एकादशोत्तरशततमः सर्गः १११
श्रीवसिष्ठ उवाच ।
अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम् ।
स्वायत्तं शृणु वक्ष्यामि साधु सुस्वादु निश्चितम् ॥ १ ॥
यत्नादभिमतत्यागस्त्यागोऽहन्ताममत्वयोः ।
अत्र चित्तजयोपायश्चिदैकाग्र्यं च वर्ण्यते ॥ १ ॥
स्वायत्तं स्वाधीनम् । अवश्यं साधयति पुरुषार्थमिति साधु ॥ १ ॥
स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा ।
यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ॥ २ ॥
इष्टं रागविषयं बाह्यविषयं त्यक्त्वा संवेदनं
स्वात्ममात्राकारवृत्तिधारा तद्रूपिणा पौरुषेण यत्नेन जीयते ॥ २ ॥
त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः ।
जितमेव मनस्तेन कुदन्त इव दन्तिना ॥ ३ ॥
तत्रेष्टत्यागः प्रथमपीठिका दृढीकार्येत्याशयेनाह - त्यजन्निति ।
अभिमतं इष्टम् । निरामयो रागादिचित्तरोगशून्यः ॥ ३ ॥
स्वसंवेदनयत्नेन पाल्यते चित्तबालकः ।
अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ॥ ४ ॥
पाल्यते रागचापलादिरोगचिकित्सया रक्ष्यते । अवस्तुतः प्रत्याहृत्येति शेषः ॥ ४ ॥
शास्त्रसत्सङ्गधीरेण चिन्तातप्तमतापिना ।
छिन्धि त्वमायसेनायो मनसैव मनो मुने ॥ ५ ॥
चिन्तालक्षणे वह्वावातप्तं मनोरूपं अयः । अतप्तेन शान्ततापेन
मनसैवायसा साधनेन च्छिन्धि ॥ ५ ॥
अयत्नेन यथा बाल इतश्चेतश्च योज्यते ।
भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ॥ ६ ॥
भावैर्लालनभीषणाद्युपायैः ॥ ६ ॥
सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि ।
स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ॥ ७ ॥
सत्कर्मणि समाध्यभ्यासलक्षणे समाक्रान्तमुपक्रान्तम् । चेतनेन चिदात्मना
नियोजयेदेकीकुर्यात् ॥ ७ ॥
प्। ३८७) २२९
स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८ ॥
अविरक्तान्निन्दति - स्वायत्तमिति । स्वेप्सितस्य त्यागस्तद्विषयं वेदनं
वैराग्यवृत्तिः ॥ ८ ॥
अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा ।
मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ॥ ९ ॥
अरम्यं विषयजातं परमार्थरम्यब्रह्मरूपेण भावयित्वा ॥ ९ ॥
पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते ।
अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ॥ १० ॥
ब्रह्मणि पदमङ्घ्रिर्दीयते । ब्रह्म प्राप्यत इति यावत् ॥ १० ॥
स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम् ।
शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् ॥ ११ ॥
स्वचित्तस्य आक्रान्तिर्निग्रहस्तावन्मात्रम् ॥ ११ ॥
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा ।
मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ १२ ॥
मनोमारणमात्रेण साध्येन स्वात्मसंविदा ।
निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् ॥ १३ ॥
स्वात्मसंविदा स्वात्मतत्त्वसाक्षात्कारेण निःसपत्नं
स्वसाम्राज्यसुखविरोधिमोहादिशत्रुरहितमत एवानिङ्गनमचलमनाद्यन्तं
स्वाराज्यसुखमिहास्मिन्नेव जीवन्मुक्तदेहे उच्यताम् । निःशङ्कं
प्रतिज्ञायतामित्यर्थः ॥ १३ ॥
ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते ।
गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् ॥ १४ ॥
ईप्सितस्य बाह्यविषयस्यावेदनमनवभासः । ईप्सितस्य मोक्षसुखस्य आवेदनं
निवेदनसाधनं तदाख्याद्वा । युक्तयः साधनानि । नात्र
गुरूपदेशनिन्दायां तात्पर्यं किन्तु मनःप्रशमनस्तुतौ ॥ १४ ॥
सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा ।
असङ्कल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा ॥ १५ ॥
गतं सहमूलेनोच्छिन्नं यदेत्यर्थः ॥ १५ ॥
स्वसंवेदनसाध्येऽस्मिन्सङ्कल्पानर्थशासने ।
शान्तायामत्र वपुषि पुंसः कैव कदर्थना ॥ १६ ॥
सङ्कल्परूपस्य अनर्थस्य शासने निग्रहे शान्तायां
शान्त्यादिसाधनसम्पन्नायां जीवन्मुक्तौ । अत्र वपुषि अधिकारिशरीरे ।
कदर्थना क्लेशः ॥ १६ ॥
नूनं दैवमनादृत्य मूढसङ्कल्पकल्पितम् ।
पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् ॥ १७ ॥
ननु दैवप्रातिकूल्ये कथं कार्यसिद्धिस्तत्राह - नूनमिति ॥ १७ ॥
तां महापदवीमेकां [एतां इति पाठः] कामप्यधिगतं चिरम् ।
चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव ॥ १८ ॥
अचित्ततानयने क उपायस्तमाह - तामिति । चित्तं चिरं तां महापदवीं
ब्रह्मरूपतामधिगतं प्राप्तं कृत्वान्ते साक्षात्कारवृत्त्याविर्भूतचित्ता
समनस्काविद्याबाधाच्चिद्भक्षितं कृत्वा चित्तादपि परः पूर्णचिन्मात्ररूपो
भवेत्यर्थः ॥ १८ ॥
भव भावनया युक्तो युक्तः परमया धिया ।
धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् ॥ १९ ॥
तत्र प्रथमं चिन्मात्रभावनया युक्तो भव तत्स्थैर्यार्थं परमया
अतिसावधानया धिया बुद्ध्या युक्तो भव । ततो ग्रस्तचित्तं ततश्चित्तात्परं
आत्मानं धारय स्थापय नान्यदित्यर्थः ॥ १९ ॥
परं पौरुषमाश्र्तिय नीत्वा चित्तमचित्तताम् ।
तां महापदवीमेहि यत्र नाशो न विद्यते ॥ २० ॥
संवेदनविपर्यासरूपिणी धीरिवाचला ।
जेतुमाशु मनो राम पौरुषेणैव शक्यते ॥ २१ ॥
यथा दिङ्मोहे अचला स्थिरापि प्रतीच्यां प्राचीति
संवेदनविपर्यासधीर्विवेकस्थैर्यलक्षणेन पुरुषप्रयत्नेन जेतुं शक्यते
तद्वन्मनोऽपीत्यर्थः ॥ २१ ॥
अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते ।
जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम् ॥ २२ ॥
चिरं मनोनिग्रहे प्रवृत्तस्योद्वेगात्तत्परित्यागो मा भूदिति तदुत्साहं
वर्धयन्नाह - अनुद्वेग इति । श्रियो राज्यादिसम्पदो मूलम् ।
दृष्टान्तार्थमिदम् । मनोजयः प्रवर्तते सिद्ध्यतीति यावत् ॥ २२ ॥
न शस्त्रदलनोत्पातपाता यस्यां मनागपि ।
स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना ॥ २३ ॥
श्रीसुखे युद्ध शस्त्रदलनकदर्थना स्वर्गसुखे उत्पातो मृत्वा
ऊर्ध्वगमनं ततः पात इति कदर्थना मनोजयसुखे तु न कापीत्याह - न
शस्त्रेति ॥ २३ ॥
अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः ।
कथं व्यवहरिष्यन्ति व्यवहारदशासु ते ॥ २४ ॥
स्वस्य वेदनं मनः । करणे ल्युट् । तस्याक्रान्तौ निग्रहे ॥ २४ ॥
पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः ।
चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः ॥ २५ ॥
समाधिसुप्त्यादौ जन्ममरणादिदुःखानामननुभवाद्व्यवहारकाले
मनोवृत्तिपूर्वकमेव तदनुभवाच्च मनोवृत्तिमात्रत्वं संसारस्येति
दर्शयति - पुमानित्यादिना । असत्य एवोत्थिताः । कर्मधारयत्वात्पूर्वपदं
पुंवत् ॥ २५ ॥
न कश्चनेह म्रियते जायते न च कश्चन ।
स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः ॥ २६ ॥
असत्त्वमेव दर्शयति - न कश्चनेति ॥ २६ ॥
इतो याति परं लोकं स्फुरत्यन्यतया मनः ।
तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः ॥ २७ ॥
इहलोकेन विचरत्विहलोके परत्र च ।
चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते ॥ २८ ॥
इहलोके इहलोकेन इहलोकात्मना विचरतु भ्राम्यतु परत्र परलोके च
परलोकभावेनेति शेषः । तथापि चित्तमेव तथा तथा आस्ते । अस्य संसारस्य
चित्तादन्यद्रूपं न विद्यत इत्यर्थः ॥ २८ ॥
मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः ।
तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः ॥ २९ ॥
एवं च शोकादयोऽप्यात्मचैतन्यव्यावृत्तचित्तमात्रधर्मा इत्याह - मृते
इति । क्लेशः शोकः । निर्विकारस्वचैतन्याद्व्यावृत्तात्म विभक्तं
स्वविकाररूपं स्वचित्तमेवेत्यर्थः ॥ २९ ॥
प्। ३८८) २३०
सति पथ्ये तते शुभ्रे चित्तोपशमनादृते ।
तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् ॥ ३० ॥
अतः परमात्मनि समूलचित्तनाश एव मुक्त्युपायो नान्य इति
परिशेषयन्नुपसंहरति - सतीत्यादिना । सति अन्यनिरपेक्षसत्ताके पथ्ये
सर्वहिते । शुभ्रे मायामालिन्यरहिते । ऋते प्रमाणमूर्धन्यश्रुतिबोधिते
परमात्मनि चितो भावश्चित्ता तया
उपशमनात्तद्भावमात्रपरिशेषलक्षणाच्चित्तस्योपशमनात् ऋते विना
मुक्तेरुपायोऽन्यो नास्ति । यावदित्यवधारणे । नास्त्येवेत्यर्थः ।
एतदूर्ध्वमूर्ध्वलोकेषु अधस्तात् पातालादिलोकेषु तिर्यक् परितो द्वीपान्तरेषु च
तत्त्वदर्शिभिर्विचार्य निर्धारितमित्युत्तरेण सहान्वयः ॥ ३० ॥
यावन्नास्ति किलोपायश्चित्तोपशमनादृते ।
ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति ॥ ३१ ॥
मनोविलये च समाधिपरिपाकपरिष्कृते मनस्यपरोक्षतया
आविर्भूतब्रह्मात्मकबोध एवोपाय इत्याशयेनाह - ऋते तथ्ये इति । ऋते
अबाध्ये ॥ ३१ ॥
मनोविलयमात्रेण विश्रान्तिरुपजायते ।
व्यायते हृदयाकाशे चिति चिच्चक्रधारया ॥ ३२ ॥
व्यायते अत्यन्तविस्तीर्णे हृदयाकाशे दहराकाशरूपे ब्रह्मचिति
चरमवृत्तिद्धचिल्लक्षणया चक्रधारया मनो मारयेति परेणान्वयः ॥ ३२ ॥
मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः ।
यदि रम्यमरम्यत्वे त्वया संविदितं विदा ॥ ३३ ॥
आधयो मानसदुःखानि त्वां न प्रबध्नन्ति न बन्धयिष्यन्ति । आपातरम्येषु
विषयेषु दोषानुसन्धानेनारम्यतादर्शनं प्रथमं
सम्पाद्यमित्याशयेनाह - यदीति ॥ ३३ ॥
छिन्नान्येव तदाङ्गानि [तदङ्गानि इति पाठः क्वचित्] चित्तस्येति
मतिर्मम ।
अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ॥ ३४ ॥
मनसश्छेद्यान्यङ्गान्युक्त्वा शरीरमाह - अयं सोऽहमिति । अयं
दृश्यमानः स पित्रा उत्पादितो देहः अहं इदं देहसम्बन्धि गृहक्षेत्रादि
तत्प्राक् पित्राद्यर्जितं मे मदीयं इति यो भ्रम एतावन्मात्रकं
एतावच्छरीरकं मन इत्यर्थः ॥ ३४ ॥
तदभावनमात्रेण दात्रेणेव विलूयते ।
छिन्नाभ्रमण्डलं व्योम्नि [व्योम इति पाठः] यथा शरदि
धूयते ॥ ३५ ॥
वातेनाकल्पनेनैवं तथा तद्धूयते मनः ।
भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् ॥ ३६ ॥
वातेन यथा छिन्नाभ्रमण्डलं धूयते निरस्यते तथा एवं
प्रागुक्तेनाहम्मेत्यकल्पनेन मनो धूयत इत्यर्थः ॥ ३६ ॥
स्वायते मृदुनि स्वच्छे किमसङ्कल्पने भयम् ।
इदं श्रेय इदं नेति सिद्धमाबालमक्षतम् ॥ ३७ ॥
मृदुनि अकठिने । अनायाससाध्ये इति यावत् । सिद्धं प्रसिद्धम् ॥ ३७ ॥
बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् ।
अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम् ।
घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः ॥ ३८ ॥
किं प्रसिद्धं तदाह - बालमिति । अक्षयं क्षेतुमशक्यम् । अनवं अबालम् ।
चेतोलक्षणं सिंहं ये घ्नन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते । अन्येभ्योऽपि
निर्वाणपददायिनो भवन्तीत्यर्थः ॥ ३८ ॥
भीमाः सम्भ्रमदायिन्यः सङ्कल्पकदनादिमाः ।
विपदः सम्प्रसूयन्ते मृगतृष्णा मराविव ॥ ३९ ॥
मन एव महाभयं मनोजय एवाभयप्रतिष्ठेत्याह - भीमा इति
द्वाभ्याम् ॥ ३९ ॥
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४० ॥
मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे ।
संसारखण्डका एते लोकसप्तकपल्लवाः ॥ ४१ ॥
खण्डका वनखण्डाः ॥ ४१ ॥
असङ्कल्पनमात्रैकसाध्ये सकलसिद्धिदे ।
असङ्कल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः ॥ ४२ ॥
अवष्टब्धमवलम्बितं तत्परमात्मपदसिंहासनं येन तथाविधः सन्
असङ्कल्पनसाम्राज्ये तिष्ठ ॥ ४२ ॥
प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात् ।
काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः ॥ ४३ ॥
नन्वसङ्कल्पनमात्रेण कथं मनःक्षयानन्दसिद्धिस्तत्र दृष्टान्तमाह
- काष्ठेति । यथा अङ्गारक्षयार्थिनो ज्वलदङ्गारनाशेन
तापोपशमसुखार्थिनः पुरुषस्य काष्ठापसरणेनक्षीणाङ्गकः
क्रमाद्भस्मीभावापन्नावयवः सोङ्गारस्तापोपशमनानन्दं प्रयच्छति
तद्वदित्यर्थः ॥ ४३ ॥
अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम् ।
तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते ॥ ४४ ॥
सङ्कल्पवृद्धौ ब्रह्माण्डलक्षाणामपि चिदणूदरे कल्पना सम्पद्यत
इत्याह - अपीति । ब्रह्मकुटीनां ब्रह्माण्डानाम् । समीहितं
सङ्कल्पैरभिलषितं चेत् ॥ ४४ ॥
सङ्कल्पमात्रविभवेन कृतात्यनर्थं
सङ्कल्पमात्रविभवेन सुसाधितार्थम् ।
सन्तोषमात्रविभवेन मनो विजित्य
नित्योदितेन जयमेहि निरीप्सितेन ॥ ४५ ॥
सङ्कल्पमात्रलक्षणेन स्वविभवेन सुसाधिता ब्रह्माण्डकोट्यादिपदार्था
येन अत एव सङ्कल्पमात्रविभवेनैव कृता अत्यनर्था जन्ममरणनिरयादयो
येन तत्तथाविधं मनो नित्योदितेन निरन्तरभावितेन निरीहितेन निःसङ्कल्पेन
सन्तोषमात्रविभवेन विजित्य विजयं सर्वोत्कर्षं एहि प्राप्नुहि ॥ ४५ ॥
परमपावनया विमनस्तया
समतया मतयात्मविदामपि ।
शमितया मितयान्तरहन्तया
यदवशिष्टमजं पदमस्तु तत् ॥ ४६ ॥
आत्मविदां मतया सम्मतया अवैषम्यवृत्त्या शमितया निरस्तया अमितया
वह्न्या अहन्तयापि अन्तः यत् अजं जन्मादिविकारशून्यं पदमवशिष्टं
तदेव तवास्तु प्राप्यमिति आशिषि लोट् ॥ ४६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे
चित्तचिकित्सानामैकादशोत्तरशततमः सर्गः ॥ १११ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तचिकित्सा
नामैकादशोत्तरशततमः सर्गः ॥ १११ ॥
प्। ३८९) २३०