१०५

पञ्चोत्तरशततमः सर्गः १०५

श्रीवसिष्ठ उवाच ।

मुहूर्तद्वितयेनाथ बोधमाप महीपतिः ।
प्रावृषेण्याम्बुनिर्मुक्तमम्बोरुहमिवोत्तमम् ॥ १ ॥

विमोहं स्वस्थहृदयं नृपं प्रति सभासदाम् ।
मोहहेतोः परिप्रश्नात्तदुक्त्यारम्भ ईर्यते ॥ १ ॥

प्रावृषि भवेन प्रावृषेण्येनाम्बुना ॥ १ ॥

आसनात्साङ्गदोत्तंसः प्रबुद्धोऽसावकम्पयत् ।
सवनाभोगशृङ्गाग्र्यो भूकम्प इव पर्वतः ॥ २ ॥

अकम्पयत् अर्थात्स्वदेहमिति गम्यते ॥ २ ॥

बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः ।
विक्षुब्ध इव पातालवारणे शङ्कराचलः ॥ ३ ॥

विक्षुब्धे सञ्चलिते पातालवारणे भूविधारके दिग्गजे । शङ्कराचलः कैलासः
॥ ३ ॥

पतन्तं धारयामासुस्तं पुरोगा नृपं भुजैः ।
मेरुं प्रलयविक्षुब्धं कुलशैलास्तटैरिव ॥ ४ ॥

कुलशैला मन्दरादयो विष्टम्भपर्वताः ॥ ४ ॥

पुरोगैर्धार्यमाणोऽसौ पर्याकुलमतिर्नृपः ।
वीचिविक्षोभितस्येन्दोर्बभार वनमाः श्रियः ॥ ५ ॥

इन्दोः लक्षणया इन्दूदयोद्रिक्तस्यार्णवस्य वनं जलं मिन्वन्ति उपमिन्वन्तीति
वनमाः श्रियः शोभा बभार । वपुषा श्रियः इति पाठः स्पष्टः ॥ ५ ॥

प्। ३७५) २२२

कोऽयं प्रदेशः कस्येयं सभेति स नृपः शनैः ।
दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः ॥ ६ ॥

दध्वान अस्फुटमुक्तवान् ॥ ६ ॥

अथोवाच सभा देव किमेतदिति सादरम् ।
रणन्मधुकरी भानुं दृष्टराहुमिवाब्जिनी ॥ ७ ॥

सभाशब्देन जना उच्यन्ते । अब्जिन्या भानुं प्रति
वक्तृत्वमौत्प्रेक्षिकमत्रोपमानम् । रणन्मधुकरीत्युत्प्रेक्षोपपादकं
विशेस्ऽणम् ॥ ७ ॥

अथैनम्परिपप्रच्छुः पुरोगा मन्त्रिणस्तथा ।
प्रलयोल्लाससन्त्रस्तं मार्कण्डेयमिवामराः ॥ ८ ॥

त्वयीत्थं संस्थिते देव वयमत्यन्तमाकुलाः ।
अभेद्यमपि भिन्दन्ति निर्निमित्तं भ्रमा मनः ॥ ९ ॥

भ्रमा भ्रान्तिप्रत्यया निर्निमित्तं विनैव बाह्यं कारणं मनो भिन्दन्ति
क्षोभयन्ति भयविषादादिभिरित्यर्थः ॥ ९ ॥

आपातरमणीयेषु पर्यन्तविरसेषु च ।
भोगेष्विव विकल्पेषु केषु ते लुलितं मनः ॥ १० ॥

भोगेषु रागादिना पृथग्जनानामिव ते केन हेतुना मनो लुलितं ।
व्यामूढमित्यर्थः ॥ १० ॥

सततोदारवृत्तासु कथासु परिशीतलम् ।
मनस्ते निर्मलं कस्मात्सम्भ्रमेषु निमज्जति ॥ ११ ॥

कथासु विवेकचर्चासु परिशीलनेन शीतलम् । सम्भ्रमेषु भयेषु ॥ ११ ॥

तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु ।
मनो मोहमुपादत्ते न महत्त्वविजृम्भितम् ॥ १२ ॥

कीदृशं तर्हि मनो मोहयोग्यं तत्राहुः - तुच्छालम्बनमिति ।
यतस्तुच्छविषयालम्बनमतो विषये आलूने आलूनमिव विशीर्णे विशीर्णमिव
लोकवृत्तिषु मोहमुपादत्त इत्यर्थः । महत्त्वविजृम्भितं विवेकपरिष्कृतम्
॥ १२ ॥

सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता ।
शरीरमदमत्तासु तामेवैतद्विधावति ॥ १३ ॥

शरीरमदो देहाभिमानस्तेन मत्तासु अस्पृष्टविवेकासु दशासु अस्य मनसो
यैव स्त्रीपुत्रादिविषये वृत्तिरुत्थिता तामेव विधावति ॥ १३ ॥

अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च ।
तवापि हि मनश्चित्रमालूनमिव लक्ष्यते ॥ १४ ॥

तव मनस्तु न तथेत्याहुः - अतुच्छेति ॥ १४ ॥

अनभ्यस्तविवेकं हि देशकालवशानुगम् ।
मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत् ॥ १५ ॥

नित्यमात्तविवेकस्य कथमालूनशीर्णता ।
धुनोति विततं चेतो वात्येव विबुधाचलम् ॥ १६ ॥

विततं विवेकविस्तृतम् । विबुधाचलं मेरुम् ॥ १६ ॥

इति जातानुगीर्णस्य भूपतेः कान्तिराननम् ।
भूषयामास शीतांशुं मासान्त इव पूर्णता ॥ १७ ॥

जातेन स्वजनसमूहेन अनुगीर्णस्य अनुकूलगीर्भिराश्वासितस्य । मासान्ते
पौर्णमास्याम् ॥ १७ ॥

रराज राजा सौम्यास्यमुन्मीलितविलोचनः ।
गते हिमर्तावुल्लासिपुष्पौघ इव माधवः ॥ १८ ॥

हिमर्तौ शिशिरे । माधवो वसन्तः ॥ १८ ॥

अथातिसम्भ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ ।
आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे ॥ १९ ॥

अथासन्नमृत्युः सन्निहितास्तमय इन्दुः राहुमिवैन्द्रजालिकमालोक्य
अतिसम्भ्रमेण भयेन आश्चर्येण च खिन्नं आस्मृत्या आध्यानेन
पूर्वापरसर्ववृत्तान्तप्रतिसन्धानेनोपलक्षितं मुखं यस्य तथाविधो
बभौ । आसन्नो मृत्युर्ग्रसनं यस्य ॥ १९ ॥

ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव ।
बभुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः ॥ २० ॥

बभ्रुं नकुलम् । सर्परूपी क्षुद्रसर्पवेषप्रच्छन्नस्तक्षको नागराजः ॥ २० ॥

जाल्म जालजटालेन किमेतद्भवतां कृतम् ।
येनास्पन्दप्रसन्नोऽब्धिः क्षणादेत्य प्रसन्नताम् ॥ २१ ॥

हे जाल्म असमीक्ष्यकारिन् जालेन मायावागुरया जटालेनेव । अब्धिपदेन
तत्सदृशं स्वमनो गौण्योच्यते ॥ २१ ॥

चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः ।
सुशक्तमपि मे चित्तं याभिर्मोहे निवेशितम् ॥ २२ ॥

चित्रमित्यस्य निवेशितमित्यत्रान्वयः ॥ २२ ॥

क्व वयं लोकपर्यायकृतान्तपदवेदिनः ।
क्व मनोमोहदायिन्यो वितताः प्रकृतापदः ॥ २३ ॥

चित्रतामेवाभिनयन्नाह - क्वेति । लोकपर्याया
लोकप्रसिद्धसर्वव्यवहारास्तेषां कृतान्तपदस्य सिद्धान्तरहस्यस्य वेदिनो
बोद्धारः । प्रकृताः साम्प्रतमनुभूता आपदः ॥ २३ ॥

अप्यभ्यस्तमहाज्ञानं मनस्तिष्ठति देहके ।
कदाचिन्मोहमादत्ते क्षणं मतिमतामपि ॥ २४ ॥

अभ्यस्तमहाज्ञानमपि मनः कदाचिद्देहके तिष्ठति । विद्यमानेऽपि
स्वप्नेन्द्रजालानां मोहं आदत्ते ॥ २४ ॥

इदमाश्चर्यमाख्यानं श्रूयतां रे सभासदः ।
मम शाम्बरिकेणेह यन्मुहूर्तं प्रदर्शितम् ॥ २५ ॥

शम्बरस्य माया शाम्बरी सास्यास्तीति शाम्बरिकस्तेन ॥ २५ ॥

दृष्टवानहमेतस्मिन्बह्वीः कार्यदशाश्चलाः ।
मुहूर्तं प्रार्थितोऽध्वस्तशक्रसृष्टिरिवाब्जजः ॥ २६ ॥

अध्वस्तशक्रसृष्टिरिति च्छेदः । पुरा किल बलिः क्वचिदसहायं शक्रमासाद्य
बलेर्निगृह्याहर्तुकामः शक्रेण मायया स्वसैन्यं सृष्ट्वा बलिं
मायाबन्धेन मोहयामास । तदा बलिना स्वबन्धनमोक्षणाय स्तुत्या प्रसादितो
ब्रह्मा तत्रागत्य शाक्रीं सृष्टिं ध्वंसयितुं प्रवृत्तः शक्रप्रार्थनया
अध्वस्तशक्रसृष्टिर्मुहूर्तमात्रं तन्मायाकौतुकं यथा
दृष्टवांस्तद्वदित्यर्थः ॥ २६ ॥

इत्युक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्निव ।
राजा वर्णयितुं चित्रं वृत्तान्तमुपचक्रमे ॥ २७ ॥

प्। ३७६) २२३

राजोवाच ।

इह विविधपदार्थसङ्कुलायां
ह्रदनदपत्तनपर्वताकुलायाम् ।
कुलशिखरिसमुद्रसङ्करायां
भुवि विभवावलितोऽस्त्ययं प्रदेशः ॥ २८ ॥

वक्ष्यमाणोपोद्घातेन प्रथमं
सर्वजनप्रसिद्धभूम्यन्तर्गतस्वदेशसत्तामनुवदति - इहेति ।
पर्वतग्रहणेन प्राप्तानामपि कुलशिखरिणां पुनर्ग्रहणं
ब्राह्मणपरिव्राजकन्यायेन श्रैष्ठ्यार्थम् । सङ्कीर्यत इति सङ्करा । कृञः
शच इति कर्मणि बाहुलकात् शः । सङ्कटायाम् इति पाठे तु दुर्गमायामित्यर्थः
॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ०
इन्द्रजालोपाख्याने राजावबोधो नाम पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राजावबोधो
नाम पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥