चतुरुत्तरशततमः सर्गः १०४
श्रीवसिष्ठ उवाच ।
अत्र ते शृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।
जागतीहेन्द्रजालश्रीश्चित्तायत्ता यथा स्थिता ॥ १ ॥
अत्रादौ लवणाख्याने देशराजसभास्थितिः ।
तत्रेन्द्रजालिकाश्वेक्षा विस्मयस्थितिरुच्यते ॥ १ ॥
वृत्तान्तमाख्यानम् ॥ १ ॥
अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः ।
उत्तरापाण्डवो नाम स्फीतो जनपदो महान् ॥ २ ॥
नीरन्ध्रघनगम्भीरवनविश्रान्ततापसः ।
विद्याधरीकृतलतादोलोपवनपत्तनः ॥ ३ ॥
नीरन्ध्रघनेषु अत एव गम्भीरेषु वनेषु विश्रान्तास्तापसा यस्य । अनेन
व्याघ्रचोराद्युपप्लवाभाव उक्तः ॥ ३ ॥
वातोद्भूताब्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः [वातोद्भूत इति क्वचित्]
।
लसत्कुसुमसम्भारवनमालावतंसकः ॥ ४ ॥
करञ्जमञ्जरीकुञ्जगुच्छपर्यन्तजङ्गलः ।
खर्जूरान्तरितग्रामो घुङ्घुमध्वनिताम्बरः ॥ ५ ॥
पर्यन्तजङ्गलानि ग्रामपर्यन्तारण्यानि । खर्जूरवृक्षैरन्तरिता अन्तर्हिता
ग्रामा यत्र ॥ ५ ॥
प्। ३७३) २२१
एकपिङ्गशिलाश्रेणीशालिकेदारपिङ्गलः ।
नीलकण्ठारवोद्दामवनजङ्गलमण्डितः ॥ ६ ॥
एकपिङ्गशिला उत्कृष्टपिङ्गलवर्णा मणिविशेषास्तच्छ्रेणिसदृशैः
पक्वशालिकेदारैः पिङ्गलः ॥ ६ ॥
सारसारवसंरम्भरणत्कनककाननः ।
तमालपाटलीनीलगिरिग्रामककुण्डलः ॥ ७ ॥
विचित्रविहगव्यूहविरावकृतकाकलिः ।
नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः ॥ ८ ॥
उन्निद्राः कुसुमिताः पारिभद्रतरवो निम्बास्तैररुणः ॥ ८ ॥
गायत्कलमकेदारदारिकाहृतमन्मथः ।
पुष्पफलचलद्वातव्याधूतकुसुमाम्बुदः ॥ ९ ॥
पुष्पेषु फलेषु च शिथिलितवृन्तानां पातनाय चलता वातेन व्याधूताः
कुसुमलक्षणा अम्बुदा यत्र ॥ ९ ॥
दरीगृहविनिष्क्रान्तसिद्धचारणबन्दिकम् ।
स्वर्गादिव समानीय लावण्यमभिनिर्मितः ॥ १० ॥
मेरुदरीगृहेभ्यो विनिष्क्रान्तं सिद्धचारणबन्दिकं यस्य तथाविधं
स्वर्गलावण्यं स्वर्गाद्भुवि समानीय निर्मित इवेत्यर्थः ॥ १० ॥
गायत्किन्नरगन्धर्वकदलीखण्डमण्डपः ।
मन्दानिलरवोद्भूतः पुष्पोपवनपाण्डुरः ॥ ११ ॥
मन्दैरनिलरवैरुद्भूत उत्कृष्टतया स्थितः । पुष्पयुक्तैरुपवनैः पाण्डुरः
। एतादृश उत्तरापाण्डवो नाम जनपदोऽस्तीति प्राक्तनेन सम्बन्धः ॥ ११ ॥
तत्रास्ति लवणो नाम राजा परमधार्मिकः ।
हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः ॥ १२ ॥
भूमाववतीर्णो दिवाकर इव ॥ १२ ॥
यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः ।
तत्र शैला विराजन्ते हाराः प्रोद्धूलिता इव ॥ १३ ॥
कुसुमलक्षणैरुत्तंसैः कुसुमानामुत्तंसैः रजोभिर्वा ॥ १३ ॥
कृपाणशकलोत्कृत्तनिःशेषारातिमण्डलः ।
अरातिलोकः प्राप्नोति यदनुस्मरणाज्ज्वरम् ॥ १४ ॥
कृपाणैः शकलानि यथा स्युस्तथा उत्कृत्तन्यत एव निःशेषाणि
प्रधानारातिमण्डलानि यस्य स तथाभूतोऽरातीनां लोकः सेवकजनः ॥ १४ ॥
यस्योदारसमारम्भमार्यलोकानुपालनम् ।
चरितं संस्मरिष्यन्तिहरेरिव चिरं जनाः ॥ १५ ॥
आर्यलोकानां धार्मिकजनानामनुपालनं रक्षकं चरितम् ॥ १५ ॥
यस्याप्सरोभिरद्रीन्द्रमूर्धस्वमरसद्मसु ।
विकासिपुलकोल्लासं गीयन्ते गुणगीतयः ॥ १६ ॥
यस्य स्वःसुन्दरीगीता लोकपालचिरश्रुताः ।
विरिञ्चिहंसैर्ध्वन्यन्ते स्वभ्यासाद्गुणगीतयः ॥ १७ ॥
स्वःसुन्दरीभिरप्सरोभिर्गीता गुणगीतिप्रबन्धा विरिञ्चेर्ब्रह्मणो
हंसैर्ध्वन्यन्ते । ध्वनिभिरनुक्रियन्त इति यावत् ॥ १७ ॥
स्वप्नेष्वपि न सामान्या यस्योदारचमत्कृतिः ।
राम दृष्टा श्रुता वापि दैन्यदोषमयी क्रिया ॥ १८ ॥
सामान्या इतरनृपसाधारणी ॥ १८ ॥
जिह्मतां यो न जानाति न दृष्टा येन घृष्णुता ।
उदारता येन धृता ब्रह्मणेवाक्षमालिका ॥ १९ ॥
जिह्मतां कौटिल्यम् । धृष्णुता अविनीतता । गृध्नुता इति पाठे
परस्वाभिलाषिता ॥ १९ ॥
दिनाष्टभागमाकाशमागते दिवसाधिपे ।
स कदाचित्सभास्थाने सिंहासनगतोऽभवत् ॥ २० ॥
अष्टभागमष्टमभागम् । मुहूर्तद्वयमिति यावत् ॥ २० ॥
सुखोपविष्टे तत्रास्मिन्राजनीन्दाविवाम्बरे ।
प्रविशन्तीषु सामन्तसेनासु च ससम्भ्रमम् ॥ २१ ॥
गायन्तीष्वथ कान्तासु सूपविष्टेषु राजसु ।
मनो हरति साह्लादे वीणावंशकलारवे ॥ २२ ॥
राजसु सामन्तेषु ॥ २२ ॥
चारुचामरहस्तासु सविलासासु राजनि ।
देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले ॥ २३ ॥
सविलासासु सविलासं बीजयतीषु । देवासुरगुरू गुरुशुक्रौ तत्प्रख्ये ॥ २३ ॥
प्रस्तुतेषु प्रविष्टेषु राजकार्येषु मन्त्रिभिः ।
प्रोक्तासु देशवार्तासु निपुणैश्चारुमन्त्रिभिः ॥ २४ ॥
इतिहासमये पुण्ये वाच्यमाने च पुस्तके ।
पठत्सु च स्तुतीः पुण्याः पुरः प्रह्वेषु बन्दिषु ॥ २५ ॥
सभां विवेश साटोपः कश्चित्तामैन्द्रजालिकः ।
वर्षेणाहितसंरम्भो वसुधामिव वारिदः ॥ २६ ॥
साटोपः ऐन्द्रजालिकोचितवेषालङ्कारविरुदाडम्बरसम्पन्नः । भाविना वर्षेण
आहितो विद्युद्विस्फूर्जितादिसंरम्भो यस्य ॥ २६ ॥
स ननाम महीपालं शिखरोदारकन्धरम् ।
पादोपान्तगतः कान्तं शैलं फलतरुर्यथा ॥ २७ ॥
शिखरेण किरीटकूटेन शृङ्गैश्चोदारा कन्धरा कण्ठोऽधित्यका च यस्य ।
फलभारयुक्तस्तरुः फलतरुः ॥ २७ ॥
सच्छायस्योन्नतांसस्य फलिनः पुष्पभासिनः ।
स विवेश पुरो राज्ञस्तरोरग्रे कपिर्यथा ॥ २८ ॥
कपिरित्ययुक्तदुश्चेष्टाकारिण उचितो दृष्टान्तः ॥ २८ ॥
चपलो लम्पटोऽर्थानामामोदसुखमारुतम् ।
उवाचोत्कन्धरं भूपं सपद्ममिव षट्पदः ॥ २९ ॥
विलोकय विभो तावदेकामिह खरोलिकाम् ।
पीठस्थ एव साश्चर्यां व्योम्नि चन्द्र इवावनिम् ॥ ३० ॥
खरोलिकां मिथ्याकौतुकक्रीडाम् ॥ ३० ॥
इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी ।
नानाविरचनाबीजा मायेव परमात्मनः ॥ ३१ ॥
पिच्छिका मयूरबर्हमुष्टिः ॥ ३१ ॥
तां ददर्श महीपालस्तेजोरेणुविराजिताम् ।
शक्रः सुरविमानस्थः स्वकार्मुकलतामिव ॥ ३२ ॥
तेजोरेणुभिर्नानावर्णकान्तैः पटलैः ॥ ३२ ॥
प्। ३७४) २२२
सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे तदा ।
तारापरिकरापूर्णां व्योमवीथीमिवाम्बुदः ॥ ३३ ॥
सैन्धवसामन्तोऽश्वपालकः ॥ ३३ ॥
तं चैवानुजगामाश्वः सौम्यः परमवेगवान् ।
देवलोकोन्मुखं तुष्टं शक्रमुच्चैःश्रवा इव ॥ ३४ ॥
स तमश्वमुपादाय पार्थिवं समुवाच ह ।
सोच्चैःश्रवा इव क्षीरसागरो मरुतां पतिम् ॥ ३५ ॥
सः अश्वपालकः ॥ ३५ ॥
इदमुच्चैःश्रवःप्रख्यं हयरत्नं महीपते ।
जवोड्डयनशीलेन मूर्तिमानिव मारुतः ॥ ३६ ॥
हयरत्नं पश्येति शेषः । जवेत्याद्युत्तरान्वयि ॥ ३६ ॥
अश्वोऽयमस्मत्प्रभुणा प्रभो सम्प्रहितस्त्वयि ।
राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा ॥ ३७ ॥
महतामर्पणात् महद्भ्यो [अत्र योग्येभ्यो महद्भ्यो इति विपर्यस्तं
क्वचित्पठ्यते] योग्येभ्यो दानात् ॥ ३७ ॥
इत्युक्तवति तस्मिंस्तु प्रत्युवाचैन्द्रजालिकः ।
जलदस्तनिते शान्ते चातकोऽम्बुधरं यथा ॥ ३८ ॥
राजानं प्रति उवाच ॥ ३८ ॥
सदश्वमेनमारुह्य भुवनं विहर प्रभो ।
स्वप्रतापाहितानल्पशोभामुर्वीं रविर्यथा ॥ ३९ ॥
स्वस्य प्रतापेन शौर्येणातपेन च आहितानल्पा शोभा श्रीः कान्तिश्च यस्यां
ताम् ॥ ३९ ॥
अश्वमालोकयामास तेनोक्त इति पार्थिवः ।
निर्घातस्तनितं मेघं मयूर इव सूत्करः ॥ ४० ॥
इति तेनोक्तः पार्थिवः । सुष्ठु उत् ऊर्ध्वं करोति शिर इति सूत्करो ध्वनिविशेषकारी
वा ॥ ४० ॥
अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः ।
बभूवालोकयन्नश्वं लिपिकर्मार्पितोपमः ॥ ४१ ॥
लिपिकर्मार्पितश्चित्रन्यस्तस्तदुपमो निश्चलः । एतदादिः
सभाजनप्रतीतिसिद्धार्थानुवादः । राजप्रतीतिदृष्टं तु अग्रे राजैव वक्ष्यति ॥
४१ ॥
क्षणमालोक्य पीठस्थस्तस्थौ संस्थगितेक्षणः ।
दृष्ट्याऽक्षुब्धः समुद्रोऽद्रिमीनकैः करवो यथा ॥ ४२ ॥
यथा केन जलेन रौति ध्वनतीति करवः समुद्रः पानोद्युक्तागस्त्यदृष्ट्या
आक्षुब्धः सन् स्वान्तर्गतैरद्रिमीनकैः सह संस्थगितो
भयात्संस्तम्भितस्तस्थौ तद्वत् । आक्षुब्धसमुद्रादिमीनकैरिति समस्तपाठे तु
करवः कस्य जलस्य रवो यथा संस्थगित इति व्याख्येयम् ॥ ४२ ॥
तस्थौ मुहूर्तयुग्मं स ध्यानासक्त इवात्मनि ।
वीतरागो मुनिः क्षुब्धः परानन्द इव स्थितः ॥ ४३ ॥
क्षुब्धो बाह्यदृष्टेरन्तः सञ्चलितः । बाह्यदृष्टिशून्य इति यावत् ॥ ४३ ॥
बोधितः केनचिन्नासौ स्वप्रतापजितोर्जितः ।
धिया कामप्ययं भूयश्चिन्तां चिन्तयतीति च ॥ ४४ ॥
स्वप्रतापेन जिता ऊर्जिता बलवन्तो येन । हेतुगर्भं विशेषणम् ॥ ४४ ॥
बभूवुः केवलं तत्र निःस्पन्दसितचामराः ।
चामरिण्यो हि शर्वर्यः स्तम्भितेन्दुकरा इव ॥ ४५ ॥
विरेजुर्विस्मयापूर्णा निःस्पन्दास्ते सभासदः ।
निःस्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव ॥ ४६ ॥
पङ्ककृता मृन्मयाः ॥ ४६ ॥
प्रशशाम सभास्थाने जनकोलाहलः शनैः ।
प्रशान्तप्रावृषि व्योमन्याम्भोदमिव गर्जितम् ॥ ४७ ॥
अम्भोदस्येदमाम्भोदम् ॥ ४७ ॥
सन्देहसागरे मग्ना जग्मुश्चिन्तां सुमन्त्रिणः ।
विषीदति गदापाणावसुराजाविवामराः ॥ ४८ ॥
असुरैः सह आजिः सङ्ग्रामस्तस्मिन् ॥ ४८ ॥
विततविस्मितजिह्मितया तया
जनतया भयमोहविषण्णया ।
स्तिमितचक्षुषि भूमिपतौ स्थिते
मुकुलिताब्जवनस्य धृता द्युतिः ॥ ४९ ॥
विततेन विस्तृतेन विस्मयेन जिह्मितया कुटिलितया । निरुत्साहीकृतयेति यावत् । तया
आस्थानजनतया जनसमूहेन ॥ ४९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे
इन्द्रजालोपाख्याने नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः ॥ १०४
॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे नृपव्यामोहो
नाम चतुरुत्तरशततमः सर्गः ॥ १०४ ॥