१०६

षडुत्तरशततमः सर्गः १०६

राजोवाच ।

अस्ति तावदयं देशो नानावननदीयुतः ।
वसुधामण्डलस्यास्य सहोदर इवानुजः ॥ १ ॥

इहाश्वेनापनीतस्य वने चण्डालकन्यया ।
समयात्पक्कणं नीत्वा विवाहः स्वस्य वर्ण्यते ॥ १ ॥

समानार्थः सहशब्दः । सहोदरः समानोदरोद्भव इवेत्यर्थः ॥ १ ॥

अस्मिंश्चायमहं राजा पौराभिमतवृत्तिमान् ।
इन्द्रः स्वर्ग इवास्यां तु सभायां मध्यसंस्थितः ॥ २ ॥

यावदभ्यागतो दूरात्कश्चिच्छाम्बरिकस्त्वयम् ।
रसातलादभ्युदितो मायी मय इव स्वयम् ॥ ३ ॥

यावदिति प्राकाश्ये निपातो नतु वतुबन्तः । प्रत्यक्षमभ्यागत इत्यर्थः ॥ ३ ॥

अनेन भ्रमिताद्येह पिच्छिका तेजसोर्जिता ।
कल्पान्तपवनाभ्रेण शक्रचापलता यथा ॥ ४ ॥

भ्रमिता । भ्रमेर्णिचि मितां ह्रस्वः ॥ ४ ॥

आलोक्यैतामहं लोलामस्याश्वस्य पुरः स्थितः ।
पृष्ठमारूढवानेक आत्मना भ्रान्तमानसः ॥ ५ ॥

एकोऽसहायः ॥ ५ ॥

ततोऽर्द्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा ।
तथा चलन्तं चलितः स्वश्वमारूढवानहम् ॥ ६ ॥

प्रलयक्षुब्धं उत्पातवशादेव चलन्तमद्रिमारूढः पुष्करावर्तको
मेघराजो यथा चलितस्तथाहं चलित इत्यन्वयः ॥ ६ ॥

गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा ।
उर्वरामिव निर्भर्तुः कल्लोलः प्रलयाम्बुधेः ॥ ७ ॥

उर्वरां सर्वसस्याढ्यभूमिम् । निर्भर्तुर्निर्भरवतः प्रवृद्धस्येति यावत् ।
कल्लोलो बृहत्तरङ्गः ॥ ७ ॥

तेनानिलविलोलेन दूरं नीतोऽस्मि वाजिना ।
योगाभ्यासजडेनाज्ञो मुग्धस्य मनसा यथा ॥ ८ ॥

मुग्धः स्वमनसा इति पाठः स्पष्टः । मुग्धस्य मनसा इति पाठे
मुग्धस्यापातरमणीयस्य विषयजातस्य भोगाभ्यासेन जडेनेत्यर्थः ।
असमर्थसमासश्छान्दसः ॥ ८ ॥

अकिञ्चनमनःशून्यं स्त्रीचित्तमिव निर्भरम् ।
ततः प्रलयनिर्दग्धजगदास्पदभीषणम् ॥ ९ ॥

अकिञ्चनस्य यतेर्मन इव शून्यं निर्विषयम् । निर्भरं लघु विषमं वा ।
जगदास्पदं ब्रह्माण्डम् ॥ ९ ॥

निष्पक्षिक्षारनीहारं निर्वृक्षमजलं महत् ।
सम्प्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः ॥ १० ॥

क्षारनीहारं दुःसहशीतम् ॥ १० ॥

तद्द्वितीयमिवाकाशं तथाष्टममिवाम्बुधिम् ।
पञ्चमं सागरमिव संशुष्कं शून्यकोटरम् ॥ ११ ॥

स्वादूदकार्णवात्परतोऽष्टममम्बुधिं प्राग्वर्णितभूपरिखागर्तमिव ।
जम्बूद्वीपान्तश्चतुर्दिशं चतुःसागरप्रसिद्धेस्तत्र पञ्चमं सागरमिव ॥
११ ॥

ज्ञस्येव विततं चेतो मूर्खस्येव रुषाऽजवम् ।
अदृष्टजनसंसर्गमजाततृणपल्लवम् ॥ १२ ॥

ज्ञस्य तत्त्वविदो ब्रह्माकारं चेत इव विततमपरिच्छेद्यम् । मूर्खस्य रुषा
[टाबन्तमिदं रुषा इति] क्रोध इव अजवं दुर्गमं विषममिति
[विषयं इति पाठः] यावत् ॥ १२ ॥

अरण्यमिदमासाद्य मतिर्मे खेदमागता ।
ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम् ॥ १३ ॥

दारिद्र्यमेत्य प्राप्य स्थिता ललनेव स्थितमिति शेषः । सीदता मयेति व्यवहितेन
वान्वयः ॥ १३ ॥

कचन्मरुमरीच्यम्बुपुरःप्लुतककुम्मुखम् ।
आसूर्यास्तं दिनं तत्र प्रक्रान्तं सीदता मया ॥ १४ ॥

मरुमरीच्यम्बुभिः पुरोभागे प्लुतानि आप्लावितानि ककुम्मुखानि यत्र ॥ १४ ॥

तदरण्यं मयातीतमतिकृच्छ्रेण खेदिना ।
विवेकिनेव संसारो मध्यशून्यतताकृति ॥ १५ ॥

यदेतेनातिवाह्याहं प्राप्तवाञ्जङ्गलं क्रमात् ।
अस्ताद्रिसानुं खिन्नाश्वः शून्यभ्रान्त्येव भास्करः ॥ १६ ॥

एतेनाश्वेन । शून्यभ्रान्त्या आकाशगमनेन । प्राप्तवानित्यस्य यत्र स्फुरन्ति
तत्रेति परेण सम्बन्धः ॥ १६ ॥

जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः ।
यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः ॥ १७ ॥

यत्र शष्पशिखाश्रेण्यो दृश्यन्ते विरलाः स्थले ।
कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः ॥ १८ ॥

कदर्थलक्ष्म्या अधर्मार्जितधनेन । जिह्मस्य कुटिलजनस्य ॥ १८ ॥

पूर्वादरण्यादरसात्तद्धि किञ्चित्सुखावहम् ।
अत्यन्तदुःखान्मरणाद्वरं व्याधिर्हि जन्तुषु ॥ १९ ॥

प्। ३७७) २२३

तत्र जम्बीरखण्डस्य तलं सम्प्राप्तवानहम् ।
मार्कण्डेय इवागेन्द्रमेकार्णवविहारतः ॥ २० ॥

अगेन्द्रं वृक्षश्रेष्ठं विष्ण्वधिष्ठितवटम् ॥ २० ॥

आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता ।
नीला जलदमालेव तापतप्तेन भूभृता ॥ २१ ॥

आलम्बिता अश्वपरित्यागार्थमवलम्बिता ॥ २१ ॥

मयि प्रलम्बमानेऽस्यां प्रयातः स तुरङ्गमः ।
गङ्गावलम्बिनि नरे यथा दुष्कृतसञ्चयः ॥ २२ ॥

चिरं दीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम् ।
भानुरस्ताचलओत्सङ्गे तले कल्पतरोरिव ॥ २३ ॥

यावत्समस्तसंसारव्यवहारभरैः समम् ।
रविर्विश्रमणायेव निविष्टोऽस्ताचलाङ्गणे ॥ २४ ॥

यावत्समस्तसंसारव्यवहारैः सह रविरस्ताचलोपलक्षिते उदयाद्र्यन्ते
गगनाङ्गणे निविष्टस्तावदहं तस्मिंस्तरुगणे निलीन इति व्यवहितेनान्वयः ॥
२४ ॥

शनैः श्यामिकया ग्रस्ते समस्ते भुवनोदरे ।
रात्रिसंव्यवहारेषु सम्प्रवृत्तेषु जङ्गले ॥ २५ ॥

अहं तरुतृणे तस्मिन्पेलवे खण्डकोटरे ।
निलीनश्चिरलीनास्यः स्वनीडे विहगो यथा ॥ २६ ॥

चिरं लीनं स्वपक्षपुटे गोपितमास्यं चञ्चुपुटं येन तथाविधो विहगो
यथा तथा ॥ २६ ॥

विषदष्टविवेकस्य कीनाशस्य गलत्स्मृतेः ।
विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके ॥ २७ ॥

विषशब्देन विषधरः कीनाशशब्देन मृत्युवशश्च लक्षणयोच्यते ॥ २७ ॥

तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता ।
एकार्णवोह्यमानस्य मार्कण्डेयमनेरिव ॥ २८ ॥

न स्नातवान्नार्चितवान्न तदा भुक्तवानहम् ।
केवलं मे गता रात्रिः सापदां धुरि तिष्ठतः ॥ २९ ॥

सापदां आपद्युक्तजनानां सा रात्रिरिति वा ॥ २९ ॥

विनिद्रस्य विधैर्यस्य स्फुरतः सह पल्लवैः ।
समं दुष्टातिदैर्घ्येण सा व्यतीयाय शर्वरी ॥ ३० ॥

पल्लवैः सह स्फुरतः कम्पमानस्य । दुष्टेन दुरुत्तरेणातिदैर्घ्येण समं
साकम् ॥ ३० ॥

ततस्तिमिरलेखासु सह तारेन्दुकैरवैः ।
मयीवापाद्यमानासु म्लानतामलमानने ॥ ३१ ॥

ततः पूर्वां दिशं प्राप्तमधुपानारुणामिव दृष्टवानिति तृतीयेनान्वयः
। तारेण्दुकैरवैः सह तिमिरलेखासु म्लानतामप्रसन्नतामापाद्यमानासु ।
तासामुपमानं मयीवेति । तारकेन्दुकैरवाणामुपमानमानने
इत्यनेनार्थादाननमिन्दोर्नेत्रे कैरवाणां तत्तारके ताराणामुपमानमिति
गम्यते ॥ ३१ ॥

शाम्यन्तीषु च वेतालक्ष्वेडासु जवजङ्गले ।
सहशीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कृतैः ॥ ३२ ॥

क्ष्वेडासु सिंहनादेषु । जवजङ्गले दीर्घारण्ये । जङ्गलेऽसहेति प्रश्लेषः ।
असहा दुःसहा या शीतार्तिस्तद्वतां प्राणिनां
दन्तपङ्क्तिघट्टनटाङ्कारसीत्कारैर्मामेव हसन्तीमिवेति देशो विशेषणम् ॥
३२ ॥

मामेवार्तिविनिर्मग्नं हसन्तीमिव दृष्टवान् ।
अहं पूर्वां दिशं प्राप्तमधुपानारुणामिव ॥ ३३ ॥

क्षणादज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् ।
दृष्टवानहमर्कं खे वारणारोहणोन्मुखम् ॥ ३४ ॥

वारणाः प्राच्यामैरावताख्यो दिग्गजस्तदारोहणं तत
ऊर्ध्वभावस्तदुन्मुखम् ॥ ३४ ॥

उत्थायास्तरणं वस्त्रं तत्तदास्फोटितं मया ।
हस्तिचर्महरेणेव सन्ध्यानृत्यानुरागिणा ॥ ३५ ॥

आस्तरणं वस्त्रमास्फोटितं विधूनितम् ॥ ३५ ॥

प्रवृत्तस्तामहं स्फारां विहर्तुं जङ्गलस्थलीम् ।
कालो जगत्कुटीं कल्पदग्धभूतगणामिव ॥ ३६ ॥

कालः कालरुद्रः । कल्पः प्रलयः ॥ ३६ ॥

न किञ्चिद्दृश्यते तत्र भूतं जरठजङ्गले ।
अभिजातो गुणलवो यथा मूर्खशरीरके ॥ ३७ ॥

अभिजातो हृद्यः ॥ ३७ ॥

केवलं विगताशङ्कं खण्डभ्रमणचञ्चलम् ।
चीचीकूचीतिवचना विहरन्ति विगङ्गमाः ॥ ३८ ॥

केवलं निष्फलवनखण्डभ्रमणेन चञ्चलं जातिचापल्यं यथा स्यात्तथा
विहरन्ति तत्रेति शेषः ॥ ३८ ॥

अथाष्टभागमापन्ने व्योम्नो दिवसनायके ।
शुष्कावश्यायलेशासु स्नातास्विव लतासु च ॥ ३९ ॥

अवश्यायलेशा नीहारजलकणाः ॥ ३९ ॥

दृष्टा मया प्रभ्रमता दारिकौदनधारिणी ।
गृहीतामृतसत्कुम्भा दानवेनेव माधवी ॥ ४० ॥

दारिका दन्या । माधवी स्त्रीवेषधरो हरिरिव ॥ ४० ॥

तरत्तारकनेत्रां तां श्यामामधवलाम्बराम् ।
अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः ॥ ४१ ॥

तरत्तारका एव नेत्राणि यस्याः ॥ ४१ ॥

मह्यमोदनमाश्वेतद्वाले बलवदापदि ।
देहिदीनार्तिहरणात्स्फारतां यान्ति सम्पदः ॥ ४२ ॥

बलवत्यां प्राणात्ययपर्यन्तायाम् । तथाच स्मृतिः - जीवितात्ययमापन्नो
योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ इति ।
सर्वान्नानुमतिः प्राणात्यये तद्दर्शनात् इति बादरायणसूत्रं चेति भावः ॥ ४२

क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी ।
कृष्णसर्पा प्रसूतेव कोटरस्था जरद्द्रुमे ॥ ४३ ॥

प्रसूता जातापत्या । सा हि स्वाण्डान्यपि ग्रसतीति क्षुधाया
अनुचितकारिणीत्वद्योतनार्थ विशेषणम् । तथाचाहुः अस्य दग्धोदरस्यार्थे को न
कुर्यादसाम्प्रतम् इति ॥ ४३ ॥

याच्ञयापि तया मह्यमित्थं दत्तं न किञ्चन ।
यत्नप्रार्थनया लक्ष्म्या यथा दुष्कृतिने धनम् ॥ ४४ ॥

यत्नयुक्तया प्रार्थनया यत्नप्रार्थनया ॥ ४४ ॥

केवलं चिरकालेन मयात्यन्तानुगामिना ।
खण्डात्खण्डं निपतति च्छायाभूते पुरःस्थिते ॥ ४५ ॥

एकस्माद्वनखण्डाद्वनखण्डान्तरं निपतति अनुगच्छति । अत एव
च्छायाभूते ॥ ४५ ॥

प्। ३७८) २२५

तयोक्तं हारकेयूरिंश्चण्डालीं विद्धि मामिति ।
राक्षसीमिव सुक्रूरां पुरुषाश्वगजाशनाम् ॥ ४६ ॥

हारकेयूरिन्नित्यनेनोत्तमजातिसूचनेन मदन्नमभोज्यमिति द्योतितम् ॥ ४६ ॥

राजन्यार्चनमात्रेण मत्तो नाप्नोषि भोजनम् ।
ग्राम्यादनभिजातेहात्सौजन्यमिव सुन्दरम् ॥ ४७ ॥

अनभिजातेहादसम्पन्नाभिलाषात् । ग्राम्यात् ग्रामीणजनात् । सौजन्यं
सौहार्दमिव ॥ ४७ ॥

इत्युक्तवत्या गच्छन्त्या खेलया च पदे पदे ।
कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम् ॥ ४८ ॥

मज्जन्त्या लीयमानया । लीलाभिः
स्वाभिप्रेतार्थसूचककटाक्षादिचेष्टाभिरवनतया प्रह्वीभूतया ॥ ४८ ॥

ददामि भोजनमिदं भर्ता भवसि चेन्मम ।
लोको नोपकरोत्यर्थैः सामान्यः स्निग्धतां विना ॥ ४९ ॥

सामान्यो लोकः पृथग्जनः ॥ ४९ ॥

वाहयत्यत्र मे दान्तान्केदारे पुल्कसः पिता ।
श्मशान इव वेतालः क्षुधितो धूलिधूसरः ॥ ५० ॥

दान्तान् बलीवर्दान् वाहयति । कर्षतीति यावत् ॥ ५० ॥

तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते ।
प्राणैरपि हि सम्पूज्या वल्लभाः पुरुषा यतः ॥ ५१ ॥

त्वयि भर्तृत्वे स्थिते सति दीयते ॥ ५१ ॥

अथोक्ता सा मया भर्ता भवामि तव सुव्रते ।
केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः ॥ ५२ ॥

ततस्तयौदनादर्धं मह्यमेकं समर्पितम् ।
माघव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा ॥ ५३ ॥

माधव्या इन्द्राय दत्तममृतादर्धमिव । आर्त्या क्षुत्पीडया
महद्बहुमतमिति यावत् ॥ ५३ ॥

जम्बूफलरसः पीतः स भुक्तः पक्वणौदनः ।
विश्रान्तं च मया तत्र मोहापहतचेतसा ॥ ५४ ॥

मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता ।
हस्तेन समुपादाय प्राणं बहिरिव स्थितम् ॥ ५५ ॥

आपूर्य तिरोधाय ॥ ५५ ॥

दुराकृतिं दुरारम्भमाससाद भयप्रदम् ।
पितरं पीवराकारमवीचिमिव यातना ॥ ५६ ॥

अवीचिं नरकविशेषम् ॥ ५६ ॥

तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः ।
मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया ॥ ५७ ॥

मातङ्गाय चाण्डालाय निवेदितः । कर्णे इति शेषः । अत एवालिना भ्रमरान्तरेण
लग्नया भ्रमर्येवेत्युपमा ॥ ५७ ॥

अयं मम भवेद्भर्ता तात हे तव रोचताम् ।
स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते ॥ ५८ ॥

मुमोच दान्तावाबद्धौ कृतान्तः किङ्कराविव ।
नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितासु च ।
वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम् ॥ ५९ ॥

कडारासु कपिलासु । वेतालबन्धनात्पिशाचनिवासात्तस्माद्वनात् ॥ ५९ ॥

क्षणेन पक्कणं प्राप्ताः सन्ध्यायां दीर्घजङ्गलात् ।
श्मशानादिव वेतालाः श्मशानमितरन्महत् ॥ ६० ॥

विकर्तितविभागस्थकपिकुक्कुटवायसम् ।
रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम् ॥ ६१ ॥

विकर्तिता अपि पुनः कर्तनेन विभागस्थाः ॥ ६१ ॥

शोषार्थं प्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम् ।
निष्कुटस्थितजम्बीरखण्डलग्नखगध्वनि ॥ ६२ ॥

निष्कुटेषु गृहारामेषु ॥ ६२ ॥

शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् ।
दृष्टिप्रसृतरक्ताक्तचर्मस्रवदसृगलवम् ॥ ६३ ॥

अलिन्दो बहिर्द्वारप्रकोष्ठः ॥ ६३ ॥

बालहस्तस्थितक्रव्यपिण्डक्कणितमक्षिकम् ।
जर्जराधिष्ठचण्डालतर्जितारटितार्भकम् ॥ ६४ ॥

जर्जरैर्वृद्धैरधिष्ठैः श्रेष्ठैश्चण्डालैः ॥ ६४ ॥

तत्प्रविष्टा वयं कीर्णशिरान्त्रं भीमपक्कणम् ।
मृतभूतं जगत्कल्पे कृतान्तानुचरा इव ॥ ६५ ॥

मृतानि भूतानि प्राणिनो यत्र । कल्पे प्रलयकाले ॥ ६५ ॥

सम्भ्रमोपहितानल्पकदलीदलपीठके ।
अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे ॥ ६६ ॥

सम्भ्रमेणादरातिशयेन उपहिते आस्तीर्णे पीठके आसने ॥ ६६ ॥

श्वश्वा मे केकराक्ष्या तु तेनासृग्लवचक्षुषा ।
जामातायमिति प्रोक्तं तया तदभिनन्दितम् [सदभिनन्दितम् इति
पाठः] ॥ ६७ ॥

अथ विश्रम्य चण्डालभोजनान्यजिनासने ।
सञ्चितान्युपभुक्तानि दुष्कृतानीव भूरिशः ॥ ६८ ॥

अनन्तदुःखबीजानि न मनोज्ञतराण्यपि ।
तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम् ॥ ६९ ॥

निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः ।
तैस्तैराम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः ॥ ७० ॥

तैस्तैश्चण्डालोत्सवोचितैर्मद्यमांसादिसञ्चयारम्भोद्योगैः ॥ ७० ॥

दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी ।
सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना ॥ ७१ ॥

सरभसमभितो विनेदुरत्र
प्रसृतमहामदिरासवाः श्वपाकाः ।
हतपटुपटहा विलासवन्तः
स्वयमिव दुष्कृतराशयो महान्तः ॥ ७२ ॥

अत्रास्मिन्विवाहोत्सवे । मदिरासवपदाभ्यां तन्मदो लक्ष्यते । महान्तो
ब्रह्महत्यादयः ॥ ७२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मो० उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने
चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः ॥ १०६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चाण्डालीविवाहो
नाम षडुत्तरशततमः सर्गः ॥ १०६ ॥

प्। ३७९) २२५