अष्टोत्तरशततमः सर्गः १०८
राजोवाच ।
अथ गच्छति कालेऽत्र जराजर्जरितायुषि ।
तुषारपूर्णशष्पौघसमश्मश्रुभृते मयि ॥ १ ॥
इह तस्मिन्निवसतश्चिरं चण्डालपक्कणे ।
अनावृष्ट्युत्थदुर्भिक्षाद्वर्ण्यते देशदुर्दशा ॥ १ ॥
शष्पौघसमैः श्मश्रुभिर्भृते सम्भृतमुखे ॥ १ ॥
कर्मवातापनुन्नेषु सरसेष्वरसेष्वपि ।
पतत्सु वासरौघेषु शीर्णपर्णगणेष्विव ॥ २ ॥
सरसेषु ससुस्वेषु । अरसेषु सदुःखेषु । वासरौघेषु पतत्सु गच्छत्सु ॥ २ ॥
आजाविव शरौघेषु सुखदुःखेष्वनारतम् ।
कलहेष्वप्यकार्येषु चागच्छत्सु पतत्सु च ॥ ३ ॥
आजौ युद्धे । अकार्येषु कर्तुमयोग्येषु वधबन्धस्तेयादिषु ॥ ३ ॥
विकल्पकल्पनावर्तवर्तिनि द्विजगे जडे ।
समुद्र इव कल्लोलभरे भ्रमितचेतसि ॥ ४ ॥
द्विजः पक्षीव गच्छति निरालम्बने भ्रमतीति द्विजगे ॥ ४ ॥
चलच्चिन्ताचितं चक्रमारूढे भ्रान्त आत्मनि ।
प्रोह्यमाने तृण इव सावर्तं कालसागरे ॥ ५ ॥
विन्ध्योर्वीवनकीटस्य ग्रासैकशरणस्य मे ।
द्विबाहोर्गर्दभस्यात्र क्षीण इत्थं समागणे ॥ ६ ॥
समागणे वर्षपूगे क्षीणे सति ॥ ६ ॥
विस्मृते मम भूपत्वे शवस्येव महाजवे ।
चाण्डालत्वे स्थिरीभूते पक्षच्छिन्न इवाचले ॥ ७ ॥
शवस्य मृतस्येव ॥ ७ ॥
संसारमिव कल्पान्तो दावाग्निरिव काननम् ।
सागरोर्मिस्तटमिव शुष्कवृक्षमिवाशनिः ॥ ८ ॥
अकाण्डे मरणोड्डीनं चण्डचण्डालमण्डलम् ।
निरन्नतृणपत्राम्बु विन्ध्यकच्छं तदाययौ ॥ ९ ॥
घनव्राते न वर्षति सति अकाण्डे मरणेन उड्डीनं परलोकगमनं
यस्मिंस्तथाविधं दुर्भिक्षं कर्तृ । चण्डं चण्डालमण्डलं
यस्मिंस्तथाविधं विन्ध्यकच्छं निरन्नतृणपत्राम्बु यथा स्यात्तथा
आययौ प्राप । संसारमिवेत्यादिप्राक्तनानि क्रमात्कर्मकर्त्रोरुपमानानि
बोध्यानि । अथवा तच्चण्डचण्डालमण्डलं विन्ध्यकच्छस्थलाख्यं
देशान्तरं ययावित्यर्थः ॥ ९ ॥
न वर्षति घनव्राते दृष्टनष्टे क्वचित्स्थिते ।
पूताङ्गारकणोन्मिश्रगतौ वहति मारुते ॥ १० ॥
पूतैर्वस्रशोधितैरिव सूक्ष्मतमैरङ्गारकणैरुन्मिश्रा गतिर्यस्य ॥ १० ॥
शीर्णमर्मरपर्णासु दावाग्निवलितासु च ।
वनस्थलीषु शून्यासु चिरप्रव्रजितास्विव ॥ ११ ॥
चिरप्रव्रजितास्विवेति पिङ्गलजटिलत्वादिनोपमा ॥ ११ ॥
अकाण्डमभवद्भीममुद्दामदवपावकम् ।
शोषिताशेषगहनं भस्मशेषतृणोलपम् [तृणोपलम् इति
पाठः] ॥ १२ ॥
अकाण्डमनवसरोत्थं दुर्भिक्षम् ॥ १२ ॥
पांसुधूसरसर्वाङ्गं क्षुधिताशेषमानवम् ।
निरन्नतृणपानीयं देशाद्युद्दावमण्डलम् ॥ १३ ॥
उद्दावं उत्कृष्टारण्यभूतं मण्डलं जनपदो यस्मिन् ॥ १३ ॥
कचन्मरुमरीच्यम्बुमज्जन्महिषमण्डलम् ।
वातोत्थसीकरव्यूहापरिवाहवनाम्बरम् ॥ १४ ॥
वातोत्थसीकरव्यूहमपि न परिवहतीत्यपरिवाहं वनाम्बरं यत्र ॥ १४ ॥
पानीयशब्दमात्रैकश्रवणोत्कनरव्रजम् ।
आतपाततिसंशोषसीदत्सकलमानवम् ॥ १५ ॥
आतपस्याततिर्विस्तारः ॥ १५ ॥
पत्रग्रसनसंरब्धक्षुधितोत्थितजीवितम् ।
स्वाङ्गचर्वणसंरम्भलुठद्दशनमण्डलम् ॥ १६ ॥
पत्रग्रसनोद्योगेन क्षुभितेभ्य उत्थितं प्रस्थितं जीवितं यत्र । स्वाङ्गचर्वणे
संरम्भेणाभिलाषेण लुठन्ति परस्परमुपघ्नन्ति दशनमण्डलानि यत्र ॥
१६ ॥
मांसशङ्कानिगीर्णोग्रखदिराग्निकणोत्करम् ।
मण्डकासारसङ्ग्रस्तवनपाषाणखण्डकम् ॥ १७ ॥
मण्डकानि स्नेहपिष्टकास्तद्भ्रान्त्या असारा अपि सङ्ग्रस्ता
वनपाषाणखण्डका यत्र ॥ १७ ॥
अन्योन्यभूतसंसक्तमातृपुत्रपितृव्रजम् ।
गृध्रोदररटत्सारनिगीर्णवरसारिकम् ॥ १८ ॥
सारनिगीर्णा समग्रनिगीर्णा ॥ १८ ॥
परस्पराङ्गविच्छेदरक्तसिक्तधरातलम् ।
हरिग्रसनसंरब्धमत्तक्षुधितवारणम् ॥ १९ ॥
दरीनिगरणैकैकसिंहभ्रमणभीषणम् ।
अन्योन्यग्रसनोद्युक्तलोकमल्लकृतं वहत् ॥ २० ॥
दरीषु स्वस्य निगरणशङ्कया एकैकशः सिंहभ्रमणेन भीषणम् ।
अन्योन्यस्य ग्रसने हिंसने उद्युक्तैर्लोकैर्मल्लकृतं मल्लचरित्रम् ॥ २० ॥
निष्पत्रपादपोड्डीनप्रौढाङ्गारमयानिलम् ।
रक्तपानोत्कमार्जारलीढधातुतटावनि ॥ २१ ॥
ज्वालाघनघटाटोपसावर्तसवनानिलम् ।
सर्वस्थलरसद्वह्निपुञ्जपिञ्जरजङ्गलम् ॥ २२ ॥
दग्धाजगरकुञ्जोत्थधूममांसलगुल्मकम् ।
मारुतावलितज्वालासन्ध्याभ्रवलिताम्बरम् ॥ २३ ॥
दग्धा अजगरा यत्र थाविधात्कुञ्जादुत्थितेन धूमेन दोहदेनेव मांसलानि
पुष्टानीव गुल्मकानि यत्र ॥ २३ ॥
उद्दामरवमुद्भ्रान्तभस्मनाऽस्तम्भमण्डलम् ।
साक्रन्दनरदाराग्रदीनार्भककृतारवम् ॥ २४ ॥
अस्तम्भान्यदण्डानि च्छत्रमण्डलानि यत्र ॥ २४ ॥
सम्भ्रान्तपुरुषव्यूहदन्तकृत्तमहाशवम् ।
मांसगन्धजवग्रस्तरक्तारक्तनिजाङ्गुलि ॥ २५ ॥
जवेन ग्रसनत्वरया ग्रस्ता रक्तैरारक्ता निजाङ्गुलिर्यत्र ॥ २५ ॥
प्। ३८२) २२७
नीलपत्रलताशङ्कापीतधूमघनच्छवि ।
भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकाभिषम् ॥ २६ ॥
इतरेतरभिन्नाङ्गलोकविद्रवणाकुलम् ।
ज्वलिताग्निटणत्कारविदीर्णहृदयोदरम् ॥ २७ ॥
गर्तमारुतक्राङ्कारभीमदावाग्निवल्गनम् ।
भीताजगरफूत्कारपतदङ्गारपादपम् ॥ २८ ॥
गर्तं प्रविशतो मारुतस्य क्राङ्कारो ध्वनिरिव भीमं दावाग्निवल्गनं यत्र ।
भीतानामजगराणां फूत्कारात्पतन्त उत्पतन्तोऽङ्गारा येषु तथाविधाः
पादपा यत्र ॥ २८ ॥
सदकाण्डस्फुटद्देशं प्राप्य तच्छुष्ककोटरम् ।
द्वादशार्काग्निदग्धस्य जगतोऽनुकृतिं ययौ ॥ २९ ॥
सत् प्राग्रमणीयमपि विन्ध्यकच्छस्थलं प्राप्य तत् तादृशं दुर्भिक्षं
प्रागुक्तमकाण्डस्फुटद्देशं सत् । अनुकृतिं साम्यम् ॥ २९ ॥
ज्वलदनलजटालवृक्षखण्ड-
प्रसरमरुत्प्रसरावनुन्नलोकः ।
ज्वलनतपनभास्करात्मजानां
रमणगृहानुकृतिं जगाम देशः ॥ ३० ॥
ज्वलदनलेन जटालेषु वृक्षखण्डेषु प्रसरो यस्य तथाविधस्य मरुतः
प्रसरेण । अवनुन्नः पीडितो लोको जनो यत्र । ज्वलनतपनयोर्भास्करात्मजस्य
शनैश्चरस्य च रमणं क्रीडास्थानभूतं यद्गृहं तस्यानुकृतिं
साम्यम् ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे
इन्द्रजालोपाख्याने अकाण्डवर्णनं नामाष्टोत्तरशततमः सर्गः ॥ १०८
॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे
अकाण्डवर्णनं नामाष्टोत्तरशततमः सर्गः ॥ १०८ ॥