समर्थं वो मनसो दृढनिग्रहे ।
अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे ॥ १९ ॥
तृष्णाग्राहगृहीतानां संसारार्णवरंहसि ।
आवर्तैरुह्यमानानां दूरे स्वं मन एव नौः ॥ २० ॥
दूरे उह्यमानानां प्रवाह्यमाणानाम् । नौस्तरिः ॥ २० ॥
मनसैव मनश्छित्त्वा पाशं परमबन्धनम् ।
उन्मोचितो न येनात्मा नासावन्येन मोक्ष्यते ॥ २१ ॥
या योदेति मनोनाम्नी वासना वासितान्तरा ।
तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥ २२ ॥
मनोनाम्नी बाह्यार्थमननाभिधाना । ङीप् प्राग्वत् ।
परिहरेन्मिथ्यात्वानुसन्धानेन निरस्येत् । यथा औष्ण्ये क्षीणे वह्निः शाम्यति
तद्वद्वासनाक्षये सह मनसाऽविद्या क्षीयत इति भावः ॥ २२ ॥
प्। ३९०) २३१
भोगौघवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।
भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव ॥ २३ ॥
वासनात्यागे क्रममाह - भोगौघेति । भावाभावौ चित्तचेत्यौ ।
कल्पनाव्युत्क्रमेण त्याग इति भावः ॥ २३ ॥
अभावनं भावनायास्त्वेतावान्वासनाक्षयः ।
एष एव मनोनाशस्त्वविद्यानाश उच्यते ॥ २४ ॥
चित्तचेत्यत्यागेऽपि तद्धेत्वज्ञानपरिशेषमाशङ्क्याह - अभावनमिति । न
भाव्यते पूर्णतयानुभूयते येनाविद्यावरणेन तदविद्यावरणं
भावनायास्तत्त्वसाक्षात्काराद्धेतोस्त्यक्त्वा सुखी भवेत्यनुषज्यते ॥ २४ ॥
यद्यत्संवेद्यते किञ्चित्तत्रासंवेदनं परम् ।
असंवित्तिस्तु निर्वाणं दुःखं संवेदनाद्भवेत् ॥ २५ ॥
अथवा साक्षाच्चित्तद्वारा वा यद्यत्किञ्चित्साक्षिणा संवेद्यते तत्र तत्र
संवेद्यताया असंवेदनं परमुत्कृष्टमनोनाशनिर्वाणमिति सङ्क्षेप
इत्याह - यद्यदिति ॥ २५ ॥
स्वेनैव तत्प्रयत्नेन पुंसः संवेद्यते क्षणात् ।
भावस्याभावनं भूत्यै तत्तस्मान्नित्यमाहरेत् ॥ २६ ॥
तच्च वेद्यावेदनं पुरुषप्रयत्नाद्भवतीत्याह - स्वेनेति ।
भावस्याभावनं वेद्यस्यावेदनम् । तत्स्वप्रयत्नं नित्यमाहरेदभ्यसेत् ॥ २६
॥
रागादयो ये मनसीप्सितास्ते
बुद्ध्वेह तांस्तांस्त्वमवस्तुभूतान् ।
त्यक्त्वा तदास्याङ्कुरमस्तबीजं
मा हर्षशोकं समुपैहि तृप्तः ॥ २७ ॥
उक्तमनूद्योपसंहरति - रागादय इति । ते तव मनसि ये ये रज्यन्ते येषु ते
रागा विषयाः । आदिपदात्तदुपाया इप्सितास्तांस्तांस्त्वमनर्थभूतान् बुद्ध्वा ते
रागादयः आस्याङ्कुरा बीजमुखनिर्गच्छदङ्कुरकल्पा यस्य तत्तथाविधं
मनोऽपि अस्तबीजं अज्ञानवासनाबीजैः सह त्यक्त्वा
पूर्णात्मानुभवामृततृप्तः सन् हर्षशोकं मा समुपहि मत्वा धीरो
हर्षशोकौ जहाति इति श्रुतेरित्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ०
मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः ॥
११२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥