दशोत्तरशततमः सर्गः ११०
श्रीवसिष्ठ उवाच ।
परमात्कारणादादौ चिच्चेत्यपदपातिनी ।
कलनापदमासाद्य कला कलिलतां गता ॥ १ ॥
मनःप्रशमनोपायो मनोवैभववर्णनैः ।
प्रक्रम्यतेऽत्र गदितुं रामाय ब्रह्मसूनुना ॥ १ ॥
मनसो वासनामयत्वादात्यन्तिकज्ञेयवासनोच्छेद एव
मनःप्रशमनोपायस्तस्मिंश्च शास्त्राचार्यस्वानुभवैर्दृश्यजातस्य
मनोभ्रममात्रत्वनिश्चयपूर्वकः सप्तमभूमिकारोहणपर्यन्तं
ज्ञानपरिपाचको मनोनिरोधप्रयत्न एवोपाय इति वक्तुं मूलतो मनस्स्वरूपं
परिशोधयन्नाह - परमादिति । परमं कारणं चित्संवलितमज्ञानं
तस्मादेव निमित्ताच्चिच्चेत्यपदपातिनी चेत्यगोचरा सम्पन्ना न वस्तुतः
अविकारत्वात् । आदावित्यनेन प्राथमिकचेत्यपदपातस्याज्ञाननिमित्तत्वे
तन्मूलद्वैतदर्शनानां सुतरां तन्निमित्तकत्वं सिद्धमिति सूच्यते ।
चेत्यपदपातादेव कलना अर्थप्रथेयमिति पदं नाम आसाद्य
अर्थकलाभिर्नानारूपवैचित्र्यैः कलिलतां कलुषीभावं गता । स एव
वासनाप्रथमाङ्कुर इति भावः ॥ १ ॥
असत्स्वेव विमोहेषु रामैवम्प्रायवृत्तिषु ।
घनेषु तुच्छतामेत्य चिराय परिमूर्च्छति ॥ २ ॥
एवम्प्राया ईदृश्यो वृत्तयः स्थितयो येषां तेषु विमोहेषु
अर्थकलाभासभ्रमेषु क्राद्धनेषु उपचितेषु सैव चित्स्वां पूर्णतां
विस्मृत्य तुच्छतां असन्मनोरूपतामेत्य चिराय अनादिकालादारभ्य मूर्च्छति
जन्ममरणादिभ्रमैर्मुह्यति । तथाच चितश्चेत्योन्मुखतैवानर्थमनोबीजमिति
सैव निरोद्धव्येति भावः ॥ २ ॥
असदेव मनोवृत्तिर्म्लाना विस्तारयत्यलम् ।
दुःखं दोषसहस्रेण वेतालानिव बालिका ॥ ३ ॥
एवं तुच्छवासनादोषसहस्रेण म्लाना मनोवृत्तिर्मनोभावेन स्थिता सा
चिदसदेव दुःखं विस्तारयति ॥ ३ ॥
प्। ३८४) २२८
सदेव हि महादुःखमसत्तां नयति क्षणात् ।
निष्कलङ्का मनोवृत्तिरन्धकारमिवार्करुक् ॥ ४ ॥
यथा सकलङ्काषन्मनोवृत्तिश्चिद्दुःखं विस्तारयति एवं वासनाक्षये
निर्वासनाकलङ्का स्वाभाविकसद्रूपैव सती महादुःखमसत्तां शून्यतां
नयति । बोधेन बाध्यत इत्यर्थः ॥ ४ ॥
नयत्यभ्याशतां दूरं दूरमभ्याशतां नयेत् ।
मनो वल्गति भूतेषु बालो बालखगेष्विव ॥ ५ ॥
उक्तार्थसम्भावनाय मनसोऽघटितघटनासमर्थ्यमाह - नयतीत्यादिना
। अभ्याशतां समीपताम् ॥ ५ ॥
अभयं भयमज्ञस्य चेतसो वासनावतः ।
दूरतो मुग्धपान्थस्य स्थाणुर्याति पिशाचताम् ॥ ६ ॥
शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः ।
मदाविष्टमतिर्जन्तुर्भ्रमत्पश्यति भूतलम् ॥ ७ ॥
पर्याकुले हि मनसि शशिनो जायतेऽशनिः ।
अमृतं विषभावेन भुक्तं याति विषक्रियाम् ॥ ८ ॥
सुरपत्तननिर्माणमसत्सदिव पश्यति ।
वासनावलितं चेतः स्वप्नवज्जाग्रदेव हि ॥ ९ ॥
सुरपत्तनं गन्धर्वनगरम् ॥ ९ ॥
मोहैककारणं जन्तोर्मनसो वासनोल्बणा ।
उत्खातव्या प्रयत्नेन मूलोच्छेदेन सैव च ॥ १० ॥
उत्खातव्या मूलत उच्छेत्तव्या ॥ १० ॥
वासनावागुराकृष्टो मनोहरिणको नृणाम् ।
परां विवशतामेति संसारवनगुल्मके ॥ ११ ॥
येन च्छिन्ना विचारेण जीवस्य ज्ञेयवासना ।
निरभ्रस्येव सूर्यस्य तस्यालोको विराजते ॥ १२ ॥
आलोकः प्रकाशः ॥ १२ ॥
अतस्त्वं मन् एवेदं नरं विद्धि न देहकम् ।
जडो देहो मनश्चात्र न जडं नाजडं विदुः ॥ १३ ॥
तत्र प्रथमं मन एव मे देहो नान्य इति सदा भावनाभ्यासः कार्य इत्याह ##-
यत्कृतं मनसा तात तत्कृतं विद्धि राघव ।
यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि चानघ ॥ १४ ॥
मनोमात्रं जगत्कृत्स्नं मनः पर्यन्तमण्डलम् ।
मनो व्योम मनो भूमिर्मनो वायुर्मनो महान् ॥ १५ ॥
पर्यन्तो भूप्रान्तस्तन्मण्डलम् ॥ १५ ॥
मनो यदि पदार्थे तु तद्भावेन न योजयेत् ।
ततः सूर्योदयेऽप्येते [सूर्यादयोऽप्येते इति पाठः] न प्रकाशाः
कदाचन ॥ १६ ॥
तद्भावेन प्रकाशादिभावेन न योजयेत् न कल्पयेत् ।
दिवान्धैर्वैपरीत्यदर्शनादिति भावः ॥ १६ ॥
मनो मोहमुपादत्ते यस्यासौ मूढ उच्यते ।
शरीरे मोहमापन्ने न शवो मूढ उच्यते ॥ १७ ॥
मोहं अप्रबोधम् ॥ १७ ॥
मनः पश्य भवत्यक्षि शृण्वच्छ्रवणतां गतम् ।
त्वग्भावं स्पर्शनादेति घ्राणतामेति जिघ्रणात् ॥ १८ ॥
रसनाद्रसतामेति विचित्रास्तत्र [विचित्रास्वत्र वृत्तिषु इति पाठः
साधुः] वृत्तिषु ।
नाटके नटवद्देहे मन एवानुवर्तते ॥ १९ ॥
लघु दीर्घं करोत्येव सत्येऽसत्तां प्रयच्छति ।
कटुतां नयति स्वादु रिपुं नयति मित्रताम् ॥ २० ॥
स्वादु मधुरताम् ॥ २० ॥
य एव प्रतिभासोऽस्य चेतसो वृत्तिवर्तिनः ।
ततस्तदेव प्रत्यक्षं तथात्रानुभवादिह ॥ २१ ॥
प्रतिभासवशादेव स्वप्नाकुलितचेतसः ।
हरिश्चन्द्रस्य सम्पन्ना रात्रिर्द्वादशवार्षिकी ॥ २२ ॥
चित्तानुभाववशतो मुहूर्तत्वे गतं युगम् ।
इन्द्रद्युम्नस्य वैरिञ्च्यपुराभ्यन्तरवर्तिनः ॥ २३ ॥
अनुभावोऽत्रानुभवः प्रभावो वा । इन्द्रद्युम्नस्य रेवतापरनाम्नः ॥ २३ ॥
मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् ।
प्रातःप्राप्तव्यराज्यस्य सुबद्धस्येव बन्धनम् ॥ २४ ॥
दुःखस्य सुखत्वापत्तिः क्व दृष्टा तत्राह - मनोज्ञयेति । मनोज्ञया
हरिस्मरणादिरूपया । रौरवं नरकदुःखमपि । श्वः प्रातरवश्यं राज्यं
प्राप्तव्यमिति प्रमाणैर्निश्चयवतः करपादनिगडादिना सुष्ठु बद्धस्य
बन्धनमिवेत्यर्थः ॥ २४ ॥
जिते मनसि सर्वैव विजिता चेन्द्रियावलिः ।
शीर्यते च यथा तन्तौ दग्धे मौक्तिकमालिका ॥ २५ ॥
सर्वत्र स्थितया स्वच्छरूपया निर्विकारया ।
समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया ॥ २६ ॥
हे राम किमन्यन्मनसोऽर्थविपरीतकल्पनसामर्थ्यं वाच्यं यत्सर्वत्र समया
स्वच्छत्वनिर्विकारत्वादिस्वभावचिन्मात्ररूपया स्वसत्तया मूकं
वागादिसर्वक्रियाशून्यमपि ब्रह्मदेहतादात्म्यकल्पनया देहसमं जडं च
कृत्वा अन्तर्मननं एषणं कामः सङ्कल्पः इत्यादिकया मुह्यया भ्रान्त्या
बहिस्तु गिरिसरिद्व्योमसमुद्रपुरलीलया प्रकल्प्य व्यर्थं भ्रमतीति
सर्वत्रेत्यादिश्लोकत्रयस्यैकोऽन्वयः ॥ २६ ॥
सर्वभावानुगतया न चेत्यार्थविभिन्नया ।
रामात्मसत्तया मूकमपि देहसमं जडम् ॥ २७ ॥
मनोऽन्तश्चलति व्यर्थं मननैषणमुह्यया ।
बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया ॥ २८ ॥
जाग्रच्चाभिमतं वस्तु नयत्यमृतमृष्टताम् ।
अनीहितं च विषतां नयत्यमृतमप्यलम् ॥ २९ ॥
ननु मूढं मनोऽन्यथा कल्पयितुं विचारजागरूकं तु नान्यथा कल्पयिष्यतीति
किं तन्नाशोपायचिन्तया तत्राह - जाग्रच्चेति । विवेकजागरूकमपि
मनोऽस्वादूच्छिष्टमपि योषिदधरादिवस्त्वभिमतं
रागवशादिष्टममृतमिव मृष्टतां स्वादुतां नयति ।
अनीहितमनभिलषितं त्वमृतमपि विषतां विषवद्धेयतां नयति ।
विरक्तानाममृतेऽपि हेयताबुद्धिदर्शनादित्यर्थः ॥ २९ ॥
अमृष्टसर्वभावानामलमात्मचमत्कृतिम् ।
तर्हि तत्त्वज्ञानपि तत्कुतो न भ्रमयेत्तत्राह - अमृष्टेति । न मृष्टः
साक्षात्कृतः सर्वभावः पूर्णता यैस्तेषामेव मनः
स्वाभिमताकारमात्मचमत्कारभूतं रूपं सृजति नतु तत्त्वविदाम् । तेषां
मिथ्याबुद्धिबाधितमनोविलासेषु चमत्कारदृष्ट्यभावादित्याशयः ॥ ३० ॥
प्। ३८५) २२८
स्पन्देषु वायुतामेति प्रकाशेषु प्रकाशताम् ।
द्रवेषु द्रवतामेति चिच्छक्तिस्फुरितं मनः ॥ ३१ ॥
रूपसर्गमेव प्रपञ्चयति - स्पन्देष्वित्यादिना ॥ ३१ ॥
पृथ्व्यां कठिनतामेति शून्यतां शून्यदृष्टिषु ।
सर्वत्रेच्छास्थितिं याति चिच्छक्तिस्फुरितं मनः ॥ ३२ ॥
शून्यतामभावताम् । शून्यदृष्टिषु नास्तीति गृह्यमाणवस्तुषु ।
इच्छास्थितिं अप्रतिहतस्वैरवृत्तिम् ॥ ३२ ॥
शुक्लं कृष्णीकरोत्येव कृष्णं नयति शुक्लताम् ।
विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः ॥ ३३ ॥
मनस्यन्यत्र संसक्ते चर्वितस्यापि जिह्वया ।
भोजनस्यापि मृष्टस्य न स्वादोऽस्यानुभूयते ॥ ३४ ॥
यच्चित्तदृष्टं तद्दृष्टं न दृष्टं तदलोकितम् ।
अन्धकारे यथा रूपमिन्द्रियं निर्मितं तथा ॥ ३५ ॥
तेन चित्तेनालोकितमदृष्टं पुरःस्थमपि न दृष्टम् । तथाच
चक्षुरादीन्द्रियमपि तेनैव स्वात्मनि कल्पितमित्याह - अन्धकारे इति ।
यथान्धकारे नैल्यं छायावैचित्र्यरूपं वा निर्मितं तद्वत् ॥ ३५ ॥
इन्द्रियेण मनो देहि मनसेन्द्रियमुन्मनः ।
इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान्मनः ॥ ३६ ॥
यद्यपीन्द्रियालोचिताकारधारणान्मन इन्द्रियेण निमित्तेन देहि साकारम् । इन्द्रियं
च मनोधीनार्थालोचकत्वान्मनसा देहीति साम्यं तथापि मन उत् उत्कृष्टम् ।
तत्कुतस्तत्राह - इन्द्रियाणीति ॥ ३६ ॥
अत्यन्तभिन्नयोरैक्यं येषां चित्तशरीरयोः ।
ज्ञातज्ञेया महात्मानो मनस्यास्ते सुपण्डिताः ॥ ३७ ॥
तच्चेदं मनो मूढैरात्मकोटौ निक्षिप्याहमित्यात्मतया गृह्यते ।
तत्त्वज्ञैस्तु देहकोटौ निक्षिप्य जडदेहात्मना गृह्यते । अत एव ते
निर्विकारात्मदर्शिनो वन्द्या इत्याह - अत्यन्तेति । मूढदृष्ट्या
अत्यन्तभिन्नयोः ॥ ३७ ॥
कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना ।
काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना ॥ ३८ ॥
अत एव तेषां कामादिविकारो न दृश्यत इत्याह - कुसुमेति । अमनसो देहे
लग्नाप्यङ्गना काष्ठकुड्योपमा । विकारं जनयितुमक्षमेत्यर्थः ॥ ३८ ॥
मनस्यन्यत्र संसक्ते वीतरागेण कानने ।
क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः ॥ ३९ ॥
एवं दुःखनिमित्तैर्दुःखात्मकविकारोऽपि तेषां नास्तीत्याह - मनसीति ।
वीतरागेण तदाख्यमुनिना । अङ्कस्थो ध्यानकालेऽङ्के प्रसारितः ॥ ३९ ॥
सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च ।
सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः ॥ ४० ॥
मुनेर्मनसः अभ्यासपाटवकृता भावनातिशयाः सुखेनानायासेनैव
युज्यन्ते क्षमन्ते ॥ ४० ॥
मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः ।
लता परशुकृत्तेव कथा विच्छिद्यते बत ॥ ४१ ॥
मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना ।
शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते ॥ ४२ ॥
समनुभूयते । स्वप्ने इति शेषः ॥ ४२ ॥
मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः ।
आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः ॥ ४३ ॥
हृद्येव निर्मिता अन्तःकृताः स्वस्वकार्यक्षमाश्च दृश्यन्ते ॥ ४३ ॥
मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम् ।
तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि ॥ ४४ ॥
मनः विलुलिते स्वेन विक्षिप्ते आत्मनि । तनोति विस्तारयति ॥ ४४ ॥
अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः ।
देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः ॥ ४५ ॥
अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः ।
मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः ॥ ४६ ॥
व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा ।
जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः ॥ ४७ ॥
हेमवनिता स्वर्णप्रतिमा ॥ ४७ ॥
धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः ।
तथा विचित्रविभवा नानातेयं हि चेतसः ॥ ४८ ॥
नानाता नानावैचित्र्यम् ॥ ४८ ॥
स्वचित्तवृत्तिरेवेह जाग्रत्स्वप्नदृशोदितम् ।
रसावेशादुपादत्ते शैलूष इव भूमिकाम् ॥ ४९ ॥
उदितमुदयमाविर्भावमादत्ते । रसो रागः शृङ्गारादिश्च तदावेशात् ।
शैलूषो नटः । भूमिकां वेषवैचित्र्यम् ॥ ४९ ॥
चण्डालत्वं हि लवणे प्रतिभासवशाद्यथा ।
तथेदं जगदाभोगि मनो मननमात्रकम् ॥ ५० ॥
यद्यत्संवेद्यते किञ्चित्तेन तेनाशु भूयते ।
मनो मनननिर्माणं यथेच्छसि तथा कुरु ॥ ५१ ॥
नानापुरसरिच्छैलरूपतामेत्य देहिनाम् ।
तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः ॥ ५२ ॥
सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि ।
प्रतिभासवशाच्चित्तमापन्नं लवणो यथा ॥ ५३ ॥
नागत्वाद्गजत्वात्सर्पत्वाद्वा । नगतां वृक्षतां गिरितां वा ॥ ५३ ॥
नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः ।
यथा क्षिप्रं प्रति नरः स्वसङ्कल्पात्तथा मनः ॥ ५४ ॥
यथा पितृत्वात्पुत्रतां गतः पुमान् नरत्वान्नारीत्वमेति तद्वत् ॥ ५४ ॥
सङ्कल्पतः प्रम्रियते सङ्कल्पाज्जायते पुनः ।
मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति ॥ ५५ ॥
अनाकृति स्वत आकारशून्यमपि जीवतां जीवाकारमेति ॥ ५५ ॥
प्। ३८६) २२९
मनो मननसम्मूढमूढवासनमाततम् ।
सङ्कल्पाद्योनिमायाति सुखदुःखे भयाभये ॥ ५६ ॥
मननेन सम्यङ्मूढा मोहातिशयं प्राप्ता मूढवासना यस्मिंस्तत् ।
ऊढवासनमिति वा छेदः । योनिं जन्मस्थानम् ।
मनोऽकृतेनायात्यस्मिञ्शरीरे इति हि श्रुतिः ॥ ५६ ॥
सुखं दुःखं च मनसि तिले तैलमिव स्थितम् ।
तद्देशकालवशतो घनं वा तनु वा भवेत् ॥ ५७ ॥
तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम् ।
चेतसो मननासङ्गाद्घनीभूते सुखासुखे ॥ ५८ ॥
आक्रान्त्या यन्त्रनिष्पीडनेन । चेतसोऽन्तर्घनीभूते सुखासुखे मननासङ्गात्
स्फुरतां इतो गच्छत इति वचनविपरिणामेनानुषङ्गः ॥ ५८ ॥
देशकालाभिधानेन राम सङ्कल्प एव हि ।
कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ ॥ ५९ ॥
ननु देशकालकर्मविषयवैचित्र्यादेव सुखदुःखादिवैचित्र्यं प्रसिद्धं
तत्कथं मननासङ्गादित्युच्यते तत्राह - देशेति । अल्पयोरपि
देशकालयोर्मनसा वैपुल्यसङ्कल्पने वैपुल्यानुभवात्तुच्छेऽपि विषये मनसा
बहुमते रागातिशयदर्शनाच्चेति भावः ॥ ५९ ॥
प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति ।
मनःशरीरसङ्कल्पे फलिते न शरीरकम् ॥ ६० ॥
एवं शरीरमपि मनःसङ्कल्पाधीनमेवेत्याह - प्रशाम्यतीति ।
मनःशरीरस्य सङ्कल्पे फलिते सति स्थूलं शरीरकं
प्रशान्त्यादिविकारभाग्भवति न स्वातन्त्र्येणेति शेषः ॥ ६० ॥
नानास्फारसमुल्लासैः स्वसङ्कल्पोपकल्पितैः ।
मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे ॥ ६१ ॥
चापले प्रसरस्तस्मादन्तर्येन नदीयते ।
मनोविलयमादत्ते तस्यालान इव द्विपः ॥ ६२ ॥
मनसो निग्रहोपायं सफलं दर्शय्ति - चापले इति । विषयनुसन्धानं
चापलम् ॥ ६२ ॥
न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः ।
सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः ॥ ६३ ॥
शस्त्रं स्तम्भनास्त्रं तत्कृते स्तम्भे यथा शत्रुर्न स्पन्दते तद्वत् । असावेव
सद्वस्तुतः परमार्थतः पुरुषः ॥ ६३ ॥
यस्याचपलतां यातं मन एकत्र संस्थितम् ।
अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ ॥ ६४ ॥
ध्यानेन हेतुना असौ अनुत्तमपदेन अनुगतः सङ्गतः । ब्रह्मीभूत एवेत्यर्थः
॥ ६४ ॥
संयमान्मनसः शान्तिमेति संसारविभ्रमः ।
मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः ॥ ६५ ॥
अस्पन्दतामिति च्छेदः ॥ ६५ ॥
मानस्यो वृत्तयो या या भोगसङ्कल्पविभ्रमैः ।
संसारविषवृक्षस्य ता एवाङ्कुरयोनयः ॥ ६६ ॥
चित्तं चलत्कुवलयं वलयन्त एते
मूढा महाजडजवे मदमोहमन्दाः ।
आवर्तवर्तिनि विलूनविशीर्णचिन्ता-
चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति ॥ ६७ ॥
मदमोहमन्दा एते पुरुषदुर्भ्रमराश्चित्तरूपं चलत्कुवलयं
संसारदुर्नदीप्रवाह्यमानोत्पलं वलयन्तः संवेष्ट्य भ्रमन्तः सन्तो
महाजडजवे लडयोरभेदान्महाजाड्यप्रवाहरूपजलवेगे वाल्यावर्तवद्वर्तिनि
परिवर्तमाने प्रबलचिन्तान्तरेण विलूना चिरं नैष्फल्याद्देहेन सह विशीर्णा च
या चिन्ता तल्लक्षणे चक्रभ्रमे चक्रसदृशे आवर्ते पतन्तीत्यर्थः ॥ ६७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे
चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः ॥ ११० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः ॥ ११० ॥