नवोत्तरशततमः सर्गः १०९
राजोवाच ।
तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये ।
अकालोल्बणकल्पान्ते नितान्तं तापदायिनि ॥ १ ॥
निर्गतस्य सदारस्य दृष्ट्वा पुत्रापदं चिताम् ।
विविक्षोः प्रतिबुद्धस्य सभ्यसंवाद ईर्यते ॥ १ ॥
विधिविपर्यये दैवप्रातिकूल्ये ॥ १ ॥
जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः ।
गता देशान्तरं व्योम्नः शरदीव पयोधराः ॥ २ ॥
देहावयवसंलीनपुत्रदाराग्र्यबन्धवः ।
शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः ॥ ३ ॥
देहावयवा इव संलग्नास्त्यक्तुमशक्या इति यावत् ॥ ३ ॥
भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात् ।
अजातपक्षकाः श्येनैः खगा नीडोद्गता इव ॥ ४ ॥
चकारो भिन्न क्रमोऽनुक्तसमुच्चयार्थः । व्याघ्रैरन्यैश्च श्वापदैरित्यर्थः
॥ ४ ॥
प्रविष्टाः केचिदनलं ज्वलितं शलभा इव ।
केचिच्छ्वभ्रेषु पतिताः शिला शैलच्युता इव ॥ ५ ॥
अहं तु तान्परित्यज्य श्वशुरादीन्स्वकं क्षमम् ।
कलत्रमात्रमादाय कृच्छ्राद्देशाद्विनिर्गतः ॥ ६ ॥
क्षमं स्वानुगमनसमर्थम् ॥ ६ ॥
अनलाननिलांश्चैव भक्षकांस्तक्षकानपि ।
वञ्चयित्वा भयान्मृत्योः सदारोऽहं विनिर्गतः ॥ ७ ॥
भक्षकान्व्याघ्रादीन् । तक्षकान् सर्पान् ॥ ७ ॥
प्राप्य तद्देशपर्यन्तं तत्र तालतरोस्तले ।
अवरोप्य सुतान्स्कन्धान्नानानर्थानिवोल्बणान् ॥ ८ ॥
तद्देशस्य पर्यन्तं प्रान्तम् ॥ ८ ॥
विश्रान्तोऽस्मि चिरं श्रान्तो रौरवादिव निर्गतः ।
दीर्घदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः ॥ ९ ॥
अजलः पद्मः कमलिनीव शुष्यन्नित्यर्थः । अथवा अजलो मेकादिः पद्मे
कमलिनीमूल इव विश्रान्तोऽस्मीत्यर्थः ॥ ९ ॥
अथ चाण्डालकन्यायां विश्रान्तायां तरोस्तले ।
सुप्तायां शीतलच्छाये द्वौ समालिङ्ग्य दारकौ ॥ १० ॥
पृच्छको नाम तनयो ममैकः पुरतः स्थितः ।
अत्यन्तवल्लभोऽस्माकं कनीयान्मौग्ध्यवानिति ॥ ११ ॥
स मामुवाच दीनात्मा बाष्पपूर्णविलोचनः ।
तात देह्याशु मे मांसं पातुं च रुधिरं क्षणात् ॥ १२ ॥
पुनःपुनर्वदन्नेवं स बालस्तनयो मम ।
प्राणान्तिकीं दशां प्राप्तः साक्रन्दो हि पुनः क्षुधा ॥ १३ ॥
तस्योक्तं तु मया पुत्र मांसं नास्तीति भूरिशः ।
तथापि मांसं देहीति वदत्येव स [सुदुर्मतिः इति पाठः]
दुर्मतिः ॥ १४ ॥
अथ वात्सल्यमूढेन [युक्तेन इति पाठः] मया दुःखातिभारिणा ।
तस्योक्तं पुत्र मन्मांसं पक्वं सम्भुज्यतामिति ॥ १५ ॥
तदप्यङ्गीकृतं तेन देहीति वदता पुनः ।
मन्मांसभक्षणं क्षीणवृत्तिनाऽश्लेषवृत्तिना ॥ १६ ॥
क्षीणवृत्तिना अलब्धभक्ष्येण । अत्यन्तक्षुधितेनेति यावत् । आश्लेषवृत्तिना
आलिङ्गनपरेण ॥ १६ ॥
सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना ।
तस्य तामार्तिमालोक्य मया दुःखातिभारिणा ॥ १७ ॥
स्नेहकारुण्यमोहशब्दानां द्वन्द्वे हनिः ॥ १७ ॥
सोढुं तामापदं तीव्रामशक्तेन हतात्मना ।
मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया ॥ १८ ॥
अतिमित्राय तत्कालो चितबन्धवे ॥ १८ ॥
प्। ३८३) २२७
तत्र काष्ठानि सञ्चित्य चितां रचितवानहम् ।
चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी ॥ १९ ॥
मदभिकाङ्क्षिणीव ॥ १९ ॥
तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम् ।
चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः ॥ २० ॥
चलनात्सम्भावितां पतनक्रियां तत्फलं विभागं च गम्यमानमपेक्ष्य
सिंहासनादिति अपादाने पञ्चमी बोध्या ॥ २० ॥
ततस्तूर्यनिनादेन जयशब्देन बोधितः ।
इति शाम्बरिकेणायं मोह उत्पादितो मम ॥ २१ ॥
अज्ञानेनेव जीवस्य दशाशतसमन्वितः ।
इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि ॥ २२ ॥
अन्तर्धानं जगामाशु तत्र शाम्बरिकः क्षणात् ।
अथेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः ॥ २३ ॥
नायं शाम्बरिको देव यस्य नास्ति धनैषणा ।
दैवी काचन मायेयं संसारस्थितिबोधिनी ॥ २४ ॥
दैवी त्वदनुग्रहाय देवैः प्रयुक्ता अत एव संसारस्येदृशी स्थितिरिति बोधिनी ॥
२४ ॥
मनोविलासः संसार इति यस्यां प्रतीयते ।
सर्वशक्तेरनन्तस्य विलासो हि मनोजगत् ॥ २५ ॥
अनन्तस्य विष्णोः । मन एव जगत् ॥ २५ ॥
सर्वशक्तेर्विचित्रा हि शक्तयः शतशो विधेः ।
यद्विवेकि मनोऽप्येष विमोहयति मायया ॥ २६ ॥
एषः विधिः ॥ २६ ॥
विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः ।
क्व सामान्यमनोवृत्तियोग्यो विपुलसम्भ्रमः ॥ २७ ॥
सामान्यानां पृथग्जनानां मनोवृत्तेर्योग्यः ॥ २७ ॥
न च शाम्बरिकेच्छेयं माया मनसि मोहिनी ।
अर्थस्य सिद्ध्यै चेहन्ते नित्यं शाम्बरिकाः किल ॥ २८ ॥
अर्थस्य धनस्य सिद्ध्यै ईहन्ते प्रीतिहेतुकौतुकप्रदर्शनाय चेष्टन्ते
नत्वीदृशदुर्भ्रान्तये ॥ २८ ॥
यत्नेन प्रार्थयन्तेऽर्थं नान्तर्धानं व्रजन्ति भो ।
इति सन्देहवेलायां संस्थिता लुलिता वयम् ॥ २९ ॥
इति उक्ताल्लिङ्गद्वयाद्वयं सन्देहसागरस्य वेलायां कूलभूते निर्णये स्थिताः
॥ २९ ॥
श्रीवसिष्ठ उवाच ।
सभायामवसं तस्यामहं राम तदा किल ।
तेन प्रत्यक्षतो दृष्टं मयैतन्नान्यतः श्रुतम् ॥ ३० ॥
उक्तेयमाख्यायिका न बालकाख्यायिकावत्कल्पितकथा नाप्यन्यतः श्रुता किन्तु
प्रत्यक्षदृष्टेत्याह - सभायामिति ॥ ३० ॥
इति बहुकलनाविवर्धिताङ्गं
जयति चिरं विततं मनो महात्मन् ।
शममुपगमिते परस्वभावे
परममुपैष्यसि पावनं पदं यत् ॥ ३१ ॥
उक्तामाख्यायिकां प्रस्तुते जगतो मनोमात्रविलासत्वे योजयंस्तत्फलमाह -
इतीति । इति उक्तरीत्या बह्वीभिः कलनाभिर्विरचनैर्विवर्धिताङ्गं प्ररूढं चिरं
विततं फलपल्लवशाखाभिर्विस्तीर्णं तरुशरीरमिव मनो जयति
आत्मस्वरूपमभिभूय स्वयं सर्वोत्कर्षेण वर्तते ।
यन्मनोविचारज्ञानयोगेन [अत्र यस्मान्मनसि इति पाठोऽपेक्षितः]
शमं निर्वासनतालक्षणं उपगमिते प्रापिते परस्वभावे सति त्वं
भेदकोपाधिबाधात्परमं पावनं पूर्णात्मपदमुपैष्यसि अतस्तदर्थं
वक्ष्यमाणोपायैर्यतस्वेत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० दे० उ०
इन्द्रजालोपाख्याने चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः ॥
१०९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः ॥ १०९ ॥