सप्तोत्तरशततमः सर्गः १०७
राजोवाच ।
बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः ।
तदाप्रभृति तत्राहं सम्पन्नः पुष्टपुल्कसः ॥ १ ॥
अत्र स्वस्य चिरं तत्र वसतः षष्टिहायनान् ।
चण्डालोचितकृत्येन जीवनं यत्तदुच्यते ॥ १ ॥
सोत्सवेनोत्सवसहितेन विवाहेन आवर्जिताशयो वशीकृतचित्तः ॥ १ ॥
सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते ।
पुष्पिता सास्य सम्पन्ना स्थिता गर्भवती ततः ॥ २ ॥
सा भार्या । अस्य मम । पुष्पिता ऋतुमती ॥ २ ॥
प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव ।
सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी ॥ ३ ॥
पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम् ।
अनर्थमिव दुर्बुद्धिराशापाशविधायकम् ॥ ४ ॥
पुनः सुतां दुहितरं पुनरप्यर्भकं ततः ।
कलत्रवानहं जातो वने जरठपुल्कसः ॥ ५ ॥
कलत्रवान् कुटुम्बी ॥ ५ ॥
तया सह समास्तत्र मया बह्व्योऽतिवाहिताः ।
नारके चिन्तया सार्धं ब्रह्मघ्नेनेव यातनाः ॥ ६ ॥
शीतवातातपक्लेशविवशेन वनान्तरे ।
चिरं विलुलितं वृद्धकच्छपेनेव पल्वले ॥ ७ ॥
कलत्रचिन्ताहतया धिया सन्दह्यमानया ।
दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव ॥ ८ ॥
क्षौमानेकसमाक्षीणपटे चेण्डकधारिणा ।
काष्ठभारो वने व्यूढो यो मूर्तमिव दुष्कृतम् ॥ ९ ॥
क्षौमे अतसीवल्कलविकारे अनेकसमाभिराक्षीणे जीर्णे पटे । चेण्डकं
तृणादिनिर्मितं वलयाकारं भारोद्वहनशिरस्त्राणम् ॥ ९ ॥
यौकाकीर्णजरत्क्लिन्नगन्धिकौपीनवाससा ।
आश्वस्य धवलीकानां तले नीता घनाः समाः ॥ १० ॥
यूकानां समूहो यौकम् । जरज्जीर्ण दुर्गन्धि च कौपीनमेव वासो यस्य ।
आश्वस्य विश्रम्य । धवलीकानां वृक्षविशेषाणाम् ॥ १० ॥
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः ।
हेमन्ते दर्दुरेणेव विलीनं वनकुक्षिषु ॥ ११ ॥
दर्दुरेण मेकेन ॥ ११ ॥
नानाकलहकल्लोलतापप्रसरविद्रुताः ।
बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः ॥ १२ ॥
तापप्रसरादिव विद्रुता विलीनाः ॥ १२ ॥
यामिन्यो विपिने क्लिन्ने वराहामिषभोजनाः ।
शिलातलकुटीकोशे नीता जलदविक्लवाः ॥ १३ ॥
काले क्षयं गते रोहे कालभ्रघनतां गते ।
असौहार्देन बन्धूनां कलहैश्चापि सन्ततैः ॥ १४ ॥
कालवर्णैरभ्रैर्घनतां निबिडतां गते रोहे सर्वबीजप्रादुर्भावहेतौ
वर्षाकाले क्षयं गते सति ॥ १४ ॥
सर्वत्र जातशङ्केन कलाभिमुखरार्भकैः ।
मया कृपणचित्तेन नीताः परगृहे समाः ॥ १५ ॥
अर्भकैः सहेति शेषः । परगृहे चाण्डालान्तरगेहे ॥ १५ ॥
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः ।
मुखं जर्जरतां यातमिन्दू राहुरदैरिव ॥ १६ ॥
राहोः रदैर्दन्तैरिन्दुरिव ॥ १६ ॥
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः ।
नारकाहृतविक्रीता नारक्यो रशना इव ॥ १७ ॥
नारकैराहृता नारकेभ्यो विक्रीताः । अनेन नरकेऽपि क्रयविक्रयपातकिनां
तदनुरूपो व्यवहारोऽस्तीति गम्यते । रशनाः आन्त्ररज्जवः ॥ १७ ॥
हिमवत्कन्दरोद्गीर्णाश्चण्डा हेमन्तवीचयः ।
शिशिरे शीकरासारतुषारनिचयाश्चिरम् ॥ १८ ॥
अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः ।
जराजरठमूढेन मूलानि क्षीणभूरुहाम् [क्षीरभूरुहां इति
पाठः] ॥ १९ ॥
सुकृतानामिवैकेन समुत्खातानि भूरिशः ।
शरावकेष्।वटव्यां च पललं पक्वमादरात् ॥ २० ॥
अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया ।
गृहीततेजःक्षतये बहुवक्त्रविकारिणा ॥ २१ ॥
गृहीतस्य तेजसः क्षतये ॥ २१ ॥
मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः ।
प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पशलः ॥ २२ ॥
मृगाणां मांसं मार्गम् । अवेर्मांसं आविकम् । अन्यतः अन्येभ्यः
पण्यं क्रीतं तदात्मीयं स्वदेहमांसमिव क्रीतमिति जुगुप्सोक्तिः ॥ २२ ॥
आयसम्परि विक्रीता विन्ध्यपक्वणभूमिषु ।
जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये ॥ २३ ॥
आयसम्परि अयःपात्रे निधाय संस्कृत्य वेत्यर्थः । वृद्धये
अधिकमूल्यलाभार्थं विक्रीताः ॥ २३ ॥
अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु ।
दृष्टः कुद्दालको दृष्ट्या सन्ध्यास्नेहविमुक्तया ॥ २४ ॥
विक्रीतशिष्टं तु चण्डालारामभूमिषु शोषणार्थमवकीर्णम् ।
असद्भिरपवित्रैर्मलमूत्रादिभिः कीर्णं व्याप्तम् ।
रौरवापतितेनेवात्यन्तदुर्दशां प्राप्तेन विन्ध्यपर्वतगुल्मानां बन्धुतां
पोष्यतां गच्छतेव स्थितेन मया सन्ध्यायां स्नेहेन विमुक्तया ।
कन्दमूलमांसाद्यर्जनविघ्नभूतसन्ध्याकालद्वेष्ट्र्येति यावत् ।
तथाविधया दृष्ट्या बुद्ध्या कुद्दालकः खनित्रविशेष एव
पोषकत्वात्तत्कालस्निग्धतां तत्कालोचितमित्रतां गतो दृष्टो नान्य इति
द्वयोरन्वयेनार्थः ॥ २४ ॥
रौरवापतितेनेव तत्कालस्निग्धतां गतः ।
विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता ॥ २५ ॥
पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः ।
तर्पिता लगुडाघातजितकौलेयरंहसा [लगुडात्काल इति पाठः] ॥ २६
॥
यत्र यस्यां दुर्दशायां युक्तयोगैः परम्परासम्बन्धैर्दैवेन समर्पिताः
पुत्रदारादयो लगुडाघातैर्यष्टिताडनैर्जितकौलेयरंहसा
निवारितशुनकोपद्रवेण मया कदन्नेन तर्पिताः ॥ २६ ॥
प्। ३८०) २२६
पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च ।
धारासाररणात्पत्रशुष्कतालतले निशाः ॥ २७ ॥
ग्रामकः [ग्रामकाः कुग्रामाः इति पाठः] कुग्रामस्तत्र
येऽन्धास्तदुचितेन कोद्रवकणपिन्याआदिना ॥ २७ ॥
नीता रणितदन्तेन सार्धं विपिनवानरैः ।
रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे ॥ २८ ॥
कोटिर्मुक्तावेधनसूच्यग्रं तस्य मुद्रां साम्यमुद्यन्ति ऊर्ध्वभागे
प्राप्नुवन्तीति कोटिमुद्रोद्यानि ॥ २८ ॥
वर्षासु मुक्ताकणवद्धृता वानलबिन्दवः ।
अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा ॥ २९ ॥
वनं जलं लाति आददातीति वनलो मेघस्तत्सम्बन्धिनो वानलाबिन्दवः ।
जीमूतखण्डो मेघलेश इव तुच्छो मांसखण्डस्तदर्थम् ॥ २९ ॥
कलत्रेण सहाटव्यां कृतः कलह आकुलः ।
वने रणितदन्तेन शीतकेकरचक्षुषा ॥ ३० ॥
मपीमलिनगात्रेण वेतालस्वजनायितम् ।
सरित्तीरेषु मत्स्यार्थं भ्रान्तं वडिशधारिणा ॥ ३१ ॥
वेतालस्य स्वजनो बन्धुस्तद्वदाचरितं वेतालवत्स्थितमिति यावत् ॥ ३१ ॥
कल्पे जगत्सुनाशार्थं कृतान्तेनेव पाशिना ।
पीतं बहुपवासेन सद्यःकृत्तमृगोरसः ॥ ३२ ॥
सद्यःकृत्तस्य शरच्छिन्नस्य मृगस्य उरसो वक्षसः ॥ ३२ ॥
तत्कालकोष्णं रुधिरं मातुः स्तनपयो यथा ।
श्मशानसंस्थितान्मत्तो रक्तरक्तान्मलाशिनः ॥ ३३ ॥
कोष्णं कयोष्णम् । रक्तेन रुधिरेण रक्ताद्रञ्जितान् मत्तो मलाशिनः
अपवित्रश्मशानबलिमांसाद्यशनशीलात् ॥ ३३ ॥
विद्रुता वनवेतालाश्चण्डिकाभिद्रुता इव ।
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् ॥ ३४ ॥
विद्रुताः भयात्पलायिताः । व्युप्ताः प्रसारिताः ॥ ३४ ॥
आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः ।
मया मायामयैर्लोकाः सूत्रजालमयैः स्रगाः ॥ ३५ ॥
जालैर्जर्जरतां नीता दिशश्चासुकृतायुषा ।
तत्रापि दत्तः प्रसरो मनसो दुष्कृतोदये ॥ ३६ ॥
तत्र तादृशे पापकर्मण्यपि । मनसः प्रसरो दत्तः ॥ ३६ ॥
आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी ।
करभ्या इव सर्पेण विद्रुतं दूरतो धिया ॥ ३७ ॥
करभ्या भ *? क्याः सकाशात्सर्पेणेव धिया सद्बुद्ध्या दूरतो गतम्
। भावे क्तः । करभी हि सर्पं श्वासेन विलादाकृष्य भक्षयतीति प्रागुक्तमेव
॥ ३७ ॥
दूरे त्यक्ता दया देहे भुजङ्गेनेव कञ्चुकम् ।
क्रौर्यं सुखेन संरम्भशरवर्षि निनादि च ॥ ३८ ॥
देहे परप्राणिदेहे । संरम्भेण शरान्बाणानुदकानि च वर्षितुं शीलमस्य ।
निनादि निष्ठुरभाषि गर्जनशीलं चेति अम्बुदक्रौर्यसाधारणे विशेषणे ।
एवमग्रेऽप्युपमानोपमेयसाधारणानि विशेषणानि बोध्यानि ॥ ३८ ॥
अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः ।
विकासिन्यो क्षताः क्षारा दूरं परिहृता जनैः ॥ ३९ ॥
क्षारा उग्रगन्धा दुःसहोश्च ॥ ३९ ॥
श्वभ्रेणेव कुमञ्जर्यश्चिरमूढा मयापदः ।
स्वकालकुलकोणासु नरकोद्दामभूमिषु ॥ ४० ॥
स्वस्य एतावत्कालमिदं भोक्तव्यमिति नियतः काल एव कुलकोणाः
क्षेत्रभेदविभाजकसेत्वस्रयो यासु ॥ ४० ॥
उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः ।
वागुराभिर्मया विन्ध्यकन्दरस्थेन निर्दयम् ॥ ४१ ॥
मोह एव वृष्टिरिव फलवर्धनो यासां ताः ॥ ४१ ॥
भूतेष्विव कृतान्तेन मृगेषु परिवल्गितम् ।
चामरीकण्ठकुड्येषु विश्रान्तशिरसा मया ॥ ४२ ॥
सुप्तमस्तविवेकेन शेषाङ्गेष्विव शौरिणा ।
विलोलचरणाम्बरया सरावोल्लासिधूम्रया ॥ ४३ ॥
विभिः पक्षिभिर्लोलानि चरणाः प्रत्यन्तपर्वता अम्बरमाकाशं च यस्याः ।
सरावैः सध्वनिभिर्व्याघ्रादिभिरुल्लासि धूम्रं रूपं यस्यामिति च
गुहापक्षेऽर्थः । तनुपक्षे स्पष्टम् ॥ ४३ ॥
मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् ।
कृष्णदेहेन यौकाढ्या कन्धा स्कन्धे मया चिरम् ॥ ४४ ॥
विन्ध्यस्य कच्छो जलप्रायदेशस्तत्रत्यगुहावदाचरितम् । उपमानादाचारे
क्यङि भावे क्तः । यूकानां समूहो यौकं तदाढ्या कन्धा मया ग्रीष्मे
सोढा मर्षितेति सम्बन्धः ॥ ४४ ॥
ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा ।
बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः ॥ ४५ ॥
कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः ।
लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः ।
प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि ॥ ४६ ॥
लोभिलिङ्गो मैथुनव्यसनी यथा क्षयादिरोगं प्रसूते । यथा वा दुर्ग्रहो
दुराग्रहो दुष्टग्रहो वा वैरकलहाद्यनर्थान्प्रसूते तद्वन्मे दाता दुःखानि
सुखान्यपि अपत्यानि प्रसूताः ॥ ४६ ॥
नृपालपुत्रकेनैकतनयेन तदा मया ।
नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः ॥ ४७ ॥
उपसंहरति - नृपालेति । एकतनयेनेत्यत्यन्तानौचित्यसूचनार्थमुक्तम् ॥ ४७
॥
आक्रुष्टमुद्धुरतरं रुदितं विपत्सु
भुक्तं कदन्नमुषितं हतपक्कणेषु ।
कालान्तरं बहु मयोपहतेन तत्र
दुर्वासनानिगडबन्धगतेन सभ्याः ॥ ४८ ॥
उक्तां सर्वा दुर्दशां सङ्क्षिप्य वदन्नुपसंहरति - आक्रुष्टमिति । हे
सभ्याः क्रोधावेशेन आक्रुष्टं विपत्सु रुदितम् । भवदनुभूतकालापेक्षया
कालान्तरम् ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
इन्द्रजालोपाख्याने आपद्वर्णनं नाम सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आपद्वर्णनं
नाम सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
प्। ३८१) २२६